भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 1.25

1.25.1

सौतिरुवाच ॥
क्षणेन विप्रप्रवरो मुदाऽन्वितो जगाम शम्भोः सदनं मनोहरम् ॥
ऊर्ध्वं ध्रुवाद्योजनलक्षमीप्सितं महार्हरत्नौघविनिर्मितं महत्

1.25.2

निराश्रये योगबलेन शम्भुना धृतं विचित्रं विविधालयान्वितम् ॥
दृष्टं सुपुण्याशयसाधकैर्वरैर्मुनीन्द्रवर्यैः परिपूरितं शुभम्

1.25.3

मयूखशून्यं रविचन्द्रयोर्मुने हुताशनैर्वेष्टितमेव केवलम् ॥
प्राकाररूपैरतिरिक्तवर्द्धितैरुच्चैरसंख्याप्रमितैः शिखोज्ज्वलैः

1.25.4

पुरं वरं योजनलक्षविस्तृतं त्रिकोटिरत्नेन्द्रगृहान्वितं सदा ॥
विराजितं हीरकसारनिर्मितैश्चित्रैर्विचित्रैर्विविधैर्मनोहरैः

1.25.5

माणिक्यमुक्तामणिदर्पणैर्युतं नस्वप्नदृष्टं द्विज विश्वकर्मणः ॥
आकल्पमेकैः शिवसेवितैर्जनैर्निषेवितं सन्ततमेव शौनक

1.25.6

सिद्धैर्नियुक्तं शतकोटिलक्षैकैस्त्रिकोटिलक्षैश्च युतं स्वपार्षदैः ॥
युक्तं त्रिलक्षैर्विकटैश्च भैरवैः क्षेत्रैश्चतुर्लक्षशतैश्च वेष्टितम्

1.25.7

सुरद्रुमैर्वेष्टितमेव सन्ततं मन्दारवृक्षप्रवरैः सुपुष्पितैः ॥
विराजितं सुन्दरकामधेनुभिर्यथा बलाकाशतकैर्नभस्तलम्

1.25.8

दृष्ट्वा मुनिर्विस्मयमाप मानसे किं नात्र चित्रं सुरयोगिनां गुरौ ॥
लोकं त्रिलोकाच्च विलक्षणं परं भीमृत्युरोगार्त्तिजराहरं वरम्

1.25.9

दूरे सभामण्डलमध्यगं शिवं ददर्श शान्तं शिवदं मनोहरम् ॥
पद्मत्रिनेत्रं विधुपञ्चवक्त्रं गङ्गाधरं निर्मलचन्द्रशेखरम्

1.25.1.25.10

प्रतप्तहेमाभजटाधरं विभुं दिगम्बरं शुभ्रमनन्तमक्षरम् ॥
मन्दाकिनीपुष्करबीजमालया कृष्णेति नामैव मुदा जपन्तम्

1.25.11

सुनीलकण्ठं भुजगेन्द्रमण्डितं योगीन्द्रसिद्धेन्द्र मुनीन्द्रवन्दितम् ॥
सिद्धेश्वरं सिद्धविधानकारणं मृत्युंजयं कालयमान्तकारकम्

1.25.12

प्रसन्नहास्यास्यमनोहरं वरं विश्वाश्रयाणां शिवदं वरप्रदम् ॥
सदाऽऽशुतोषं भवरोगवर्जितं भक्तप्रियं भक्तजनैकबन्धुम्

1.25.13

गत्वा समीपं मुनिरेष शूलिनं ननाम मूर्ध्ना पुलकाङ्कविग्रहः ॥
वीणां त्रितन्त्रीं क्वणयन्पुनर्जगौ कृष्णं स तुष्टाव कलं सुकण्ठः

1.25.14

दृष्ट्वा मुनीन्द्रप्रवरं च सस्मितं विधेः सुतं वेदविदां वरिष्ठम् ॥
योगीन्द्रसिद्धेन्द्रमहर्षिभिः समं हर्षेण पीठादुदपश्यदीश्वरः

1.25.15

ददौ च तस्मै मुनये स संभ्रमादालिङ्गनं चाशिषमासनादिकम् ॥
पप्रच्छ भद्रागमनप्रयोजनं तपोधनं तं तपसा च शौनक

1.25.16

सद्रत्नसिंहासनसुन्दरे परश्चोवास शम्भुर्वरपार्षदैः सह ॥
नोवास धातुस्तनयः कृताञ्जलिस्तुष्टाव भक्त्या प्रणतः प्रभुं द्विज

1.25.17

गन्धर्वराजेन कृतेन नारदः स्तोत्रेण रम्येण शुभप्रदेन च ॥
स्तुत्वा प्रणामं पुनरेव कृत्वा भवाज्ञयोवास भवस्य वामतः

1.25.18

चकार तत्रैव निवेदनं शिवे मनोऽभिलाषं निजकामपूरके ॥
श्रुत्वा मुनेस्तद्वचनं कृपानिधिर्द्रुतं प्रतिज्ञाय चकार चोमिति

1.25.25

इति श्रीब्रह्मवैवर्ते महापुराणे ब्रह्मखण्डे सौतिशौनकसंवादे कैलासं प्रति नारदागमनं नाम पञ्चविंशतितमोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc