भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 1.20

1.20.1

सौतिरुवाच ॥
मुदा मालावतीसार्द्धं गन्धर्वश्चोपबर्हणः ॥
रेमे कालावशेषं च ताभिश्च निर्जने वने

1.20.2

गन्धर्वराजो मुमुदे पुत्रदारादिभिः सह ॥
नानाविधं क्रतुवरं महत्पुण्यं चकार ह

1.20.3

राजत्वं बुभुजे राजा कुबेरभवनोपमे ॥
रेमे सुशीलया सार्द्धं स्थिरयौवनयुक्तया

1.20.4

गन्धर्वराजः काले च गङ्गातीरे मनोहरे ॥
पत्न्या सार्द्धमसूंस्त्यक्त्वा वैकुण्ठं च ययौ मुदा

1.20.5

शैवः शिवप्रसादेन पुत्रस्य विष्णुसेवया ॥
बभूव दासो वैकुण्ठे विष्णोः श्यामचतुर्भुजः

1.20.6

कृत्वा पित्रोश्च सत्कारं गन्धर्वश्चोपबर्हणः ॥
ब्राह्मणेभ्यो ददौ विप्र धनानि विविधानि च

1.20.7

काले स्वयं ब्रह्मशापात्प्राणांस्त्यक्त्वा विचक्षणः ॥
स जज्ञे वृषलीगर्भे ब्रह्मबीजेन शौनक

1.20.8

मालावती वह्निकुण्डे पुष्करे भारते भुवि ॥
कृत्वा तु वाञ्छितं कामं प्राणांस्तत्याज सा सती

1.20.9

सृंजयस्य तु पत्न्यां च मनुवंशोद्भवस्य च ॥
जज्ञे नृपस्य साध्वी सा पुण्या जातिस्मरा वरा

1.20.1.20.10

उपबर्हणगन्धर्वः पतिर्मे भवितेति च ॥
इतिकामा कामुकी सा सुन्दरी सुन्दरीवरा

1.20.11

शौनक उवाच ॥
ब्रह्मवीर्य्याच्छूद्रपत्न्यां गन्धर्वश्चोपबर्हणः ॥
जातः केन प्रकारेण तद्भवान्वक्तुमर्हति

1.20.12

सौतिरुवाच ॥
कान्यकुब्जे च देशे च द्रुमिलो नाम राजकः ॥
कलावती तस्य पत्नी वन्ध्या चापि पतिव्रता

1.20.13

स्वामिदोषेण सा वन्ध्या काले च भर्तुराज्ञया ॥
उपतस्थे वने घोरे नारदं काश्यपं मुनिम्

1.20.14

ध्यायमानं च श्रीकृष्णं ज्वलन्तं ब्रह्मतेजसा ॥
तस्थौ सुवेषं कृत्वा सा ध्यानान्तं च मुनेः पुरः

1.20.15

ग्रीष्ममध्याह्नमार्तण्डप्रभातुल्येन तेजसा ॥
तपन्तं दूरतोऽप्येवं समीपं गन्तुमक्षमा

1.20.16

ध्यानान्ते च मुनिश्रेष्ठः परः कृष्णपरायणः ॥
ददर्श पुरतो दूरे सुन्दरीं स्थिरयौवनाम्

1.20.17

चारुचम्पकवर्णाभां शरत्पङ्कजलोचनाम् ॥
शरत्पार्वणचंद्रास्यां रत्नभूषणभूषिताम्

1.20.18

बृहन्नितम्बभारार्त्तां पीनश्रोणिपयोधराम् ॥
शोभितां पीतवस्त्रेण सस्मितां रक्तलोचनाम्

1.20.19

मोहितां मुनिरूपेण कामबाणप्रपीडिताम् ॥
दर्शयन्तीं स्तनश्रोणिं मैथुनासक्तचेतसा ॥

1.20.1.20.20

सिन्दूरबिन्दुभूषाढ्यां सुचारुकज्जलोज्ज्वलाम् ॥
पदालक्तकशोभाढ्यां रूपेणैव यथोर्वशीम्

1.20.21

मुनिः पप्रच्छ दृष्ट्वा तां का त्वं कामिनि निर्जने ॥
कस्य पत्नी कथं वाऽत्र सत्यं ब्रूहि च पुंश्चलि

1.20.22

मुनेश्च वचनं श्रुत्वा कम्पिता च कलावती ॥
उवाच विनयेनैव कृत्वा च श्रीहरिं हृदि

1.20.23

कलावत्युवाच ॥
गोपिकाऽहं द्विजश्रेष्ठ द्रुमिलस्य च कामिनी ॥
पुत्रार्थिनी चागताऽहं त्वन्मूलं भर्तुराज्ञया

1.20.24

वीर्य्याधानं कुरु मयि स्त्री नोपेक्ष्या ह्युपस्थिता ॥
तेजीयसां न दोषाय वह्नेः सर्वभुजो यथा

1.20.25

वृषलीवचनं श्रुत्वा चुकोप मुनिसत्तमः ॥
उवाच नीत्यं सत्यं च कोपप्रस्फुरिताधरः

1.20.26

काश्यप उवाच ॥
यः स्वलक्ष्मीं च भोगार्हां पराय दातुमिच्छति ॥
तं सा त्यजति मूढं च वेदवाद इति ध्रुवम्

1.20.27

न त्वं द्रुमिलभोगार्हा पुनरेव भविष्यसि ॥
विरक्तेन स्वयं त्यक्ता न गृह्णाति च त्वां पुनः

1.20.28

यः शूद्रपत्नीं गृह्णाति ब्राह्मणो ज्ञानदुर्बलः॥
स चण्डालो भवेत्सत्यं न कर्मार्हो द्विजातिषु

1.20.29

पितृश्राद्धे च यज्ञे च शिलास्पर्शे सुरार्चने ॥
अधिकारश्च तस्यैवमित्याह कमलोद्भवः ॥

1.20.1.20.30

कुम्भीपाकं स्वयं याति पातयित्वा च पूरुषान् ॥
मातामहान्स्वात्मनश्च दश पूर्वान्दशापरान्

1.20.31

तत्तर्पणं मूत्रमेव पिण्डं सद्यः पुरीषकम् ॥
शालग्रामस्य तत्स्पर्शे चोपवासस्त्रिरात्रकम्

1.20.32

तदिष्टदेवो गृह्णाति न नैवेद्यं न तज्जलम् ॥
संन्यासिनां ब्राह्मणानां तदन्नं च पुरीषवत्

1.20.33

कुम्भीपाके पच्यते स शक्रान्तं यावदेव हि ॥
एकविंशतिपुरुषैः सार्द्धं सत्यं च पुंश्चलि

1.20.34

पत्रोच्छिष्टं च यो भुङ्क्ते शूद्राणां ब्राह्मणाधमः ॥
तत्तुल्योऽधरभोजी चैवेत्याङ्गिरेसभाषितम्

1.20.35

शूद्रो वा यदि गृह्णाति ब्राह्मणीं ज्ञानदुर्बलः ॥
स पच्यते कालसूत्रे यावदिन्द्राश्चतुर्दश

1.20.36

अष्टादशेन्द्रावच्छिन्नं कालं च कालसूत्रके॥
ब्राह्मणी पच्यते तत्र भक्षिता क्रिमिभिर्ध्रुवम्

1.20.37

ततश्चण्डालयोनौ च लब्ध्वा जन्म च ब्राह्मणी ॥
शूद्रश्च कुष्ठी भवति ज्ञातिभिः परिवर्जितः

1.20.38

इत्युक्त्वा च मुनिश्रेष्ठो विरराम च शौनक ॥
वृषली तत्पुरस्तस्थौ शुष्ककण्ठौष्ठतालुका

1.20.39

एतस्मिन्नन्तरे तेन पथा याति च मेनका ॥
तस्या ऊरुं स्तनं दृष्ट्वा मुनेर्वीर्य्यं पपात ह

1.20.1.20.40

ऋतुस्नाता च वृषली पीत्वा तत्र क्षणं मुदा ॥
मुनिं प्रणम्य प्रहृष्टा प्रययौ भर्तुरन्तिकम्

1.20.41

गत्वा प्रणम्य द्रुमिलं कान्ता कान्तं मनोहरम् ॥
सर्वं निवेदयामास वृत्तांत्तं गर्भहेतुकम्

1.20.42

कलावतीवचः श्रुत्वा प्रहृष्टवदनेक्षणः ॥
उवाच कान्तां मधुरं परिणामसुखावहम्

1.20.43

द्रुमिल उवाच ॥
विप्रस्य वीर्यं त्वद्गर्भे वैष्णवस्य महात्मनः ॥
वैष्णवो भविता बालस्त्वं च भाग्यवती सती

1.20.44

यद्गर्भे वैष्णवो जातो यस्य वीर्येण वा सति ॥
तयोर्याति च वैकुण्ठं पुरुषाणां शतं शतम्

1.20.45

तौ च विष्णुविमानेन सद्रत्ननिर्मितेन च ॥
यातौ वैकुण्ठनगरं जन्ममृत्युजराहरम्

1.20.46

कस्यचिद्ब्राह्मणस्यैव गेहं गच्छ शुभानने ॥
पश्चान्ममान्तिकं भद्रे यास्यसीति हरेः पुरम्

1.20.47

इत्युक्त्वा गोपराजश्च स्नात्वा कृत्वा तु तर्पणम् ॥
संपूज्याभीष्टदेवं च ब्राह्मणेभ्यो धनं ददौ

1.20.48

अश्वानां च चतुर्लक्षं गजानां लक्षमेव च ॥
शतं मत्तगजेन्द्राणां ब्राह्मणेभ्यो ददौ मुदा

1.20.49

उच्चैःश्रवः पञ्चलक्षं रथानां च सहस्रकम् ॥
शकटानां त्रिलक्षं च ब्राह्मणेभ्यो ददौ मुदा

1.20.1.20.50

गवां द्वादशलक्षं च महिषाणां त्रिलक्षकम् ॥
त्रिलक्षं राजहंसानां ब्राह्मणेभ्यो ददौ मुदा

1.20.51

पारावतानां लक्षं च शुकानां च शतं मुने ॥
लक्षं च दासदासीनां ब्राह्मणेभ्यो ददौ मुदा

1.20.52

ग्रामाणां च सहस्रं च नगराणां शतं शतम् ॥
धान्यतण्डुलशैलं च ब्राह्मणेभ्यो ददौ मुदा

1.20.53

शतकोटिं सुवर्णानां रत्नानां च सहस्रकम्॥
मुद्राणां कोटिकलशं ब्राह्मणेभ्यो ददौ मुदा

1.20.54

ददौ तैजसपात्राणां भूषणानामसंख्यकम् ॥
तां स्त्रियं रत्नभूषाढ्यां ब्राह्मणेभ्यो ददौ मुदा

1.20.56

राज्यं दत्त्वा महाराजोऽप्यन्तर्बाह्ये हरिं स्मरन् ॥
जगाम बदरीं गोपो मनोगामी मुदाऽन्वितः।५५॥
तत्र मासं तपः कृत्वा गङ्गातीरे मनोहरे ॥
प्राणांस्तत्याज योगेन सद्यो दृष्टो महर्षिभिः

1.20.57

स च विष्णुविमानेन रत्नेन्द्रनिर्मितेन च॥
संयुक्तो विष्णुदूतैश्च वैकुण्ठं च जगाम ह

1.20.58

तत्र प्राप हरेर्दास्यं हरिदासो बभूव सः ॥
वृत्तान्तं च कलावत्या श्रूयतामिति शौनक

1.20.59

गते कलावती नाथे उच्चैश्च प्ररुरोद ह ॥
वह्नौ प्राणांस्त्यक्तुकामा ब्राह्मणेनैव रक्षिता

1.20.1.20.60

ब्राह्मणो मातरित्युक्त्वा तां गृहीत्वा मुदाऽन्वितः ॥
जगाम रत्नपूर्णं च स्वगेहं च क्षणेन च

1.20.61

सा विप्रगेहे साध्वी च सुषाव तनयं वरम् ॥
तप्तकाञ्चनवर्णाभं ज्वलन्तं ब्रह्मतेजसा

1.20.62

तत्रस्था योषितः सर्वा ददृशुर्बालकं शुभम् ॥
ग्रीष्ममध्याह्नमार्तण्डजितं तं ब्रह्मतेजसा

1.20.63

कामदेवाधिकं रूपे चन्द्राधिकशुभाननम् ॥
शरत्पार्वणचन्द्रास्यं शरत्पङ्कजलोचनम्

1.20.64

हस्तपादादिवलितं सुकपोलं मनोहरम् ॥
पद्मचक्राङ्कितं पादपद्मं वाऽतुलमुज्ज्वलम्

1.20.65

करयुग्मं वाऽतुलं च रुदन्तं च स्तनार्थिनम् ॥
योषितो बालकं दृष्ट्वा प्रययुः स्वाश्रमं मुदा

1.20.65

पुत्रदारयुतो विप्रः प्रहृष्टश्च ननर्त ह ॥
स बालो ववृधे तत्र शुक्लपक्षे यथा शशी

1.20.66

पुपोष ब्राह्मणस्तां च सपुत्रां च यथा सुताम्

1.20.20

इति श्रीब्रह्मवैवर्ते महापुराणे ब्रह्मखण्डे सौतिशौनकसंवादे उपबर्हणजन्मकथनं नाम विंशोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc