भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 1.7

1.7.1

सौतिरुवाच ॥
तदा ब्रह्मा तपः कृत्वा सिद्धिं प्राप्य यथेप्सिताम् ॥
ससृजे पृथिवीमादौ मधुकैटभमेदसा

1.7.2

ससृजे पर्वतानष्टौ प्रधानान्सुमनोहरान् ॥
क्षुद्रानसंख्यान्किं ब्रूमः प्रधानाख्यां निशामय

1.7.3

सुमेरुं चैव कैलासं मलयं च हिमालयम्॥
उदयं च तथाऽस्तं च सुवेलं गन्धमादनम्

1.7.4

समुद्रान्ससृजे सप्त नदान्कतिविधा नदीः ॥
वृक्षांश्च ग्रामनगरं समुद्राख्या निशामय

1.7.5

लवणेक्षुसुरासर्पिर्दधिदुग्धजलार्णवान् ॥
लक्षयोजनमानेन द्विगुणांश्च परात्परान्

1.7.6

सप्तद्वीपांश्च तद्भूमिमण्डले कमलाकृते ॥
उपद्वीपांस्तथा सप्तसीमाशैलांश्च सप्त च

1.7.7

निबोध विप्र द्वीपाख्यां पुरा या विधिना कृता ॥
जम्बूशाककुशप्लक्षक्रौञ्चन्यग्रोधपौष्करान्

1.7.8

मेरोरष्टसु शृङ्गेषु ससृजेऽष्टौ पुरी प्रभुः ॥
अष्टानां लोकपालानां विहाराय मनोहराः

1.7.9

मूलेऽनन्तस्य नगरीं निर्माय जगतां पतिः ॥
ऊर्ध्वे स्वर्गांश्च सप्तैव तेषामाख्या निशामय

1.7.1.7.10

भूर्लोकं च भुवर्लोकं स्वर्लोकं सुमनोहरम् ॥
जनोलोकं तपोलोकं सत्यलोकं च शौनक

1.7.11

शृङ्गमूर्ध्नि ब्रह्मलोकं जरादिपरिवर्जितम् ॥
तदूर्ध्वे ध्रुवलोकं च सर्वतः सुमनोहरम्

1.7.12

तदधः सप्त पातालान्निर्ममे जगदीश्वरः ॥
स्वर्गातिरिक्तभोगाढ्यानधोधः क्रमतो मुने

1.7.13

अतलं वितलं चैव सुतलं च तलातलम् ॥
महातलं च पातालं रसातलमधस्ततः

1.7.14

सप्तद्वीपैः सप्तनाकैः सप्तपातालसंज्ञकैः ॥
एभिर्लोकैश्च ब्रह्माण्डं ब्रह्माधिकृतमेव च

1.7.15

एवञ्चासंख्यब्रह्माण्डं सर्वं कृत्रिममेव च ॥
महाविष्णोश्च लोम्नां च विवरेषु च शौनक

1.7.16

प्रतिविश्वेषु दिक्पाला ब्रह्मविष्णुमहेश्वराः ॥
सुरा नरादयः सर्वे सन्ति कृष्णस्य मायया

1.7.17

ब्राह्माण्डगणनां कर्तुं न क्षमो जगतां पतिः ॥
न शङ्करो न धर्मश्च न च विष्णुश्च के सुराः

1.7.18

संख्यातुमीश्वरः शक्तो न संख्यातुं तथापि सः ॥
विश्वाकाशदिशां चैव सर्वतो यद्यपि क्षमः

1.7.19

कृत्रिमाणि च विश्वानि विश्वस्थानि च यानि च ॥
अनित्यानि च विप्रेन्द्र स्वप्नवन्नश्वराणि च

1.7.1.7.20

वैकुण्ठः शिवलोकश्च गोलोकश्च तयोः परः ॥
नित्यो विश्वबहिर्भूतश्चात्माकाशदिशो यथा

1.7.7

इति श्रीब्रह्मवैवर्ते महापुराणे सौतिशौनकसंवादे ब्रह्मखण्डे सृष्टिनिरूपणं नाम सप्तमोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc