भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 1.6

1.6.1

सौतिरुवाच ॥
अथ कृष्णो महालक्ष्मीं सादरं च सरस्वतीम् ॥
नारायणाय प्रददौ रत्नेन्द्रं मालया सह

1.6.2

सावित्रीं ब्रह्मणे प्रादान्मूर्तिं धर्माय सादरम्॥
रतिं कामाय रूपाढ्यां कुबेराय मनोरमाम्

1.6.3

अन्याश्च या या अन्यभ्यो याश्च येभ्यः समुद्भवाः ॥
तस्मै तस्मै ददौ कृष्णस्तां तां रूपवतीं सतीम् ॥

1.6.4

ततः शंकरमाहूय सर्वेशो योगिनां गुरुम् ॥
उवाच प्रियमित्येवं गृह्णीयाः सिंहवाहिनीम्

1.6.5

श्रीकृष्णस्य वचः श्रुत्वा प्रहसन्नीललोहितः ॥
उवाच भीतः प्रणतः प्राणेशं प्रभुमच्युतम्

1.6.6

श्रीमहेश्वर उवाच ॥
अधुनाहं न गृह्णामि प्रकृतिं प्राकृतो यथा ॥
त्वद्भक्त्यैकव्यवहितां दास्यमार्गविरोधिनीम्

1.6.7

तत्त्वज्ञानसमाच्छन्नां योगद्वारकपाटिकाम् ॥
मुक्तीच्छाध्वंसरूपां च सकामां कामवर्द्धिनीम्

1.6.8

तपस्याच्छन्नरूपां च महामोहकरण्डिकाम् ॥
भवकारागृहे घोरे दृढां निगडरूपिणीम् ॥

1.6.9

शश्वद्विबुद्धिजननीं सद्बुद्धिच्छेदकारिणीम् ॥
शश्वद्विभोगसारां च विषयेच्छाविवर्द्धिनीम्

1.6.1.6.10

नेच्छामि गृहिणीं नाथ वरं देहि मदीप्सितम् ॥
यस्य यद्वाञ्छितं तस्मै तद्ददाति सदीश्वरः

1.6.11

त्वद्भक्तिविषये दास्ये लालसा वर्द्धतेऽनिशम् ॥
तृप्तिर्न जायते नाम जपने पादसेवने

1.6.12

त्वन्नामपञ्चवक्त्रेण गुणं सन्मङ्गलालयम् ॥
स्वप्ने जागरणे शश्वद्गायन्गायन् भ्रमाम्यहम्

1.6.13

आकल्पकोटिकोटिं च तद्रूपध्यानतत्परम् ॥
भोगेच्छाविषयेनैव योगे तपसि मन्मनः

1.6.14

त्वत्सेवने पूजने च वन्दने नाम कीर्तने ॥
सदोल्लसितमेषां च विरतौ विरतिं लभेत्

1.6.15

स्मरणं कीर्त्तनं नाम गुणयोः श्रवणं जपः ॥
त्वच्चारुरूपध्यानं त्वत्पादसेवाभिवन्दनम्

1.6.16

समर्पणं चात्मनश्च नित्यं नैवेद्यभोजनम् ॥
वरं वरेश देहीदं नवधा भक्तिलक्षणम्

1.6.17

सार्ष्टिसालोक्यसारूप्यसामीप्यं साम्यलीनताम् ॥
वदन्ति षड्विधां मुक्तिं मुक्तामुक्तिविदो विभो

1.6.18

अणिमालघिमाप्राप्तिः प्राकाम्यं महिमा तथा ॥
ईशित्वं च वशित्वं च सर्वकामावसायिता

1.6.19

सर्वज्ञ दूरश्रवणं परकायप्रवेशनम् ॥
वाक्सिद्धिः कल्पवृक्षत्वं स्रष्टुं संहर्तुमीशता

1.6.1.6.20

अमरत्वं च सर्वाग्र्यं सिद्धयोऽष्टादश स्मृताः ॥
योगास्तपांसि सर्वाणि दानानि च व्रतानि च ॥

1.6.21

यशःकीर्तिर्वचः सत्यं धर्माण्यनशनानि च ॥
भ्रमणं सर्वतीर्थेषु स्नानमन्यसुरार्चनम्

1.6.22

सुरार्चा दर्शनं सप्तद्वीपसप्तप्रदक्षिणम् ॥
स्नानं सर्वसमुद्रेषु सर्वस्वर्गप्रदर्शनम्

1.6.23

ब्रह्मत्वं चैव रुद्रत्वं विष्णुत्वं च परं पदम् ॥
अतोऽनिर्वचनीयानि वाञ्छनीयानि सन्ति वा

1.6.24

सर्वाण्येतानि सर्वेश कथितानि च यानि च ॥
तव भक्तिकलांशस्य कलां नार्हन्ति षोडशीम्

1.6.25

शर्वस्य वचनं श्रुत्वा कृष्णस्तं योगिनां गुरुम् ॥
प्रहस्योवाच वचनं सत्यं सर्वसुखप्रदम्

1.6.26

॥ श्रीभगवानुवाच ॥
मत्सेवां कुरु सर्वेश शर्वसर्वविदांवर ॥
कल्पकोटिशतं यावत्पूर्णं शश्वदहर्निशम्

1.6.27

वरस्तपस्विनां त्वं च सिद्धानां योगिनां तथा ॥
ज्ञानिनां वैष्णवानां च सुराणां च सुरेश्वर

1.6.28

अमरत्वं लभ भव भव मृत्युंजयो महान् ॥
सर्वसिद्धिं च वेदांश्च सर्वज्ञत्वं च मद्वरात्

1.6.29

असंख्यब्रह्मणां पातं लीलया वत्स पश्यसि ॥
अद्यप्रभृति ज्ञानेन तेजसा वयसा शिव

1.6.1.6.30

परा क्रमेण यशसा महसा मत्समो भव॥
प्राणानामपधिकस्त्वञ्च न भक्तस्त्वत्परो मम

1.6.31

त्वत्परो नास्ति मे प्रेयांस्त्वं मदीयात्मनः परः॥
ये त्वां निन्दन्ति पापिष्ठा ज्ञानहीना विचेतनाः

1.6.32

पच्यन्ते कालसूत्रेण यावच्चन्द्रदिवाकरौ ॥
कल्पकोटिशतान्ते च ग्रहीष्यसि शिवां शिव

1.6.33

ममाव्यर्थं च वचनं पालनं कर्तुमर्हसि ॥
त्वन्मुखान्निर्गतं वाक्यं न करोम्यधुनेति च

1.6.34

मद्वाक्यं च स्ववाक्यं च पालनं तत्करिष्यसि ॥
गृहीत्वा प्रकृतिं शम्भो दिव्यं वर्षसहस्रकम्

1.6.35

सुखं महच्च शृङ्गारं करिष्यसि न संशयः ॥
न केवलं तपस्वी त्वमीश्वरो मत्समो महान्

1.6.36

काले गृही तपस्वी च योगी स्वेच्छामयो हि यः ॥
दुःखं च दारसंयोगे यत्त्वया कथितं शिव

1.6.37

कुस्त्री ददाति दुःखं च स्वामिने न पतिव्रता ॥
कुले महति या जाता कुलजा कुलपालिका

1.6.38

करोति पालनं स्नेहात्सत्पुत्रस्य समं पतिम् ॥
पतिर्बन्धुः पतिर्भर्त्ता दैवतं कुलयोषिताम्

1.6.39

पतितोऽपतितो वापि कृपणश्चेश्वरोऽथवा ॥
असत्कुलप्रसूतायाः पित्रोर्दुश्शीलमिश्रिताः

1.6.1.6.40

ध्रुवं ताः परभोग्याश्च पतिं निन्दन्ति सन्ततम्॥
आवयोरतिरिक्तं च या पश्यति पतिं सती

1.6.41

गोलोके स्वामिना सार्द्धं कोटिकल्पं प्रमोदते ॥
भविता सा शिवा शैवी प्रकृतिवैष्णवी शिव

1.6.42

मदाज्ञया च तां साध्वीं ग्रहीष्यसि भवाय च ॥
प्रकृत्या योनिसंयुक्तं त्वल्लिङ्गं तीर्थमृत्कृतम्

1.6.43

तीर्थे सहस्रं संपूज्य भक्त्या पञ्चोपचारतः ॥
सदक्षिणं संयतो यः पवित्रश्च जितेन्द्रियः

1.6.44

कोटिकल्पं च गोलोके मोदते च मया सह ॥
लक्षं तीर्थे पूजयेद्यो विधिवत्साधुदक्षिणम्

1.6.45

न च्युतिस्तस्य गोलोकात्स भवेदावयोः समः ॥
मृद्भस्मगोशकृत्पिण्डैस्तीर्थे वालुकयाऽपि वा

1.6.46

कृत्वा लिङ्गं सकृत्पूज्य वसेत्कल्पायुतं दिवि ॥
प्रजावान्भूमिमान्विद्वान्पुत्रवान्धनवांस्तथा

1.6.47

ज्ञानवान्मुक्तिमान्साधुः शिवलिङ्गार्चनाद्भवेत् ॥
शिवलिङ्गार्चनं स्थानं मत्तीर्थं तीर्थमेव तत् ॥
भवेत्तत्र मृतः पापी शिवलोकं स गच्छति

1.6.48

महादेव महादेव महादेवेतिवादिनः ॥
पश्चाद्यामि महात्रस्तो नामश्रवणलोभतः

1.6.49

शिवेति शब्दमुच्चार्य्य प्राणांस्त्यजति यो नरः ॥
कोटिजन्मार्जितात्पापान्मुक्तो मुक्तिं प्रयाति सः

1.6.1.6.50

शिवकल्याणवचनं कल्याणं मुक्तिवाचकम् ॥
यतस्तत्प्रभवेत्तेन स शिवः परिकीर्तितः

1.6.51

विच्छेदे धनबन्धूनां निमग्नः शोकसागरे ॥
शिवेति शब्दमुच्चार्य्य लभेत्सर्वशिवं नरः

1.6.52

पापघ्ने वर्तते शिश्च वश्च मुक्तिप्रदे तथा ॥
पापघ्नो मोक्षदो नॄणां शिवस्तेन प्रकीर्तितः

1.6.53

शिवेति च शिवं नाम यस्य वाचि प्रवर्त्तते ॥
कोटिजन्मार्जितं पापं तस्य नश्यति निश्चितम्

1.6.54

इत्युक्त्वा शूलिने कृष्णो दत्त्वा कल्पतरुं मनुम् ॥
तत्त्वज्ञानं मृत्युजयमवोचत्सिंहवाहिनीम्

1.6.55

श्रीभगवानुवाच ॥
अधुना तिष्ठ वत्से त्वं गोलोके मम सन्निधौ ॥
काले भजिष्यसि शिवं शिवदं च शिवायनम्

1.6.56

तेजःसु सर्वदेवानामाविर्भूय वरानने ॥
संहृत्य दैत्यान्सर्वांश्च भविता सर्वपूजिता

1.6.57

ततः कल्पविशेषे च सत्यं सत्ययुगे सति ॥
भविता दक्षकन्या त्वं सुशीला शम्भुगेहिनी

1.6.58

ततः शरीरं संत्यज्य यज्ञे भर्तुश्च निन्दया ॥
मेनायां शैलभार्य्यायां भविता पार्वतीति च

1.6.59

दिव्यं वर्षसहस्रं च विहरिष्यसि शम्भुना ॥
पूर्णं ततः सर्वकालममेदं त्वं लभिष्यसि

1.6.1.6.60

काले सर्वेषु विश्वेषु महापूजासु पूजिते॥
भविता प्रतिवर्षे च शारदी या सुरेश्वरि ॥

1.6.61

ग्रामेषु नगरेष्वेव पूजिता ग्रामदेवता ॥
भवती भवितेत्येवं नामभेदेन चारुणा

1.6.62

मदाज्ञया शिवकृतैस्तन्त्रैर्नानाविधैरपि ॥
पूजाविधिं विधास्यामि कवचं स्तोत्रसंयुतम्

1.6.63

भविष्यन्ति महान्तश्च तवैव परिचारकाः ॥
धर्मार्थकाममोक्षाणां सिद्धाश्च फलभागिनः

1.6.64

ये त्वां मातर्भजिष्यन्ति पुण्यक्षेत्रे च भारते ॥
तेषां यशश्च कीर्तिश्च धर्मैश्वर्य्यं च वर्द्धते

1.6.65

इत्युक्त्वा प्रकृतिं तस्यै मन्त्रमेकादशाक्षरम् ॥
दत्त्वा सकामबीजं च मन्त्रराजमनुत्तमम्

1.6.66

चकार विधिना ध्यानं भक्तं भक्तानुकम्पया ॥
श्रीमायाकामबीजाढ्यं ददौ मन्त्रं दशाक्षरम्

1.6.67

सृष्ट्यौपयौगिकीं शक्तिं सर्वसिद्धिं च कामदाम् ॥
तद्विशिष्टोत्कृष्टतत्त्वं ज्ञानं तस्यै ददौ विभुः

1.6.68

त्रयोदशाक्षरं मन्त्रं दत्त्वा तस्मै जगत्पतिः ॥
कवचं स्तोत्रसहितं शङ्कराय तथा द्विज

1.6.69

दत्त्वा धर्माय तं मन्त्रं सिद्धिज्ञानं तदेव च ॥
कामाय वह्नये चैव कुबेराय च वायवे

1.6.1.6.70

एवं कुबेरादिभ्यस्तु दत्त्वा मन्त्रादिकं परम्॥
विधिं प्रोवाच सृष्ट्यर्थं विधातुर्विधिरेव सः

1.6.71

श्रीभगवानुवाच ॥
मदीयं च तपः कृत्वा दिव्यं वर्षसहस्रकम् ॥
सृष्टिं कुरु महाभाग विधे नानाविधां पराम्

1.6.72

इत्युक्त्वा ब्रह्मणे कृष्णो ददौ मालां मनोरमाम् ॥
जगाम सार्द्धं गोपीभिर्गोपैर्वृन्दावनं वनम्

1.6.6

इति श्रीब्रह्मवैवर्त्ते महापुराणे सौतिशौनकसंवादे ब्रह्मखण्डे सृष्टिनिरूपणं नाम षष्ठोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc