भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 2.1

2.1.1

श्रीगणेशाय नमः ॥
श्रीवेङ्कटेश्वराय नमः ॥
॥ श्रीमहासरस्वत्यै नमः ॥
॥ श्रीलक्ष्मीनरसिंहाभ्यां नमः ॥
॥ अथ प्रकृतिखण्डप्रारंभः ॥
॥ नारद उवाच ॥ ॥
गणेशजननी दुर्गा राधा लक्ष्मीः सरस्वती ॥
सावित्री वै सृष्टिविधौ प्रकृतिः पञ्चधा स्मृता

2.1.2

आविर्बभूव सा केन का वा सा ज्ञानिनां वरा ॥
किं वा तल्लक्षणं ब्रूहि साभवत्पञ्चधा कथम्

2.1.3

सर्वासां चरितं पूजाविधानं कथमीप्सितम् ॥
अवतारं कुत्र कस्यास्तन्मां व्याख्यातुमर्हसि

2.1.4

नारायण उवाच ॥
प्रकृतेर्लक्षणं वत्स को वा वक्तुं क्षमो भवेत्॥
किंचित्तथापि वक्ष्यामि यच्छ्रुतं धर्मवक्त्रतः

2.1.5

प्रकृष्टवाचकः प्रश्च कृतिश्च सृष्टिवाचकः ॥
सृष्टौ प्रकृष्टा या देवी प्रकृतिः सा प्रकीर्तिता

2.1.6

गुणे प्रकृष्टसत्त्वे च प्रशब्दो वर्तते श्रुतौ ॥
मध्यमे कृश्च रजसि तिशब्दस्तमसि स्मृतः

2.1.7

त्रिगुणात्मस्वरूपा या सर्वशक्तिसमन्विता ॥
प्रधाना सृष्टिकरणे प्रकृतिस्तेन कथ्यते

2.1.8

प्रथमे वर्त्तते प्रश्च कृतिस्स्यात्सृष्टिवाचकः ॥
सृष्टेराद्या च या देवी प्रकृतिः सा प्रकीर्तिता

2.1.9

योगेनात्मा सृष्टिविधौ द्विधारूपो बभूव सः ॥
पुमांश्च दक्षिणार्द्धाङ्गो वामाङ्गः प्रकृतिः स्मृतः

2.1.2.1.10

सा च ब्रह्मस्वरूपा स्यान्माया नित्या सनातनी ॥
यथाऽऽत्मा च यथाशक्तिर्यथाऽग्नौ दाहिका स्मृता

2.1.11

अतएव हि योगीन्द्रः स्त्रीपुंभेदं न मन्यते ॥
सर्वं ब्रह्ममयं ब्रह्मञ्छश्वत्पश्यति नारद

2.1.12

स्वेच्छामयस्येच्छया च श्रीकृष्णस्य सिसृक्षया ॥
साऽऽविर्बभूव सहसा मूलप्रकृतिरीश्वरी

2.1.13

तदाज्ञया पञ्चविधा सृष्टिकर्मणि भेदतः ॥
अथ भक्तानुरोधाद्वा भक्तानुग्रहविग्रहा

2.1.14

गणेशमाता दुर्गा या शिवरूपा शिवप्रिया ॥
नारायणी विष्णुमाया पूर्णब्रह्मस्वरूपिणी

2.1.15

ब्रह्मादिदेवैर्मुनिभिर्मनुभिः पूजिता सदा ॥
सर्वाधिष्ठातृदेवी सा ब्रह्मरूपा सनातनी

2.1.16

यशोमङ्गलधर्मश्रीसत्यपुण्यप्रदायिनी ॥
मोक्षहर्षप्रदात्रीयं शोकदुःखार्तिनाशिनी

2.1.17

शरणागतदीनार्तपरित्राणपरायणा ॥
तेजःस्वरूपा परमा तदधिष्ठातृदेवता

2.1.18

सर्वशक्तिस्वरूपा च शक्तिरीशस्य सन्ततम् ॥
सिद्धेश्वरी सिद्धरूपा सिद्धिदा सिद्धिदेश्वरी

2.1.19

बुद्धिर्निद्रा क्षुत्पिपासा च्छाया तन्द्रा दया स्मृतिः ॥
जातिः क्षान्तिश्च शान्तिश्च कांतिर्भ्रान्तिश्च चेतना

2.1.2.1.20

तुष्टिः पुष्टिस्तथा लक्ष्मीर्वृत्तिर्माता तथैव च ॥
सर्वशक्तिस्वरूपा सा कृष्णस्य परमात्मनः

2.1.21

उक्तः श्रुतौ श्रुतगुणश्चातिस्वल्पो यथागमम् ॥
गुणोऽस्त्यनन्तोऽनन्ताया अपरां च निशामय

2.1.22

शुद्धसत्त्वस्वरूपा या पद्मा च परमात्मनः ॥
सर्वसम्पत्स्वरूपा या तदधिष्ठातृदेवता

2.1.23

कान्ता दान्ताऽतिशान्ता च सुशीला सर्वमङ्गला ॥
लोभान्मोहात्कामरोषान्मदाहङ्कारतस्तथा

2.1.24

त्यक्ताऽनुरक्ता पत्युश्च सर्वाद्या च पतिव्रता ॥
प्राणतुल्या भगवतः प्रेमपात्री प्रियंवदा

2.1.25

सर्वसस्यात्मिका सर्वजीवनोपायरूपिणी ॥
महालक्ष्मीश्च वैकुण्ठे पतिसेवापरायणा ॥

2.1.26

स्वर्गे च स्वर्गलक्ष्मीश्च राजलक्ष्मीश्च राजसु ॥
गृहे च गृहलक्ष्मीश्च मर्त्यानां गृहिणां तथा॥

2.1.27

सर्वेषु प्राणिद्रव्येषु शोभारूपा मनोहरा ॥
प्रीतिरूपा पुण्यवतां प्रभारूपा नृपेषु च

2.1.28

वाणिज्यरूपा वणिजां पापिनां कलहङ्करी ॥
दयामयी भक्तमाता भक्तानुग्रहकारिका

2.1.29

चपले चपला भक्तसम्पदो रक्षणाय च ॥
जगज्जीवन्मृतं सर्वं यया देव्या विना मुने

2.1.2.1.30

शक्तिर्द्वितीया कथिता वेदोक्ता सर्वसम्मता ॥
सर्वपूज्या सर्ववन्द्या चान्यां मत्तो निशामय ॥

2.1.31

वाग्बुद्धिविद्याज्ञानाधिदेवता परमात्मनः ॥
सर्वविद्यास्वरूपा या सा च देवी सरस्वती

2.1.32

सुबुद्धिः कविता मेधा प्रतिभा स्मृतिदा सताम् ॥
नानाप्रकारसिद्धान्तभेदार्थकल्पनाप्रदा

2.1.33

व्याख्याबोधस्वरूपा च सर्वसंदेहभञ्जिनी ॥
विचारकारिणी ग्रन्थकारिणी शक्तिरूपिणी

2.1.34

सर्वसङ्गीतसन्धानतालकारणरूपिणी ॥
विषयज्ञानवाग्रूपा प्रतिविश्वं च जीविनाम् ॥

2.1.35

यया विना च विश्वौघो मूको मृतसमः सदा ॥
व्याख्यामुद्राकरा शान्ता वीणापुस्तकधारिणी

2.1.36

शुद्धसत्त्वस्वरूपा या सुशीला श्रीहरिप्रिया ॥
हिमचन्दनकुन्देन्दुकुमुदाम्भोजसन्निभा

2.1.37

जपन्ती परमात्मानं श्रीकृष्णं रत्नमालया॥
तपस्स्वरूपा तपसां फलदात्री तपस्विनी

2.1.38

सिद्धिविद्यास्वरूपा च सर्वसिद्धिप्रदा सदा

2.1.39

यथागमं यथाकिञ्चिदपरां संनिबोध मे ॥
माता चतुर्णां वेदानां वेदाङ्गानां च छन्दसाम्

2.1.2.1.40

सन्ध्यावन्दनमन्त्राणां तन्त्राणां च विचक्षणा॥
द्विजादिजातिरूपा च जपरूपा तपस्विनी

2.1.41

ब्राह्मण्यतेजोरूपा च सर्वसंस्कारकारिणी ॥
पवित्ररूपा सावित्री गायत्री ब्रह्मणः प्रिया

2.1.42

तीर्थानि यस्याः संस्पर्शं दर्शं वाञ्छन्ति शुद्धये ॥
शुद्धस्फटिकसंकाशा शुद्धसत्त्वस्वरूपिणी

2.1.43

परमानन्दरूपा च परमा च सनातनी ॥
परब्रह्मस्वरूपा च निर्वाणपददायिनी

2.1.44

ब्रह्मतेजोमयी शक्तिस्तदधिष्ठातृदेवता ॥
यत्पादरजसा पूतं जगत्सर्वं च नारद

2.1.45

देवी चतुर्थी कथिता पञ्चमीं वर्णयामि ते ॥
प्रेमप्राणाधिदेवी या पञ्चप्राणस्वरूपिणी

2.1.46

प्राणाधिकप्रियतमा सर्वाद्या सुन्दरी वरा ॥
सर्वसौभाग्ययुक्ता च मानिनी गौरवान्विता

2.1.47

वामार्द्धाङ्गस्वरूपा च सुगुणैस्तेजसा समा ॥
परावरा सर्वमाता परमाद्या सनातनी

2.1.48

परमानन्दरूपा च धन्या मान्या च पूजिता ॥
रासक्रीडाधिदेवी च कृष्णस्य परमात्मनः

2.1.49

रासमण्डलसंभूता रासमण्डलमण्डिता ॥
रासेश्वरी सुरसिका रासावासनिवासिनी

2.1.2.1.50

गोलोकवासिनी देवी गोपीवेषविधायिका ॥
परमाह्लादरूपा च सन्तोषामर्षरूपिणी

2.1.51

निर्गुणा च निराकारा निर्लिप्ताऽऽत्मस्वरूपिणी ॥
निरीहा निरहङ्कारा भक्तानुग्रहविग्रहा

2.1.52

वेदानुसारध्यानेन विज्ञेया सा विचक्षणैः ॥
दृष्टिर्दृष्टा सहस्रेषु सुरेन्द्रैर्मुनिपुङ्गवैः

2.1.53

वह्निशुद्धांशुकाधाना रत्नालङ्कारभूषिता॥
कोटिप्रभाजुष्टश्रीयुक्ता भक्तविग्रहा

2.1.54

श्रीकृष्णभक्तदास्यैकदायिनी सर्वसम्पदाम् ॥
अवतारे च वाराहे वृषभानुसुता च या

2.1.55

यत्पादपद्मसंस्पर्शपवित्रा च वसुन्धरा ॥
ब्रह्मादिभिरदृष्टा या सर्वदृष्टा च भारते

2.1.56

स्त्रीरत्नसारसंभूता कृष्णवक्षः स्थलस्थिता ॥
तथा घने नवघने लोला सौदामिनी मुने

2.1.57

षष्टिवर्षसहस्राणि प्रतप्तं ब्रह्मणा पुरा ॥
यत्पादपद्मनखरदृष्टये चात्मशुद्धये

2.1.58

स्वप्नेऽपि नैव दृष्टः स्यात्प्रत्यक्षेऽपि च का कथा ॥
तेनैव तपसा दृष्टा भूरि वृन्दावने वने

2.1.59

कथिता पञ्चमी देवी सा राधा परिकीर्त्तिता ॥
अंशरूपा कलारूपा कलांशांशसमुद्भवा

2.1.2.1.60

प्रकृतेः प्रतिविश्वं च रूपं स्यात्सर्वयोषितः॥
परिपूर्णतमाः पञ्चविधा देव्यः प्रकीर्त्तिताः

2.1.61

या याः प्रधानांशरूपा वर्णयामि निशामय ॥
प्रधानांशस्वरूपा च गङ्गा भुवनपावनी

2.1.62

विष्णुपादाब्जसंभूता द्रवरूपा सनातनी ॥
पापिपापेध्मदाहाय ज्वलदिन्धनरूपिणी

2.1.63

दर्शनस्पर्शनस्नानपानैर्निर्वाणदायिनी ॥
गोलोकस्थानगमनसुसोपानस्वरूपिणी

2.1.64

पवित्ररूपा तीर्थानां सरितां च परावरा ॥
शम्भुमौलिजटामेरुमुक्तापंक्तिस्वरूपिणी

2.1.65

तपस्सम्पादिनी सद्यो भारते च तपस्विनाम् ॥
शङ्खपद्मक्षीरनिभा शुद्धसत्त्वस्वरूपिणी

2.1.66

निर्मला निरहङ्कारा साध्वी नारायणप्रिया ॥
प्रधानांशस्वरूपा च तुलसी विष्णुकामिनी

2.1.67

विष्णुभूषणरूपा च विष्णुपादस्थिता सती ॥
तपस्सङ्कल्पपूजादिसद्यस्सम्पादिनी मुने

2.1.68

सारभूता च पुष्पाणां पवित्रा पुण्यदा सदा ॥
दर्शनस्पर्शनाभ्यां च सद्यो निर्वाणदायिनी

2.1.69

कलौ कलुषशुष्केध्मदाहनायाग्निरूपिणी ॥
यत्पादपद्मसंस्पर्शात्सद्यः पूता वसुन्धरा

2.1.2.1.70

यत्स्पर्शदर्शं वाञ्छन्ति तीर्थानामात्मशुद्धये ॥
यया विना च विश्वेषु सर्वं कर्मास्ति निष्फलम्

2.1.71

मोक्षदा या मुमुक्षूणां कामिनां सर्वकामदा ॥
कल्पवृक्षस्वरूपा च भारते वृक्षरूपिणी

2.1.72

त्राणाय भारतानां च पूजानां परदेवता ॥
प्रधानांशस्वरूपा च मनसा कश्यपात्मजा

2.1.73

शङ्करप्रियशिष्या च महाज्ञानविशारदा ॥
नागेश्वरस्यानन्तस्य भगिनी नागपूजिता

2.1.74

नागेश्वरी नागमाता सुन्दरी नागवाहिनी ॥
नागेन्द्रगणयुक्ता सा नागभूषणभूषिता

2.1.75

नागेन्द्रवन्दिता सिद्धयोगिनी नागवासिनी ॥
विष्णुभक्ता विष्णुरूपा विष्णुपूजापरायणा

2.1.76

तपःस्वरूपा तपसां फलदात्री तपस्विनी ॥
दिव्यं त्रिलक्षवर्षं च तपस्तप्तं यया हरेः

2.1.77

तपस्विनीषु पूज्या च तपस्विषु च भारते ॥
सर्वमन्त्राधिदेवी च ज्वलन्ती ब्रह्मतेजसा

2.1.78

ब्रह्मस्वरूपा परमा ब्रह्मभावनतत्परा ॥
जरत्कारुमुनेः पत्नी कृष्णशम्भुपतिव्रता

2.1.79

आस्तीकस्य मुनेर्माता प्रवरस्य तपस्विनाम्॥
प्रधानांशस्वरूपा या देवसेना च नारद

2.1.2.1.80

मातृका सा पूज्यतमा सा च षष्ठी प्रकीर्त्तिता ॥
शिशूनां प्रतिविश्वं तु प्रतिपालनकारिणी

2.1.81

तपस्विनी विष्णुभक्ता कार्त्तिकेयस्य कामिनी ॥
षष्ठांशरूपा प्रकृतेस्तेन षष्ठी प्रकीर्तिता

2.1.82

पुत्रपौत्रप्रदात्री च धात्री च जगतां सदा ॥
सुन्दरी युवती रम्या सततं भर्तुरन्तिके

2.1.83

स्थाने शिशूनां परमा वृद्धरूपा च योगिनी ॥
पूजा द्वादशमासेषु यस्याः षष्ठ्यास्तु सन्ततम्

2.1.84

पूजा च सूतिकागारे परषष्ठदिने शिशोः ॥
एकविंशतिमे चैव पूजा कल्याणहेतुकी

2.1.85

शश्वन्नियमिता चैषा नित्या काम्याऽप्यतः परा ॥
मातृरूपा दयारूपा शश्वद्रक्षणकारिणी

2.1.86

जले स्थले चान्तरिक्षे शिशूनां स्वप्नगोचरा ॥
प्रधानांशस्वरूपा या देवी मङ्गलचण्डिका

2.1.87

प्रकृतेर्मुखसंभूता सर्वमङ्गलदा सदा ॥
सृष्टौ मङ्गलरूपा च संहारे कोपरूपिणी

2.1.88

तेन मङ्गलचण्डी सा पण्डितैः परिकीर्त्तिता ॥
प्रतिमङ्गलवारेषु प्रतिविश्वेषु पूजिता

2.1.89

पञ्चोपचारैर्भक्त्या च योषिद्भिः परिपूजिता ॥
पुत्रपौत्रधनैश्वर्य्ययशोमङ्गलदायिनी

2.1.2.1.90

शोक सन्तापपापार्त्तिदुःखदारिद्र्यनाशिनी॥
परितुष्टा सर्ववाच्छाप्रदात्री सर्वयोषिताम्

2.1.91

रुष्टा क्षणेन संहर्तुं शक्ता विश्वं महेश्वरी॥
प्रधानांशस्वरूपा च काली कमललोचना

2.1.92

दुर्गाललाटसंभूता रणे शुम्भनिशुम्भयोः ॥
दुर्गार्द्धांशस्वरूपा स्याद्गुणैस्सा तेजसा समा

2.1.93

कोटिसूर्य्यप्रभाजुष्टदिव्यसुन्दरविग्रहा ॥
प्रधाना सर्वशक्तीनां वरा बलवती परा

2.1.94

सर्वसिद्धिप्रदा देवी परमा सिद्धियोगिनी ॥
कृष्णभक्ता कृष्णतुल्या तेजसा विक्रमैर्गुणैः ॥
कृष्णभावनया शश्वत्कृष्णवर्णा सनातनी

2.1.95

ब्रह्माण्डं सकलं हर्तुं शक्ता निःश्वासमात्रतः ॥
रणं दैत्यैः समं तस्याः क्रीडया लोकरक्षया

2.1.96

धर्मार्थकाममोक्षांश्च दातुं शक्ता सुपूजिता ॥
ब्रह्मादिभिः स्तूयमाना मुनिभिर्मनुभिर्नरैः

2.1.97

प्रधानांशस्वरूपा च प्रकृतिश्च वसुन्धरा ॥
आधारभूता सर्वेषां सर्वसस्यप्रसूतिका

2.1.98

रत्नाकारा रत्नगर्भा सर्वरत्नाकराश्रया ॥
प्रजादिभिः प्रजेशैश्च पूजिता वन्दिता सदा

2.1.99

सर्वोपजीव्यरूपा च सर्वसम्पद्विधायिनी ॥
यया विना जगत्सर्वं निराधारं चराचरम्

2.1.2.1.100

प्रकृतेश्च कला या यास्ता निबोध मुनीश्वर ॥
यस्य यस्य च याः पत्न्यस्ताः सर्वा वर्णयामि ते

2.1.101

स्वाहादेवी वह्निपत्नी त्रिषु लोकेषु पूजिता ॥
यया विना हविर्दत्तं न ग्रहीतुं सुराः क्षमाः

2.1.102

दक्षिणा यज्ञपत्नी च दीक्षा सर्वत्र पूजिता ॥
यया विना च विश्वेषु सर्वं कर्म च निष्फलम्

2.1.103

स्वधा पितॄणां पत्नी च मुनिभिर्मनुभिर्नरैः ॥
पूजिता पैतृकं दानं निष्फलं च यया विना

2.1.104

स्वस्तिदेवी वायुपत्नी प्रति विश्वेषु पूजिता ॥
आदानं च प्रदानं च निष्फलं च यया विना

2.1.105

पुष्टिर्गणपतेः पत्नी पूजिता जगतीतले ॥
यया विना परिक्षीणाः पुमांसो योषितोऽपि च

2.1.106

अनन्तपत्नी तुष्टिश्च पूजिता वन्दिता सदा ॥
यया विना न सन्तुष्टाः सर्वे लोकाश्च सर्वतः

2.1.107

ईशानपत्नी सम्पत्तिः पूजिता च सुरैर्नरैः ॥
सर्वे लोका दरिद्राश्च विश्वेषु च यया विना

2.1.108

धृतिः कपिलपत्नी च सर्वैः सर्वत्र पूजिता ॥
सर्वे लोका अधीरास्स्युर्जगत्सु च यया विना

2.1.109

यमपत्नी क्षमा साध्वी सुशीला सर्वपूजिता॥
समुन्मत्ताश्च रुद्राश्च सर्वे लोका यया विना

2.1.2.1.110

क्रीडाधिष्ठातृदेवी सा कामपत्नी रतिः सती ॥
केलिकौतुकहीनाश्च सर्वे लोका यया विना

2.1.111

सत्यपत्नी सती मुक्तिः पूजिता जगतां प्रिया ॥
यया विना भवेल्लोको बन्धुतारहितः सदा

2.1.112

मोहपत्नी दया साध्वी पूजिता च जगत्प्रिया ॥
सर्वे लोकाश्च सर्वत्र निष्ठुराश्च यया विना

2.1.113

पुण्यपत्नी प्रतिष्ठा सा पुण्यरूपा च पूजिता ॥
यया विना जगत्सर्वं जीवन्मृतसमं मुने

2.1.114

सुकर्मपत्नी कीर्तिश्च धन्या मान्या च पूजिता ॥
यया विना जगत्सर्वं यशोहीनं मृतं यथा

2.1.115

क्रिया उद्योगपत्नी च पूजिता सर्वसङ्गता ॥
यया विना जगत्सर्वमुच्छिन्नमिव नारद

2.1.116

अधर्मपत्नी मिथ्या सा सर्वधूर्तैश्च पूजिता ॥
यया विना जगत्सर्वमुच्छिन्नं विधिनिर्मितम्

2.1.117

सत्ये अदर्शना या च त्रेतायां सूक्ष्मरूपिणी ॥
अर्द्धावयवरूपा च द्वापरे संहृता ह्रिया

2.1.118

कलौ महाप्रगल्भा च सर्वत्र व्याप्तिकारणात् ॥
कपटेन सह भ्रात्रा भ्रमत्येव गृहे गृहे

2.1.119

शान्तिर्लज्जा च भार्ये द्वे सुशीलस्य च पूजिते ॥
यस्यां विना जगत्सर्वमुन्मत्तमिव नारद

2.1.2.1.120

ज्ञानस्य तिस्रो भार्याश्च बुद्धिर्मेधा स्मृतिस्तथा ॥
याभिर्विना जगत्सर्वं मूढं मृतसमं सदा

2.1.121

मूर्त्तिश्च धर्मपत्नी सा कान्तिरूपा मनोहरा ॥
परमात्मा च विश्वौघा निराधारा यया विना

2.1.122

सर्वत्र शोभारूपा च लक्ष्मीर्मूर्तिमती सती ॥
श्रीरूपा मूर्तिरूपा च मान्या धन्या च पूजिता

2.1.123

कालाग्निरुद्रपत्नी च निद्रा या सिद्धयोगिनाम् ॥
सर्वलोकाः समाच्छन्ना मायायोगेन रात्रिषु

2.1.124

कालस्य तिस्रो भार्य्याश्च सन्ध्या रात्रिर्दिनानि च ॥
याभिर्विना विधात्रा च संख्यां कर्तुं न शक्यते

2.1.125

क्षुत्पिपासे लोभभार्य्ये धन्ये मान्ये च पूजिते ॥
याभ्यां व्याप्तं जगत्क्षोभयुक्तं चिन्तितमेव च ॥

2.1.126

प्रभा च दाहिका चैव द्वे भार्ये तेजसस्तथा ॥
याभ्यां विना जगत्स्रष्टुं विधाता च न हीश्वरः

2.1.127

कालकन्ये मृत्युजरे प्रज्वरस्य प्रिये प्रिये ॥
यस्यां जगत्समुच्छिन्नं विधात्रा निर्मिते विधौ

2.1.128

निद्राकन्या च तन्द्रा सा प्रीतिरन्या सुखप्रिये॥
याभ्यां व्याप्तं जगत्सर्वं विधिपुत्र विधेर्विधौ

2.1.129

वैराग्यस्य च द्वे भार्ये श्रद्धा भक्तिश्च पूजिते ॥
याभ्यां शश्वज्जगत्सर्वं जीवन्मुक्तमिदं मुने

2.1.2.1.130

अदितिर्देवमाता च सुरभिश्च गवां प्रसूः ॥
दितिश्च दैत्यजननी कद्रूश्च विनता दनुः

2.1.131

उपयुक्ताः सृष्टिविधावेताश्च प्रकृतेः कलाः ॥
कलाश्चान्याः सन्ति बह्व्यस्तासु काश्चिन्निबोध मे ॥

2.1.132

रोहिणी चन्द्रपत्नी च संज्ञा सूर्यस्य कामिनी ॥
शतरूपा मनोर्भार्या शचीन्द्रस्य च गेहिनी

2.1.133

तारा बृहस्पतेर्भार्य्या वसिष्ठस्याप्यरुन्धती ॥
अहल्या गौतमस्त्री स्यादनसूयाऽत्रिकामिनी

2.1.134

देवहूतिः कर्दमस्य प्रसूतिर्दक्षकामिनी ॥
पितॄणां मानसी कन्या मेनका साऽम्बिकाप्रसूः

2.1.135

लोपामुद्रा तथा हूतिः कुबेरस्य तु कामिनी ॥
वरुणानी यमस्त्री च बलेर्विन्ध्यावलीति च

2.1.136

कुन्ती च दमयन्ती च यशोदा देवकी सती ॥
गान्धारी द्रौपदी सव्या सावित्री सत्यवत्प्रिया ॥

2.1.137

वृषभानुप्रिया साध्वी राधामाता कलावती ॥
मन्दोदरी च कौसल्या सुभद्रा कैकयी तथा

2.1.138

रेवती सत्यभामा च कालिन्दी लक्ष्मणा तथा ॥
मित्रविन्दा नाग्नजिती तथा जाम्बवती परा

2.1.139

लक्ष्मणा रुक्मिणी सीता स्वयं लक्ष्मीः प्रकीर्तिता ॥
कला योजनगन्धा च व्यासमाता महासती

2.1.2.1.140

बाणपुत्री तथोषा च चित्रलेखा च तत्सखी ॥
प्रभावती भानुमती तथा मायावती सती

2.1.141

रेणुका च भृगोर्माता हलिमाता च रोहिणी॥
एकानंशा च दुर्गा सा श्रीकृष्णभगिनी सती

2.1.142

बह्व्यः सन्ति कलाश्चैवं प्रकृतेरेव भारते ॥
या याश्च ग्रामदेव्यस्ताः सर्वाश्च प्रकृतेः कलाः

2.1.143

कलांशांशसमुद्भूताः प्रतिविश्वेषु योषितः ॥
योषितामपमानेन प्रकृतेश्च पराभवः

2.1.144

ब्राह्मणी पूजिता येन पतिपुत्रवती सती ॥
प्रकृतिः पूजिता तेन वस्त्रालङ्कारचन्दनैः

2.1.145

कुमारी चाष्टवर्षीया वस्त्रालङ्कारचन्दनैः॥
पूजिता येन विप्रस्य प्रकृतिस्तेन पूजिता

2.1.146

सर्वाः प्रकृतिसम्भूता उत्तमाधममध्यमाः॥
सत्त्वांशाश्चोत्तमा ज्ञेयाः सुशीलाश्च पतिव्रताः

2.1.147

मध्यमा रजसश्चांशास्ताश्च भोग्याः प्रकीर्त्तिताः ॥
सुखसम्भोगवत्यश्च स्वकार्ये तत्पराः सदा

2.1.148

अधमास्तमसश्चांशा अज्ञातकुलसम्भवाः ॥
दुर्मुखाः कुलटा धूर्त्ताः स्वतन्त्राः कलहप्रियाः

2.1.149

पृथिव्यां कुलटा याश्च स्वर्गे चाप्सरसां गणाः ॥
प्रकृतेस्तमसश्चांशाः पुंश्चल्यः परिकीर्त्तिताः

2.1.2.1.150

एवं निगदितं सर्वं प्रकृतेर्भेदपञ्चकम् ॥
ताः सर्वाः पूजिताः पृथ्व्यां पुण्यक्षेत्रे च भारते

2.1.151

पूजिता सुरथेनादौ दुर्गा दुर्गार्तिनाशिनी ॥
द्वितीया रामचन्द्रेण रावणस्य वधार्थिना

2.1.152

तत्पश्चाज्जगतां माता त्रिषु लोकेषु पूजिता ॥
जाताऽऽदौ दक्षपत्न्यां च निहन्तुं दैत्यदानवान्

2.1.153

ततो देहं परित्यज्य यज्ञे भर्तुश्च निन्दया ॥
जज्ञे हिमवतः पत्न्यां लेभे पशुपतिं पतिम्

2.1.154

गणेशश्च स्वयं कृष्णः स्कन्दो विष्णुकलोद्भवः ॥
बभूवतुस्तौ तनयौ पश्चात्तस्याश्च नारद

2.1.155

लक्ष्मीर्मङ्गलभूपेन प्रथमे परिपूजिता ॥
त्रिषु लोकेषु तत्पश्चाद्देवतामुनिमानवैः

2.1.156

सावित्री प्रथमं चापि भक्त्या वै परिपूजिता ॥
तत्पश्चात्त्रिषु लोकेषु देवतामुनिमानवैः

2.1.157

आदौ सरस्वती देवी ब्रह्मणा परिपूजिता ॥
तत्पश्चात्त्रिषु लोकेषु देवतामुनिमानवैः

2.1.158

प्रथमं पूजिता राधा गोलोके रासमण्डले ॥
पौर्णमास्यां कार्त्तिकस्य कृष्णेन परमात्मना

2.1.159

गोपिकाभिश्च गोपैश्च बालिकाभिश्च बालकैः ॥
गवां गणैः सुरगणैस्तत्पश्चान्मायया हरेः

2.1.2.1.160

तदा ब्रह्मादिभिर्देवैर्मुनिभिर्मनुभिस्तथा।
पुष्पधूपादिभिर्भक्त्या पूजिता वन्दिता सदा

2.1.161

पृथिव्यां प्रथमे देवी सुयज्ञेन च पूजिता॥
शङ्करेणोपदिष्टेन पुण्यक्षेत्रे च भारते

2.1.162

त्रिषु लोकेषु तत्पश्चादाज्ञया परमात्मनः ॥
पुष्पधूपादिभिर्भक्त्या पूजिता मुनिभिः सुरैः ॥

2.1.163

कला या याः सुसंभूताः पूजितास्ताश्च भारते ॥
पूजिता ग्रामदेव्यश्च ग्रामे च नगरे मुने

2.1.164

एवं ते कथितं सर्वं प्रकृतेश्चरितं शुभम् ॥
यथागमं लक्षणञ्च किं भूयः श्रोतुमिच्छसि

2.1.1

इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृति खण्डे नारायणनारदसंवादे प्रकृतिस्वरूपतद्भेदवर्णनं नाम प्रथमोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc