भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 1.17

1.17.1

सौतिरुवाच ॥
दृष्ट्वा द्विजं देवसंघः प्रत्युत्थानं चकार च ॥
परस्परं च सम्भाषा बभूव तत्र संसदि

1.17.2

मा तं बुबुधिरे देवाः श्रीहरिं विप्ररूपिणम् ॥
पौर्वापर्य्यं विस्मृताश्च मोहिता विष्णुमायया

1.17.3

सुरान्सम्बोध्य विप्रश्च वाचा मधुरया द्विज ॥
उवाच सत्यं परमं प्राणिनां यच्छुभावहम्

1.17.4

ब्राह्मण उवाच ॥
उपबर्हणभार्य्येयं कन्या चित्ररथस्य च ॥
ययाचे जीवदानं च स्वामिनः शोककर्षिता

1.17.5

अधुना किमनुष्ठानमस्य कार्यस्य निश्चितम् ॥
तन्मां ब्रूत सुराः सर्वे नित्यं यत्समयोचितम्

1.17.6

शप्तुकामा सुरान्सर्वान्साध्वी तेजस्विनी वरा ॥
अहं क्षेमाय युष्माकमागतो बोधिता सती

1.17.7

स्तुतिः कृता च युष्माभिः श्वेतद्वीपे हरेरपि॥
युष्माकमीशो विष्णुश्च कथमेवात्र नागतः

1.17.8

बभूवाकाशवाणीति पश्चाद्यास्यति केशव ॥
विपरीतं कथं भूतं वाणीवाक्यमचञ्चलम्॥

1.17.9

ब्राह्मणस्य वचः श्रुत्वा स्वयं ब्रह्मा जगद्गुरुः ॥
उवाच वचनं सत्यं हितं परममङ्गलम्

1.17.1.17.10

ब्रह्मोवाच ॥
मत्पुत्रो नारदः शप्तो गन्धर्वश्चोपबर्हणः ॥
योगेन प्राणांस्तत्याज पुनः शापान्ममैव हि

1.17.11

कालं लक्षयुगं व्याप्य स्थितिरस्य महीतले ॥
शूद्रयोनिं ततः प्राप्य भविता मत्सुतः पुनः

1.17.12

अस्य कालावशेषस्य किञ्चिदस्ति द्विजोत्तम ॥
तत्तु वर्षसहस्रं चैवायुरस्यास्ति साम्प्रतम्

1.17.13

दास्यामि जीवदानं च स्वयं विष्णोः प्रसादतः ॥
यथैनं न स्पृशेच्छापस्तत्करिष्यामि निश्चितम्

1.17.14

नागतो हरिरत्रेति त्वया यत्कथितं द्विज ॥
हरिः सर्वत्र सर्वात्मा विग्रहः कुत आत्मनः

1.17.15

स्वेच्छामयः परं ब्रह्म भक्तानुग्रहविग्रहः ॥
सर्वं पश्यति सर्वज्ञः सर्वत्रास्ति सनातनः

1.17.16

विषिश्च व्याप्तिवचनो नुश्च सर्वत्रवाचकः ॥
सर्वव्यापी च सर्वात्मा तेन विष्णुः प्रकीर्त्तितः

1.17.17

अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ॥
यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः

1.17.18

कर्मारम्भे च मध्ये वा शेषे विष्णुं च यः स्मरेत् ॥
परिपूर्णं तस्य कर्म वैदिकं च भवेद्द्विज

1.17.19

अहं स्रष्टा च जगतां विधाता संहरो हरः ॥
धर्मश्च कर्मणां साक्षी यस्याज्ञापरिपालकः

1.17.1.17.20

कालः संहरते लोकान्यमः शास्ता च पापिनाम् ॥
उपैति मृत्युः सर्वांश्च भिया यस्याज्ञया सदा

1.17.21

सर्वेशा या च सर्वाद्या प्रकृतिः सर्वसूः पुरा ॥
सा भीता यस्य पुरतो यस्याज्ञापरिपालिका

1.17.22

महेश्वर उवाच ॥
पुत्राणां ब्रह्मणस्तेषां कस्य वंशोद्भवो भवान् ॥
वेदानधीत्य भवता ज्ञातः कः सार एव च

1.17.23

शिष्यः कस्य मुनीन्द्रस्य कस्त्वं नाम्ना च भो द्विज ॥
बिभर्त्त्यर्कातिरिक्तं च शिशुरूपोऽसि साम्प्रतम्

1.17.24

विडम्बयसि देवांश्च विष्णुमस्माकमीश्वरम् ॥
हृदिस्थं च न जानासि परमात्मानमीश्वरम्

1.17.25

यस्मिन्गते पतेद्देहो देहिनां परमात्मनि ॥
प्रयान्ति सर्वे तत्पश्चान्नरदेवानुगा इव

1.17.26

जीवस्तत्प्रतिबिम्बश्च मनो ज्ञानं च चेतना ॥
प्राणाश्चेन्द्रियवर्गाश्च बुद्धिर्मेधा धृतिः स्मृतिः

1.17.27

निद्रा दया च तन्द्रा च क्षुत्तृष्णा पुष्टिरेव च ॥
श्रद्धा संतुष्टिरिच्छा च क्षमा लज्जादिकाः स्मृताः

1.17.28

प्रयाति यत्पुरः शक्तिरीश्वरे गमनोन्मुखे ॥
एते सर्वे च शक्तिश्च यस्याज्ञा परिपालकाः

1.17.29

ईश्वरे च स्थिते देही क्षमश्च सर्वकर्मसु ॥
गतेऽस्पृश्यः शवस्त्याज्यः कस्तं देही न मन्यते

1.17.1.17.30

स्वयं ब्रह्मा च जगतां विधाता सर्वकारकः ॥
पादारविन्दमनिशं ध्यायते द्रष्टुमक्षमः

1.17.31

युगलक्षं तपस्तप्तं श्रीकृष्णस्य च वेधसा ॥
तदा बभूव ज्ञानी च जगत्स्रष्टुं क्षमस्तदा

1.17.32

असंख्यकालं सुचिरं तपस्तप्तं हरेर्मया ॥
तृप्तिं जगाम न मनस्तृप्यते केन मङ्गले

1.17.33

अधुना पञ्चवक्त्रेण यन्नामगुणकीर्तनम् ॥
गायन्भ्रमामि सर्वत्र निस्पृहः सर्वकर्मसु

1.17.34

मत्तो याति च मृत्युश्च यन्नामगुणकीर्त्तनात् ॥
शश्वजपन्तं तन्नाम दृष्ट्वा मृत्युः पलायते

1.17.35

सर्वब्रह्माण्डसंहर्त्ताऽप्यहं मृत्युंजयाभिधः ॥
सुचिरं तपसा यस्य गुणनामानुकीर्त्तनात्

1.17.36

काले तत्र विलीनोऽहमाविर्भूतस्ततः पुनः ॥
न कालो मम संहर्त्ता न मृत्युर्यत्प्रसादतः

1.17.37

गोलोके यः स वैकुण्ठे श्वेतद्वीपे स एव च ॥
अंशांशिनोर्न भेदश्च ब्रह्मन्वह्निस्फुलिङ्गवत्

1.17.38

मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः ॥
अष्टाविंशतिमे शक्रे गते च ब्रह्मणो दिनम्

1.17.39

एतत्संख्याविशिष्टस्य शतवर्षायुषो विधेः ॥
पाते लोचनपातश्च यद्विष्णोः परमात्मनः

1.17.1.17.40

अहं कलानामृषभः कृष्णस्य परमात्मनः ॥
परं महिम्नः को गच्छेन्न जानामि च किञ्चन

1.17.41

इत्युक्त्वा शङ्करस्तत्र विरराम च शौनक ॥
धर्मश्च वक्तुमारेभे यः साक्षी सर्वकर्मणाम्

1.17.42

धर्म उवाच ॥
यत्पाणिपादौ सर्वत्र चक्षुश्च सर्वदर्शनम् ॥
सर्वान्तरात्मा प्रत्यक्षोऽप्रत्यक्षश्च दुरात्मनः

1.17.43

अधुनाऽपि सभां विष्णुर्नायात इति यद्वचः ॥
त्वयोक्तं तत्कया बुद्ध्या मुनीनां च मतिभ्रमः

1.17.44

महन्निन्दा भवेद्यत्र नैव साधु शृणोति ताम् ॥
निन्दकः श्रोतृभिः सार्द्धं कुम्भीपाकं व्रजेद्युगम्

1.17.45

श्रुत्वा दैवान्महन्निन्दां श्रीविष्णोः स्मरणाद् बुधः ॥
मुच्यते सर्वपापेभ्यः पुण्यं प्राप्नोति दुर्लभम्

1.17.46

कामतोऽकामतो वाऽपि विष्णुनिन्दां करोति यः ॥
शृणोति यो हसति वा सभामध्ये नराधमः

1.17.47

कुम्भीपाके पचति स यावद्धि ब्रह्मणो वयः ॥
स्थलं भवेदपूतं च सुरापात्रं यथा द्विज

1.17.48

प्राणी च नरकं याति श्रुतं तत्रैव चेद्ध्रुवम् ॥
विष्णुनिन्दा च त्रिविधा ब्रह्मणा कथिता पुरा

1.17.49

अप्रत्यक्षं च कुरुते किं वा तं च न मन्यते॥।
देवान्यसाम्यं कुरुते ज्ञानहीनो नराधमः

1.17.1.17.50

तस्यात्र निष्कृतिर्नास्ति यावद्वै ब्रह्मणः शतम् ॥
गुरोर्निन्दां यः करोति पितुर्निन्दां नराधमः ॥
स याति कालसूत्रं च यावच्चन्द्रदिवाकरौ

1.17.51

विष्णुर्गुरुश्च सर्वेषां जनको ज्ञानदायकः ॥
पोष्टा पाता भयत्राता वरदाता जगत्त्रये

1.17.52

एषां च वचनं श्रुत्वा त्रयाणां विप्रपुङ्गव ॥
प्रहस्योवाच तान्देवान्वाचा मधुरया पुनः

1.17.53

ब्राह्मण उवाच ॥
का कृता विष्णुनिन्दाऽहो हे देवा धर्मशालिनः ॥
नागतो हरिरत्रेति व्यर्थाऽऽकाशसरस्वती

1.17.54

इति प्रोक्तं मया भद्रं ब्रूत धर्मार्थमीश्वराः ॥
सभायां पाक्षिकाः सन्तो घ्नन्ति स्म शतपूरुषम्

1.17.55

यूयं च भावुका ब्रूत विष्णुः सर्वत्र सन्ततम् ॥
इति चेत्तत्कथं याताः श्वेतद्वीपं वराय च

1.17.56

अंशांशिनोर्न भेदश्चेदात्मनश्चेति निश्चितम्॥
कलां हित्वा निषेवन्ते सन्तः पूर्णतमं कथम्

1.17.57

कोटिजन्मदुराराध्यमसाध्यमसतामपि ॥
आशा बलवती पुंसां कृष्णं सेवितुमिच्छति

1.17.58

किं क्षुद्राः किं महान्तश्च वाञ्छन्ति परमं पदम् ॥
लब्धुमिच्छति चन्द्रं च बाहुभ्यां वामनो यथा

1.17.59

यो विष्णुर्विषयी विश्वे श्वेतद्वीपनिवासकृत्॥
यूयं ब्रह्मेशधर्माश्च दिक्पालाश्च दिगीश्वराः

1.17.1.17.60

ब्रह्मविष्णुशिवाद्याश्च सुरलोकाश्चराचराः ॥
एवं कतिविधाः सन्ति प्रतिविश्वेषु सन्ततम्

1.17.61

विश्वानां च सुराणां च कः संख्यां कर्तुमीश्वरः ॥
सर्वेषामीश्वरः कृष्णो भक्तानुग्रहविग्रहः

1.17.62

ऊर्ध्वं च सर्वब्रह्माण्डाद्वैकुण्ठं सत्यमीप्सितम् ॥
तस्मादूर्ध्वं च गोलोकः पञ्चाशत्कोटियोजनम्

1.17.63

चतुर्भुजश्च वैकुण्ठे लक्ष्मीकान्तः सनातनः ॥
सुनन्दनन्दकुमुदपार्षदादिभिरावृतः

1.17.64

गोलोके द्विभुजः कृष्णो राधाकान्तः सनातनः ॥
गोपाङ्गनादिभिर्युक्तो द्विभुजैर्वोपपार्षदैः

1.17.69

परिपूर्णतमं ब्रह्म स चात्मा सर्वदेहिनाम् ॥
स्वेच्छामयश्च विहरेद्रासे वृन्दावने सदा

1.17.66

तज्ज्योतिर्मण्डलाकारं सूर्य्यकोटिसमप्रभम् ॥
ध्यायन्ते योगिनः सन्तः सन्ततं च निरामयम्

1.17.67

नवीननीरदश्यामं द्विभुजं पीतवाससम् ॥
कोटिकन्दर्पलावण्यलीलाधाम मनोहरम्

1.17.68

किशोरनयनं शश्वच्छान्तं सस्मितमी श्वरम् ॥
ध्यायन्ते वैष्णवाः सन्तः सेवन्ते सत्यविग्रहम्

1.17.69

यूयं च वैष्णवा ब्रूत कस्य वंशोद्भवो भवान्॥
शिष्यः कस्य मुनीन्द्रस्येत्येवं मां च पुनः पुनः

1.17.1.17.70

यस्य वंशोद्भवोऽहं च यस्य शिष्यश्च बालकः ॥
तस्येदं वचनं ज्ञानं देवसंघा निबोधत ॥

1.17.71

शीघ्रं जीवय गन्धर्वं देवेश्वर सुरेश्वर ॥
व्यक्ते विचारे मूर्खः को वाग्युद्धे किं प्रयोजनम्

1.17.72

इत्युक्त्वा बालकस्तत्र विप्ररूपी जनार्दनः ॥
विरराम सभामध्ये प्रजहास च शौनक

1.17.17

इति श्रीब्रह्मवैवर्ते महापुराणे ब्रह्मखण्डे विष्णुसुरसंघसंवादे विष्णुप्रशंसाप्रणयने सप्तदशोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc