भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मसूत्र2 · अध्याय 4.4

4.4.1

इति श्रीवाचस्पतिमिश्रविरचिते भगवत्पादभाष्यविभागे भामत्यां चतुर्थस्याध्यायस्य तृतीयः पादः ॥3॥
चतुर्थे ऽध्याये चतुर्थः पादः ।
स्तर्त् ब्स्व्भ्_4,4.1.1
संपद्याविर्भावः स्वेन शब्दात्

4.4.2

प्रागभूतस्य निष्पत्तौ कर्तृत्वं न सतो यतः ।
फलत्वेन प्रसिद्धेश्च मुक्ते रूपान्तरोद्भवः ।
अभूतस्य घटादेर्भवनं निष्पत्तिर्न पुनरत्यन्तसतो ऽसतो वा ।
न जातु गगनतत्कुसुमे निष्पद्येते ।
स्वरूपावस्थानं चेदात्मनो मुक्तिर्न सा निष्पद्येत, तस्य गगनवदत्यन्तसतः प्रागसत्त्वाभावात् ।
न चास्य बन्धाभावो निष्पद्यते, तस्य तुच्छस्वभावस्य कार्यत्वेनातुच्छत्वप्रसङ्गात् ।
फलत्वप्रसिद्धेश्च मोक्षस्याकार्यस्य फलत्वानवकल्पनादागन्तुना रूपेण केनचिदुत्पत्तौ स्वेनेति प्राप्तमनूद्यत इति प्राप्ते ऽभिधीयते-संभवत्यर्थवत्त्वे हि नानर्थक्यमुपेयते ।
बन्धस्य सदसत्त्वाभ्यां रूपमेकं विशिष्यते ॥
अनधिगतावबोधनं हि प्रमाणं शाब्दमगत्या कथञ्चिदनुवादतया वर्ण्यते ।
सकलसांसारिकधर्मापेतं तु प्रसन्नमात्मरूपमप्रसन्नात्तस्मादेव रूपाद्व्यावृत्तमनधिगतमवबोधयन्नानुवादो युज्यते ।
न चास्य निष्पत्त्यसंभवः, सत इव घटादेः सांव्यवहारिकेण प्रमाणेन बन्धविगमस्यापि निष्पत्तेर्लोकसिद्धत्वात् ।
विचारासहतया त्वसिद्धिरुभयत्रापि तुल्या ।
न ह्यसदुत्पत्तुमर्हतीत्यसकृदावेदितम् ।
अन्धो भवतीति स्वप्नावस्था दर्शिता बाह्येन्द्रियव्यापाराभावात् ।
रोदितीव जाग्रदवस्था दुःखशोकाद्यात्मकत्वात् ।
विनाशमेवापीत इति सुषुप्तिः ।
एवकारश्चेवार्थे ऽनवधारणे ॥1 ॥
स्तर्त् ब्स्व्भ्_4,4.1.2
मुक्तः प्रतिज्ञानात्

4.4.3

स्तर्त् ब्स्व्भ्_4,4.1.3
आत्मा प्रकरणात्

4.4.4

ननु ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यत इति पौर्वापर्यश्रवणात् स्वरूपनिष्पत्तेरन्या ज्योतिरुपसंपत्तिः तथाच भौतिकत्वे ऽपि न मोक्षव्याघातः ।
भवेदेतदेवं यदि ज्योतिरुपसंपद्य तत् परित्यजेदिति श्रूयेत ।
तदध्याहारे ऽपि तत्प्रतिपादनवैयर्थ्यं तदपरित्यागे च ज्योतिषैव स्वेन रूपेणेति गम्यते ।
तस्य च भूतत्वे विकारत्वान्मरणधर्मकत्वप्रसिद्धेरमुक्तित्वमिति प्राप्ते प्रत्युच्यते-ज्योतिष्पदस्य मुख्यत्वं भौतिके यद्यपि स्थितम् ।
तथापि प्रक्रमाद्वाक्यादात्मन्येवात्र युज्यते ॥
परं ज्योतिरिति हि परपदसमभिव्याहारात्परत्वस्य चानपेक्षस्य ब्रह्मण्येव प्रवृत्तेज्योतिषि चापरे किञ्चिदपेक्ष्य परत्वात्परं ज्योतिरिति वाक्यादात्मैवात्र गम्यते ।
प्रकरणं चोक्तम् ।
यत् संपद्य निष्पद्यत इति तन्मुखं व्यादाय स्वपितीतिवत् ।
तस्माज्ज्योतिरुपसंपन्नो मुक्त इति सूक्तम् ॥3॥
स्तर्त् ब्स्व्भ्_4,4.2.4
अविभागेन दृष्टत्वात्

4.4.5

यद्यपि जीवात्मा ब्रह्मणो न भिन्न इति तत्र तत्रोपपादितं तथापि स तत्र पर्येतीत्याधाराधेयभावव्यपदेशस्य संपत्तृसंपत्तव्यभावव्यपदेशस्य च समाधानार्थमाह ॥4॥
स्तर्त् ब्स्व्भ्_4,4.3.5
ब्राह्मेण जैमिनिर् उपन्यासादिभ्यः

4.4.6

उपन्यास उद्देशो ज्ञातस्य यथा य आत्मापहतपाप्मेत्यादिः ।
तथाज्ञातज्ञापनं विधिः ।
यथा स तत्र पर्येति जक्षद्रममाण इति, तस्य सर्वेषु लोकेषु कामचारो भवतीत्येतदज्ञातज्ञापनं विधिः ।
सर्वज्ञः सर्वेश्वर इति व्यपदेशः ।
नायमुद्देशो विधेयान्तराभावात् ।
नापि विधिरप्रतिपाद्यत्वात् ।
सिद्धवद्व्यपदेशात् ।
तन्निर्वचनसामर्थ्यादयमर्थः प्रतीयते-त एते उपन्यासादयः ।
एतेभ्यो हेतुभ्यः ।
भावाभावात्मकै रूपैर्भाविकैः परमेश्वरः ।
मुक्तः संपद्यते स्वैरित्याह स्म किल जैमिनिः ॥
न च चित्स्वभावस्यात्मनो ऽभावात्मानो ऽपहतपाप्मत्वादयो भावात्मनश्च सर्वज्ञत्वादयो धर्मा अद्वैतं घ्नन्ति ।
नो खलु धर्मिणो धर्मा भिद्यन्ते, मा भूद्गवाश्ववद्धर्मिधर्मभावाभाव इति जैमिनिराचार्य उवाच ॥5॥
स्तर्त् ब्स्व्भ्_4,4.3.6
चितितन्मात्रेण तदात्मकत्वाद् इत्य् औडुलोमिः

4.4.7

अनेकाकारतैकस्य नैकत्वान्नैकता भवेत् ।
परस्परविरोधेन न भेदाभेदसंभवः ॥
न ह्येकस्यात्मनः पारमार्थिकानेकधर्मसंभवः ।
ते चेदात्मनो भिद्यन्ते द्वैतापत्तेरद्वैतश्रुतयो व्यावर्तेरम् ।
अथ न भिद्यन्ते तत एकस्मादात्मनो ऽभेदान्मिथो ऽपि न भिद्येरन् ।
आत्मरूपवत् ।
आत्मरूपं वा भिद्येत ।
भिन्नेभ्यो ऽनन्यत्वान्नीलपीतरूपवत् ।
नच धर्मिण आत्मनो न भिद्यन्ते मिथस्तु भिद्यन्त इति साम्प्रतम् ।
धर्म्यभेदेन तदनन्यत्वेन तेषामप्यभेदप्रसङ्गात् ।
भेदे वा धर्मिणो ऽपि भेदप्रसङ्गादित्युक्तम् ।
भेदाभेदौ च परस्परविरोधादेकत्राभावान्न संभवत इत्युपपादितं प्रथमे सूत्रे ।
अभावरूपाणामद्वैताविहन्तृत्वे ऽपि तस्य पाप्मादेः काल्पनिकतया तदधीननिरूपणतया तेषामपि काल्पनिकत्वमिति न तात्त्विकी तद्धर्मता श्लिष्यते ।
एतेन सत्यकामसर्वज्ञसर्वेश्वरत्वादयो ऽप्यौपाधिका व्याख्याताः ।
तस्मान्निरस्ताशेषप्रपञ्चेनाव्यपदेश्येन चैतन्यमात्रात्मनाभिनिष्पद्यमानस्य मुक्तावात्मनोर्ऽथशून्यैरेवापहतपाप्मसत्यकामादिशब्दैर्व्यपदेश इत्यौडुलोमिर्मेने ।
तदिदमुक्तं- शब्दविकल्पजा एवैते अपहतपाप्मत्वादयो न तु सांव्यवहारिका अपीति ॥6॥
स्तर्त् ब्स्व्भ्_4,4.3.7
एवम् अप्य् उपन्यासात् पूर्वभावाद् अविरोधं बादरायणः

4.4.8

तदेतदतिशौण्डीर्यमौडुलोमेर्न मृष्यते ।
बादरायण आचार्यो मृष्यन्नपि हि तन्मतम् ॥
एवमपीत्यौडुलोमिमतमनुजानाति ।
शौण्डीर्यं तु न सहत इत्याह- व्यवहारापेक्षयेति ।
एतदुक्तं भवति-सत्यं तात्त्विकानन्दचैतन्यमात्र एवात्मा, अपहतपाप्मसत्यकामत्वादयस्त्वौपाधिकतयातात्त्विका अपि व्यावहारिकप्रमाणोपनीततया लोकसिद्धा नात्यन्तासन्तो येन तच्छब्दा राहोः शिर इतिवदवास्तवा इत्यर्थः ॥7॥
स्तर्त् ब्स्व्भ्_4,4.4.8
संकल्पाद् एव तु तच्छ्रुतेः

4.4.9

यत्नानपेक्षः संकल्पो लोके वस्तुप्रसाधनः ।
न दृष्टः सो ऽत्र यत्नस्य लाघवादवधारितः ॥
लोके हि कञ्चिदर्थं चिकीर्षुः प्रयतते प्रयतमानः समीहते समीहानस्तमर्थमाप्नोतीति क्रमो दृष्टः ।
न त्विच्छानन्तरमेवास्येष्यमाणमुपतिष्ठते ।
तेन श्रुत्यापि लोकवृत्तमनुरुध्यमानया विदुषस्तादृश एव क्रमो ऽनुमन्तव्यः ।
अवधारणं तु संकल्पादेवेति लौकिकं यत्नगौरवमपेक्ष्य विद्याप्रभावतो विदुषो यत्नलाघवात् ।
यल्लघु तदसत्कल्पमिति ।
स्यादेतत् ।
यथा मनोरथमात्रोपस्थापिता स्त्री स्त्रैणानां चरमधातुविसर्गहेतुरेवं पित्रादयो ऽप्यस्य संकल्पोपस्थापिताः कल्पिष्यन्ते स्वकार्यायेत्यत आह- नच संकल्पमात्रसमुत्थापना इति ।
सन्ति हि खलु कानिचिद्वस्तुस्वरूपसाध्यानि कार्याणि यथा स्त्रीवस्तुसाध्यानि दन्तक्षतमणिमालादीनि ।
कानिचित्तु ज्ञानसाध्यानि यथोक्तचरमधातुविसर्गरोमहर्षादीनि ।
तत्र मनोरथमात्रोपनीते पित्रादौ भवन्तु तज्ज्ञानमात्रसाध्यानि कार्याणि नतु तत्साध्यानि भवितुमर्हन्ति ।
नहि स्त्रैणस्य रोमहर्षादिवद्भवन्ति स्त्रीवस्तुसाध्या मणिमालादयस्तदिदमुक्तं पुष्कलं भोग मिति प्राप्ते ऽभिधीयते- पित्रादीनां समुत्थानं संकल्पादेव तच्छ्रुतेः ।
न चानुमानबाधो ऽत्र श्रुत्या तस्यैव बाधनात् ॥
प्रमाणान्तरानपेक्षा हि श्रुतिः स्वार्थं गोचरयन्ती न प्रमाणान्तरेण शक्या बाधितुम् ।
अनुमानमेव तु स्वोत्पादाय पक्षधर्मत्वादिवन्मानान्तराबाधितविषयत्वं स्वसामग्रीमध्यपातेनापेक्षमाणं सामग्रीखण्डनेन तद्विरुद्धया श्रुत्या बाध्यते ।
अत एव नरशिरःकपालादिशौचानुमानमागमबाधितविषयतया नोपपद्यते ।
तस्माद्विद्याप्रभावाद्विदुषां संकल्पमात्रादेव पित्राद्युपस्थानमिति सांप्रतम् ।
तथाहुरागमिनः-को हि योगप्रभावादृते ऽगस्त्य इव समुद्रं पिबति स इव दण्डकारण्यं सृजति ।
तस्मात्सर्वमवदातम् ॥8 ॥
स्तर्त् ब्स्व्भ्_4,4.4.9
अत एव चानन्याधिपतिः

4.4.10

स्तर्त् ब्स्व्भ्_4,4.5.10
अभावं बादरिर् आह ह्य् एवम्

4.4.11

अन्ययोगव्यच्छित्त्या मनसेति विशेषणात् ।
देहेन्द्रियवियोगः स्याद्विदुषो बादरेर्मतम् ॥
अनेकधाभावश्चर्द्धिप्रभावभुवो मनोभेदाद्वा स्तुतिमात्रं वा कथञ्चिद्भूमविद्यायां निर्गुणायां तदसंभवादसतापि हि गुणेन स्तुतिर्भवत्येवेति ॥10॥
स्तर्त् ब्स्व्भ्_4,4.5.11
भावं जैमिनिर् विकल्पामननात्

4.4.12

शरीरेन्द्रियभेदे हि नानाभावः समञ्जसः ।
न चार्थसंभवे युक्तं स्तुतिमात्रमनर्थकम् ॥
नहि मनोमात्रभेदे स्फुटतरो ऽनेकधाभावो यथा शरीरेन्द्रियभेदे ।
अत एव सौभरेरभिविनिर्मितविविधदेहस्यापर्यायेण मान्धातृकन्याभिः पञ्चाशता विहारः पैराणिकैः स्मर्यते ।
न चार्थसंभवे स्तुतिमात्रमनर्थकमवकल्पते ।
संभवति चास्यार्थवत्त्वम् ।
यद्यपि निर्गुणायमिदं भौमविद्यायां पठ्यते तथापि तस्याः पुरस्तादनेन सगुणावस्थागतेनैश्वर्येण निर्गुणैव विद्या स्तूयते ।
न चान्ययोगव्यवच्छेदेनैव विशेषणम् ।
यथा चैत्रो धनुर्धरः ।
तस्मान्मनः शरीरेन्द्रिययोग ऐश्वर्यशालिनां नियमेनेति मेने जैमिनिः ॥11॥
स्तर्त् ब्स्व्भ्_4,4.5.12
द्वादशाहवद् उभयविधं बादरायणो ऽतः

4.4.13

मनसेति केवलमनोविषयां च स एकधा भवति त्रिधा भवतीति शरीरेन्द्रियभेदविषयां च श्रुतिमुपलभ्यानियमवादी खलु बादरायणो नियमवादौ पूर्वयोर्न सहते ।
द्विविधश्रुत्यनुरोधात् ।
न चायोगव्यवच्छेदेनैवंविधेषु विशेषणमवकल्प्यते ।
कामेषु हि रमणं समनस्केन्द्रियेण शरीरेण पुरुषाणां सिद्धमेवेति नास्ति शङ्का मनोयोगस्येति तद्व्यवच्छेदो व्यर्थः ।
सिद्धस्य तु मनोयोगस्य तदन्यपरिसंख्यानेनार्थवत्त्वमवकल्पते ।
तस्माद्वामेनाक्ष्णा पश्यतीतिवदत्रान्ययोगव्यवच्छेद इति सांप्रतम् ।
द्वादशाहवदिति ।
द्वादशाहस्य सत्रत्वमासनोपायिचोदने ।
अहीनत्वं च यजतिचोदने सति गम्यते ॥
द्वादशाहमृद्धिकामा उपेयुरित्युपायिचोदनेन य एवं विद्वांसः सत्रमुपयन्तीति च द्वादशाहस्य सत्रत्वं बहुकर्तृकस्य गम्यते ।
एवं तस्यैव द्वादशाहेन प्रजाकामं याजयेदिति यजतिचोदनेन नियतकर्तृपरिमाणत्वेन द्विरात्रेण यजतेत्यादिवदहीनत्वमपि गम्यत इति ।
संप्रति शरीरेन्द्रियाभावेन मनोमात्रेण विदुषः स्वप्नवत्सूक्ष्मो भोगो भवति ।
कुतः-उपपत्तेः ।
मनसैतानिति श्रुतेः ।
यदि पुनः सुषुप्तवदभोगो भवेत् नैषा श्रुतिरुपपद्येत ।
नच सशरीरवदुपभोगः शरीराद्युपादानवैयर्थ्यात् ।
सशरीरस्य तु पुष्कलो भोगः ।
इहाप्युपपत्तेरित्यनुषञ्जनीयम् ।
तदिदमुक्तं सूत्राभ्याम् तन्वभावे संध्यवदुपपत्तेः ।
भावे जाग्रद्वत् ।
इति ॥12 ॥
स्तर्त् ब्स्व्भ्_4,4.5.13-14
तन्वभावे सन्ध्यवद् उपपत्तेः

4.4.14

भावे जाग्रद्वत्

4.4.15

स्तर्त् ब्स्व्भ्_4,4.6.15
प्रदीपवदावेशस् तथा हि दर्शयति

4.4.16

वस्तुतः परमात्मनो ऽभिन्नो ऽप्ययं विज्ञानात्मानाद्यविद्याकल्पितप्रादेशिकान्तःकरणावच्छेदेनानादिजीवभावमापन्नः प्रादेशिकः सन्न देहान्तराणि स्वभावनिर्मितान्यपि नानाप्रदेशवर्तीनि सान्तःकरणो युगपदावेष्टुमर्हति ।
न वात्मान्तरं स्रष्टुमपि ।
सृज्यमानस्य स्रष्ट्रतिरेके ऽनात्मत्वादात्मत्वे वा कर्तृकर्मभावाभावाद्भेदाश्रयत्वादयस्य ।
नाप्यन्तःकरणान्तरं तत्र सृजति सृज्यमानस्य तदुपाधित्वाभावात् ।
अनादिना खल्वन्तःकरणेनौत्पत्तिकेनायमवरुद्धो नेदानीन्तनेनान्तःकरणेनोपाधितया संबद्धुमर्हति ।
तस्माद्यथा दारुयन्त्रं तत्प्रयोक्त्रा चेतनेनाधिष्ठितं सत्तदिच्छामनुरुध्यते ।
एवं निर्माणशरीराण्यपि सेन्द्रियाणीति प्राप्ते प्रत्यभिधीयते-शरीरत्वं न जातु स्याद्भोगाधिष्ठानतां विना ।
स त्रिधेति शरीरत्वमुक्तं युक्तं च तद्विभौ ॥
स त्रिधा भवति पञ्चधा सप्तधा नवधेत्यादिका श्रुतिर्विदुषो नानाभावमाचक्षाणा भिन्नशरीरेन्द्रियोपाधिसंबन्धे ऽवकल्पते नादेहहेतु(भूत)भेदे ।
नहि यन्त्राणि भिन्नानि निर्माय वाहयन्यन्त्रवाहो नानात्वेनापदिश्यते ।
भोगाधिष्ठानत्वं च शरीरत्वं नाभोगाधिष्ठानेषु यन्त्रेष्विव युज्यते ।
तस्माद्देहान्तराणि सृजति ।
न वानेनाधिष्ठितानि देहपक्षे वर्तन्ते ।
नच सर्वगतस्य वस्तुतो विगलितप्रायाविद्यस्य विदुषः पृथग्जनस्येवौत्पत्तिकान्तःकरणवश्यता येन तदौत्पत्तिकमन्तःकरणमागन्तुकान्तःकरणान्तरसंबन्धमस्य वारयेत् ।
तस्माद्विद्वान् सर्वस्य वशी सर्वेश्वरः सत्यसंकल्पः सेन्द्रियमनांसि शरीराणि निर्माय तानि चैकपदे प्रविश्य तत्तदिन्द्रियमन्तःकरणैस्तेषु लोकेषु मुक्तो विहरतीति सांप्रतम् ।
प्रदीपवदिति तु निदर्शनं प्रदीपैक्यं प्रदीपव्यक्तिषूपचर्यते भिन्नवर्तिवर्तिनीनां भिन्नव्यक्तीनां भेदात् ।
एवं विद्वाञ्जीवात्मा देहभेदे ऽप्येक इति परामर्शार्थः ।
एकमनोनुवर्तीनि त्येकाभिप्रायवर्तीनीत्यर्थः ॥15॥
संपन्नः केवलो मुक्त इत्युच्यते ।
न चैतस्येत्थंभावसंभवः श्रुतिविरोधादित्युक्तमर्थजातमाक्षिपति- कथं पुनर्मुक्तस्येति ।
सलिल इति ।
सलिलमिव सलिलः सलिलप्रातिपदिकात्सर्वप्रातिपदिकेभ्य इत्युपमानादाचारे क्विपि कृते पचाद्यचि च कृते रूपम् ।
एतदुक्तं भवति-यथा सलिलमम्भोनिधौ प्रक्षिप्तं तदेकीभावमुपयाति ।
एवं द्रष्टापि ब्रह्मणेति ।
स्तर्त् ब्स्व्भ्_4,4.6.16
अत्रोत्तरं सूत्रम्-
स्वाप्ययसंपत्त्योर् अन्यतरापेक्षम् आविष्कृतं हि

4.4.17

आसु काश्चिच्छ्रुतयः सुषुप्तिमपेक्ष्य काश्चित्तु संपत्तिं तदधिकारात् ।
ऐश्वर्यश्रुतयस्तु सगुणविद्याविपाकावस्थापेक्षा मुक्त्यभिसंधानं तु तदवस्थासत्तेर्यथारुणदर्शने संध्यायां दिवसाभिधानम् ॥16॥
स्तर्त् ब्स्व्भ्_4,4.7.17
जगद्व्यापारवर्जं प्रकरणाद् असंनिहितत्वाच् च

4.4.18

स्वाराज्यकामचारादिश्रुतिभ्यः स्यान्निरङ्कुशः ।
स्वकार्य ईश्वराधीनसिद्धिरप्यत्र साधकः ॥
ऽआप्नोति स्वाराज्यंऽ ऽसर्वे ऽस्मै देवा बलिमावहन्तिऽ ऽसर्वेषु लोकेषु कामचारो भवतिऽइत्यादिश्रुतिभ्यो विदुषः परब्रह्मण इवान्यानधीनत्वमैश्वर्यमवगम्यते ।
नन्वस्य ब्रह्मोपासनालब्धमैश्वर्यं कथं ब्रह्माधीनं न तु स्वभावः ।
नहि कारणाधीनजन्मानो भावाः स्वकार्ये स्वकारणमपेक्षन्ते ।
किं त्वत्र ते स्वतन्त्रा एव ।
यथाहुः-मृत्पिण्डदण्डचक्रादि घटो जन्मन्यपेक्षते ।
उदकाहरणे त्वस्य तदपेक्षा न विद्यते ॥
न च विदुषां परमेश्वराधीनैश्वर्यसिद्धित्वात्तद्गतमैश्वर्यं येन लौकिका इव राजानो महाराजाधीनः स्वव्यापारे विद्वांसः परमेश्वराधीना भवेयुः ।
न खलु यदधीनोत्पादं यस्य रूपं तत्तद्रूपादूनं भवतीति कश्चिन्नियमः ।
तत्समानां तदधिकानां च दर्शनात्तथा ह्यन्तेवासी गुर्वधीनविधः तत्समस्तदधिको वा दृश्यते ।
दुष्टसामन्ताश्च पार्थिवाधीनैश्वर्याः पार्थिवान्स्पर्धमानास्तान्विजयमाना वा दृश्यन्ते ।
तदिह निरतिशयैश्वर्यत्वात् परमेश्वरस्य मा नाम भूवन्विद्वांसस्ततो ऽधिकास्तत्समास्तु भविष्यन्ति ।
तथाच न तदधीनाः ।
नहि समप्रधानभावानामस्ति मिथो ऽपेक्षा ।
तदेते स्वतन्त्राः सन्तस्तद्व्यापारे जगत्सर्जने ऽपि प्रवर्तेरन्निति प्राप्ते प्रत्यभिधीयते-नित्यत्वादनपेक्षत्वात् श्रुतेस्तत्प्रक्रमादपि ।
एक्यमत्याच्च विदुषां परमेश्वरतन्त्रता ॥
जगत्सर्गलक्षणं हि कार्यं कारणैकस्वभावस्यैव हि भवतु आहो कार्यकारणस्वभावस्य ।
तत्रोभयस्वभावस्य स्वोत्पत्तौ मूलकारणापेक्षस्य पूर्वसिद्धः परमेश्वर एव कारणमभ्युपेतव्य इति स एवैको ऽस्तु जगत्कारणम् ।
तस्यैव नित्यत्वेन स्वकारणानपेक्षस्य कॢप्तसामर्थ्यात् ।
कल्प्यसामर्थ्यास्तु जगत्सर्जनं प्रति विद्वांसः ।
न च जगत्स्रष्टृत्वमेषां श्रूयते ।
श्रूयते त्वत्रभवतः परमेश्वरस्यैव ।
तमेव प्रकृत्य सर्वासां तच्छ्रुतीनां प्रवृत्तेः ।
अपिच समप्रधानानां हि न नियमवदैकमत्यं दृष्टमिति यदैकः सिसृक्षति तदैवेतरः संजिहीर्षतीत्यपर्यायेण सृष्टिसंहारौ स्याताम् ।
न चोभयोरपीश्वरत्वं व्याघातम् ।
एकस्य तु तदाधिपत्ये तदभिप्रायानुरोधिनां सर्वेषामैकमत्योपपत्तेरदोषः ।
तत्रागन्तुकानां कारणाधीनजन्मैश्वर्याणां गृह्यमाणविशेषतयासमत्वान्नित्यैश्वर्यशालिनः स एव तेषामधीश इति तत्तन्त्रा विद्वांस इति परमेश्वरव्यापारस्य सर्गसंहारस्य नेशते ॥17॥
स्तर्त् ब्स्व्भ्_4,4.7.18
पूर्वपक्षिणो ऽनुशयबीजमाशङ्क्य निराकरोति-
प्रत्यक्षोपदेशाद् इति चेन् नाधिकारिकमण्डलस्थोक्तेः

4.4.19

प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्तेः ।
यतः परमेश्वराधीनमैश्वर्यं तस्मात्ततो न्यूनमणिमादिमात्रं स्वाराज्यं न तु जदत्स्रष्टृत्वम् ।
उक्तान्न्यायात् ॥18॥
स्तर्त् ब्स्व्भ्_4,4.7.19
विकारवर्ति च तथा हि स्थितिम् आह

4.4.20

एतावानस्य महिमेति विकारवर्ति रूपमुक्तम् ।
ततो ज्यायांश्चेति निर्विकारं रूपम् ।
तथा पादो ऽस्य विश्वा भूतानीति विकारवर्ति रूपं त्रिपादस्यामृतं दिवीति निर्विकारमाह रूपम् ॥19॥
स्तर्त् ब्स्व्भ्_4,4.7.20
दर्शयतश् चैवं प्रत्यक्षानुमाने

4.4.21

दर्शयतश्चापरे श्रुतिस्मृती निर्विकारमेव रूपं भगवतस्ते च पठिते ।
एतदुक्तं भवति-यदि ब्रूषे सगुणे ब्रह्मण्युपास्यमाने यथा तद्गुणस्य निरवग्रहत्वमपि वस्तुतो ऽस्तीति निरवग्रहत्वे विदुषा प्राप्तव्यमिति तदनेन व्यभिचारयते ।
यथा सविकारे ब्रह्मण्युपास्यमाने वस्तुतः स्थितमपि निर्विकाररूपं न प्राप्यते तत्कस्य हेतोः, अतत्क्रतुत्वादुपासकस्य ।
तथा तद्गुणोपासनया वस्तुतः स्थितमपि निरवग्रहत्वं नाप्यते ।
तत्त्वोपासनासु पुरुषक्रतुत्वात् ।
उपासकस्य तदक्रतुत्वं च निरवग्रहत्वस्योपासनविध्यगोचरत्वाद्विध्यधीनत्वाच्चोपासनासु पुरुषस्वातन्त्र्याभावात्स्वातन्त्र्ये वा प्रातिभत्वप्रसङ्गादिति ॥20॥
स्तर्त् ब्स्व्भ्_4,4.7.21
भोगमात्रसाम्यलिङ्गाच् च

4.4.22

न केवलं स्वाराज्यस्येश्वराधीनतयाजगत्सर्जनम्, साक्षाद्भोगमात्रेण तेन परमेश्वरेण साम्याभिधानादपि व्यपदेशलिङ्गादिति ।
भूतान्यवन्ति प्रीणयन्तीति भोजयन्तीति यावत् ।
सूत्रान्तरावतारणाय शङ्कते- नन्वेवं सति सातिशयत्वादिति ।
सह परमेश्वरस्यातिशयेन वर्तत इति विदुष ऐश्वर्यं सातिशयम् ।
यच्च कार्यं सातिशयं तच्च यथा लौकिकमैश्वर्यम् ।
तदनेन कार्यत्वमुक्तम् ।
तथाच कार्यत्वादन्तवत्प्राप्तमिति तच्च न युक्तमानन्त्येन तद्विदुषां तत्र प्रवृत्तेरिति ॥21॥
स्तर्त् ब्स्व्भ्_4,4.7.22
अत उत्तरं पठति-
अनावृत्तिः शब्दाद् अनावृत्तिः शब्दात्

मूल पाठ: Brahmasūtra2 with Vācaspati's Bhāmatī (a subcommentary on Śaṃkara's Śārīrakamīmāṃsābhāṣya) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc