भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मसूत्र2 · अध्याय 4.2

4.2.1

अनारब्धकार्य इत्यस्य नञः फलं भोगेन निवृत्तिं दर्शयत्यनेन सूत्रेण ।
अस्य तूपपादनं पुरस्तादपकृष्य कृतमिति नेह क्रियते पुनरुक्तिभयात् ॥19॥
इति श्रीवाचस्पतिमिश्रविरचिते शारीरकभगवत्पादभाष्यविभागे भामत्यां चतुर्थस्याध्यायस्य प्रथमः पादः समाप्तः ॥
चतुर्थे ऽध्याये द्वितीयः पादः ।
स्तर्त् ब्स्व्भ्_4,2.1.1
वाङ्मनसि दर्शनाच् छब्दाच् च

4.2.2

अथास्मिन् फलविचारलक्षणे वाङ्मनसि संपद्यत इत्यादिविचारो ऽसंगत इत्यत आह--
अथापरासु विद्यासु फलप्राप्तय इति ।
अपरविद्याफलप्राप्त्यर्थदेवयानमार्गार्थत्वादुत्क्रान्तेस्तद्गतो विचारः पारम्पर्येण भवति फलविचार इति नासंगत इत्यर्थः ।
नन्वयमुत्क्रान्तिक्रमो विदुषो नोपपद्यते ऽन तस्य प्राणा उत्क्रामन्त्यत्रैव समवनीयन्तेऽइति श्रवणात्तत्कथमस्य विद्याधिकार इत्यत आह--
समाना हि विद्वदविदुषोरिति ।
विषयमाह--
अस्तीति ।
विमृशति--
किमिहेति ।
विशयः संशयः ।
पूर्वपक्षमाह--
तत्र वागेवेति ।
श्रतिलक्षणाविशये संशये ।
सिद्धान्तसूत्रं पूरयित्वा पठति--
वाग्वृत्तिर्मनसि संपद्यते इति ।
वृत्त्यध्याहारप्रयोजनं प्रश्नपूर्वकमाह कथमिति ।
उत्तराधिकरणपर्यालोचनेनैवं पूरितमित्यर्थः ।
तत्त्वस्य धर्मिणो वाचः प्रलयविवक्षायां त्विह सर्वत्रैव परत्रेह चाविभागसाम्यात्किं परत्रैव विशिंष्यादविभाग इति न त्वत्रापि ।
तस्मादिहाविभागेनाविंशिषतो ऽत्र वृत्त्युपसंहारमात्रविवक्षा सूत्रकारस्येति गम्यते ।
सिद्धान्तहेतुं प्रश्नपूर्वकमाह--
कस्मादिति ।
सत्यामेव मनोवृत्तौ वाग्वृत्तेरुपसंहारदर्शनात् ।
वाचस्तूपसंहारमदृष्टं नागमो ऽपि गमयितुमर्हति ।
आगमप्रभवयुक्तिविरोधाश्च ।
आगमो हि दृष्टानुसारतः प्रकृतौ विकाराणां लयमाह ।
न च वाचः प्रकृतिर्मनो येनास्मिन्नियं लीयेत ।
तस्मात्वृत्तिवृत्तिमतोरभेदविवक्षया वाक्पदं तद्वृत्तौ व्याख्येयम् ।
संभवति च वाग्वृत्तेर्वागप्रकृतावपि मनसि लयः ।
तथा तत्र तत्र दर्शनादित्याह--
वृत्त्युद्भवाभिभवाविति ॥1॥
स्तर्त् ब्स्व्भ्_4,2.1.2
अत एव च सर्वाण्यनु

4.2.3

यत एव प्रकृतिविकारभावाभावन्मनसि न स्वरूपलयो वाचो ऽपि तु वृत्तिलयः, अत एव च सर्वेषां चक्षुरादीनामिद्रियाणां सत्येव सवृत्तिके मनसि वृत्तेरनुगतिर्लयो न स्वरूपलयः ।
वाचस्तु पृथक् ग्रहणं पूर्वसूत्रे उदाहरणापेक्षं न तु तदेवेह विवक्षितमित्यर्थः ॥2॥
स्तर्त् ब्स्व्भ्_4,2.2.3
तन्मनः प्राण उत्तरात्

4.2.4

यदि स्वप्रकृतौ विकारस्य लयस्ततो मनः प्राणे संपद्यते इत्यत्र मनःस्वरूपस्यैव प्राणे संपत्त्या भवितव्यम् ।
तथा हि मनः इति नोपचारतो व्याख्यानं भविष्यति ।
संभवति हि प्रकृतिविकारभावः प्राणमनसोः ।
अन्नमयं हि सोम्य मन इत्यन्नात्मतामाह मनसः श्रुतिरापोमयः प्राण इति च प्राणस्याबात्मताम् ।
प्रकृतिविकारयोस्तादात्म्यात् ।
तथा च प्राणो मनसः प्रकृतिरिति मनसो वृत्तिमतः प्राणे लय इति प्राप्ते ऽभिधीयते--सत्यम्, आपो ऽन्नमसृजन्त इति श्रुतेरबन्नयोः प्रकृतिविकारभावो ऽवगम्यते ।
न तु तद्विकारयोः प्राणमनसोः ।
स्वयोनिप्राणाडिकया तु मिथो विकारयोः प्रकृतिविकारभावाभ्युपगमे संकरादतिप्रसङ्गः स्यात् ।
तस्माद्यो यस्य साक्षाद्विकारस्तस्य तत्र लय इत्यन्नस्याप्सु लयो न त्वब्विकारे प्राणे ऽन्नविकारस्य मनसः ।
तथा चात्रापि मनोवृत्तेर्वृत्तिमति प्राणे लयो न तु वृत्तिमतो मनस इति सिद्धम् ॥3॥
स्तर्त् ब्स्व्भ्_4,2.3.4
सो ऽध्यक्षे तदुपगमादिभ्यः

4.2.5

प्राणस्तेजसीति तेजःशब्दस्य भूतविशेषवचनत्वाद्विज्ञानात्मनि चाप्रसिद्धेः प्राणस्य जीवात्मन्युपगमानुगमावस्थानश्रुतीनां च तेजोद्धारेणाप्युपपत्तेः ।
तेजसि समापन्नवृत्तिः खलु प्राणः ।
तेजस्तु जीवात्मनि समापन्नवृत्ति ।
तद्वारा जीवात्मसमापन्नवृत्तिः प्राण इत्युपपद्यते ।
तस्मात्तेजस्येव प्राणवृत्तिप्रविलय इति प्राप्ते ऽभिधीयते---स प्रकृतःप्राणो ऽध्यक्षे विज्ञानात्मन्यवतिष्ठते तत्तन्त्रवृत्तिर्भवति ।
कुतः--उपगमानुगमावस्थानेभ्यो हेतुभ्यः ।
तत्रोपगमश्रुतिमाह--
एवमेवेममात्मानमिति ।
अनुगमनश्रुतिमाह--
तमुत्क्रामन्तमिति ।
अवस्थानश्रुतिमाह-
सविज्ञानो भवतीति चेति ।
विज्ञायते ऽनेनेति विज्ञानं पञ्चवृत्तिप्राणसहित इन्द्रियग्रामस्तेन सहावतिष्ठत इति सविज्ञानः ।
चोदयति--
ननु प्रामस्तेजसीति श्रूयत इति ।
अधिकावापो ऽशब्दार्थव्याख्यानम् ।
परिहरति--
नैष दोष इति ।
यद्यपि प्राणस्तेजसीत्यतस्तेजसि प्राणवृत्तिलयः प्रतीयते, तथापि सर्वशाखाप्रत्ययत्वेन विद्यानां श्रुत्यन्तरालोचनया विज्ञानात्मनि लयो ऽवगम्यते ।
न च तेजसस्तत्रापि लय इति साम्प्रतम् ।
तस्यानिलाकाशक्रमेण परमात्मनि तत्त्वलयावगमात् ।
तस्मात्तेजोग्रहणेनोपलक्ष्यते तेजः सहचरितदेहबीजभूतपञ्चभूतसूक्ष्मपरिचाराध्यक्षो जीवात्मा तस्मिन् प्राणवृत्तिरप्येतीति ।
चोदयति--
ननु चेयं श्रुतिरिति ।
तेजःसहचरितानि भूतान्युपलक्ष्यन्तां तेजःशब्देनाध्यक्षे तु किमायातं तस्य तदसाहचर्यादित्यर्थः ।
परिहरति--
सो ऽध्यक्ष इत्यध्यक्षस्यापीति ।
यदा ह्ययं प्राणो ऽन्तराले ऽध्यक्षं प्राप्याध्यक्षसंपर्कवशादेव तेजःप्रभृतीनि भूतसूक्ष्माणि प्राप्नोति तदोपपद्यते प्राणस्तेजसीति ।
अत्रैव दृष्टान्तमाह---
यो ऽपि स्रुघ्नादिति ॥4 ॥
स्तर्त् ब्स्व्भ्_4,2.3.5
भूतेषु तच्छ्रुतेः

4.2.6

स्तर्त् ब्स्व्भ्_4,2.3.6
सूत्रान्तरमवतारयितुं पृच्छति--
कथं तेजःसहचरितेष्विति ।
नैकस्मिन् दर्शयतो हि

4.2.7

अत्र भाष्यकारो ऽनुमानदर्शनमाह--
कार्यस्य शरीरस्येति ।
स्थूलशरीरानुरूपमनुमेयं सूक्ष्ममपि शरीरं पञ्चात्मकमित्यर्थः ।
दर्शयत इति सूत्रावयवं व्याचष्टे--
दर्शयतश्चैतमर्थमिति ।
प्रश्नप्रतिवचनाभिप्रायं द्विवचनं श्रुतिस्मृत्यभिप्रायं वा ।
अण्व्यो मात्राः सूक्ष्मा दशार्धानां पञ्चभूतानामिति ।
श्रुत्यन्तरविरोधं चोदयति--
ननु चोपसंहृतेषु वागादिष्विति ।
कर्माश्रयतेति प्रतीयते न भूताश्रयतेत्यर्थः ।
परिहरति--
अत्रोच्यत इति ।
ग्रहा इन्द्रियाणि अतिग्रहास्तद्विषयाः ।
कर्मणां प्रयोजकत्वेनाश्रयत्वं भूतानां तूपादानत्वेनेत्यविरोधः ।
प्रशंसाशब्दो ऽपि
कर्मणां प्रयोजकतया प्रकृष्टमाश्रयत्वं ब्रूते सति निकृष्ट आश्रयान्तरे तदुपपत्तेरित्याह--
प्रशंसाशब्दादपि तत्रेति ॥6॥
स्तर्त् ब्स्व्भ्_4,2.4.7
समाना चासृत्युपक्रमाद् अमृतत्वं चानुपोष्य

4.2.8

अत्रामृतत्वप्राप्तिश्रुतेः परविद्यावन्तं प्रत्येतदिति मन्वानस्य पूर्वः पक्षः ।
विशयानानां संदिहानानां पुंसाम् ।
चोदयति--
ननु विद्याप्रकरण इति ।
परिहरति--
न स्वापादिवदिति ।
परविद्ययैवामृतत्वप्राप्त्यवस्थामाख्यातुं तत्सधर्माश्च तद्विधर्माश्चान्या अप्यवस्थास्तदनुगुणतयाख्यायन्ते ।
साधर्म्यवैधर्म्याभ्यां हि स्फुटतरः प्रतिपिपादयिषिते वस्तुनि प्रत्ययो भवतीति ।
न तु विदुषः सकाशाद्विशेषवन्तो ऽविद्वांसो विधीयन्ते येन विद्याप्रकरणव्याख्यातो भवेदपि तु विद्यां प्रतिपादयितुं लोकसिद्धानां तदनुगुणतया तेषामनुवाद इति ।
एवं प्राप्ते ऽभिधीयते---
समाना चैषोत्क्रान्तिर्वाङ्मनसीत्याद्या विद्वदविदुषोः ।
कुतः--
आसृत्युपकृमात् ।
सृतिः सरणं देवयानेन पथा कार्यब्रह्मलोकप्राप्तिरासृतेराकार्यब्रह्मलोकप्राप्तेः ।
अयं विद्योपक्रम आरम्भः प्रयत्न इति यावत् ।
तस्मादेतदुक्तं भवति--नेयं परा विद्या यतो नाडीद्वारमाश्रयते ।
अपि त्वपरविद्येयम् ।
न चास्यामात्यन्तिकः क्लेशप्रदाहो यतो न तत्रोत्क्रान्तिर्भवेत् ।
तस्मादपरविद्यासामर्थ्यादापेक्षिकभाभूतसंप्लवस्थानममृतत्वं प्रेप्सते पुरुषार्थाय संभवत्येष उत्क्रान्तिभेदवान् सृत्युपक्रमोपदेशः ।
उपपूर्वादुष दाह इत्यस्मादुपोष्येति प्रयोगः ॥7॥
स्तर्त् ब्स्व्भ्_4,2.5.8
तदापीतेः संसारव्यपदेशात्

4.2.9

सिद्धां कृत्वा बीजभावावशेषं परमात्मसंपत्तिं विद्वदविदुषोरुत्क्रान्तिः समर्थिता ।
सैव संप्रति चिन्त्यते ।
किमात्मनि तेजःप्रभृतीनां भूतसूक्ष्माणां तत्वप्रविलय एव संपत्तिराहोस्विद्बीजभावावशेषेति ।
यदि पूर्वः पक्षः, नोत्क्रान्तिः ।
अथोत्तरः ततः सेति ।
तत्राप्रकृतौ न विकारतत्त्वप्रविलयो यथा मनसि न वागादीनाम् ।
सर्वस्य च जनिमतः प्रकृतिः परा देवतेति तत्त्वप्रलय एवात्यन्तिकः स्यात्तेजःप्रभृतीनामिति प्राप्ते ऽभिधीयते--ऽयोनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः ।
स्थाणुमन्ये ऽनुसंयन्ति यथाकर्म यथाश्रुतम् ॥
ऽइत्यविद्यावतः संसारमुपदिशति श्रुतिः सेयमात्यन्तिके तत्त्वलये नोपपद्यते ।
न च प्रायणस्यैवैष महिमा विद्वासमविद्वांसं वा प्रतीति सांप्रतमित्याह--
अन्यथा हि सर्वः प्रायणसमय एवेति ।
विधिशास्त्रं ज्योतिष्टोमादिविषयमनर्थकं प्रायणादेवात्यन्तिकप्रलये पुनर्भवाभावात् ।
मोक्षशास्त्रं चाप्रयत्नलभ्यात्प्रायणादेव जन्तुमात्रस्य मोक्षप्राप्तेः ।
न केवलं शास्त्रानर्थक्यमयुक्तश्च प्रायणमात्रान्मोक्ष इत्याह--
मिथ्याज्ञानेति ।
नासति निदानप्रशमे प्रशमस्तद्वतो युज्यत इत्यर्थः ॥8॥
स्तर्त् ब्स्व्भ्_4,2.5.9
अथेतरभूतसहितं तेजो जीवस्याश्रयभूतमुत्क्रमद्देहाद्देहान्तरं वा संचरत्कस्मादस्माभिर्न निरीक्ष्यते ।
तद्धि महत्त्वाद्वानेकद्रव्यत्वाद्वा रूपवदुपलब्दव्यम् ।
कस्मान्न मूर्तान्तरैः प्रतिबध्यत इति शङ्कामपाकर्तुमिदं सूत्रम्--
सूक्ष्मं प्रमाणतश् च तथोपलब्धेः

4.2.10

चकारो भिन्नक्रमः ।
न केवलमापीतेस्तदवतिष्ठते ।
तच्च सूक्ष्मं स्वरूपतः परिमाणतश्च स्वरूपमेव हि तस्य तादृशमदृश्यम् ।
यथा चाक्षुषस्य तेजसो महतो ऽपि अदृष्टवशादनुद्भूतरूपस्पर्शं हि तत् ।
परिमाणतः सौक्ष्म्यं यतो नोपलभ्यते यथा त्रसरेणवो जालसूर्यमरीचिभ्यो ऽन्यत्र प्रमाणतस्तथोपलब्धिरिति व्याचष्टे--
तथाहि नाडीनिष्क्रमण इति ।
आदिग्रहणेन चक्षुष्टो वा मूर्धो वा अन्येभ्यो वा शरीरदेशेभ्य इति संगृहीतम् ।
अप्रतिघाते हेतुमाह--
स्वच्छत्वाच्चेति ।
एतदपि हि सूक्ष्मत्वेनैव संगृहीतम् ।
यथा हि काचाभ्रपटलं स्वच्छस्वभावस्य न तेजसः प्रतिधातम् ।
एवं सर्वमेव वस्तुजातमस्येति ॥9॥
स्तर्त् ब्स्व्भ्_4,2.5.10
नोपमर्देनातः

4.2.11

अत एव च स्वच्छतालक्षणात्सौक्ष्म्यादसक्तत्वापरनाम्नः ॥10॥
स्तर्त् ब्स्व्भ्_4,2.5.11
अस्यैव चोपपत्तेर् एष ऊष्मा

4.2.12

उपपत्तिः प्राप्तिः ।
एतदुक्तं भवति--दृष्टश्रुताभ्यामूष्मणो ऽन्वयव्यतिरेकाभ्यामस्ति स्थूलाद्देहादतिरिक्तं किञ्चिच्चदामात्सूक्ष्मं शरीरमिति ॥11॥
स्तर्त् ब्स्व्भ्_4,2.6.12
प्रतिषेधाद् इति चेन् न शारीरात्

4.2.13

अधिकरणतात्पर्यमाह--
अमृतत्वं चानुपोष्येत्यतो विशेषणादिति ।
विषयमाह--
अथाकामयमान इति ।
सिद्धान्तिमतमाशङ्क्य तन्निराकरणेन पूर्वपक्षी स्वमतमवस्थापयति--
अतः परविद्याविषयात्प्रतिषेधादिति ।
यदि हि प्राणोपलक्षितस्य सूक्ष्मशरीरस्य जीवात्मनः स्थूलशरीरादुत्क्रान्तिं प्रतिषेधच्छ्रुतिः तत एतदुपपद्यते ।
न त्वेतदस्ति ।
न तस्मात्प्राण उत्क्रामन्तीति हि तदा सर्वनाम्ना प्रधानावमर्शिनाभ्युदयनिःश्रेयसाधिकृतो देहि प्रधानं परामृश्यते ।
तथा च तस्माद्देहिनो न प्राणः सूक्ष्मं शरीरमुत्क्रामन्त्यपि तु तत्सहितः क्षेत्रज्ञ एवोत्क्रामतीति गम्यते ।
स पुनरतिक्रम्य ब्रह्मनाड्य संसारमण्डलं हिरण्यगर्भपर्यन्तं सलिङ्गो जीवः परस्मिन्ब्रह्मणि लीयते तस्मात्परामपि देवतां विदुष उत्क्रान्तिरत एव मार्गश्रुतयः, स्मृतिश्च मुमुक्षोः शुकस्यादित्यमण्डलप्रस्थानं दर्शयतीति प्राप्तम् ॥12॥
स्तर्त् ब्स्व्भ्_4,2.6.13
एवं प्राप्ते प्रत्युच्यते--
स्पष्टो ह्येकेषाम्

4.2.14

नायं देह्यपादानस्य प्रतिषेधः ।
अपि तु देहापादानस्य ।
तथा हि--आर्तभागप्रश्नोत्तरे ह्येकस्मिन्पक्षे संसारिण एव जीवात्मनो ऽनुत्क्रान्तिं परिगृह्य न तर्ह्येष भृतः प्राणानामनुत्क्रान्तेरिति स्वयमाशङ्क्य प्राणानां प्रविलयं प्रतिज्ञाय तत्सिद्ध्यर्थमुत्क्रान्त्यवधेरुच्छ्वयनाध्माने ब्रुवन्यस्योच्छ्वयनाध्माने तस्य तदवधित्वमाह ।
शरीरस्य च ते इतिशरीरमेव तदपादानं गम्यते ।
नन्वेवमप्यस्त्वविदुषः संसारिणो विदुषस्तु किमायातमित्यत आह--
तत्सामान्यादिति ।
ननु तदा सर्वनाम्ना प्रधानतया देहि परामृष्टः तत्कथमत्र देहावगतिरित्यत आह--
अभेदोपचारेण ।
देहदेहिनोर्देहिपरामर्शिना सर्वनाम्ना देह एव परामृष्ट इति पञ्चमीपाठे व्याख्येयम् ।
षष्ठीपाठे तु नोपचार इत्याह--
येषां तु षष्ठीति ।
अपि च प्राप्तिपूर्वः प्रतिषेधो भवति नाप्राप्ते ।
अविदुषो हि देहादुत्क्रामणं दृष्टमिति विदुषो ऽपि तत्सामान्याद्देहादुत्क्रमणे प्राप्ते प्रतिषेध उपपद्यते न तु प्राणानां जीवावधिकं क्वचिदुत्क्रमणं दृष्टं येन तन्निषिध्यते ।
अपिचाद्वैतपरिभावनाभुवा प्रसंख्यानेन निर्मृष्टनिखिलप्रपञ्चावभासजातस्य गन्तव्याभावादेव नास्ति गतिरित्याह--
नच ब्रह्मविद इति ।
अपदस्य हि ब्रह्मविदो मार्गे पदैषिणो ऽपि देवा इति योजना ।
चोदयति--
ननु गतिरपीति ।
परिहरति--
सशरीरस्यैवायं योगबलेन ।
अपरविद्याबलेनेति ॥13॥
स्तर्त् ब्स्व्भ्_4,2.6.14
स्मर्यते च

4.2.15

स्तर्त् ब्स्व्भ्_4,2.7.15
तानि परे तथा ह्य् आह

4.2.16

प्रतिष्ठाविलयनश्रुत्योर्विप्रतिपत्तेर्विमर्शस्तमपनेतुमयमारम्भः ।
तानि पुनः प्राणशब्दोदितानीन्द्रियाण्येकादश सूक्ष्माणि च भूतानि पञ्च ।
ब्रह्मविदस्तस्मिन्नेव परस्मिन्नात्मनीति ।
आरम्भबीजं विमर्शमाह--
ननु गताःकला इति ।
घ्राणमनसोरेकप्रकृतित्वं विवक्षित्वा पञ्चदशत्वमुक्तम् ।
अत्र श्रुत्योर्विषयव्यवस्थया विप्रतिपत्त्यभावमाह---
सा खल्विति ।
व्यवहारो लौकिकः सांव्यवहारिकप्रमाणापेक्षेयं श्रुतिः ।
न तात्त्विकप्रमाणापेक्षा ।
इतरा तु एवमेवास्य परिदृष्टुः इत्यादिका विद्वत्प्रतिपत्त्यपेक्षा तात्त्विकप्रमाणापेक्षा ।
तस्माद्विषयभेदादविप्रतिपत्तिः श्रुत्योरिति ॥15॥
स्तर्त् ब्स्व्भ्_4,2.8.16
अविभागो वचनात्

4.2.17

निमित्तापाये नैमित्तिकस्यात्यन्तिकापायः ।
अविद्यानिमित्तश्च विभागो नाविद्यायां विद्यया समूलघातमपहतायां सावशेषो भवितुमर्हति ।
तथापि प्रविलयसामान्यात् सावशेषताशङ्कामतिमन्दामपनेतुमिदं सूत्रम् ॥16॥
स्तर्त् ब्स्व्भ्_4,2.9.17
तदोकोग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात् तच्छेषगत्यनुस्मृतियोगाच् च हार्दानुगृहीताः शताधिकया

4.2.18

अपरविद्याविदो ऽविदुषश्चोत्क्रान्तिरुक्ता ।
तत्र किं विद्वानविद्वांश्चाविशेषेण मूर्धादिभ्य उत्क्रामत्याहो विद्वान्मूर्धस्थानादेव, अपरे तु स्थानान्तरेभ्य इति ।
अत्र विद्यासामर्थ्यमपश्यतः पूर्वपक्षः ।
तस्योपसंहृतवागादिकलापस्योच्चिक्रमिषतो विज्ञानात्मना ओक आयतनं हृदयं तस्याग्रं तस्य ज्वलनं यत्तत्प्रकाशितद्वारो विनिष्क्रमद्वारो विद्वान्मूर्धस्थानादेव निष्क्रामति नान्येभ्यश्चक्षुरादिस्थानेभ्यः ।
कुतः--विद्यासामर्थात् हार्दविद्यासामर्थ्यात् ।
उत्कृष्टस्थानप्रतिलम्भाय हि हार्दविद्योपदेशः ।
मूर्धस्थानादनिष्क्रमणे च नोत्कृष्टदेशप्राप्तिः ।
अथ स्थानान्तरेभ्यो ऽप्युत्क्रामन्कस्माल्लोकमुत्कृष्टं न प्राप्नोतीत्यत आह--
तच्छेषगत्यनुस्मृतियोगाच्च ।
हार्दविद्याशेषभूता हि मूर्धन्या नाडी गत्यै उपदिष्टा ।
तदनुशीलनेन खल्वयं जीवो हार्देन सूपासितेन ब्रह्मणानुगृहीतस्तस्यानुस्मरंस्तद्भावमापन्नो मूर्धन्ययैव शताधिकया नाड्या निष्क्रामति ।
हृदयादुद्गता हि ब्रह्मनाडी भास्वरा तालुमूलं भित्त्वा मूर्धानमेत्य रश्मिभिरेकीभूता आदित्यमण्डलमनुप्रविष्टा तामनुशीलयतस्तयैवान्तकाले निर्गमनं भवतीति ॥17॥
स्तर्त् ब्स्व्भ्_4,2.10.18
रश्म्यनुसारी

4.2.19

रात्रावहनि चाविशेषेण रश्म्यनुसारी सन्नादित्यमण्डलं प्राप्नोतीति सिद्धान्तपक्षप्रतिज्ञा ॥18॥
स्तर्त् ब्स्व्भ्_4,2.10.19
पूर्वपक्षमाशङ्कते सूत्रावयवेन--
निशि नेति चेन्
सूत्रावयवान्तरेण निराकरोति---
न सम्बन्धस्य यावद्देहभावित्वाद् दर्शयति च

4.2.20

यावद्देहभावि हि शिराकिरणसंपर्कः प्रमाणान्तरात्प्रतीयते ।
दर्शयति चैतमर्थं श्रुतिरप्यशेषेण ।
अमुष्मादादित्यात्प्रतायन्ते रश्मयस्त आसु नाडीषु सृप्ता भवन्ति य आभ्यो नाडीभ्यः प्रतायन्ते अ विस्तार्यन्ते ते रश्मयो ऽमुष्मिन्नादित्ये सृप्ताः ।
प्रतापादिकार्यदर्शनादिति ।
आदिग्रहणेन चन्द्रापः संगृह्यन्ते ।
चन्द्रमसा खल्वम्मयेन संबध्यमानानां सूरीणां भासां चन्द्रिकात्वम् ।
तस्मादप्यस्ति निशि सौर्यरश्मिप्रचार इति ।
ये त्याहुः--स यावत्क्षिप्येन्मनस्तावदादित्यं गच्छेदिति निरपेक्षश्रवणाद्रात्रौ प्रेते नास्ति रश्म्यपेक्षेति ।
तान्प्रत्याह--
यदि च रात्रौ प्रेत इति ।
नह्येतद्विशिष्याधीयते ऽ ध्येतारः ।
ये तु मन्यन्ते विद्वानपि रात्रिप्रायणापराधेन नोर्ध्वमाक्रमत इति तान्प्रत्याह--
अथ तु विद्वानपीति ।
नित्यवत्फलसंबन्धेन विहिता विद्या न पाक्षिकफला युक्तेति ।
ये तु रात्रौ प्रेतस्य विदुषो ऽहरपेक्षां सूर्यमण्डलप्राप्तिराचक्षते तन्मतमाशङ्क्याह---
अथापि रात्राविति ।
यावत्तावदुपबन्धेनानपेक्षा गतिः श्रुता ।
न चापेक्षा शक्यावगमा उपबन्धविरोधादिति ॥19॥
स्तर्त् ब्स्व्भ्_4,2.11.20
अतश् चायने ऽपि दक्षिणे

4.2.21

अत एवेत्युक्तहेतुपरामर्श इत्याह--
अत एव चोदीक्षानुपपत्तेरिति ।
पूर्वपक्षबीजमाह--
उत्तरायणमरणप्राशस्त्य इति ।
अपनोदमाह--
प्राशस्त्यप्रसिद्धिरिति ।
अतःपदपरामृष्टहेतुबलादविदुषो मरणं प्रशस्तमुत्तरायणे विदुषस्तूभयत्राप्यविशेषो विद्यासामर्थ्यादिति ।
विदुषो ऽपि च भीष्मस्योत्तरायणप्रतीक्षणमविदुष आचारं ग्राह-यति ऽयद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनःऽइति न्यायात् ।
आपूर्यमाणपक्षादित्याद्या च श्रुतिर्न कालविशेषप्रतिपत्त्यर्था, अपि त्वातिवाहिकीर्देवताः प्रतिपादयतीति वक्ष्यति ।
तस्मादविरोधः ॥20॥
स्तर्त् ब्स्व्भ्_4,2.11.21
सूत्रान्तरावतरणाय चोदयति--
ननु च यत्र काले त्विति ।
काल एवात्र प्राधान्येनोच्यते न त्वातिवाहिकी देवतेत्यर्थः ।
योगिनः प्रति च स्मर्येते स्मार्ते चैते

मूल पाठ: Brahmasūtra2 with Vācaspati's Bhāmatī (a subcommentary on Śaṃkara's Śārīrakamīmāṃsābhāṣya) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc