भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 1.24

1.24.1

श्रीब्रह्मोवाच ॥
त्वं गच्छ तपसे वत्स किं मे संसारकर्मणि ॥
अहं यास्यामि गोलोकं विज्ञातुं कृष्णमीश्वरम्

1.24.2

सनकश्च सनन्दश्च तृतीयश्च सनातनः ॥
सनत्कुमारो नीरागश्चतुर्थः पुत्र एव च

1.24.3

यती हंसी चारुणिश्च वोढुः पञ्चशिखस्तथा ॥
पुत्रास्तपस्विनः सर्वे किं मे संसारकर्मणि

1.24.4

वचस्करो मरीचिर्मे अङ्गिराश्च भृगुस्तथा ॥
रुचिरत्रिः कर्दमश्च प्रचेताश्च क्रतुर्मनुः

1.24.5

वसिष्ठो वशगः शश्वत्सर्वेषु च सुतेषु च ॥
अन्ये ऽविवेकिनोऽसाध्याः किं मे संसारकर्मणि

1.24.6

निबोध वत्स वक्ष्यामि वेदोक्तं वचनं शुभम् ॥
पारम्पर्य्यक्रमपरं चतुर्वर्गफलप्रदम् ॥

1.24.7

धर्मार्थकाममोक्षांश्च सर्वे वाञ्छन्ति पण्डिताः ॥
वेदप्रणिहितानेतान्सभासु मुनिशंसितान्

1.24.8

वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्य्ययः ॥
आदौ विप्रो यज्ञसूत्रं परिधाय सुखं सुखी

1.24.9

समधीत्य ततो वेदान्ददाति गुरुदक्षिणाम् ॥
ततः प्रकृष्टकुलजां सुविनीतां समुद्वहेत्

1.24.1.24.10

सा साध्वी कुलजा या च पतिसेवासु तत्परा ॥
सद्वरो दुर्विनीता च संभवेन्न कदाचन ॥
आकरे पद्मरागाणां जन्म काचमणेः कुतः

1.24.11

असद्वंशप्रसूता या पित्रोर्दोषेण नारद ॥
दुर्विनीता च सा दुष्टा स्वतन्त्रा सर्वकर्मसु

1.24.12

न वत्स दुष्टाः सर्वाश्च योषितः कमलाकलाः ॥
स्वर्वेश्यांशाश्च कुलटा असद्वंश समुद्भवाः

1.24.13

निर्गुणं स्वामिनं साध्वी सेवते च प्रशंसति ॥
न सेवते च कुलटा प्रियं निन्दति सद्गुणम्

1.24.14

साधुः सद्वंशजां कन्यां प्रयत्नेन परिग्रहेत् ॥
तस्यां पुत्रान्समुत्पाद्य वृद्धस्तु तपसे व्रजेत्

1.24.15

वरं हुतवहे वासः सर्पवक्त्रे च कण्टके ॥
एतेभ्यो दुःखदो वासः स्त्रिया दुर्मुखया सह

1.24.16

मत्तोऽधीतस्त्वया वेदो मह्यं च गुरुदक्षिणाम् ॥
पुत्र देहीदमेवेह कुरु दारपरिग्रहम्

1.24.17

वत्स त्वं कुलजातां च पूर्वपत्नी च मालतीम् ॥
विवाहं कुरु कल्याण कल्याणे च दिने ऽनघ

1.24.18

मनुवंशोद्भवस्येह सृंजयस्य गृहे सती ॥
त्वत्कृते जन्म लब्ध्वा च कुरुते भारते तपः

1.24.19

गृह्णीष्व परमां रत्नमालां च कमलाकलाम् ॥
भारते न भवेद्व्यर्थं जनानां तपसः फलम्

1.24.1.24.20

आदौ भवेद्गृही लोको वानप्रस्थस्ततः परम् ॥
ततस्त पस्वी मोक्षाय क्रम एष श्रुतौ श्रुतः

1.24.21

वैष्णवानां हरेरर्चा तपस्या च श्रुतौ श्रुता

1.24.22

वैष्णव त्वं गृहे तिष्ठ कुरु कृष्णपदार्चनम् ॥
अन्तर्बाह्ये हरिर्यस्य तस्य किं तपसा सुत

1.24.23

नान्तर्बाह्ये हरिर्यस्य तस्य किं तपसाऽनघ ॥
तपसा हरिराराध्यो नान्यः कश्चन विद्यते

1.24.24

यत्र तत्र कृतं कृष्णसेवनं परमं तपः ॥
वत्स मद्वचनेनैव गृहे स्थित्वा हरिं भज

1.24.25

गृही भव मुनिश्रेष्ठ गृहिणां सर्वदा सुखम् ॥
कामिन्यां सुखसम्भोगः स्वर्गभोगसमो मतः

1.24.26

तद्दर्शनमुपस्पर्शं वाञ्छन्त्येव मुमुक्षवः ॥
सर्वस्पर्शसुखात्स्त्रीणामुपस्पर्शसुखं परम्

1.24.27

ततः सुखतमं पुत्रदर्शनं स्पर्शनं मुने ॥
सर्वेभ्यः प्रेयसी कान्ता प्रिया तेन प्रकीर्त्तिता ॥

1.24.28

पुत्रप्रयोजना कान्ता शतकान्ताप्रियः सुतः ॥
नास्ति पुत्रात्परो बन्धुर्नास्ति पुत्रात्परः प्रियः

1.24.29

सर्वेभ्यो जयमन्विच्छेत्पुत्रादेकात्पराजयम् ॥
न चात्मनि प्रियोऽर्थश्च तस्मादपि सुतः प्रियः

1.24.1.24.30

अतः प्रियतमे पुत्रे न्यसेदात्मपरं धनम् ॥
इत्येवमुक्त्वा स ब्रह्मा विरराम च शौनक ॥
उवाच वचनं तातं नारदो ज्ञानिनां वरः

1.24.31

नारद उवाच ॥
स्वयं विज्ञाय सर्वार्थं स्वपुत्रं वेददर्शने ॥
प्रवर्त्तयत्यसन्मार्गे स दयालुः कथं पिता

1.24.32

जलबुद्बुदवत्सर्वं संसारमतिनश्वरम् ॥
जलरेखा यथा मिथ्या तथा ब्रह्मञ्जगत्त्रयम्

1.24.33

विहाय हरिदास्यं च विषये यन्मनश्चलम् ॥
दुर्लभं मानवं जन्म मा भूत्तन्निष्फलं क्वचित्

1.24.34

का वा कस्य प्रिया पुत्रो बन्धुः को वा भवार्णवे ॥
कर्मोर्मिभिर्योजना च तदपायो वियोजना

1.24.35

सुकर्म कारयेद्यो हि तन्मित्रं स पिता गुरुः ॥
दुर्बुद्धिं जनयेद्यो हि स रिपुः स्यात्कथं पिता

1.24.36

इत्येवं कथितं तात वेदबीजं यथागमम् ॥
ध्रुवं तथाऽपि कर्त्तव्यं तवाज्ञापरिपालनम्

1.24.37

आदौ यास्यामि भगवन्नरनारायणाश्रमम् ॥
नारायणकथां श्रुत्वा करिष्ये दारसंग्रहम्

1.24.38

इत्येवमुक्त्वा स मुनिर्विरराम पितुः पुरः ॥
पुष्पवृष्टिस्तदुपरि तत्क्षणेन बभूव ह

1.24.39

क्षणं पितुः पुरः स्थित्वा नारदो मुनिसत्तमः ॥
उवाच च पुनर्वेदं वचनं मङ्गलप्रदम्

1.24.1.24.40

श्रीनारद उवाच ॥
देहि मे कृष्णमन्त्रं च यन्मनोवाञ्छितं मम ॥
तत्सम्बन्धि च यज्ज्ञानं यत्र तद्गुणवर्णनम्

1.24.41

ततः पश्चात्करिष्यामि त्वत्प्रीत्या दारसंग्रहम् ॥
मानसे परिपूर्णे च कार्य्यं कर्तुं पुमान्सुखी

1.24.42

नारदस्य वचः श्रुत्वा प्रहृष्टः कमलोद्भवः ॥
उवाच पुनरेवेदं पुत्रं ज्ञानविदां वरः

1.24.43

ब्रह्मोवाच ॥
पत्युर्मन्त्रं पितुर्मन्त्रं न गृह्णीयाद्विचक्षणः ॥
विविक्ताश्रमिणां चैव न मन्त्रः सुखदायकः

1.24.44

निषेकाल्लभ्यते मन्त्रो गुरुर्भर्त्ता च कामिनी॥
विद्या सुखं भयं दुःखं पुरुषैः स्वेच्छया न च

1.24.45

महेश्वरस्तव गुरुः प्राक्तनो नः पुरातनः ॥
गच्छ वत्स शिवं शान्तं शिवदं ज्ञानिनां गुरुम्

1.24.46

तत एव भवान्मन्त्रं ज्ञानं लब्ध्वा पुरातनात् ॥
नारायणकथां श्रुत्वा शीघ्रमागच्छ मद्गृहम्

1.24.47

इत्युक्त्वा जगतां धाता विरराम च शौनक ॥
प्रणम्य पितरं भक्त्या शिवलोकं ययौ मुनिः

1.24.24

इति श्रीब्रह्मवैवर्त्ते महापुराणे ब्रह्मखण्डे सौतिशौनकसंवादे ब्रह्मनारदोक्तसंसारसुखासुखवर्णनं नाम चतुर्विंशतितमोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc