भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 2.3

2.3.1

श्रीनारायण उवाच ॥
अथाण्डं तज्जलेऽतिष्ठद्यावद्वै ब्रह्मणो वयः ॥
ततः स्वकाले सहसा द्विधारूपो बभूव सः

2.3.2

तन्मध्ये शिशुरेकश्च शतकोटिरविप्रभः॥
क्षणं रोरूयमाणश्च स शिशुः पीडितः क्षुधा

2.3.3

पितृमातृपरित्यक्तो जलमध्ये निराश्रयः ॥
नैकब्रह्माण्डनाथो यो ददर्शोर्ध्वमनाथवत्

2.3.4

स्थूलात्स्थूलतमः सोऽपि नाम्ना देवो महाविराट् ॥
परमाणुर्यथा सूक्ष्मात्परः स्थूलात्तथाऽप्यसौ

2.3.5

तेजसां षोडशांशोऽयं कृष्णस्य परमात्मनः ॥
आधारोऽसंख्यविश्वानां महाविष्णुस्सुरेश्वरः

2.3.6

प्रत्येकं रोमकूपेषु विश्वानि निखिलानि च ॥
अद्यापि तेषां संख्यां च कृष्णो वक्तुं न हि क्षमः

2.3.7

यथाऽस्ति संख्या रजसां विश्वानां न कदाचन ॥
ब्रह्मविष्णुशिवादीनां तथा संख्या न विद्यते

2.3.8

प्रतिविश्वेषु सन्त्येवं ब्रह्मविष्णुशिवादयः ॥
पातालाद्ब्रह्मलोकान्तं ब्रह्माण्डं परिकीर्त्तितम्

2.3.9

तत ऊर्ध्वे च वैकुण्ठो ब्रह्माण्डाद्बहिरेव सः ॥
स च सत्यस्वरूपश्च शश्वन्नारायणो यथा

2.3.2.3.10

तदूर्ध्वे गोलकश्चैव पञ्चाशत्कोटियोजनात् ॥
नित्यः सत्यस्वरूपश्च यथा कृष्णस्तथाप्ययम्

2.3.11

सप्तद्वीपमिता पृथ्वी सप्तसागरसंयुता ॥
एकोनपञ्चाशदुपद्वीपाऽसंख्यवनान्विता

2.3.12

ऊर्ध्वं सप्त सुवर्लोका ब्रह्मलोकसमन्विताः ॥
पातालानि च सप्ताधश्चैवं ब्रह्माण्डमेव च

2.3.13

ऊर्ध्वं धराया भूर्लोको भुवर्लोकस्ततः परः ॥
स्वर्लोकस्तु ततः पश्चान्महर्लोकस्ततो जनः

2.3.14

ततः परस्तपोलोकः सत्यलोकस्ततः परः ॥
ततः परो ब्रह्मलोकस्तप्तकाञ्चननिर्मितः ॥

2.3.15

एवं सर्वं कृत्रिमं तद्बाह्याभ्यन्तर एव च ॥
तद्विनाशे विनाशश्च सर्वेषामेव नारद

2.3.16

जलबुदुदवत्सर्वं विश्वसंघमनित्यकम् ॥
नित्यौ गोलोकवैकुण्ठौ सत्यौ शश्वदकृत्रिमौ

2.3.17

लोमकूपे च विध्यण्डं प्रत्येकं तस्य निश्चितम् ॥
एषां संख्यां न जानाति कृष्णोऽन्यस्यापि का कथा

2.3.18

प्रत्येकं प्रतिविध्यण्डे ब्रह्मविष्णुशिवादयः ॥
तिस्रः कोट्यः सुराणां च संख्या सर्वत्र पुत्रक

2.3.19

दिगीशाश्चैव दिक्पाला नक्षत्राणि ग्रहादयः ॥
भुवि वर्णाश्च चत्वारोऽधो नागाश्च चराचराः

2.3.2.3.20

अथ कालेन स विराडूर्ध्वं दृष्ट्वा पुनः पुनः ॥
डिम्भान्तरं च शून्यं च न द्वितीयं कथंचन

2.3.21

चिन्तामवाप क्षुद्युक्तो रुरोद च पुनः पुनः ॥
ज्ञानं प्राप्य तदा दध्यौ कृष्णं परमपूरुषम्

2.3.22

ततो ददर्श तत्रैव ब्रह्म ज्योतिः सनातनम् ॥
नवीननीरदश्यामं द्विभुजं पीतवाससम्

2.3.23

सस्मितं मुरलीहस्तं भक्तानुग्रहकारकम् ॥
जहास बालकस्तुष्टो दृष्ट्वा जनकमीश्वरम्

2.3.24

वरं तस्मै ददौ तुष्टो वरेशः समयोचितम्॥
मत्समो ज्ञानयुक्तश्व क्षुत्पिपासाविवर्जितः

2.3.25

ब्रह्माण्डासंख्यनिलयो भव वत्स लयावधि ॥
निष्कामो निर्भयश्चैव सर्वेषां वरदो वरः ॥
रोगमृत्युजराशोकपीडादिपरिवर्जितः

2.3.26

इत्युक्त्वा तद्दक्षकर्णे महामन्त्रं षडक्षरम् ॥
त्रिः कृत्वा प्रजजापादौ वेदाङ्गमवरं परम्

2.3.27

प्रणवादिचतुर्थ्यन्तं कृष्ण इत्यक्षरद्वयम् ॥
वह्निज्वालान्तमिष्टं च सर्वविघ्नहरं परम्

2.3.28

मन्त्रं दत्त्वा तदाहारं कल्पयामास वै प्रभुः॥
श्रूयतां तद्ब्रह्मपुत्र निबोध कथयामि ते

2.3.29

प्रतिविश्वेषु नैवेद्यं दद्याद्वै वैष्णवो जनः ॥
षोडशांशं विषयिणो विष्णोः पञ्चदशास्य वै

2.3.2.3.30

निर्गुणस्यात्मनश्चैव परिपूर्णतमस्य च ॥
नैवेद्येन च कृष्णस्य नहि किञ्चित्प्रयोजनम्

2.3.31

यद्ददाति व नैवेद्यं यस्मै देवाय यो जनः ॥
स च खादति तत्सर्वं लक्ष्मीदृष्ट्या पुनर्भवेत्

2.3.32

तं च मन्त्रं वरं दत्त्वा तमुवाच पुनर्विभुः ॥
अन्यो वरः क इष्टस्ते तं मे ब्रूहि ददामि ते

2.3.33

कृष्णस्य वचनं श्रुत्वा तमुवाच महाविराट् ॥
अदन्तो बालकस्तत्र वचनं समयोचितम्

2.3.34

महाविराडुवाच ॥
वरं मे त्वत्पदाम्भोजे भक्तिर्भवतु निश्चला ॥
सन्ततं यावदायुर्मे क्षणं वा सुचिरं च वा

2.3.35

त्वद्भक्तियुक्तो यो लोके जीवन्मुक्तः स सन्ततम् ॥
त्वद्भक्तिहीनो मूर्खश्च जीवन्नपि मृतो हि सः

2.3.36

किं तज्जपेन तपसा यज्ञेन यजनेन च ॥
व्रतेनैवोपवासेन पुण्यतीर्थनिषेवया

2.3.37

कृष्णभक्तिविहीनस्य पुंसः स्याज्जीवनं वृथा ॥
येनात्मना जीवितश्च तमेव नहि मन्यते

2.3.38

यावदात्मा शरीरेऽस्ति तावत्स्याच्छक्तिसंयुतः ॥
पश्चाद्यान्ति गते तस्मिन्न स्वतन्त्राश्च शक्तयः

2.3.39

स च त्वं च महाभाग सर्वात्मा प्रकृतेः परः ॥
स्वेच्छामयश्च सर्वाद्यो ब्रह्म ज्योतिः सनातनः

2.3.2.3.40

इत्युक्त्वा बालकस्तत्र विरराम च नारद ॥
उवाच कृष्णः प्रत्युक्तिं मधुरां श्रुतिसुन्दरीम्

2.3.41

श्रीकृष्ण उवाच ॥
सुचिरं सुस्थिरं तिष्ठ यथाऽहं त्वं तथा भव ॥
असंख्यब्रह्मणां पाते पातस्ते न भविष्यति

2.3.42

अंशेन प्रतिविध्यण्डे त्वं च पुत्र विराड् भव ॥
त्वन्नाभिपद्मे ब्रह्मा च विश्वस्रष्टा भविष्यति

2.3.43

ललाटे ब्रह्मणश्चैव रुद्राश्चैकादशैव तु ॥
शिवांशेन भविष्यन्ति सृष्टिसंचरणाय वै

2.3.44

कालाग्निरुद्रस्तेष्वेको विश्वसंहारकारकः ॥
पाता विष्णुश्च विषयी क्षुद्रांशेन भविष्यति॥

2.3.45

मद्भक्तियुक्तः सततं भविष्यसि वरेण मे ॥
ध्यानेन कमनीयं मां नित्यं द्रक्ष्यसि निश्चितम्

2.3.46

मातरं कमनीयां च मम वक्षःस्थलस्थिताम् ॥
यामि लोकं तिष्ठ वत्सेत्युक्त्वा सोऽन्तरधीयत

2.3.47

गत्वा च नाकं ब्रह्माणं शङ्करं स उवाच ह ॥
स्रष्टारं स्रष्टुमीशं च संहर्तारं च तत्क्षणम्

2.3.48

श्रीकृष्ण उवाच ॥
सृष्टिं स्रष्टुं गच्छ वत्स नाभिपद्मोद्भवो भव॥
महाविराड् लोमकूपे क्षुद्रस्य च विधेः शृणु

2.3.49

गच्छ वत्स महादेव ब्रह्मभालोद्भवो भव ॥
अंशेन च महाभाग स्वयं च सुचिरं तपः

2.3.2.3.50

इत्युक्त्वा जगतां नाथो विरराम विधेः सुतः ॥
जगाम नत्वा तं ब्रह्मा शिवश्च शिवदायकः

2.3.51

महाविराड् लोमकूपे ब्रह्माण्डे गोलके जले ॥
स बभूव विराट्क्षुद्रो विराडंशेन साम्प्रतम्

2.3.52

श्यामो युवा पीतवासाः शयानो जलतल्पके॥
ईषद्धासः प्रसन्नास्यो विश्वरूपी जनार्दनः

2.3.53

तन्नाभिकमले ब्रह्मा बभूव कमलोद्भवः ॥
संभूय पद्मदण्डं च बभ्राम युगलक्षकम्

2.3.54

नान्तं जगाम दण्डस्य पद्मनाभस्य पद्मजः ॥
नाभिजस्य च पद्मस्य चिन्तामाप पितामहः

2.3.55

स्वस्थानं पुनरागत्य दध्यौ कृष्णपदाम्बुजम् ॥
ततो ददर्श क्षुद्रं तं ध्यात्वा तद्दिव्यचक्षुषा

2.3.56

शयानं जलतल्पे च ब्रह्माण्डपिण्डमावृते ॥
यल्लोमकूपे ब्रह्माण्डं तं च तत्परमीश्वरम्

2.3.57

श्रीकृष्णं चापि गोलोकं गोपगोपीसमन्वितम् ॥
तं संस्तूय वरं प्राप ततः सृष्टिं चकार सः

2.3.58

बभूवुर्ब्रह्मणः पुत्रा मानसाः सनकादयः ॥
ततो रुद्राः कपालाच्च शिवस्यैकादश स्मृताः

2.3.59

बभूव पाता विष्णुश्च वामे क्षुद्रस्य पार्श्वतः ॥
चतुर्भुजश्च भगवाञ्श्वेतद्वीपनिवासकृत्

2.3.2.3.60

क्षुद्रस्य नाभिपद्मे च ब्रह्मा विश्वं ससर्ज सः ॥
स्वर्गं मर्त्यं च पातालं त्रिलोकं सचराचरम्

2.3.61

एवं सर्वं लोमकूपे विश्वं प्रत्येकमेव च ॥
प्रतिविश्वं क्षुद्रविराड् ब्रह्म विष्णुशिवादयः

2.3.62

इत्येवं कथितं वत्स कृष्णसङ्कीर्त्तनं शुभम् ॥
सुखदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि

2.3.3

इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे विश्वब्रह्माण्डवर्णनं नाम तृतीयोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc