भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 2.35

2.35.1

नारद उवाच ॥
श्रीकृष्णस्यात्मनश्चैव निर्गुणस्य निराकृतेः ॥
सावित्रीयमसंवादे श्रुतं सुविमलं यशः

2.35.2

तद्गुणोत्कीर्त्तनं सत्यं मंगलानां च मङ्गलम् ॥
अधुना श्रोतुमिच्छामि लक्ष्म्युपाख्यानमीश्वर

2.35.3

केनादौ पूजिता साऽपि किम्भूता केन वा पुरा ॥
तद्गुणोत्कीर्त्तनं सत्यं वद वेदविदां वर॥।

2.35.4

नारायण उवाच ॥
सृष्टेरादौ पुरा ब्रह्मन्कृष्णस्य परमात्मनः ॥
देवी वामांशसंभूता चासीत्सा रासमण्डले

2.35.5

अतीव सुन्दरी श्यामा न्यग्रोधपरिमण्डला ॥
यथा द्वादशवर्षीया रम्या सुस्थिरयौवना

2.35.6

श्वेतचम्पकवर्णाभा सुखदृश्या मनोहरा ॥
शरत्पार्वणकोटीन्दुप्रभासंशोभितानना

2.35.7

शरन्मध्याह्नपद्मानां शोभाशोभितलोचना ॥
सा च देवी द्विधाभूता सहसैवेश्वरेच्छया

2.35.8

समा रूपेण वर्णेन तेजसा वयसा त्विषा ॥
यशसा वाससा मूर्त्या भूषूणेन गुणेन च

2.35.9

स्मितेन वीक्षणेनैव वचसा गमनेन च ॥
मधुरेण स्वरेणैव नयेनानुनयेन च

2.35.2.35.10

तद्वामांशा महालक्ष्मीर्दक्षिणांशा च राधिका ॥
राधाऽऽदौ वरयामास द्विभुजं च परात्परम्

2.35.11

महालक्ष्मीश्च तत्पश्चाच्चकमे कमनीयकम् ॥
कृष्णस्तद्गौरवेणैव द्विधारूपो बभूव ह

2.35.12

दक्षिणांशो वै द्विभुजो वामांशश्च चतुर्भुजः ॥
चतुर्भुजाय द्विभुजो महालक्ष्मीं ददौ पुरा

2.35.13

लक्ष्यते दृश्यते विश्वं स्निग्धदृष्ट्या ययाऽनिशम्॥
देवीषु या च महती महालक्ष्मीश्च सा स्मृता

2.35.14

द्विभुजो राधिकाकान्तो लक्ष्मीकान्तश्चतुर्भुजः॥
गोलोके द्विभुजस्तस्थौ गोपैर्गोपीभिरावृतः

2.35.15

चतुर्भुजश्च वैकुण्ठं प्रययौ पद्मया सह ॥
सर्वांशेन समौ तौ द्वौ कृष्णनारायणौ परौ

2.35.16

महालक्ष्मीश्च योगेन नानारूपा बभूव सा॥
वैकुण्ठे च महालक्ष्मीः परिपूर्णतमा परा

2.35.17

शुद्धसत्त्वस्वरूपा च सर्वसौभाग्यसंयुता॥
प्रेम्णा सा वै प्रधाना च सर्वासु रमणीषु च

2.35.18

स्वर्गे च स्वर्गलक्ष्मीश्च शक्रसम्पत्स्वरूपिणी॥
पातालेषु च मर्त्येषु राजलक्ष्मीश्च राजसु

2.35.19

गृहलक्ष्मीर्गृहेष्वेव गृहिणी च कलांशया॥
सम्पत्स्वरूपा गृहिणां सर्वमङ्गलमंगला

2.35.2.35.20

गवां प्रसूः सा सुरभिर्दक्षिणा यज्ञकामिनी॥
क्षीरोदसिन्धु कन्या सा श्रीरूपा पद्मिनीषु च

2.35.21

शोभारूपा च चन्द्रे सा सूर्य्यमण्डलमण्डिता॥
विभूषणेषु रत्नेषु फलेषु जलजेषु च

2.35.22

नृपेषु नृपपत्नीषु दिव्यस्त्रीषु गृहेषु च ॥
सर्वसस्येषु वस्त्रेषु स्थाने सा संस्कृते तथा

2.35.23

प्रतिमासु च देवानां मङ्गलेषु घटेषु च ॥
माणिक्येषु च मुक्तासु माल्येषु च मनोहरा

2.35.24

मणींद्रेषु च हारेषु क्षीरं वै चन्दनेषु च ॥
वृक्षशाखासु रम्यासु नवमेघेषु वस्तुषु

2.35.25

वैकुण्ठे पूजिता साऽऽदौ देवी नारायणेन च ॥
द्वितीये ब्रह्मणा भक्त्या तृतीये शङ्करेण च

2.35.26

विष्णुना पूजिता सा च क्षीरोदे भारते मुने ॥
स्वायम्भुवेन मनुना मानवेन्द्रैश्च सर्वतः

2.35.27

ऋषीन्द्रैश्च मुनीन्द्रैश्च सद्भिश्च गृहिभिर्भवेत् ॥
गन्धर्वाद्यैश्च नागाद्यैः पातालेषु च पूजिता

2.35.28

शुक्लाष्टम्यां भाद्रपदे पूजा वै ब्रह्मणा कृता ॥
भक्त्या च पक्षपर्यन्तं त्रिषु लोकेषु नारद

2.35.29

चैत्रे पौषे च भाद्रे च पुण्ये मङ्गलवासरे ॥
विष्णुना निर्मिता पूजा त्रिषु लोकेषु भक्तितः

2.35.2.35.30

वर्षान्ते पौषसंक्रांत्यां मेध्यामावाह्य चाङ्गणे ॥
मनुस्तां पूजयामास सा भूता भुवनत्रये

2.35.31

राज्ञा संपूजिता सा वै मङ्गलेनैव मङ्गला॥
केदारेणैव नीलेन नलेन सुबलेन च

2.35.32

ध्रुवेणौत्तानपादेन शक्रेण बलिना तथा ॥
कश्यपेन च दक्षेण मनुना च विवस्वता

2.35.33

प्रियव्रतेन चन्द्रेण कुबेरेणैव वायुना ॥
यमेन वह्निना चैव वरुणेनैव पूजिता

2.35.34

एवं सर्वत्र सर्वैश्च वन्दिता पूजिता सदा ॥
सर्वैश्वर्य्याधिदेवी सा सर्वसम्पत्स्वरूपिणी

2.35.35

इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे लक्ष्म्युपाख्याने लक्ष्मीस्वरूपपूजादिवर्णनं नाम पञ्चत्रिंशोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc