भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 1.12

1.12.1

शौनक उवाच ॥
ऋषिवंशप्रसङ्गेन बभूवुर्विविधाः कथाः ॥
उपालम्भेन प्रस्तावात्कौतुकेन श्रुता मया

1.12.2

प्रजा वा ससृजुः के वा ऊर्ध्वरेताश्च कश्चन ॥
पित्रा सह विरोधेन नारदः किं चकार सः

1.12.3

पितुः शापेन पुत्रस्य किं बभूव विरोधतः ॥
पितुर्वा पुत्रशापेन सौते तत्कथ्यतां शुभम्

1.12.4

सौतिरुवाच ॥
हंसो यतिश्चारणिश्च वोढुः पञ्चशिखस्तथा ॥
अपान्तरतमाश्चैव सनकाद्याश्च शौनक

1.12.5

एतैर्विनाऽन्ये बहवो ब्रह्मपुत्राश्च सन्ततम् ॥
सांसारिकाः प्रजावन्तो गुर्वाज्ञापरिपालकाः

1.12.6

अपूज्यः पुत्रशापेन स्वयं ब्रह्मा प्रजापतिः ॥
तेनैव ब्रह्मणो मन्त्रं नोपासन्ते विपश्चितः

1.12.7

नारदो गुरुशापेन गन्धर्वश्च बभूव सः॥
कथयामि सुविस्तीर्णं तद्वृत्तान्तं निशामय

1.12.8

गन्धर्वराजः सर्वेषां गन्धर्वाणां वरो महान् ॥
परमैश्वर्य्यसंयुक्तः पुत्रहीनो हि कर्मणा

1.12.9

गुर्वाज्ञया पुष्करे स परमेण समाधिना ॥
तपश्चकार शम्भोश्च कृपणो दीनमानसः

1.12.1.12.10

शिवस्य कवचं स्तोत्रं मन्त्रं च द्वादशाक्षरम् ॥
ददौ गन्धर्वराजाय वसिष्ठश्च कृपानिधिः

1.12.11

जजाप परमं मन्त्रं दिव्यं वर्षशतं मुने ॥
पुष्करे स निराहारः पुत्रदुःखेन तापितः

1.12.12

विरामे शतवर्षस्य ददर्श पुरतः शिवम् ॥
भासयंतं दश दिशो ज्वलन्तं ब्रह्मतेजसा

1.12.13

महत्तेजस्स्वरूपं च भगवन्तं सनातनम् ॥
ईषद्धासं प्रसन्नास्यं भक्तानुग्रहकारकम्

1.12.14

तपोरूपं तपोबीजं तपस्याफलदं फलम् ॥
शरणागतभक्ताय दातारं सर्वसम्पदाम्

1.12.15

त्रिशूलपट्टिशधरं वृषभस्थं दिगम्बरम् ॥
शुद्ध स्फटिकसंकाशं त्रिनेत्रं चन्द्रशेखरम्

1.12.16

तप्तस्वर्णप्रभाजुष्टजटाजालधरं वरम् ॥
नीलकण्डं च सर्वज्ञं नागयज्ञोपवीतकम्

1.12.17

संहर्तारं च सर्वेषां कालं मृत्युंजयं परम् ॥
ग्रीष्ममध्याह्नमार्त्तण्डकोटिसंकाशमीश्वरम्

1.12.18

तत्त्वज्ञानप्रदं शांतं मुक्तिदं हरिभक्तिदम् ॥
दृष्ट्वा ननाम सहसा गन्धर्वो दण्डवद्भुवि

1.12.19

वसिष्ठदत्तस्तोत्रेण तुष्टाव परमेश्वरम् ॥
वरं वृणुष्वेति शिवस्तमुवाच कृपानिधिः ॥
स ययाचे हरे भक्तिं पुत्रं परमवैष्णवम्

1.12.1.12.20

गन्धर्वस्य वचः श्रुत्वा चाह सीच्चन्द्रशेखरः ॥
उवाच दीनं दीनेशो दीनबन्धुः सनातनम्

1.12.21

श्रीमहादेव उवाच ॥
कृतार्थस्त्वं वरादेकादन्यच्चर्वितचर्वणम् ॥
गन्धर्वराज वृणुषे को वा तृप्तोऽतिमङ्गले

1.12.22

यस्य भक्तिर्हरौ वत्स सुदृढा सर्वमङ्गला ॥
स समर्थः सर्वविश्वं पातुं कर्त्तुं च लीलया

1.12.23

आत्मनः कुलकोटिं च शतं मातामहस्य च ॥
पुरुषाणां समुद्धृत्य गोलोकं याति निश्चितम्

1.12.24

त्रिविधानि च पापानि कोटिजन्मार्जितानि च ॥
निहत्य पुण्यभोगं च हरिदास्यं लभेद् ध्रुवम्

1.12.25

तावत्पत्नी सुतस्तावत्तावदैश्वर्य्यमीप्सितम्॥
सुखं दुःखं नृणां तावद्यावत्कृष्णे न मानसम्

1.12.26

कृष्णे मनसि संजाते भक्तिखड्गो दुरत्ययः ॥
नराणां कर्मवृक्षाणां मूलच्छेदं करोत्यहो

1.12.27

भवेद्येषां सुकृतिनां पुत्राः परमवैष्णवाः ॥
कुलकोटिं च तेषां ते उद्धरन्त्येव लीलया

1.12.28

चरितार्थः पुमानेकाद्वरमिच्छुर्वरादहो॥
किं वरेण द्वितीयेन पुंसां तृप्तिर्न मङ्गले

1.12.29

धनं संचितमस्माकं वैष्णवानां सुदुर्लभम् ॥
श्रीकृष्णे भक्तिदास्यं च न वयं दातुमुत्सुकाः

1.12.1.12.30

वरयान्यं वरं वत्स यत्ते मनसि वांछितम्॥
इन्द्रत्वममरत्वं वा ब्रह्मत्वं लभ दुर्लभम्

1.12.31

सर्वसिद्धिं महायोगं ज्ञानं मृत्युजयादिकम् ॥
सुखेन सर्वं दास्यामि हरिदास्यं त्यज ध्रुवम्

1.12.32

शङ्करस्य वचः श्रुत्वा शुष्ककण्ठोष्ठतालुकः ॥
उवाच दीनो दीनेशं दातारं सर्वसम्पदाम्

1.12.33

गन्धर्व उवाच ॥
यत्पक्ष्मचालनेनैव ब्रह्मणः पतनं भवेत् ॥
तद्ब्रह्मत्वं स्वप्नतुल्यं कृष्णभक्तो न चेच्छति

1.12.34

इन्द्रत्वममरत्वं वा सिद्धियोगादिकं शिव ॥
ज्ञानं मृत्युजयाद्यं वा न हि भक्तस्य वाञ्छितम्

1.12.35

सालोक्यसार्ष्टिसामीप्यसायुज्यं श्रीहरेरपि ॥
तत्र निर्वाणमोक्षं च न हि वाञ्छन्ति वैष्णवाः

1.12.36

शश्वत्तत्र दृढा भक्तिर्हरिदास्यं सुदुर्लभम् ॥
स्वप्ने जागरणे भक्ता वाञ्छन्त्येवं वरं वरम्

1.12.37

तद्दास्यं वैष्णवसुतं देहि कल्पतरो वरम् ॥
त्वां प्राप्य लभते तुष्टं वरं सर्ववरोऽवरः

1.12.38

न दास्यसीदं चेच्छम्भो वरं दुष्कृतिनं च माम् ॥
कृत्वा हि स्वशिरश्छेदं प्रदास्यामि हुताशने

1.12.39

गन्धर्ववचनं श्रुत्वा तमुवाच कृपानिधिः ॥
भक्तं दीनं च भक्तेशो भक्तानुग्रहकारकः

1.12.1.12.40

श्रीशंकर उवाच ॥
हरिभक्तिं हरेर्दास्यं पुत्रं परमवैष्णवम्॥
चिरायुषं च गुणिनं शश्वत्सुस्थिरयौवनम्

1.12.41

ज्ञानिनं सुन्दरवरं गुरुभक्तं जितेन्द्रियम् ॥
गन्धर्वराजप्रवरं वरेमं लभ मा शुचः

1.12.42

इत्युक्त्वा शंकरस्तस्माज्जगाम स्वालयं मुने ॥
गन्धर्वराजः सन्तुष्ट आजगाम स्वमन्दिरम्

1.12.43

प्रफुल्लमानसाः सर्वे मानवाः सिद्धकर्मणः ॥
नारदस्तस्य भार्य्यायां लेभे जन्म च भारते

1.12.44

सुषाव पुत्रं सा वृद्धा पर्वते गन्धमादने ॥
गुरुर्वसिष्ठो भगवान्नाम चक्रे यथोचितम्

1.12.45

बालकस्य च तस्यैव मङ्गलं मङ्गले दिने ॥
उप शब्दोऽधिकार्थश्च पूज्ये च बर्हणः पुमान् ॥
पूज्यानामधिको बालस्तेनोपबर्हणाभिधः

1.12.12

इति श्रीब्रह्मवैवर्त्ते महापुराणे सौति शौनकसंवादे ब्रह्मखण्डे नारदजन्मकथनं नाम द्वादशोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc