ब्रह्मसूत्र2 · अध्याय 2.2
अत्र सर्वज्ञमिति ।
दृश्यते सर्वस्य चेतनाधिष्ठितस्यैव लोके प्रवृत्तिरिति लोकानुसारो दर्शितः ।
सर्वशक्तीति ।
सर्वस्य जगत उपादानकारणं निमित्तकारणं चेत्युपपादितम्- महामायमिति ।
सर्वानुपपत्तिशङ्का परास्ता ।
तस्माज्जगत्कारणं ब्रह्मेति सिद्धम् ॥37॥
इति श्रीवाचस्पतिमिश्रविरचिते भगवत्पादशारीरिकभाष्यविभागे भामत्यां द्वितीयस्याध्यायस्य प्रथमः पादः ॥1॥
इति द्वितीयाध्यायस्य सांख्यायोगकारणदादिस्मृतिभिः सांख्यादिप्रयुक्ततर्कैश्च वेदान्तसमन्वयविरोधपरिहाराख्यः प्रथमः पादः ॥
द्वितीयाध्याये द्वितीयः पादः ।
स्तर्त् ब्स्व्भ्_2,2.1.1
रचनानुपपत्तेश्च नानुमानम्
स्यादेतत् ।
इह हि पादे स्वतन्त्रा वेदनिरपेक्षाः प्रधानादिसिद्धिविषयाः सांख्यादियुक्तयो निराकरिष्यन्ते ।
तदयुक्तमशास्त्राङ्गत्वात् ।
नहीदं शास्त्रमुच्छृङ्खलतर्कशास्त्रवत्प्रवृत्तमपि तु वेदान्तवाक्यानि ब्रह्मपराणीति पूर्वपक्षोत्तरपक्षाभ्यां विनिश्चेतुम् ।
तत्र कः प्रसङ्गः शुष्कतर्कवत्स्वतन्त्रयुक्तिनिराकरणस्येत्यत आह- -यद्यपीदं वेदान्तवाक्यानामिति ।
नहि वेदान्तवाक्यानि निर्णेतव्यानीति निर्णीयन्ते, किन्तु मोक्षमाणानां तत्त्वज्ञानोत्पादनाय ।
यथा च वेदान्तवाक्येभ्यो जगदुपादानं ब्रह्मावगम्यते, एवं सांख्याद्यनुमानेभ्यः प्रधानाद्यचेतनं जगदुपादानमवगम्यते ।
न चैतदेव चेतनोपादानमचेतनोपादानं चेति समुच्चेतुं शक्यं, विरोधात् ।
न च व्यवस्थिते वस्तुनि विकल्पो युज्यते ।
न चागमबाधितविषयतयानुमानमेव नोदीयत इति सांप्रतम् ।
सर्वज्ञप्रणीततया सांख्याद्यागमस्य वेदागमतुल्यत्वात् तद्भाषितस्यानुमानस्य प्रतिकृतिसिंहतुल्यतयाबाध्यत्वात् ।
तस्मात्तद्विरोधान्न ब्रह्मणि समन्वयो वेदान्तानां सिध्यतीति न ततस्तत्त्वज्ञानं सेद्धुमर्हति ।
नच तत्त्वज्ञानादृते मोक्ष इति स्वतन्त्राणामप्यनुमानानामाभासीकरणमिह शास्त्रेसंगतमेवेति ।
यद्येवं ततः परकीयानुमाननिरास एव कस्मात्प्रथमं न कृत इत्यत आह- -वेदान्तार्थनिर्णयस्य चेति ।
ननु वीतरागकथायां तत्त्वनिर्णयमात्रमुपयुज्यते न पुनःपरपक्षाधिक्षेपः, स हि सरागतामावहतीति चोदयति- -ननु मुमुक्षूणामिति ।
परिहरति --बाढमेवं,
तथापीति ।
तत्त्वनिर्णयावसाना वीतरागकथा ।
नच परपक्षदूषणमन्तरेण तत्त्वनिर्णयः शक्यः कर्तुमिति तत्वनिर्णयाय वीतरागेणापि परपक्षो दूष्यते न तु परपक्षतयेति न वीतरागकथात्वव्याहतिरित्यर्थः ।
पुनरुक्ततां परिचोद्य समाधत्ते --नन्वीक्षतेरिति ।
तत्र संख्या इति ।
यानि हि येन रूपेणा स्थौल्यादा च सौक्ष्म्यात्समन्वीयन्ते तानि तत्करणानि दृष्टानि, यथा घटादयो रुचकादयश्चा स्थौल्यादा च सौक्ष्म्यान्मृत्सुवर्णान्वितास्तत्करणाः, तथा चेदं बाह्यमाध्यात्मिकं च भावजातं सुःखदुःखमोहात्मनान्वितमुपलभ्यते, तस्मात्तदपि सुःखदुःखमोहात्मसामान्यकारणकं भवितुमर्हति ।
तत्र जगत्कारणस्य येयं सुखात्मता तत्सत्त्वं, या दुःखात्मता तद्रजः, या च मोहात्मता तत्तम इति त्रैगुण्यकारणसिद्धिः ।
तथाहि--प्रत्येकं भावास्त्रैगुण्यवन्तो ऽनुभूयन्ते ।
यथा मैत्रदारेषु पद्मावत्यां मैत्रस्य सुखं, तत् कस्य हेतोः, तंप्रति सत्वगुणसमुद्भवात् ।
तत्सपत्नीनां च दुःखं, तत्कस्य हेतोः, ताः प्रत्यस्या रजोगुणसमुद्भवात् ।
चैत्रस्य तु स्त्रैणस्य तामविन्दतो मोहो विषादः, तत् कस्य हेतोः, तं प्रत्यस्यास्तमोगुणसमुद्भवात् ।
पद्मावत्या च सर्वे भावा व्याख्याताः ।
तस्मात्सर्वं सुःखदुःखमोहान्वितं जगत्तत्कारणं गम्यते ।
तच्च त्रिगुणं प्रधानं प्रधीयते क्रियते ऽनेन जगदिति, प्रधीयते निधीयते ऽस्मिन्प्रलयसमये जगदिति वा प्रधानम् ।
तच्च मृत्सुवर्णवदचेतनं चेतनस्य पुरुषस्य भोगापवर्गलक्षणमर्थं साधयितुं स्वभावत एव प्रवर्तते, न तु केनचित्प्रवर्त्यते ।
तथा ह्याहुः---ऽपुरुषार्थ एव हेतुर्न केनचित्कार्यते करणम्ऽइति ।
परिमाणादिभिरित्यादिग्रहणेन ऽशक्तितः प्रवृत्तेश्च ।
कारणकार्यविभागादविभागाद्वैश्वरूप्यस्यऽइत्यव्यक्तसिद्धिहेतवो गृह्यन्ते ।
एतांश्चेपरिष्टाद्व्याख्याय निराकरिष्यत इति ।
तदेतत्प्रधानानुमानं दूषयति --तत्र वदाम इति ।
यदि तावदचेतनं प्रधानमनधिष्ठितं चेतनेन प्रवर्तते स्वभावत एवेति साध्यते, तदयुक्तं, समन्वयादेर्हेतोश्चेतनानधिष्ठितत्वविरुद्धचेतनाधिष्ठितत्वेन मृत्सुवर्णादौ दृष्टान्तधर्मिणि
व्याप्तेरुपलब्धेर्विरुद्धत्वात् ।
नहि मृत्सुवर्णदार्वादयः कुलालहेमकाररथकारादिभिरनधिष्ठिताः कुम्भरुचकरथाद्युपाददते ।
तस्मात् कृतकत्वमिव नित्यत्वसाधनया प्रयुक्तं साध्यविरुद्धेन व्याप्तं विरुद्धम्, एवं समन्वयादि चेतनानधिष्ठितत्वे साध्य इति रचनानुपपत्तेरिति दर्शितम् ।
यदुच्येत दृष्टान्तधर्मिण्यचेतनं तावदुपादानं दृष्टं, तत्र यद्यपि तच्चेतनप्रयुक्तमपि दृश्यते, तथापि तत्प्रयुक्तत्वं हेतोरप्रयोजकं बहिरङ्गत्वात्, अन्तरङ्गं त्वचैतन्यमात्रमुपादानानुगतं हेतोः प्रयोजकम् ।
यथाहुः--ऽव्याप्तेश्च दृश्यमानायाः कश्चिद्धर्मः प्रयोजकःऽइति ।
तत्राह-- नच मृदादीति ।
स्वभावप्रतिबद्धं हि व्याप्तं व्यापकमवगमयति ।
स च स्वभावप्रतिबन्धः शङ्कितसमारोपितोपाधिनिरासे सति निश्चीयते ।
तन्निश्चयश्चान्वयव्यतिरेकयोरायतते ।
तौ चान्वयव्यतिरेकौ न तथोपादानाचैतन्ये यथा
चेतनप्रयुक्तत्वे ऽतिपरिस्फुटौ ।
तदलमत्रान्तरङ्गत्वेनेति भावः ।
एवमपि चेतनप्रयुक्तत्वं नाभ्युपेयेत यदि प्रमाणान्तरविरोधो भवेत्, प्रत्युत श्रुतिरनुगुणतरात्रेत्याह-- न चैवं सतीति ।
चकारेण सुःखदुःखादिसमन्वयलक्षणस्य हेतोरसिद्धत्वं समुच्चिनोतीत्याह --अन्वयाद्यनुपपत्तेश्चेति ।
आन्तराः खल्वमी सुःखदुःखमोहविषादा बाह्येभ्यश्चन्दनादिभ्यो ऽतिविच्छिन्नप्रत्ययप्रवेदनीयेभ्यो व्यतिरिक्ता अध्यक्षमीक्ष्यन्ते ।
यदि पुनरेत एव सुःखदुःखादिस्वभावा भवेयुस्ततःस्वरूपत्वाधेमन्ते ऽपि चन्दनः सुखः स्यात् ।
नहि चन्दनः कदाचिदचन्दनः ।
तथा निदाघेष्वपि कुङ्कुमपङ्कः सुखो भवेत् ।
नह्यसौ कदाचिदकुङ्कुमपङ्क इति ।
एवं कण्टकः क्रमेलकस्य सुख इति मनुष्यादीनामपि प्राणभृतां सुखः
स्यात् ।
नह्यसौ कांश्चित्प्रत्येव कण्टक इति ।
तस्मादसुखादिस्वभावा अपि चन्दनकुङ्कुमादयो जातिकालावस्थाद्यपेक्षया सुखदुःखादिहेतवो न तु स्वयं सुखादिस्वभावा इति रमणीयम् ।
तस्मात्सुखादिरूपसमन्वयो भावानामसिद्ध इति नानेन तद्रूपं कारणमव्यक्तमुन्नीयत इति ।
तदिदमुक्तम्- -शब्दाद्यविशेषे ऽपि च भावनाविशेषादिति ।
भावना वासना संस्कारस्तद्विशेषात् ।
करभजन्मसंवर्तकं हि कर्म करभोचितामेव भावनामभिव्यनिक्तिं, यथास्मै कण्टका एव रोचन्ते ।
एवमन्यत्रापि द्रष्टव्यम् ।
परिमाणादिति सांख्यीयं हेतुमुपन्यस्यति- -तथा परिमितानां भेदानामिति ।
संसर्गपूर्वकत्वे हि संसर्गस्यैकस्मिन्नद्वये ऽसंभवान्नानात्वैकार्थसमवेतस्य नानाकरणानि संसृष्टानि कल्पनीयानि, तानि च सत्त्वरजस्तमांस्येवेति भावः ।
तदेतत्परिमितत्वं सांख्यीयराद्धान्तालोचनेनानैकान्तिकमिति दूषयति-- सत्त्वरजस्तमसामिति ।
यदि तावत्परिमितत्वमियत्ता, सा नभसो ऽपि नास्तीत्यव्यापको हेतुः परिमाणादिति ।
अथ न योजनादिमितत्वं परिमाणमियत्तां नभसो ब्रूमः किन्त्वव्यापिताम्, अव्यापि च नभस्तन्मात्रादेः ।
नहि कार्यं कारणव्यापि, किन्तु कारणं कार्यव्यापीति परिमितं नभस्तन्मात्राद्यव्यापित्वात् ।
हन्त सत्त्वरजस्तमांस्यपि न परस्परं व्याप्नुवन्ति, नच तत्त्वान्तरपूर्वकत्वमेतेषामिति व्यभिचारः ।
नहि यथा तैः कार्यजातमाविष्टमेवं तानि परस्परं विशन्ति, मिथः कार्यकारणभावाभावात् ।
परस्परसंसर्गस्त्वावेशश्चितिशक्तौ नास्ति ।
नहि चितिशङ्क्तिः कूटस्थनित्या तैः संसृज्यते, ततश्च तदव्यापका गुणा इति परिमिताः ।
एवं चितिशक्तिरपि गुणैरसंसृष्टेति सापि परिमितेत्यनैकान्तिकत्वं परिमितत्वस्य हेतोरिति ।
तथा कार्यकारणविभागो ऽपि समन्वयवद्विरुद्ध इत्याह- -कार्यकारणभावस्त्विति ॥1॥
स्तर्त् ब्स्व्भ्_2,2.1.2
प्रवृत्तेश् च
न केवलं रचनाभेदा न चेतनाधिष्ठानमन्तरेण भवन्त्यपि तु साम्यावस्थायाः प्रच्युतिर्वैषम्यं, तथा च यदुद्भूतं बलीयस्तदङ्ग्यभिभूतं च
तदनुगुणतया स्थितमङ्गम्, एवं हि गुणप्रधानभावे सत्यस्य महदादौ कार्ये का प्रवृत्तिः, सापि चेतनाधिष्ठानमेव गमयति ।
न हि चेतनाधिष्ठानमन्तरेण मृत्पिण्डे प्रधाने ऽङ्गभावेन चक्रदण्डसलिलसूत्रादयो ऽवतिष्ठन्ते ।
तस्मात्प्रवृत्तेरपि चेतनाधिष्ठानसिद्धिरिति ऽशक्तितः प्रवृत्तेश्चऽइत्ययमपि हेतुः सांख्यीयो विरुद्ध एवेत्युक्तं वक्रोक्त्या ।
अत्र सांख्यश्चोदयति-- ननु चेतनस्यापि प्रवृत्तिरिति ।
अयमभिप्रायः--त्वया किलौपनिषदेनास्मद्धेतून् दूषयित्वा केवलस्य चेतनस्यैवान्यनिरपेक्षस्य जगदुपादानत्वं निमित्तत्वं च समर्थनीयम् ।
तदयुक्तम् ।
केवलस्य चेतनस्य प्रवृत्तेर्दृष्टान्तधर्मिण्यनुपलब्धेरिति ।
औपनिषदस्तु चेतनहेतुकां तावदेष सांख्यः प्रवृत्तिमभ्युपगच्छतु पश्चात् स्वपक्षमत एव समाधास्यामीत्यभिसंधिमानाह-- सत्यमेतत् ।
न केवलस्य चेतनस्य प्रवृत्तिर्दृष्टेति ।
सांख्य आह-- न त्वचेतनसंयुक्तस्येति ।
तुशब्द औपनिषदपक्षं व्यावर्तयति ।
अचेतनाश्रयैव सर्वा प्रवृत्तिर्दृश्यते न तु चेतनाश्रया काचिदपि ।
तस्मान्न चेतनस्य जगत्सर्जने प्रवृत्तिरित्यर्थः ।
अत्रौपनिषदो गूढाभिसंधिः प्रश्नपूर्वकं विमृशति-- किं पुनरत्रेति ।
अत्रान्तरे सांख्यो ब्रूते-- ननु यस्मिन्निति ।
न तावच्चेतनः प्रवृत्याश्रयतया तत्प्रयोजकतया वा प्रत्यक्षमीक्ष्यते, केवलं प्रवृत्तिस्तदाश्रयश्चाचेतनो देहरथादिः प्रत्यक्षेण प्रतीयते, तत्राचेतनस्य प्रवृत्तिस्तन्निमित्तैव न तु चेतननिमित्ता ।
सद्भावमात्रं तु तत्र चेतनस्य गम्यते रथादिवैलक्षण्याज्जीवद्देहस्य ।
नच सद्भावमात्रेण कारणत्वसिद्धिः ।
मा भूदाकाश उत्पत्तिमतां घटादीनां निमित्तकारणमस्ति हि सर्वत्रेति ।
तदनेन देहातिरिक्ते सत्यपि चेतने तस्य न प्रवृत्तिं प्रति निमित्तभावो ऽस्तीत्युक्तम् ।
यतश्चास्य न प्रवृत्तिहेतुभावो ऽस्ति अत एव प्रत्यक्षे देहे सति प्रवृत्तिदर्शनादसति चादर्शनाद्देहस्यैव चैतन्यमिति लौकायतिकाः प्रतिपन्नाः, तथा च न चिदात्मनिमित्ता प्रवृत्तिरिति सिद्धम् ।
तस्मान्न रचनायाः प्रवृत्तेर्वा चिदात्मकारणत्वसिद्धिर्जगत इति औपनिषदः परिहरति-- तदभिधीयते--न ब्रूम इति ।
न तावत् प्रत्यक्षानुमानागमसिद्धः शारीरो वा परमात्मा वास्माभिरिदानीं
साधनीयः, केवलमस्य प्रवृत्ति प्रति कारणत्वं वक्तव्यम् ।
तत्र मृतशरीरे वा रथादौ वानधिष्ठिते चेतनेन प्रवृत्तेरदर्शनात् तद्विपर्यये च प्रवृत्तिदर्शनादन्वयव्यतिरेकाभ्यां चेतनहेतुकत्वं प्रवृत्तेर्निश्चीयते, न तु चेतनसद्भावमात्रेण, येनातिप्रसङ्गो भवेत् ।
भूतचैतनिकानामपि चेदनाधिष्ठानादचेतनानां प्रवृत्तिरित्यत्राविवाद इत्याह-- लौकायतिकानामपीति ।
स्यादेतत् ।
देहः स्वयं चेतनः करचरणादिमान् स्वव्यापारेण प्रवर्तयतीति युक्तं, न तु तदतिरिक्तः कूटस्थनित्यश्चेतनो व्यापाररहितो ज्ञानैकस्वभावः प्रवृत्त्यभावात् प्रवर्तको युक्त इति चोदयति-- ननु तवेति ।
परिहरति- -न ।
अयस्कान्तवद्रूपादिवच्चेति ।
यथा च रूपादय इति ।
सांख्यानां हि स्वदेशस्था रूपादय इन्द्रियं विकुर्वते, तेन तदिन्द्रयमर्थं प्राप्तमर्थाकारेण परिणमत इति स्थितिः ।
संप्रति चोदकः स्वाभिप्रायमाविष्करोति-- एकत्वादिति ।
येषामचेतनं चेतनं चास्ति तेषामेतद्युज्यते वक्तुं चेतनाधिष्ठितमचेतनं प्रवर्तत इति ।
यथा योगिनामीश्वरवादिनाम् ।
येषां तु चेतनातिरिक्तं नास्त्यद्वैतवादिनां, तेषां प्रवर्त्याभावे कं प्रति प्रवर्तकत्वं चेतनस्येत्यर्थः ।
परिहरति-- न अविद्येति ।
कारणभूतया लयलक्षणयाविद्यया प्राक्सर्गोपचितेन च विक्षेपसंस्कारेण यत् प्रत्युपस्थापितं नामरूपं तदेव माया, तदावेशेनास्य चोद्यस्यासकृत्प्रयुक्तत्वात् ।
एतदुक्तं भवति--नेयं सृष्टिर्वस्तुसती येनाद्वैतिनो वस्तुसतो द्वितीयस्याभावादनुयुज्येत ।
काल्पनिक्यां तु सृष्टावस्ति काल्पनिकं द्वितीयं सहायं मायामयम् ।
यथाहुः--ऽसहायास्तादृशा एव यादृशी भवितव्यता ।
ऽइति ।
न चैवं
ब्रह्मोपादानत्वव्याघातः, ब्रह्मण एव मायावेशेनोपादानत्वात्तदधिष्ठानत्वाज्जगद्विभ्रमस्य,रजतविभ्रमस्येव शुक्तिकाधिष्ठानस्य शुक्तिकोपादानत्वमिति निरवद्यम् ॥2॥
स्तर्त् ब्स्व्भ्_2,2.1.3
पयोम्बुवच्चेत्तत्रापि
यथा पयोम्बुनोश्चेतनानधिष्ठितयोः स्वत एव प्रवृत्तिरेवं प्रधानस्यापीति शङ्कार्थः ।
तत्रापि चेतनाधिष्ठितत्वं साध्यं, न च साध्येनैव व्यभिचारः, तथा सत्यनुमानमात्रोच्छेदप्रसङ्गात्, सर्वत्रास्य सुलभत्वात् ।
न चासाध्यम् ।
अत्रापि चेतनाधिष्ठानस्यागमसिद्धत्वात् ।
न च सपक्षेण व्यभिचार इति शङ्कानिराकरणस्यार्थः ।
साध्यपक्षे त्युपलक्षणम् ।
सपक्षनिक्षिप्तत्वादित्यपि द्रष्टव्यम् ।
ननु ऽउपसंहारदर्शनात्ऽइत्यत्रानपेक्षस्य प्रवृत्तिर्दशिता, इह तु सर्वस्य चेतनापेक्षा प्रवृत्तिः प्रतिपाद्यत इति कुतो न विरोध इत्यत आह-- उपसंहारदर्शनादिति ।
स्थूलदर्शिलोकाभिप्रायानुरोधेन तदुक्तं न तु परमार्थत इत्यर्थः ॥3॥
स्तर्त् ब्स्व्भ्_2,2.1.4
व्यतिरेकानवस्थितेश्चानपेक्षत्वात्
यद्यपि सांख्यानामपि विचित्रकर्मवासनावासितं प्रधानं साम्यावस्थायामपि तथापि न कर्मवासनाः सर्गस्येशते, किन्तु प्रधानमेव स्वकार्ये प्रवर्तमानमधर्मप्रतिबद्धं सन्न सुखमयीं सृष्टिं कर्तुमुत्सहत इति धर्मेणाधर्मप्रतिबन्धो ऽपनीयते ।
एवमधर्मेण धर्मप्रतिबन्धो ऽपनीयते दुःखमय्यां सृष्टौ ।
स्वयमेव च प्रधानमनपेक्ष्य सृष्टौ प्रवर्तते ।
यथाहुः-- ऽनिमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत्ऽइति ।
ततश्च प्रतिबन्दकापनयसाधने धर्माधर्मवासने अपि संनिहिते इत्यागन्तोरपेक्षणीयस्याभावात् सदैव साम्येन परिणमेत वैषम्येण वा, न त्वयं कादाचित्कः परिणामभेद उपपद्येत ।
ईश्वरस्य तु महामायस्य चेतनस्य लीलया वा यदृच्छया वा स्वभाववैचित्र्याद्वा कर्मपरिपाकापेक्षस्य प्रवृत्तिनिवृत्ती
उपपद्येते एवेति ॥4॥
स्तर्त् ब्स्व्भ्_2,2.1.5
अन्यत्राभावाच्च न तृणादिवत्
धेनूपयुक्तं हि तृणपल्लवादि यथा स्वभावत एव चेतनानपेक्षं क्षीरभावेन परिणमते न तु तत्र धेनूचैतन्यमपेक्ष्यते, उपयोगमात्रे तदपेक्षत्वात् ।
एवं प्रधानमपि स्वभावत एव परिणंस्यते कृतमत्र चेतनेनेति शङ्कार्थः ।
धेनूपयुक्तस्य तृणादेः क्षीरभावे किं निमित्तान्तरमात्रं निषिध्यते, उत चेतनम् ।
न तावन्निमित्तान्तरं, धेनुदेहस्थस्यौदर्यस्य वह्न्यादिभेदस्य निमित्तान्तरस्य संभवात् ।
बुद्धिपूर्वकारी तु तत्रापीश्वर एव सर्वज्ञः संभवतीति शङ्कानिराकरणस्यार्थः ।
तदिदमुक्तम्-- किञ्चिद्दैवसंपाद्यमिति ॥5॥
स्तर्त् ब्स्व्भ्_2,2.1.6
अभ्युपगमे ऽप्यर्थाभावात्
पुरुषार्थापेक्षाभावप्रसङ्गात् ।
तदिदमुक्तम्-- एवं प्रयोजनमपि किञ्चिन्नापेक्षिष्यत इति ।
अथवा पुरुषार्थाभावादिति योज्यम् ।
तदिदमुक्तम्-- तथापि प्रधानप्रवृत्तेः प्रयोजनं विवेक्तव्यमिति ।
न केवलं तात्त्विको भोगो ऽनाधेयातिशयस्य कूटस्थनित्यस्य पुरुषस्य न संभवति, अनिर्मोक्षप्रसङ्गश्च ।
येन हि प्रयोजनेन प्रधानं प्रवर्तितं तदनेन कर्तव्यं, भोगेन चैतत्प्रवर्तितमिति तमेव कुर्यान्न मोक्षं, तेनाप्रवर्तितत्वादित्यर्थः ।
अपवर्गश्चेत्प्रागपीति ।
चितेः सदा विशुद्धत्वान्नैतस्यां जातु कर्मानुभववासनाः सन्ति ।
प्रधानं तु तासामनादीनामाधारः ।
तथा च प्रधानप्रवृत्तेः प्राक् चितिर्मुक्तैवेति नापवर्गार्थमपि तत्प्रवृत्तिरिति ।
शब्दाद्यनुपलब्धिप्रसङ्गश्च ।
तदर्थमप्रवृत्तत्वात्प्रधा नस्य ।
उभयार्थताभ्युपगमे ऽपीति ।
न तावदपवर्गः साध्यस्तस्य प्रधानाप्रवृत्तिमात्रेण सिद्धत्वात् ।
भोगार्थं तु प्रवर्तेत ।
भोगस्य च सकृच्छब्दाद्युपलब्घिमात्रादेव समाप्तत्वान्न तदर्थं पुनः प्रधानं प्रवर्तेतेत्ययत्नसाध्यो मोक्षः स्यात् ।
निःशेषशब्दाद्युपभोगस्य चानन्त्येन समाप्तेरनुपपत्तेरनिर्मोक्षप्रसङ्गः ।
कृतभोगमपि प्रधानमासत्त्वपुरुषान्यताख्यातेः क्रियासमभिहारेण भोजयतीति चेत्, अथ पुरुषार्थाय प्रवृत्तं किमर्थं सत्त्वपुरुषान्यताख्यातिं करोति ।
अपवर्गार्थमिति चेत्, हन्तायां सकृच्छब्दाद्युपभोगेन कृतप्रयोजनस्य प्रधानस्य निवृत्तिमात्रादेव सिध्यतीति कृतं सत्त्वान्यताख्यातिप्रतीक्षणेन ।
न चास्याः स्वरूपतः
पुरुषार्थत्वम् ।
तस्मादुभयार्थमपि न प्रधानस्य प्रवृत्तिरुपपद्यत इति सिद्धोर्ऽथाभावः ।
सुगममितरत् ।
शङ्कते-- दृक्शक्तीति ।
पुरुषो हि दृक्शक्तिः ।
सा च दृश्यमन्तरेणानर्थिका स्यात् ।
नच स्वात्मन्यर्थवती, स्वात्मनि वृत्तिविरोधात् ।
प्रधानं च सर्गशक्तिः ।
सा च सर्जनीयमन्तरेणानर्थिका स्यादिति यत्प्रधानेन शब्दादि सृज्यते तदेव दृक्शक्तेर्दृश्यं भवतीति तदुभयार्थवत्वाय सर्जनमिति शङ्कार्थः ।
निराकरोति-- सर्गशक्त्यनुच्छेदवदिति ।
यथा हि प्रधानस्य सर्गशक्तिरेकं पुरुषं प्रति चरितार्थापि पुरुषान्तरं प्रति प्रवर्तते ऽनुच्छेदात् ।
एवं दृक्शक्तिरपि तं पुरुषं प्रत्यर्थवत्त्वायानुच्छेदात्सर्वदा प्रवर्तेतेत्यनिर्मोक्षप्रसङ्गः ।
सकृद्दृश्यदर्शनेन वा चरितार्थत्वे न भूयः प्रवर्तेतेति सर्वेषामेकपदे निर्मोक्षः प्रसज्येतेति सहसा संसारः समुच्छिद्येतेति ॥6॥
स्तर्त् ब्स्व्भ्_2,2.1.7
पुरुषाश्मवदिति चेत्तथापि
नैव दोषात्प्रच्युतिरिति शेषः ।
मा भूत्पुरुषार्थस्य शक्त्यर्थवत्त्वस्य वा प्रवर्तकत्वम्, पुरुष एव दृक्शक्तिसम्पन्नः पङ्गुरिव प्रवृत्तिशक्तिसंपन्नं प्रधानमन्धमिव प्रवर्तयिष्यतीति शङ्का ।
दोषादनिर्मोक्षमाह-- अभ्युपेतहानं तावदिति ।
न केवलमभ्युपेतहानम्, अयुक्तं चैतद्भवद्दर्शनालोचनेनेत्याह- कथं चोदासीन इति ।
निष्क्रियत्वे साधनम्-- निर्गुणत्वादिति ।
शेषमतिरोहितार्थम् ॥7॥
स्तर्त् ब्स्व्भ्_2,2.1.8
अङ्गित्वानुपपत्तेश्च
यदि प्रधानावस्था कूटस्थनित्या, ततो न तस्याः प्राच्युतिरनित्यत्वप्रसङ्गात् ।
यथाहुः--ऽनित्यं तमाहुर्विद्वांसो यः स्वभावो न नश्यतिऽइति ।
तदिदमुक्तम्-- स्वरूपप्राणाशभयादिति ।
अथ परिणामिनित्या ।
यथाहुः--ऽयस्मिन् विक्रियमाणे ऽपि यत्तत्वं न विहन्यते ।
तदपि नित्यम्ऽइति ।
तत्राह-- बाह्यस्य चेति ।
यत्साम्यावस्थया सुचिरं
पर्यणमत्कथं तदेवासति विलक्षणप्रत्ययोपनिपाते वैषम्यमुपैति ।
अनपेक्षस्य स्वतो वापि वैषम्ये न कदाचित्साम्यं भवेदित्यर्थः ॥8॥
स्तर्त् ब्स्व्भ्_2,2.1.9
अन्यथानुमितौ च ज्ञशक्तिवियोगात्
एवमपि प्रधानस्येति ।
अङ्गित्वानुपपत्तिलक्षणो दोषस्तावन्न भवद्भिः शक्यः परिहर्तुमिति वक्ष्यामः ।
अभ्युपगम्याप्यस्यादोषत्वमुच्यत इत्यर्थः ।
संप्रत्यङ्गित्वानुपपत्तिमुपपादयति-- वैषम्योपगमयोग्या अपीति ॥9॥
स्तर्त् ब्स्व्भ्_2,2.1.10
विप्रतिषेधाच् चासमञ्जसम्
क्वचित्सप्तेन्द्रियाणीति ।
त्वङ्मात्रमेव हि बुद्धीन्द्रियमनेकरूपादिग्रहणसमर्थमेकं, कर्मेन्द्रियाणि पञ्च, सप्तमं च मन इति सप्तेन्द्रियाणि ।
क्वचित् त्रीण्यन्तःकरणानि ।
बुद्धिरहङ्कारो मन इति ।
क्वचिदेकं बुद्धिरिति ।
शेषमतिरोहितार्थम् ।
अत्राह सांख्यः-- नन्वौपनिषदानामपीति ।
तप्यतापकभावस्तावदेकस्मिन्नोपपद्यते ।
नहि तपिरस्तिरिव कर्तृस्थभावकः, किन्तु पचिरिव कर्मस्थभावकः ।
परसमवेतक्रियाफलशालि च कर्म ।
तथा च तप्येन कर्मणा तापकसमवेतक्रियाफलशालिना तापकादन्येन भवितव्यम् ।
अनन्यत्वे चैत्रस्येव गन्तुः स्वसमवेतगमनक्रियाफलनगरप्राप्तिशालिनो ऽप्यकर्मत्वप्रसङ्गात् ।
अन्यत्वे तु तप्यस्य तापकाच्चैत्रसमवेतगमनक्रियाफलभाजो गम्यस्येव नगरस्य तप्यत्वोपपत्तिः ।
तस्मादभेदे तप्यतापकभावो नोपपद्यत इति ।
दूषणान्तरमाह-- यदि चेति ।
नहि स्वभावाद्भावो वियोजितुं शक्य इति भावः ।
जलधेश्च वीचितरङ्गफेनादयः स्वभावाः सन्त आविर्भावतिरोभावधर्माणो न तु तैर्जलधिः कदाचिदपि मुच्यते ।
न केवलं कर्मभावात्तप्यस्य तापकादन्यत्वमपि त्वनुभवसिद्धमेवेत्याह-- प्रसिद्धश्चायमिति ।
तथाहि--अर्थो ऽप्युपार्जनरक्षणक्षयरागवृद्धिहिंसादोषदर्शनादनर्थः सन्नर्थिनं दुनोति, तदर्थो तप्यस्तापकश्चार्थः, तौ चेमौ लोके प्रतीतभेदौ ।
अभेदे च दूषणान्युक्तानि ।
तत्कथमेकस्मिन्नद्वये भवितुमर्हत इत्यर्थः ।
तदेवमौपनिषदं मतमसमञ्जसमुक्त्वा सांख्यः स्वपक्षे तप्यतापकयोर्भेदे
मोक्षमुपपादयति-- जात्यन्तरभावे त्विति ।
दृग्दर्शनशक्त्योः किल संयोगस्तापनिदानं, तस्य हेतुरविवेकदर्शनसंस्कारो ऽविद्या, सा च विवेकख्यात्या विद्यया विरोधित्वाद्विनिवर्त्यते, तन्निवृत्तौ तधेतुकः संयोगो निवर्तते, तन्निवृत्तौ च तत्कार्यस्तापो निवर्तते ।
तदुक्तं पञ्चशिखाचार्येण--ऽतत्संयोगहेतुविवर्जनात्स्यादयमात्यन्तिको दुःखप्रतीकारःऽइति ।
अत्र च न साक्षात्पुरुषस्यापरिणामिनो बन्धमोक्षौ, किन्तु बुद्धिसत्त्वस्यैव चितिच्छायापत्त्या लब्धचैतन्यस्य ।
तथाहि--
इष्टानिष्टगुणस्वरूपावधारणमविभागापन्नमस्य भोगः, भोक्तृस्वरूपावधारणमपवर्गः, तेन हि बुद्धिसत्वमेवापवृज्यते, तथापि यथा जयः पराजयो वा योधेषु वर्तमानः प्राधान्यात्स्वामिन्यपदिश्यते, एवं बन्धमोक्षौ बुद्धिसत्वे वर्तमानौ कथञ्चित्पुरुषे ऽपदिश्येते, स ह्यविभागापत्या तत्फलस्य भोक्तेति ।
तदेतदभिसंधायाह- स्यादपि कदाचिन्मोक्षोपपत्तिरिति ।
अत्रोच्यते-- न ।
एकत्वादेव तप्यतापकभावानुपपत्तेः ।
यत एकत्वे तप्यतापकभावो नोपपद्यत एकत्वादेव, तस्मात्सांव्यवहारिकभेदाश्रयस्तप्यतापकभावो ऽस्माभिरभ्युपेयः ।
तापो हि सांव्यवहारिक एव न पारमार्थिक इत्यसकृदावेदितम् ।
भवेदेष दोषो यद्येकात्मतायां तप्यतापकावन्योन्यस्य विषयविषयिभावं प्रतिपद्येयातामि त्यस्मदभ्युपगम इति शेषः ।
सांख्यो ऽपि हि भेदाश्रयं तप्यतापकभावं ब्रुवाणो न पुरुषस्य तपिकर्मतामाख्यातुमर्हति, तस्यापरिणामितया तपिक्रियाजनितफलशालित्वानुपपत्तेः ।
केवलमनेन सत्त्वं तप्यम्, अभ्युपेयं तापकं च रजः ।
दर्शितविषयत्त्वात्तु बुद्धिसत्वे तप्ये तदविभागापत्या पुरुषो ऽप्यनुतप्यत इव न तु तप्यते ऽपरिणामित्वादित्युक्तं, तदविभागापत्तिश्चाविद्या, तथा चाविद्याकृतस्तप्यतापकभावस्त्वयाभ्युपेयः, सो ऽयमस्माभिरुच्यमानः किमिति भवतः पुरुष इवाभाति ।
अपि च नित्यत्वाभ्युपगमाच्च तापकस्यानिर्मोक्षप्रसङ्गः ।
शङ्कते-- तप्यतापकशक्त्योर्नित्यत्वे ऽपीति ।
सहादर्शनेन निमित्तेन वर्तत इति सनिमित्तः संयोगस्तदपेक्षत्वादिति ।
निराकरोति-- न ।
अदर्शनस्य तमस इति ।
न तावत्पुरुषस्य तप्तिरित्युक्तम् ।
केवलमियं बुद्धिसत्त्वस्य तापकरजोजनिता, तस्य च बुद्धिसत्वस्य तामसविपर्यासादात्मनः पुरुषाद्भेदमपश्यतः पुरुषस्तप्यत इत्यभिमानः, न तु पुरुषो विपर्यासतुषेणापि युज्यते ।
तस्य तु बुद्धिसत्वस्य सात्त्विक्या विवेकख्यात्या तामसीयमविवेकख्यातिर्निवर्तनीया ।
न च तमसि मूले शक्यात्यन्तमुच्छेत्तुम् ।
तथा विच्छिन्नापि छिन्नबदरीव पुनस्तमसोद्भूतेन सत्त्वमभिभूय विवेकख्यातिमपोद्य शतशिखराविद्याविर्भाव्येतेति बतेयमपवर्गकथा तपस्विनो दत्तजलाञ्जलिः प्रसज्येत ।
अस्मत्पक्षे त्वदोष इत्याह-- औपनिषदस्य त्विति ।
यथा हि मुखमवदातमपि मलिनादर्शतलोपाधिकल्पितप्रतिबिम्बभेदं मलिनतामुपैति, न च तद्वस्तुतो मलिनं, नच बिम्बात्प्रतिबिम्बं वस्तुतो भिद्यते, अथ तस्मिन् प्रतिबिम्बे मलिनादर्शोपधानान्मलिनता पदं लभते ।
तथा चात्मनो मलिनं मुखं पश्यन् देवदत्तस्तप्यते ।
यदा तूपाध्यपनयाद्बिम्बमेव कल्पनावशात् प्रतिबिम्बं तच्चावदातमिति तत्त्वमवगच्छति तदास्य तापः प्रशाम्यति नच मलिनं मे मुखमिति ।
एवमविद्योपधानकल्पितावच्छेदो जीवः परमात्मप्रतिबिम्बकल्पः कल्पितैरेव शब्दादिभिः संपर्कात्तप्यते नतु तत्त्वतः परमात्मनो ऽस्ति तापः ।
यदा तु ऽतत्त्वमसिऽइति वाक्यश्रवणमननध्यानाभ्यासपरिपाकप्रकर्षपर्यन्तजो ऽस्य साक्षात्कार उपजायते तदा जीवः शुद्धबुद्धतत्त्वस्वभावमात्मनो ऽनुभवन् निर्मृष्टनिखिलसवासनक्लेशजालः केवलः स्वस्थो भवति, न
चास्य पुनः संसारभयमस्ति तद्धेतोरवास्तवत्वेन समूलकाषं कषितत्वात् ।
सांख्यस्य तु सतस्तमसो ऽशक्यसमुच्छेदत्वादिति ।
तदिदमुक्तम्-- विकारभेदस्य च वाचारम्भणमात्रत्वश्रवणादिति ॥10॥
प्रधानकारणवाद इति ।
यथैव प्रधानकारणवादो ब्रह्मकारणवादविरोध्येवं परमाणुकारणवादो ऽप्यतः सो ऽपि निराकर्तव्यः ।
ऽएतेन शिष्टापरिग्रहा अपि व्याख्याताःऽइत्यस्य प्रपञ्च आरभ्यते--तत्र वैशेषिका ब्रह्मकारणत्वं दूषयांबभूवुः ।
चेतनं चेदाकाशादीनामुपादानं तदारब्धमाकाशादि चेतनं स्यात् ।
कारणगुणक्रमेण हि कार्ये गुणारम्भो दृष्टः, यथा शुक्लैस्तन्तुभिरारब्धः पटः शुक्लः, न जात्वसौ कृष्णो भवति ।
एवं चेतनेनारब्धमाकाशादि चेतनं भवेन्न त्वचेतनम् ।
तस्मादचेतनोपादानमेव जगत् ।
तच्चाचेतनं परमाणवः ।
सूक्ष्मात् खलु स्थूलस्योत्पत्तिर्दृश्यते, यथा तन्तुभिः पटस्यैवमंशुभ्यस्तन्तूनामेवमपकर्षपर्यन्तं कारणद्रव्यमतिसूक्ष्ममनवयवमवतिष्ठते, तच्च परमाणु ।
तस्य तु सावयवत्वे ऽभ्युपगम्यमाने ऽनन्तावयवत्वेन सुमेरुराजसर्षपयोः समानपरिमाणत्वप्रसङ्ग इत्युक्तम् ।
तत्र च प्रथमं तावददृष्टवत्क्षेत्रज्ञसंयोगात्परमाणौ कर्म, ततो ऽसौ परमाण्वन्तरेण संयुज्यद्व्यणुकमारभते ।
बहवस्तु परमाणवः संयुक्ता न सहसा स्थूलमारभन्ते, परमाणुत्वे सति बहुत्वात्, घटोपगृहीतपरमाणुवत् ।
यदि हि घटोपगृहीताः परमाणवो घटमारभेरन् न घटे प्रविभज्यमाने कपालशर्कराद्युपलभ्येत, तेषामनारब्धत्वात्, घटस्यैव तु तैरारब्धत्वात् ।
तथा सति मुद्गरप्रहारात् घटविनाशे न किञ्चिदुपलभ्येत, तेषामनारब्धत्वात् ।
तदवयवानां
परमाणूनामतीन्द्रियत्वात् ।
तस्मान्न बहूनां परमाणूनां द्रव्यं प्रति समवायिकारणत्वम्, अपि तु द्वावेव परमाणू द्य्वणुकमारभेते ।
तस्य चाणुत्वं परिमाणं परमाणुपरिमाणात् पारिमाण्डल्यादन्यदीश्वरबुद्धिमपेक्ष्योत्पन्ना
द्वित्वसंख्यारभते ।
नच द्व्यणुकाभ्यां द्रव्यस्यारम्भः, वैयर्थ्यप्रसङ्गात् ।
तदपि हि द्व्यणुकमेव भवेन्न तु महत् ।
कारणबहुत्वमहत्त्वप्रचयविशेषेभ्यो हि महत्त्वस्योत्पत्तिः ।
नच द्व्यणुकस्योर्महत्त्वमस्ति, यतस्ताभ्यामारब्धं महद्भवेत् ।
नापि तयोर्बहुत्वं, द्वित्वादेव ।
नच प्रचयभेदस्तूलपिण्डानामिव, तदवयवानामनवयवत्वेन प्रशिथिलावयवसंयोगभेदविरहात् ।
तस्मात्तेनापि तत्कारणद्व्यणुकवदणुनैव भवितव्यं, तथा च पुरुषोपभोगातिशयाभावाददृष्टनिमित्तत्वाच्च विश्वनिर्माणस्य भोगार्तत्वात्तत्कारणेन च द्व्यणुकेन तन्निष्पत्तेः कृतं द्व्यणुकाश्रयेण द्व्यणुकान्तरेणेत्यारम्भवैयर्थ्यात् ।
आरम्भार्थवत्त्वाय बहुभिरेव द्व्यणुकैस्त्र्यणुकं चतुरणुणं वा द्रव्यं महद्दीर्घमारब्धव्यम् ।
अस्ति तत्र तत्र भोगभेदः ।
अस्ति च बहुत्वसंख्येश्वरबुद्धिमपेक्ष्योत्पन्ना महत्त्वपरिमाणयोनिः ।
त्र्यणुकादिभिरारब्धं तु कार्यद्रव्यं कारणबहुत्वाद्वा कारणमहत्वाद्वा कारणप्रचयभेदाद्वा महद्भवतीति प्रक्रिया ।
तदेतयैव प्रक्रियया कारणसमवायिनो गुणाः कार्यद्रव्ये समानजातीयमेव गुणान्तरमारभन्त इति दूषणमदूषणीक्रियते, व्यभिचारादित्याह--
स्तर्त् ब्स्व्भ्_2,2.1.11
महद्दीर्घवद् वा ह्रस्वपरिमण्डलाभ्याम्
यथा महद् द्रव्यं त्र्यणुकादि हृस्वाद् द्व्यणुकाज्जायते, न तु महत्त्वगुणोपजनने द्व्यणुकगतं महत्त्वमपेक्षते, तस्य हृस्वत्वात् ।
यथा वा तदेव त्र्यणुकादि दीर्धं हृस्वाद् द्व्यणुकाज्जायते, न तु तद्गतं दीर्घत्वमपेक्षते, तदभावात् ।
वाशब्दश्चार्थे ऽनुक्तसमुच्चयार्थः ।
यथा द्व्यणुकमणु हृस्वपरिमाणं परिमण्डलात् परमाणोरपरिमण्डलं जायत एवं चेतनाद्ब्रह्मणो ऽचेतनं जगन्निष्पद्यत इति सूत्रयोजना ।
भाष्ये परमाणुगुणविशेषस्त्विति ।
पारिमाण्डल्यग्रहणमुपलक्षणम् ।
न द्व्यणुके ऽणुत्वमपि पारमाणुवर्ति पारिमाण्डल्यमारभते, तस्य हि
द्वित्वसंख्यायोनित्वादित्यपि द्रष्टव्यम् ।
हृस्वपरिमण्डलाभ्यामिति सूत्रं गुणिपरं न गुणपरम् ।
यदाहि द्वे द्वे द्व्यणुके इति पठितव्ये प्रमादादेकं द्वेपदं न पठितम् ।
एवं चतुरणुकमित्याद्युपपद्यते ।
इतरथा हि द्व्यणुकमेव तदपि स्यान्न तु महदित्युक्तम् ।
अथवा द्वे इति द्वित्वे, यथा ऽह्येकयोर्द्विवचनैकवचनेऽइति ।
अत्र हि द्वित्वेकत्वयोरित्यर्थः ।
अन्यथा ह्येकेष्विति स्यात्संख्येयानां बहुत्वात् ।
तदेवं योजनीयम्--द्व्यणुकाधिकरणे ये द्वित्वे ते यदा चतुरणुकमारभेते संख्येयानां चतुर्णां द्व्यणुकानामारम्भकत्वात्तत्तद्गते द्वित्वसंख्ये अपि आरम्भिके इत्यर्थः ।
एवं व्यवस्थितायां वैशेषिकप्रक्रियायां तद्दूषणस्य व्यभिचार उक्तः ।
अथाव्यवस्थिता तथापि तदवस्थो व्यभिचार इत्याह-- यदापि बहवः परमाणव इति ।
नाणु जायते नो हृस्वं जायते इति योजना ।
चोदयति-- अथ मन्यसे विरोधिना परिमाणान्तरेण स्वकारणद्वारेणात्क्रान्तत्वादिति ।
परिहरति-- मैवं मंस्था इति ।
कारणगता गुणा न कार्ये समानजातीयं गुणान्तरमारभन्त इत्येतावतैवेष्टसिद्धौ न तधेत्वनुसरणे खेदनीयं मन इत्यर्थः ।
अपि च सत्परिमाणान्तरमाक्रामति नोत्पत्तेश्च प्राक् परिमाणान्तरं सदिति कथमाक्रामेत् ।
नच तत्कारणमाक्रामति ।
पारिमाण्डल्यस्यापि समानजातीयस्य कारणस्यात्क्रमणहेतोर्भावेन समानबलतयोभयकार्यानुत्पादप्रसङ्गादित्याशयवानाह-- नच परिमाणान्तरात्क्रान्तत्वमिति ।
नच परिमाणान्तरारम्भे व्यापृतता पारिमाण्डल्यादीनाम् ।
नच कारणबहुत्वादीनां संनिधानमसंनिधानं च पारिमाण्डल्यस्येत्याह-- नच परिमाणान्तरारम्भे इति ।
व्यभिचारान्तरमाह-- संयोगाच्चेति ।
शङ्कते- द्रव्ये प्रकृत इति ।
निराकरोति- न ।
दृष्टान्तेनेति ।
न चास्माकमयमनियमः, भवतामपीत्याह-- सूत्रकारो ऽपीति ।
सूत्रं व्याचष्टे-- यथा प्रत्यक्षाप्रत्यक्षयोरिति ।
शेषमतिरोहितार्थम् ॥11॥
स्तर्त् ब्स्व्भ्_2,2.3.12
उभयथापि न कर्मातस्तदभावः
परमाणूनामाद्यस्य कर्मणः कारणाभ्युपगमे ऽनभ्युपगमे वा न कर्मातस्तदभावस्तस्य द्व्यणुकादिक्रमेण सर्गस्याभावः ।
अथवा यद्यणुसमवाय्यदृष्टमथवा क्षेत्रज्ञसमवायि, उभयथापि तस्याचेतनस्य चेतनानधिष्ठितस्याप्रवृत्तेः कर्मभावो ऽतस्तदभावः सर्गाभावः ।
निमित्तकारणतामात्रेण त्वीश्वरस्याधिष्ठातृत्वमुपरिष्टान्निराकरिष्यते ।
अथवा संयोगोत्पत्त्यर्थं विभागोत्पत्त्यर्थमुभयथापि न कर्मातः सर्गहेतोः संयोगस्याभावात् प्रलयहेतोर्विभागस्याभावात्तदभावः ।
तयोः सर्गप्रलययोरभाव इत्यर्थः ।
तदेतत्सूत्रं तात्पर्यतो व्याचष्टे-- इदानीं परमाणुकारणवादमिति ।
निराकार्यस्वरूपमुपपत्तिसहितमाह-- स च वाद इति ।
स्वानुगतैः स्वसंबद्धैः ।
संबन्धश्चाधार्याधारभूत इहप्रत्ययहेतुः समवायः ।
पञ्चमभूतस्यानवयवत्वात् तानीमानि चत्वारि भूतानीति ।
तत्र परमाणुकारणवादे इदमभिधीयते सूत्रम् ।
तत्र प्रथमां व्याख्यामाह-- कर्मवतामिति ।
अभिघातादीत्यादिग्रहणेन नोदनसंस्कारगुरुत्वद्रवत्वानि गृह्यन्ते ।
नोदनसंस्कारावभिघातेन समानयोगक्षेमौ, गुरुत्वद्रवत्वे च परमाणुगते सदातने इति कर्मसातत्यप्रसङ्गः ।
द्वितीयं
व्याख्यानमाशङ्कापूर्वमाह-- अथादृष्टं धर्माधर्मौ ।
आद्यस्य कर्मण इति ।
आत्मनश्च क्षेत्रज्ञस्य अनुत्पन्नचैतन्यस्येति ।
अदृष्टवता पुरुषेणेति ।
संयुक्तसमवायसंबन्ध इत्यर्थः ।
संबन्धस्य सातत्यादिति ।
यद्यपि परमाणुक्षेत्रज्ञयोः संयोगः परमाणुकर्मजस्तथापि तत्प्रवाहस्य सातत्यमिति भावः ।
सर्वात्मना चेदुपचयाभावः ।
एकदेशेन हि संयोगे यावण्वोरेकदेशौ निरन्तरौ ताभ्यामन्ये एकदेशाः संयोगेनाव्याप्ता इति प्रथमोपपद्यते ।
सर्वात्मना तु नैरन्तर्ये परमाणावेकस्मिन् परमाण्वान्तराण्यपि संमान्तीति न प्रथमा स्यादित्यर्थः ।
शङ्कते--यद्यपि निष्प्रदेशाः
परमाणवस्तथापि संयोगस्तयोरव्याप्यवृत्तिरेवंस्वभावत्वात् ।
कैषा वाचोर्युक्तिर्निष्प्रदेशं संयोगो न व्याप्नोतीति ।
एषैव वाचोर्युक्तिर्यद्यथा प्रतीयते तत्तथाभ्युपेयत इति ।
तामिमां शङ्कां सूद्धारामाह-- परमाणूनां कल्पिता इति ।
नह्यस्ति संभवो निरवयव एकस्तदैव तेनैव संयुक्तश्चासंयुक्तश्चेति, भावाभावयोरेकस्मिन्नद्वये विरोधात् ।
अविरोधे वा न क्वचिदपि विरोधो ऽवकाशमासादयेत ।
प्रतीतिस्तु प्रदेशकल्पनयापि कल्प्यते ।
तदिदमुक्तम्-- कल्पिताः प्रदेशाः इति ।
तथा च सूद्धारेयमिति तामुद्धरति-- कल्पितानामवस्तुत्वादिति ।
तृतीयां व्याख्यामाह-- यथा चादिसर्ग इति ।
नन्वभिघातनोदनादयः प्रलयारम्भसमये कस्माद्विभागारम्भककर्महेतवो न संभवन्त्यत आह-- नहि तत्रापि किञ्चिन्नियतमिति ।
संभवन्त्यभिघातादयः कदाचित् क्वचित् ।
न त्वपर्यायेण सर्वस्मिन् ।
नियमहेतोरभावादित्यर्थः ।
न प्रलयप्रसिद्ध्यर्थमिति ।
यद्यपि शरीरादिप्रलयारम्भे ऽस्ति दुःखभोगस्तथाप्यसौ पृथिव्यादिप्रलये नास्तीत्यभिप्रेत्येदमुदितमिति मन्तव्यम् ॥12॥
स्तर्त् ब्स्व्भ्_2,2.3.13
समवायाभ्युपगमाच्च साम्यादनवस्थितेः
व्याचष्टे-- समवायाभ्युपगमाच्चेति ।
न तावत् स्वतन्त्रः समवायो ऽत्यन्तं भिन्नः समवायिभ्यां समवायिनौ घटयितुमर्हत्यतिप्रसङ्गात् ।
तस्मादनेन समवायिसंबन्धिना सता समवायिनौ घटनीयौ, तथा च समवायस्य संबन्धान्तरेण समवायिसंबन्धे ऽभ्युपगम्यमाने ऽनवस्था ।
अथासौ संबन्धिभ्यां संबन्धे न संबन्धान्तरमपेक्षते संबन्धिसंबन्धनपरमार्थत्वात् ।
तथाहि--नासौ भिन्ने ऽपि संबन्धिनिरपेक्षो निरूप्यते ।
न च तस्मिन् सति समबन्घिनावसंबन्घिनौ भवतः ।
तस्मात् स्वभावादेव समवायः समवायिनोर्न संबन्धान्तरेणेति
नानवस्थेति चोदयति-- नन्विहप्रत्ययग्राह्या इति ।
परिहरति-- नेत्युच्यते ।
संयोगो ऽप्येवमिति ।
तथाहि--संयोगो ऽपि संबन्धिसंबन्धनपरमार्थः ।
नच भिन्नो ऽपि संयोगिभ्यां विना निरूप्यते ।
नच तस्मिन् सति संयोगिनावसंयोगिनौ भवत इति तुल्यचर्चः ।
यद्युच्येत गुणः संयोगः, नच द्रव्यासमवेतो गुणो भवति, न चास्य समवायं विना समवेतत्वं, तस्मात्संयोगस्यास्ति समवाय इति शङ्कामपाकरोति--- नच गुणत्वादिति ।
यद्यसमवाये ऽस्यागुणत्वं भवति कामं भवतु न नः काचित्क्षतिः, तदिदमुक्तम्-- गुणपरिभाषायाश्चेति ।
परमार्थतस्तु द्रव्याश्रयीत्युक्तम् ।
तच्च विनापि समवायं स्वरूपतः संयोगस्योपपद्यत एव ।
नच कार्यत्वात्समवाय्यसमवायिकारणापेक्षितया संयोगः समवायीति युक्तम्, अजसंयोगस्यातथात्वप्रसङ्गात् ।
अपि च समवायस्यापि संबन्ध्यधीनसद्भावस्य संबन्धिनश्चैकस्य द्वयोर्वा विनाशित्वेन विनाशित्वात्कार्यत्वम् ।
नह्यस्ति संभवो गुणो वा गुणगुणिनौ वावयवो वावयवावयविनौ वा न स्तो ऽप्यस्ति च तयोः संबन्ध इति ।
तस्मात् कार्यः समवायः ।
तथा च यथैष निमित्तकारणमात्राधीनोत्पाद एवं संयोगो ऽपि ।
अथ समवायो ऽपि समवाय्यसमवायिकारणे अपेक्षते तथापि सैवानवस्थेति ।
तस्मात्समवायवत् संयोगो ऽपि न संबन्धान्तरमपेक्षते ।
यद्युच्येत संबन्धिनावसौ घटयति नात्मानमपि संबन्धिभ्यां, तत् किमसावसंबद्ध एव संबन्धिभ्याम्, एवं चेदत्यन्तभिन्नो ऽसंबद्धः कथं संबन्धिनौ संबन्धयेत् ।
संबन्धने वा हिमवद्विन्ध्यावपि संबन्धयेत् ।
तस्मात्संयोगः संयोगिनोः समवायेन संबद्ध इति वक्तव्यम् ।
तदेतत्समवायस्यापि समवायिसंबन्धे समानमन्यत्राभिनिवेशात् ।
तथा चानवस्थेति भावः ॥13॥
स्तर्त् ब्स्व्भ्_2,2.3.14
नित्यमेव च भावात्
प्रवृत्तेरप्रवृत्तेर्वेति शेषः ।
अतिरोहितार्थमस्य भाष्यम् ॥14॥
स्तर्त् ब्स्व्भ्_2,2.3.15
रूपादिमत्त्वाच्च विपर्ययो दर्शनात्
यत् किल भूतभौतिकानां मूलकारणं तद्रूपादिमान् परमाणुर्नित्य इति भवद्भिरभ्युपेयते, तस्य चेद्रूपादिमत्त्वमभ्युपेयेत परमाणुत्वनित्यत्वविरुद्धे स्थौल्यानित्यत्वे प्रसज्येयातां, सो ऽयं प्रसङ्ग
एकधर्माभ्युपगमे धर्मान्तरस्य ।
नियता प्राप्तिर्हि प्रसङ्गलक्षणं, तदनेन प्रसङ्गेन जगत्कारणप्रसिद्धये प्रवृत्तं साधनं रूपादिमन्नित्यपरमाणुसिद्धेः प्रच्याव्य ब्रह्मगोचरतां नीयते ।
तदेतद्वैशेषिकाभ्युपगमोपन्यासपूर्वकमाह-- सावयवानां द्रव्याणामिति ।
परमाणुनित्यत्वसाधनानि च तेषामुपन्यस्य दूषयति-- यच्च नित्यत्वे कारणमिति ।
सदिति प्रागभावाद्व्यवच्छिनत्ति ।
अकारणवदिति घटादेः ।
यदपि
नित्यत्वे द्वितीयमिति ।
लब्धरूपं हि क्वचित् किञ्चिदन्यत्र निषिध्यते ।
तेनानित्यमिति लौकिकेन निषेधेनान्यत्र नित्यत्वसद्भावः कल्पनीयः, ते चान्ये परमाणव इति ।
तन्न ।
आत्मन्यपि नित्यत्वोपपत्तेः ।
व्यपदेशस्य च प्रतीतिपूर्वकस्य तदभावे निर्मूलस्यापि दर्शनात् ।
यथेह वटे यक्ष इति ।
यदपि नित्यत्वे तृतीयं कारणमविद्येति ।
यदि सतां परमाणूनां परिदृश्यमानस्थूलकार्याणां प्रत्यक्षेण कारणाग्रहणमविद्या तया नित्यत्वम्, एवं सति द्व्यणुकस्यापि नित्यत्वम् ।
अथाद्रव्यत्वे सतीति विशेष्येत तथा सति न द्व्यणुके व्यभिचारः, तस्यानेकद्रव्यत्वेनाविद्यमानद्रव्यत्वानुपपत्तेः ।
तथाप्यकारणवत्त्वमेव नित्यतानिमित्तमापद्येत, यतो ऽद्रव्यत्वमविद्यमानकारणभूतद्रव्यत्वमुच्यते, तथा च पुनरुक्तमित्याह-- तस्य चेति ।
अपि चाद्रव्यत्वे सति सत्त्वादित्यत एवेष्टार्थसिद्धेरविद्येति व्यर्थम् ।
अथाविद्यापदेन द्रव्यविनाशकारणद्वयाविद्यमानत्वमुच्यते, द्विविधो हि द्रव्यनाशहेतुरवयवविनाशो ऽवयवव्यतिषङ्गविनाशश्च, तदुभयं परमाणौ नास्ति, तस्मान्नित्यः
परमाणुः ।
नच सुखादिभिर्व्यभिचारः, तेषामद्रव्यत्वादित्याह-- अथापीति ।
निराकरोति-- नावश्यमिति ।
यदि हि संयोगसचिवानि बहूनि द्रव्याणि द्रव्यान्तरमारभेरन्निति प्रक्रिया सिध्येत् सिध्येत् द्रव्यद्वयमेव(?)तद्विनाशकारणमिति ।
नत्वेतदस्ति, द्रव्यस्वरूपापरिज्ञानात् ।
न तावत् तन्त्वाधारस्तद्व्यतिरिक्तः पटो नामास्ति यः संयोगसचिवैस्तन्तुभिरारभ्येतेत्युक्तमधस्तात् ।
षट्पदार्थाश्च दूषयन्नग्रे वक्ष्यति ।
किन्तु कारणमेव विशेषवदवस्थान्तरमापद्यमानं कार्यं, तच्च सामान्यात्मकम् ।
तथाहि--मृद्वा सुवर्णं वा सर्वेषु घटरुचकादिष्वनुगतं सामान्यमनुभूयते ।
न चैते घटरुचकादयो मृत्सुवर्णाभ्यां व्यतिरिच्यन्त इत्युक्तम् ।
अग्रे च वक्ष्यामः ।
तस्मान्मृत्सुवर्णे एव तेन तेनाकारेण परिणममाने घट इति च रुचक इति च कपालशर्कराकणमिति च शकलकणिकाचूर्णमिति च व्याख्यायेते ।
तत्र तत्रोपादानयोर्मृत्सुवर्णयोः प्रत्यभिज्ञानात् ।
न तु घटादयो वा कपालादिषु कपालादयो वा घटादिषु च रुचकादयो वा शकलादिषु शकलादयो वा रुचकादिषु प्रत्यभिज्ञायन्ते यत्र कार्यकारणभावो भवेत् ।
न च विनश्यन्तमेव घटक्षणं प्रतीत्य कपालक्षणो ऽनुपादान एवोत्पद्यते तत्किमुपादानप्रत्यभिज्ञानेनेति वक्तव्यम्, एतस्या अपि वैनाशिकप्रक्रियाया उपरिष्टान्निराकरिष्यमाणत्वात् ।
तस्मादुपजनापायधर्माणो विशेषावस्थाः सामान्यस्योपादेयाः, सामान्यात्मा तूपादानम् ।
एवं व्यवस्थिते यथा सुवर्णद्रव्यं काठिन्यावस्थामपहाय द्रवावस्थया परिणतं, न च तत्रावयवविभागः सन्नपि द्रवत्वे कारणं, परमाणूनां भवन्मते तदभावेन द्रवत्वानुपपत्तेः, तस्माद्यथा परमाणु द्रव्यमग्निसंयोगात्काठिन्यमपहाय द्रवत्वेना परिणमते, नच काठिन्यद्रवत्वे परिमाणोरधिरिच्येते, एवं मृद्वा सुवर्णं वा सामान्यं पिण्डिवस्थामपहाय कुलालहेमकारादि व्यापाराद्घटरुचकीद्यवस्थामापद्यते ।
न त्ववयवविनाशात्तत्संयोगविनाशाद्वा विनष्टुमर्हन्ति घटरुचकादयः ।
नहि कपालादयो ऽस्योपादानं तत्संयोगो वासमवायिकारणमपि तु
सामान्यमुपादानं, तच्च नित्यम् ।
नच तत्संयोगसचिवमेकत्वात्, संयोगस्य द्विष्ठत्वेनैकस्मिन्नभावात् ।
तस्मात्सामान्यस्य परमार्थसतो ऽनिर्वाच्या विशेषावस्थास्तदधिष्ठाना भुजङ्गादय इव रज्ज्वाद्युपादानां उपजनापायधर्माण इति सांप्रतम् ।
प्रकृतमुपसंहरति-तस्मादिति ॥15॥
स्तर्त् ब्स्व्भ्_2,2.3.16
उभयथा च दोषात्
अनुभूयते हि पृथिवी गन्धरूपरसस्पर्शात्मिका स्थूला, आपो रसरूपस्पर्शात्मिकाः सूक्ष्माः, रूपस्पर्शात्मकं तेजः सूक्ष्मतरं, स्पर्शात्मको वायुः सूक्ष्मतमः ।
पुराणे ऽपि स्मर्यते-
ऽआकाशं शब्दमात्रं तु स्पर्शमात्रं समाविशत् ।
द्विगुणस्तु ततो वायुः शब्दस्पर्शात्मको ऽभवत् ॥1॥
रूपं तथैवाविशतः शब्दस्पर्शगुणावुभौ ।
त्रिगुणस्तु ततो वह्निः स शब्दस्पर्शवान् भवेत् ॥2॥
शब्दः स्पर्शश्च रूपं च रसमात्रं समाविशत् ।
तस्माच्चतुर्गुणा आपो विज्ञेयास्तु रसात्मिकाः ॥3॥
शब्दः स्पर्शश्च रूपं च रसश्चेद्गन्धमाविशत् ।
संहतान् गन्धमात्रेण तानाचष्टे महीमिमाम् ॥4॥
तस्मात्पञ्चगुणा भूमिः स्थूला भूतेषु दृश्यते ।
शान्ता घोराश्च मूढाश्च विशेषास्तेन ते स्मृताः ॥5॥
परस्परानुप्रवेशाद्धारयन्ति परस्परम् ।
ऽतेन गन्धादयः परस्परं संहन्यमानाः पृथिव्यादयः ।
तथा च यथायथा संहन्यमानानामुपचयस्तथातथा संहतस्य स्थौल्यं, यथायथापचयस्तथातथा सौक्ष्म्यतारतम्यं, तदेवमनुभवागमाभ्यामवस्थितमर्थं वैशेषिकैरनिच्छद्भिरप्यशक्यापह्नवमाह- गन्धेति ।
अस्तु तावच्छब्दो वैशेषिकैस्तस्य पृथिव्यादिगुणत्वेनानभ्युपगमादिति चत्वारि भूतानि चतुस्त्रिद्व्येकगुणान्युदाहृतवान् ।
अनुभवागमसिद्धमर्थमुक्त्वा विकल्प्य दूषयति- तद्वत् ।
स्थूलपृथिव्यादिवत् ।
परमाणवो ऽपीति ।
उपचितगुणानां मूर्त्युपचयात्
उपचितसंहन्यमानानां संघातोपचयात् ।
अपरमाणुत्वप्रसङ्गः स्थूलत्वादिति ।
यस्तु ब्रूते न गन्धादिसंघातः परमाणुरपि तु गन्धाद्याश्रयो द्रव्यं, नच गन्धादीनां तदाश्रयाणामुपचये ऽपि द्रव्यस्योपचयो भवितुमर्हत्यन्यत्वादिति, तं प्रत्याह- न चान्तरेणापि मूर्त्युपचयं द्रव्यस्वरूपोपचयमित्यर्थः ।
कुतः ।
कार्येषु भूतेषु गुणोपचये मूर्त्युपचयदर्शनात् ।
नतावत् परमाणवो रूपतो गृह्यन्ते किन्तु कार्यद्वारा, कार्यं च न गन्धादिभ्यो भिन्नं, यदा न तदाधारतया गृह्यते ऽपि तु तदात्मकतया, तथा च तेषामुपचये तदुपचितं दृष्टमिति परमाणुभिरपि तत्कारणैरेवं भवितव्यं, तथा चापरमाणुत्वं स्थूलत्वादित्यर्थः ।
द्वितीयं विकल्पं दूषयति- अकल्प्यमाने तूपचितापचितगुणत्व इति ।
अथ सर्वे चतुर्गुणा इति ।
यद्यप्यस्मिन् कल्पे सर्वेषां स्थौल्यप्रसङ्गस्तथाप्यतिस्फुटतयोपेक्ष्य दूषयति- ततो ऽप्स्वपीति ।
वायो रूपवत्त्वेन चाक्षुषत्वप्रसङ्ग इत्यपि द्रष्टव्यम् ॥16॥
स्तर्त् ब्स्व्भ्_2,2.3.17
अपरिग्रहाच् चात्यन्तम् अनपेक्षा
निगदव्याख्यातेन भाष्येण व्याख्यातम् ।
संप्रत्युत्सूत्रं भाष्यकृद्वैशेषिकतन्त्रं दूषयति- अपि च वैशेषिका इति ।
द्रव्याधीनत्वं द्रव्याधीननिरूपणत्वम् ।
न हि यथा गवाश्वमहिषमातङ्गाः परस्परानधीननिरूपणाः स्वतन्त्रा निरूप्यन्ते, वन्ह्याद्यनधीनोत्पत्तयो वा धूमादयो यथा वन्ह्याद्यनधीननिरूपणाः स्वतन्त्रा निरूप्यन्ते, एवं गुणादयो न द्रव्याद्यनधीननिरूपणाः, अपि तु यदा यदा निरूप्यन्ते तदा तदा तदाकारतयैव प्रथन्ते न तु प्रथायामेषामस्ति स्वातन्त्र्यं, तस्मान्नातिरिच्यन्ते द्रव्यादपि तु द्रव्यमेव सामान्यरूपं तथा तथा प्रथत इत्यर्थः ।
द्रव्यकार्यत्वमात्रं गुणादीनां द्रव्याधीनत्वमिति मन्वानश्चोदयति-- नन्वग्नेरन्यस्यापीति ।
परिहरति- भेदप्रतीतेरिति ।
न तदधीनोत्पादतां तदधीनत्वमाचक्ष्महे किन्तु तदाकारतां, तथा च न व्यभिचार इत्यर्थः ।
शङ्कते- गुणानां द्रव्याधीनत्वं द्रव्यगुणयोरयुतसिद्धत्वादिति यद्युच्येत ।
यत्र हि द्वावाकारिणौ विभिन्नाभ्यामाकाराभ्यामवगम्येते तौ संबद्धासंबद्धौ वा वैयधिकरण्येन प्रतिभासेते, यथेह कुण्डे दधि
यथा वा गौरश्व इति, न तथा गुणकर्मसामान्यविशेषसमवायाः, तेषां द्रव्यकारतयाकारान्तरायोगेन द्रव्यादाकारिणो ऽन्यत्वेनाकारितया व्यवस्थानाभावात् सेयमयुतसिद्धिः ।
तथा च सामानाधिकरण्येन प्रथेत्यर्थः ।
तामिमामयुतसिद्धिं विकल्प्य दूषयति-- तत्पुनरयुतसिद्धत्वमिति ।
तत्रापृथग्देशत्वं तदभ्युपगमेन विरुध्यत इत्याह-- अपृथग्देशत्व इति ।
यदि तु संयोगिनोः कार्ययोः संबन्धिभ्यामन्यदेशत्वे युतसिद्धिस्ततो ऽन्यायुतसिद्धिः, नित्ययोस्तु संयोगिनोर्द्वयोरन्यतरस्य वा पृथग्गतिमत्त्वं युतसिद्धिस्ततो ऽन्यायुतसिद्धिः, तथा चाकाशपरमाण्वोः परमाण्वोश्च संयुक्तयोर्युतसिद्धिः सिद्धा भवति ।
गुणगुणिनोश्च शौक्ल्यपटयोरयुतसिद्धिः सिद्धा भवति ।
नहि तत्र शौक्ल्यपटाभ्यां संबन्धिभ्यामन्यदेशौ शौक्ल्यपटौ ।
सत्यपि पटस्य तदन्यतन्तुदेशत्वे शौक्ल्यस्य संबन्धिपटदेशत्वात् ।
तन्न ।
नित्ययोरात्माकाशयोरजसंयोगे उभयस्या अपि युतसिद्धेरभावात् ।
न हि तयोः पृथगाश्रयाश्रितत्वमनाश्रयत्वात् ।
नापि द्वयोरन्यतरस्य वा पृथग्गतिमत्त्वमूर्तत्वेनोभयोरपि निष्क्रियत्वात् ।
न चाजसंयोगो नास्ति तस्यानुमानसिद्धत्वात् ।
तथाहि--आकाशमात्मसंयोगि, मूर्तद्रव्यसङ्गित्वात्, घटादिवदित्यनुमानम् ।
पृथगाश्रयाश्रयित्वपृथग्गतिमत्त्वलक्षणयुतसिद्धेरन्या त्वयुतसिद्धिर्यद्यपि नाभ्युपेतविरोधमावहति तथापि न सामानाधिकरण्यप्रथामुपपादयितुमर्हति ।
एवं लक्षणे ऽपि हि समवाये गुणगुणिनोरभ्युपगम्यमाने संबद्धे इति प्रत्ययः स्यान्न तादात्म्यप्रत्ययः ।
अस्य चोपपादनाय समवाय आस्थीयते भवद्भिः ।
स चेदास्थितो ऽपि न प्रत्ययमिममुपपादयेत् कृतं तत्कल्पनया ।
न च प्रत्यक्षः सामानाधिकरण्यप्रत्ययः समवायगोचरः, तद्विरुद्धार्थत्वात् ।
तद्गोचरत्वे
हि पटे शुक्ल इत्येवमाकरः स्यान्न तु पटः शुक्ल इति ।
नच शुक्लपदस्य गुणविशिष्टगुणिपरत्वादेवं प्रथेति सांप्रतम् ।
नहि शब्दवृत्त्यनुसारि प्रत्यक्षम् ।
नह्यग्निर्माणवक इत्युपचरिताग्निभावो माणवकः प्रत्यक्षेण दहनात्मना प्रथते ।
न चायमभेदविभ्रमः समवायनिबन्धनो भिन्नयोरपीति वाच्यम्, गुणादिसद्भावे तद्भेदे च प्रत्यक्षानुभवादन्यस्य प्रमाणस्याभावात्तस्य च भ्रान्तत्वे सर्वाभावप्रसङ्गात् ।
तदाश्रयस्य तु भेदसाधनस्य तद्विरुद्धतयोत्थानासंभवात् ।
तदिदमुक्तम्-- तस्य तादात्म्येनैव प्रतीयमानत्वादिति ।
अपि चायुतसिद्धशब्दो ऽपृथगुत्पत्तौ मुख्यः, सा च भवन्मते न द्रव्यगुणयोरस्ति, द्रव्यस्य प्राक्सिद्धेर्गुणस्य च पश्चादुत्पत्तेः, तस्मान्मिथ्यावादो ऽयमित्याह-- युतसिद्धयोरिति ।
अथ भवतु कारणस्य युतसिद्धिः, कार्यस्य त्वयुतसिद्धि कारणातिरेकेणाभावादित्याशङ्क्यान्यथा दूषयति-- एवमपीति ।
संबन्धिद्वयाधीनसद्भावो हि संबन्धो नासत्येकस्मिन्नपि संबन्धिनि भवितुमर्हति ।
नच समवायो नित्यः स्वतन्त्र इति चोक्तमधस्तात् ।
नच कारणसमवायादनन्या कार्यस्योत्पत्तिरिति शक्यं वक्तुम्, एवं हि सति समवायस्य नित्यत्वाभ्युपगमात् कारणवैयर्थ्यप्रसङ्गः ।
उत्पत्तौ च समवायस्य सैव कार्यस्यास्तु किं समवायेन ।
सिद्धयोस्तु संबन्धे युतसिद्धिप्रसङ्गः ।
न चान्यायुतसिद्धिः संभवतीत्येतदुक्तम् ।
ततश्च यदुक्तं वैशेषिकैर्युतसिद्ध्यभावात् ।
कार्यकारणयोः संयोगविभागौ न विद्यते इतीदं दुरुक्तं स्यात् ।
युतसिद्ध्यभावस्यैवाभावात् ।
एतेनाप्राप्तिसंयोगौ युतसिद्धिरित्यपि लक्षणमनुपपन्नम् ।
मा भूदप्राप्तिः कार्यकारणयोः, प्राप्तिस्त्वनयोः संयोग एव कस्मान्न भवति, तत्रास्या असंयोगत्वायान्यायुतसिद्धिर्वक्तव्या ।
तथा च सैवोच्यतां किमनया परस्पराश्रयदोषग्रस्तया ।
न चान्या संभवतीत्युक्तम् ।
यद्युच्येताप्राप्तिपूर्विका प्राप्तिरन्यतरकर्मजोभयकर्मजा वा संयोगः, यथा स्थाणुश्येनयोर्मल्लयोर्वा ।
नच तन्तुपटयोः संबन्धस्तथा, उत्पन्नमात्रस्यैव पटस्य तन्तुसंबन्धात् ।
तस्मात्समवाय एवायमित्यत आह-- यथा चोत्पन्नमात्रस्येति ।
संयोगजो ऽपि हि संयोगो भवद्भिरभ्युपेयते न क्रियाज एवेत्यर्थः ।
न चाप्राप्तिपूर्विकैव प्राप्तिः संयोगः, आत्माकाशसंयोगे नित्ये तदभावात्, कार्यस्य चोत्पन्नमात्रस्यैकस्मिन् क्षणे कारणप्राप्तिविरहाच्चेति ।
अपि च संबन्धिरूपातिरिक्ते संबन्धे सिद्धे तदवान्तरभेदाय लक्षणभेदो ऽनुश्रीयेत स एव तु संबन्ध्यतिरिक्तो ऽसिद्धः, उक्तं हि परस्तादतिरिक्तः संबन्धिभ्यां संबन्धो ऽसंबद्धो न संबन्धिनौ घटयितुमिष्टे ।
संबन्धिसंबन्धे चानवस्थितिः ।
तस्मादुपपत्त्यनुभवाभ्यां न कार्यस्य कारणादन्यत्वम्, अपि तु कारणस्यैवायमनिर्वाच्यः परिणामभेद इति ।
तस्मात् कार्यस्य कारणादनतिरेकान् किं केन संबद्धं, संयोगस्य च संयोगिभ्यामनतिरेकात् कस्तयोः संयोग इत्याह-- नापि संयोगस्येति ।
विचारासहत्वेनानिर्वाच्यतामस्यापरिभावयन्नाशङ्कते-- संबन्धिशब्दप्रत्यव्यतिरेकेणेति ।
निराकरोति-- न ।
एकत्वे ऽपि स्वरूपबाह्यरूपापेक्षयेति ।
तत्तदनिर्वचनीयानेकविशेषावस्थाभेदापेक्षयैकस्मिन्नपि नानाबुद्धिव्यपदेशोपपत्तिरिति ।
यथैको देवदत्तः स्वगतविशेषापेक्षया मनुष्यो ब्राह्मणो ऽवदातः, स्वगतावस्थाभेदापेक्षया बालो युवा स्थविरः, स्वक्रियाभेदापेक्षया श्रोत्रियः, परापेक्षया तु पिता पुत्रः पौत्रो भ्राता जामातेति ।
निदर्शनान्तरमाह-- यथा चैकापि सती रेखेति ।
दार्ष्टान्तिके योजयति-- तथा संबन्धिनोरिति ।
अङ्गुल्योर्नैरन्तर्यं संयोगः, दधिकुण्डयोरौत्तराधर्यं संयोगः ।
कार्यकारणयोस्तु तादात्म्ये ऽप्यनिर्वाच्यस्य कार्यस्य भेदं विवक्षित्वा संबन्धिनो रित्युक्तम् ।
नापि संबन्धिविषयत्वे संबन्धशब्दप्रत्यययोः
इत्येतदप्यनिर्वाच्यभेदाभिप्रायम् ।
अपिचादृष्टवत्क्षेत्रसंयोगात् परमाणुमनसोश्चाद्यं कर्म भवद्भिरिष्यते ।
ऽअग्नेरूर्ध्वज्वलनं वायोस्तिर्यक्पवनमणुमनसोश्चाद्यं कर्मेत्यदृष्टकारितानिऽइति वचनात् ।
न चाणुमनसोरात्मानाप्रदेशेन संयोगः संभवति ।
संभवे चाणुमनसोरात्मव्यापित्वात् परममहत्त्वेनानणुत्वप्रसङ्गात् ।
नच प्रदेशवृत्तिरनयोरात्मना संयोगो ऽप्रदेशत्वादात्मनः, कल्पनायाश्च वस्तुतत्त्वव्यवस्थापनासहत्वादतिप्रसङ्गादित्याह-- तथाण्वात्ममनसामिति ।
किञ्चान्यत् द्वाभ्यामणुभ्यां कारणाभ्यां सावयवस्य कार्यस्य द्व्यणुकस्याकाशेनेव संश्लेषानुपपत्तिः ।
संश्लेषः संग्रहो यत एकसंबन्ध्याकर्षे संबन्ध्यन्तराकर्षो भवति तस्यानुपपत्तिरिति ।
अत एव संयोगादन्यः कार्यकारणद्रव्ययोराश्रयाश्रितभावो ऽन्यथा नोपपद्यत इत्यवश्यं कल्पनीयः समवाय इति चेत् ।
निराकरोति-- न ।
कुतः ।
इतरेतराश्रयत्वात् ।
तद्विभजते-- कार्यकारणयोर्हीति ।
किञ्चान्यत् ।
परमाणूनामिति ।
ये हि परिच्छिन्नास्ते सावयवाः, यथा घटादयः ।
तथा च परमाणवः, तस्मात्सावयवा अनित्याः स्युः ।
अपरिच्छिन्नत्वे चाकाशादिवत् परमाणुत्वव्याघातः शङ्कते-- यांस्त्वमिति ।
निराकरोति-- न ।
स्थूलेति ।
किं सूक्ष्मत्वात् परमाणवो न विनश्यन्त्यथ निरवयवतया तत्र पूर्वस्मिन् कल्पे इदमुक्तम्-- वस्तुभूतापीति ।
भवन्मते उत्तरं कल्पमाशङ्क्य निराकरोति-- विनश्यन्तो ऽप्यवयवविभागेनेति ।
यथा हि घृतसुवर्णादीनामविभज्यमानावयवानामपीति ।
यथा हि पिष्टपिण्डो ऽविनश्यदवयवसंयोग एव प्रथते, प्रथमानश्चाश्वशफाकारतां नीयमानः पुरोडाशतामापद्यते, तत्र पिण्डो नश्यति पुरोडाशश्चोत्पद्यते, नहि तत्र पिण्डावयवसंयोगा विनश्यन्ति, अपि तु संयुक्ता एव सन्तः परं प्रथनेन नुद्यमाना अधिकदेशव्यापका भवन्ति, एवमग्निसंयोगेन सुवर्णद्रव्यावयवाः संयुक्ता एव सन्तो द्रवीभावमापद्यन्ते, नतु मिथो विभज्यन्ते ।
तस्माद्यथावयवसंयोगविनाशावन्तरेणापि सुवर्णपिण्डो विनश्यति, संयोगान्तरोत्पादमन्तरेण च
सुवर्णे द्रव उपजायते, एवमन्तरेणाप्यवयवसंयोगविनाशं परमाणवो विनङ्क्ष्यन्त्यन्ये चोत्पत्स्यन्त इति सर्वमवदातम् ॥17॥
स्तर्त् ब्स्व्भ्_2,2.4.18
समुदाय उभयहेतुके ऽपि तदप्राप्तिः
अवान्तरसंगतिमाह--
वैशेषिकराद्धान्त इति ।
वैशेषिकाः खल्वर्धवैनाशिकाः ।
ते हि परमाण्वाकाशादिक्कालात्ममनसां च सामान्यविशेषसमवायानां च गुणानां च केषाञ्चिन्नित्यत्वमभ्युपेत्य शेषाणां निरन्वयविनाशमुपयन्ति, तेन तेर्ऽधवैनाशिकाः ।
तेन तदुपन्यासो वैनाशिकत्वसाम्येन सर्ववैनाशिकान् स्मारयतीति तदनन्तरं वैनाशिकमतनिराकरणमिति ।
अर्धवैनाशिकानां स्थिरभाववादीनां समुदायारम्भ उपपद्येतापि, क्षणिकभाववादीनां त्वसौ दूरापेत इत्युपपादयिष्यामः ।
तेन नतराम् इत्युक्तम् ।
तदिदं दूषणाय वैनाशिकमतमुपन्यसितुं तत्प्रकारभेदानाह-- स च बहुप्रकार इति ।
वादिवैचित्र्यात् खलु, केचित्सर्वास्तित्वमेव राद्धान्तं प्रतिपद्यन्ते केचिज्झानमात्रास्तित्वम् ।
केचित्सर्वशून्यताम् ।
अथ त्वत्रभवतां सर्वज्ञानां तत्त्वप्रतिपत्तिभेदो न संभवति, तत्त्वस्यैकरूप्यादित्येतदपरितोषेणाह-- विनेयभेदाद्वा ।
हीनमध्यमोत्कृष्टधियो हि शिष्या भवन्ति ।
तत्र ये हीनमतयस्ते सर्वास्तित्ववादेन तदाशयानुरोधाच्छून्यतायामवतार्यन्ते ।
ये तु मध्यमास्ते ज्ञानमात्रास्तित्वेन शून्यतायामवतार्यन्ते ।
ये तु प्रकृष्टमतयस्तेभ्यः साक्षादेव शून्यतातत्त्वं प्रतिपाद्यते ।
यथोक्तं बोधिचित्तविवरणे--देशना लोकनाथानां सत्त्वाशयवशानुगाः ।
भिद्यन्ते बहुधा लोक उपायैर्बहुभिः पुनः ॥1॥
गम्भीरोत्तानभेदेन क्वचिच्चोभयलक्षणा ।
भिन्नापि देशनाभिन्ना शून्यताद्वयलक्षणा ॥2॥
इति ।
यद्यपि वैभाषिकसौत्रान्तिकयोरवान्तरमतभेदो ऽस्ति, तथापि
सर्वास्तितायामस्ति संप्रतिपत्तिरित्येकीकृत्योपन्यासः ।
तथा च त्रित्वमुपपन्नमिति ।
पृथिवी स्वरस्वभावा, आपः स्नेहस्वभावाः, अग्निरुष्णस्वभावः, वायुरीरणस्वभावः ।
ईरणं प्रेरणम् ।
भूतभौतिकानुक्त्वा चित्तचैत्तिकानाह-- तथा रूपेति ।
रूप्यन्ते एभिरिति रूप्यन्त इति च व्युत्पत्या सविषयाणीन्द्रियाणि रूपस्कन्धः ।
यद्यपि रूप्यमाणाः पृथिव्यादयो बाह्यास्तथापि कायस्थत्वाद्वा इन्द्रियसंबन्धाद्वा भवन्त्याध्यात्मिकाः ।
विज्ञानस्कन्धो ऽहमित्याकारो रूपादिविषय इन्द्रियादिजन्यो वा दण्डायमानः ।
वेदनास्कन्धो या प्रियाप्रियानुभयविषयस्पर्शे सुःखदुःखतद्रहितविशेषावस्था चित्तस्य जायते स वेदनास्कन्धः ।
संज्ञास्कन्धः सविकल्पप्रत्ययः संज्ञासंसर्गयोग्यप्रतिभासः, यथा डित्थः कुण्डली गौरो ब्राह्मणो गच्छतीत्येवञ्जातीयकः ।
संस्कारस्कन्धो रागादयः क्लेशाः, उपक्लेशाश्च मदमानादयः, धर्माधर्मौ चेति ।
तदेतेषां समुदायः पञ्चस्कन्धी ।
तस्मिन्नुभयहेतुके ऽपीति ।
बाह्ये पृथिव्या द्व्यणुहेतुके भूतभौतिकसमुदाये, रूपविज्ञानादिस्कन्धहेतुके च समुदाय आध्यात्मिके ऽभिप्रेयमाणे तदप्राप्तिस्तस्य समुदायस्यायुक्तता ।
कुतः ।
समुदायिनामचेतनत्वात् ।
चेतनो हि कुलालादिः सर्वं मृद्दण्डाद्युपसंहृत्य समुदायात्मकं घटमारचयन् दृष्टः ।
नह्यसति मृद्दण्डादिव्यापारिणी विदुषि कुलाले स्वयमचेतना मृद्दण्डादयो व्यापृत्य जातु घटमारचयन्ति ।
न चासति कुविन्दे तन्तुवेमादयः पटं वयन्ते ।
तस्मात् कार्योत्पादस्तदनुगुणकारणसमवधानाधीनस्तदभावे न भवति ।
कार्योत्पादानुगुणं च कारणसमवधानं चेतनप्रेक्षाधीनमसत्यां चेतनप्रेक्षायां न भवितुमुत्सहत इति कार्योत्पत्तिश्चेतनप्रेक्षाधीनत्वव्याप्ता व्यापकविरुद्धोपलब्ध्या चेतनानधिष्ठितेभ्यः कारणेभ्यो व्यावर्तमाना चेतनाधिष्ठितत्व एवावतिष्ठत इति प्रतिबन्धसिद्धिः ।
यद्युच्येत अद्धा चेतनाधीनैव कार्योत्पत्तिः, अस्ति तु चित्तं चेतनं, तद्धीन्द्रियादिविषयस्पर्शे सत्यभिज्वलत् तत्कारणचक्रं यथायथा कार्याय पर्याप्तं तथातथा
प्रकाशयदचेतनानि कारणान्यधिष्ठाय कार्यमभिनिर्वर्तयतीति, तत्राह-- चित्ताभिज्वलनस्य च समुदायसिद्य्धधीनत्वात् ।
न खलु बाह्याभ्यन्तरसमुदायसिद्धिमन्तरेण चित्ताभिज्वलनं, ततस्तु तामिच्छन् दुरुत्तरमितरेतराश्रयमाविशेदिति ।
न च प्राग्भवीया चित्ताभिदीप्तिरुत्तरसमुदायं घटयति ।
घटनसमये तस्याश्चिरातीतत्वेन सामर्थ्यविरहात् ।
अस्मद्राद्धान्तवदन्यस्य चेतनस्य भोक्तुः प्रशासितुर्वा स्थिरस्य संघातकर्तुरनभ्युपगमात् ।
कारणविन्यासभेदं हि विद्वान् कर्ता भवति ।
न चान्वयव्यतिरेकावन्तरेण तद्विन्यासभेदं वेदितुमर्हति ।
नच सक्षणिको ऽन्वयव्यतिरेककालानवस्थायी ज्ञातुमन्वयव्यतिरेकावुत्सहते ।
अत उक्तम्-- स्थिरस्येति ।
यद्युच्येत असमवहितान्येव कारणानि कार्यं करिष्यन्ति परस्परानपेक्षाणि, कृतमत्र समवधाययित्रा चेतनेनेत्यत आह-- निरपेक्षप्रवृत्त्यभ्युपगमे चेति ।
यद्युच्यते अस्त्यालयविज्ञानमहङ्कारास्पदं पूर्वापरानुसंधातृ, तदेव कारणानां प्रतिसंधातृ भविष्यतीति, तत्राह-- आशयस्यापीति ।
यत् खल्वेकं यदि स्थिरमास्थीयेत ततो नामान्तरेणात्मैव ।
अथ क्षणिकं, तत उक्तदोषापत्तिः ।
नच तत्संतानस्तस्यान्यत्वे नामान्तरेणात्माभ्युपगतो ऽनन्यत्वे च विज्ञानमेव, तच्च क्षणिकमेवेत्युक्तदोषापत्तिः ।
आशेरते ऽस्मिन् कर्मानुभववासना इत्याशय आलयविज्ञानं तस्य ।
अपि च प्रवृत्तिः
समुदायिनां व्यापारः ।
नच क्षणिकानां व्यापारो युज्यते ।
व्यापारो हि व्यापारदाश्रयस्तत्कारणकश्च लोके प्रसिद्धः ।
तेन व्यापारवता व्यापारात्पूर्वं व्यापारसमये च भवितव्यम् ।
अन्यथा कारणत्वाश्रयत्वयोरयोगात् ।
न च समसमययोरस्ति कार्यकारणभावः ।
नापि
भिन्नकालयोराधाराधेयभावः ।
तथा च क्षणिकत्वहानिरित्याह-- क्षणिकत्वाभ्युपगमाच्चेति ॥18॥
स्तर्त् ब्स्व्भ्_2,2.4.19
इतरेतरप्रत्ययत्वाद् इति चेन् नोत्पत्तिमात्रनिमित्तत्वात्
यद्यपीति ।
अयमर्थः--संक्षेपतो हि प्रतीत्यसमुत्पादलक्षणमुक्तं बुद्धेन ऽइदं प्रत्ययफलम्ऽइति ।
ऽउत्पादाद्वा तथागतानामनुत्पादाद्वा स्थितैषा धर्माणां धर्मताऽ ।
ऽधर्मस्थितिता धर्मनियामकता प्रतीत्यसमुत्पादानुलोमताऽइति ।
अथ पुनरयं प्रतीत्यसमुत्पादो द्वाभ्यां कारणाभ्यां भवति हेतूपनिबन्धतश्च प्रत्ययोपनिबन्धतश्च ।
स पुनर्द्विविधो--बाह्य आध्यात्मिकश्च ।
तत्र बाह्यस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धः--यदिदं बीजादङ्कुरो ऽङ्कुरात्पत्रं पत्रात्काण्डं काण्डान्नालो नालाद्गर्भो गर्भाच्छूकः शूकात्पुष्पं पुष्पात्फलमिति ।
असति बीजे ऽङ्कुरो न भवति, यावदसति पुष्पे फलं न भवति ।
सति तु बीजे ऽङ्कुरो भवति, यावत् पुष्पे सति फलमिति ।
तत्र बीजस्य नैवं भवति ज्ञानमहमङ्कुरं निर्वर्तयामीति ।
अङ्कुरस्यापि नैवं भवति ज्ञानमहं बीजेन निर्वर्तित इति ।
एवं यावत्पुष्पस्य नैवं भवत्यहं फलं निर्वर्तयामीति ।
एवं फलस्यापि नैवं भवत्यहं पुष्पेणाभिनिर्वर्तितमिति ।
तस्मादसत्यपि चैतन्ये बीजादीनामसत्यपि चान्यस्मिन्नधिष्ठातरि कार्यकारणभावनियमो दृश्यते ।
उक्तो हेतूपनिबन्धः ।
प्रत्ययोपनिबन्धः प्रतीत्यसमुत्पादस्योच्यते ।
प्रत्ययो हेतूनां समवायः ।
हेतुं हेतुं प्रत्ययन्ते हेत्वन्तराणीति, तेषामयमानानां भावः प्रत्ययः ।
समवाय इति यावत् ।
यथा षण्णां धातूनां समवायाद्बीजहेतुरङ्कुरो जायते ।
तत्र च पृथिवीधातुर्बीजस्य संग्रहकृत्यं करोति यतो ऽङ्कुरः कठिनो भवति, अब्धातुर्बीजं स्नेहयति, तेजोधातुर्बीजं परिपाचयति, वायुधातुर्बीजमभिनिर्हरति यतो ऽङ्कुरो बीजान्निर्गच्छति, आकाशधातुर्बीजस्यानावरणकृत्यं करोति, ऋतुरपि बीजस्य परिणामं करोति, तदेतेषामविकलानां धातूनां समवाये बीजे रोहित्यङ्कुरो जायते नान्यथा ।
तत्र पृथिवीधातोर्नैवं भवत्यहं बीजस्य संग्रहकृत्यं करोमीति, यावदृतोर्नैवं भवत्यहं बीजस्य परिणामं
करोमीति ।
अङ्कुरस्यापि नैवं भवत्यहमेभिः प्रत्ययैर्निर्वर्तित इति ।
तथाध्यात्मिकः प्रतीत्यसमुत्पादो द्वाभ्यां कारणाभ्यां भवति हेतूपनिबन्धतः प्रत्ययोपनिबन्धतश्च ।
तत्रास्य हेतूपनिबन्धो यदिदमविद्याप्रत्ययाः संस्कारा यावज्जातिप्रत्ययं जरामरणादीति अविद्या चेन्नाभविष्यन्नैव संस्कारा अजनिष्यन्त ।
एवं यावज्जातिः ।
जातिश्चेन्नाभविष्यन्नैव जरामरणादय उत्पत्स्यन्त ।
तत्राविद्याया नैवं भवत्यहं संस्कारानभिनिर्वर्तयामीति ।
संस्काराणामपि नैवं भवति वयमविद्यया निर्वर्तिता इति ।
एवं यावज्जात्या अपि नैवं भवत्यहं जरामरणाद्यभिनिर्वर्तयामीति ।
जरामरणादीनामपि नैवं भवति वयं जात्यादिभिर्निर्वर्तिता इति ।
अथ च सत्स्वविद्यादिषु स्वयमचेतनेषु चेतनान्तरानधिष्ठितेष्वपि संस्कारादीनामुत्पत्तिः, बीजादिष्विव सत्स्वचेतनेषु चेतनान्तरानधिष्ठितेष्वप्यङ्कुरादीनाम् ।
इदं प्रतीत्य प्राप्येदमुत्पद्यत इत्येतावन्मात्रस्य दृष्टत्वाच्चेतनाधिष्ठानस्यानुपलब्धेः ।
सो ऽयमाध्यात्मिकस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धः ।
अथ प्रत्ययोपनिबन्धः--पृथिव्यप्तेजोवाय्वाकाशविज्ञानधातूनां समवायाद्भवति कायः ।
तत्र कायस्य पृथिवीधातुः काठिन्यं निर्वर्तयति ।
अब्धातुः स्नेहयति कायम् ।
तेजोधातुः कायस्याशितपीते परिपाचयति ।
वायुधातुः कायस्य श्वासादि करोति ।
आकाशधातुः कायस्यान्तः सुषिरभावं करोति ।
यस्तु नामरूपाङ्कुरमभिनिर्वर्तयति पञ्चविज्ञानकार्यसंयुक्तं सास्रवं च मनोविज्ञानं, सो ऽयमुच्यते विज्ञानधातुः ।
यदा ह्याध्यात्मिकाः पृथिव्यादिधातवो भवन्त्यविकलास्तदा सर्वेषां समवायाद्भवति कायस्योत्पत्तिः ।
तत्र पृथिव्यादिधातूनां नैवं भवति वयं कायस्य काठिन्यादि निर्वर्तयाम इति ।
कायस्यापि नैवं भवति ज्ञानमहमेभिः प्रत्ययैरभिनिर्वर्तित
इति ।
अथ च पृथिव्यादिधातुभ्यो ऽचेतनेभ्यश्चेतनान्तरानधिष्ठितेभ्यो ऽङ्कुरस्येवं कायस्योत्पत्तिः ।
सो ऽयं प्रतीत्यसमुत्पादो दृष्टत्वान्नान्यथयितव्यः ।
तत्रैतेष्वेव षट्सु धातुषु यैकसंज्ञा, पिण्डसंज्ञा, नित्यसंज्ञा, सुःखसंज्ञा, सत्त्वसंज्ञा, पुद्गलसंज्ञा, मनुष्यसंज्ञा, मातृदुहितृसंज्ञा, अहङ्कारममकारसंज्ञा, सेयमविद्या संसारानर्थसंभारस्य मूलकारणं, तस्यामविद्यायां सत्यां संस्कारा रागद्वेषमोहा विषयेषु प्रवर्तन्ते ।
वस्तुविषया विज्ञ प्तिर्विज्ञानं, विज्ञानाच्चत्वारो रूपिण उपादानस्कन्धास्तन्नाम, तान्युपादाय रूपमभिनिर्वर्तते ।
तदैकध्यमभिसंक्षिप्य नामरूपं निरुच्यते शरीरस्यैव कललबुद्दुदाद्यवस्था नामरूपसंमिश्रितानीन्द्रियाणि षडायतनं, नामरूपेन्द्रियाणां त्रयाणां संनिपातः स्पर्शः,
स्पर्शाद्वेदना सुखादिका, वेदनायां सत्यां कर्तव्यमेतत्सुखं पुनर्मयेत्यध्यवसानन् तृष्णा भवति ।
तत उपादानं वाक्कायचेष्टा भवति ।
ततो भवो भवत्यस्माज्जन्मेति भवो धर्माधर्मौ, तद्धेतुकः स्कन्धप्रादुर्भावो जातिः जन्म ।
जन्महेतुका उत्तरे जरामरणा दयः ।
जातानां स्कन्धानां परिपाको जरा ।
स्कन्धानां नाशो मरणम् ।
म्रियमाणस्य मूढस्य साभिषङ्गस्य पुत्रकलत्रादावान्तर्दाहः शोकः ।
तदुत्थं प्रलपनं हा मातः, हा तात, हा च मे पुत्रकलत्रादीति परिदेवना ।
पञ्चविज्ञानकार्यसंयुक्तमसाध्यनुभवनन् दुःखम् ।
मानसं च दुःखन् दौर्मनस्यम् ।
एवञ्जातीयका श्चोपायास्त उपक्लेशा गृह्यन्ते ।
ते ऽमी परस्परहेतुकाः, जन्मादिहेतुका अविद्यादयो ऽविद्यादिहेतुकाश्च जन्मादयो घटीयन्त्रवदनिशमावर्तमानाः सन्तीति तदेतैरविद्यादिभि राक्षिप्तः संघात इति ।
तदेतद्दूषयति- तन्न कुतः, उत्पत्तिमात्रनिमित्तत्वादिति ।
अयमभिसंधिः--यत् खलु हेतूपनिबन्धं कार्यं तदन्यानपेक्षं हेतुमात्राधीनोत्पादत्वादुत्पद्यतां नाम ।
पञ्चस्कन्धसमुदायस्तु प्रत्ययोपनिबद्धो न हेतुमात्राधीनोत्पत्तिः ।
अपि तु नानाहेतुसमवधानजन्मा ।
न च चेतनमन्तरेणान्यः संनिधापयितास्मि कारणानामित्युक्तम् ।
बीजादङ्कुरोत्पत्तेरपि
प्रत्ययोपनिबद्धाया विवादाध्यासितत्वेन पक्षनिक्षिप्तत्वात्, पक्षेण च व्यभिचारोद्भावनायामतिप्रसङ्गेन सर्वानुमानोच्छेदप्रसङ्गात् ।
स्यादेतत् ।
अनपेक्षा एवान्त्यक्षणप्राप्ताः क्षित्यादयो ऽङ्कुरमारभन्ते ।
तेषां तूपसर्पणप्रत्ययवशात्परस्परसमवधानम् ।
न चैकस्मादेव कारणात्कार्यसिद्धेः किमन्यैः कारणैरिति वाच्यम् ।
कारणचक्रानन्तरं कार्योत्पादात् सिद्धमित्येव नास्ति ।
न चैको ऽपितत्कारणसमर्थं इत्यन्य उदासत इति युक्तम् ।
नहि ते प्रेक्षावन्तो येनैवमालोचयेयुरस्मासु समर्थ एको ऽपि कार्ये इति कृतं नः संनिधिनेति ।
किन्तूपसर्पणप्रत्ययाधीनपरस्परसंनिधानोत्पादा नानुत्पत्तुं नाप्यसंनिधातुमीशते ।
तांश्च सर्वाननपेक्षान् प्रतीत्य कार्यमपि न नोत्पत्तुमर्हति ।
नच स्वमहिम्ना सर्वे कार्यमुत्पादयन्तो ऽपि नानाकार्याणामीसते तत्रैव तेषां सामर्थ्यात् ।
न च कारणभेदात् कार्यभेदः, सामग्र्या एकत्वात् ।
तद्भेदस्य च कार्यनानात्वहेतुत्वात्तथा दर्शनात् ।
तन्न ।
यद्यन्त्यक्षणप्राप्ता अनपेक्षाः स्वकार्योपजनने, हन्तानेन क्रमेण ततः पूर्वे ततः पूर्वे सर्व एवानपेक्षास्तत्तत्स्वकार्योपजनन इति कुसूलस्थत्वाविशेषे ऽपि येन बीजक्षणेन कुसूलस्थेन स्वकार्यक्षणपरम्परयाङ्कुरोत्पत्तिसमर्थो बीजक्षणो जनयितव्यः सो ऽनपेक्ष एव बीजक्षणः स्वकार्योपजनने एवं सर्व एव तदनन्तरानन्तपवर्तिनो बीजक्षण अनपेक्षा इति कुसूलनिहितबीज एव स्यात् कृती कृषीवलः कृतमस्य दुःखबहुलेन कृषिकर्मणा ।
येन हि बीजक्षणेन स्वक्षणपरम्परयाङ्कुरो जनयितव्यस्तस्यानपेक्षासौ क्षणपरम्परा कुसूल एवाङ्कुरं करिष्यतीति ।
तस्मात्परस्परापेक्षा एवान्त्या वा मध्या वा पूर्वे वा क्षणाः कार्योपजनन इति वक्तव्यम् ।
यथाहुः--ऽन किञ्चिदेकमेकस्मात्सामग्र्याः सर्वसंभवःऽइति ।
तच्चेदं
समवधानं कारणानां विन्यासभेदतत्प्रयोजनाभिज्ञप्रेक्षावत्पूर्वकं दृष्टमिति नाचेतनाद्भवितुमर्हति ।
तदिदमुक्तम्-- भवेदुपपन्नः संघातो यदि संघातस्य किञ्चिन्निमित्तमवगम्येतेति ।
इतरेतरप्रत्ययत्वे ऽपीति ।
इतरेतरहेतुत्वे ऽपीत्यर्थः ।
उक्तमभिसंधिमविद्वान् परिचोदयति-- नन्वविद्यादिभिरर्थादाक्षीप्यत इति ।
परिहरति-- अत्रोच्यते, यदि तावदिति ।
किमाक्षेप उत्पादनम्, आहो ज्ञापनम् ।
तत्र न तावत् कारणमन्यथानुपपद्यमानं कार्यमुत्पादयति, किन्तु
स्वसामर्थ्येन ।
तस्माज्ज्ञापनं वक्तव्यम् ।
तथा च ज्ञापितस्यान्यदुत्पादकं वक्तव्यम् ।
तच्च स्थिरपक्षे ऽपि सत्यपि च भोक्तर्यधिष्ठातारं चेतनमन्तरेण न संभवति किमङ्ग, पुनः क्षणिकेषु भावेषु ।
भोक्तुर्भोगेनापि कदाचिदाक्षिप्येत संघातः, स तु भोक्तापि नास्तीति दूरोत्सारितत्वं दर्शयति-- भोक्तृरहितेष्विति ।
अपि च बहव उपकार्योपकारकभावेन स्थिताः कार्यं जनयन्ति ।
नच क्षणिकपक्ष उपकार्योपकारकभावो ऽस्ति, भावस्योपकारानास्पदत्वात् ।
क्षणस्याभेद्यत्वादनुपकृतोपकृतत्वासंभवात् ।
कालभेदेन वा तदुपपत्तौ क्षणिकत्वव्याघातात् ।
तदिदमाह-- आश्रयाश्रयिशून्येषु चेति ।
अथायमभिप्राय इति ।
यदा हि प्रत्ययोपनिबन्धः प्रतीत्यसमुत्पादो भवेत्तदा चेतनो ऽधिष्ठातापेक्षेतापि, न तु प्रत्ययोपनिबन्धनो ऽपि तु हेतूपनिबन्धनः ।
तथाच कृतमधिष्ठात्रा ।
हेतुः स्वभावत एव कार्यसंघातं करिष्यति केवल इति भावः ।
अस्तु तावद्यथा केवलाद्धेतोः कार्यं नोपजायत इति, अन्योन्याश्रयप्रसङ्गो ऽस्मिन् पक्ष इत्याशयवानाह- -कथं तमेवेति ।
संप्रति प्रत्ययोपनिबन्धनं प्रतीत्यसमुत्पादमास्ताय चोदयति-- अथ मन्यसे संघाता एवेति ।
अस्थिरा अपि हि भावाः सदा संहता एवोदयन्ते व्यन्ते च ।
न पुनरतिस्ततो ऽवस्थिताः केनचित् पुञ्जीक्रियन्ते ।
तथा च कृतमत्र संहन्त्रा चेतनेनेति
भावः ।
अनादौ इति परस्पराश्रयं निवर्तयति ।
तदेतद्विकल्प्य दूषयति-- तथापि संघातादिति ।
स
खलु संघातसंततिवर्ति धर्माधर्माह्वयः संस्कारसंतानो यथायथं सुखदुःखे जनयन्नागन्तुकं कञ्चनानासाद्य स्वत एव जनयेत्, आसाद्य वा ।
अनासाद्यजनने सदैव सुखदुःखे जनयेत्, समर्थस्यानपेक्षस्याक्षेपायोगात् ।
आसाद्य जनने तदासादनकारणं प्रेक्षावानभ्युपेयः ।
तथाच न प्रत्ययोपनिबन्धनः प्रतीत्यसमुत्पादः ।
तस्मादनेनागन्तुकानपेक्षस्य संधातसंतानस्यैव सदृशजनने विसदृशजनने वा स्वभाव आस्थेयः ।
तथा च भाष्योक्तं दूषणमिति ।
अपि च यद्भोगार्थः संघातः स्यादिति ।
अप्राप्तभोगो हि भोगार्थी भोगमाप्तुकामस्तत्साधने प्रवर्तत इति प्रत्यात्मसिद्धम् ।
सेयं प्रवृत्तिर्भोगादन्यस्मिन् स्थिरे भोक्तरि भोगतत्साधनसमयव्यापिनि कल्प्यते नास्थिरे ।
नच भोगादनन्यस्मिन् ।
नहि भोगो भोगाय कल्पते नाप्यन्यो भोगायान्यस्य ।
एवं मोक्षे ऽपि द्रष्टव्यम् ।
तत्र बुभुक्षुमुमुक्षू चेत् स्थिरावास्थीयेयातां तदाभ्युपेतहानम्, अस्थैर्या वा प्रवृत्तिप्रसङ्ग इत्यर्थः ।
न तु संघातः सिध्येद्भोक्त्रभावादिति ।
भोक्त्रभावेन प्रवृत्त्यनुपपत्तेः कर्त्रभावः ।
ततः कर्मभावात्संघातासिद्धिरित्यर्थः ॥19॥
स्तर्त् ब्स्व्भ्_2,2.4.20
उत्तरोत्पादे च पूर्वनिरोधात्
पूर्वसूत्रेण संगतिमस्याह-- उक्तमेतदिति ।
हेतूपनिबन्धनं प्रतीत्यसमुत्पदमभ्युपेत्य प्रत्ययोपनिबन्धनः प्रतीत्यसमुत्पादो दूषितः ।
संप्रति हेतूपनिबन्धनमपि तं दूषयतीत्यर्थः ।
दूषणमाह-- इदमिदानीमिति ।
निरुध्यमानस्येति ।
न तावद्वैशेषिकवन्निरोधकारणसांनिध्यं निरुध्यमानता स्वीक्रियते वैनाशिकैरकारणं विनाशमभ्युपगच्छद्भिस्तस्यानिष्ठत्वाद् ।
तस्माद्विनाशग्रस्तस्वमचिरनिरुद्धत्वं निरुध्यमानत्वं वक्तव्यम् ।
निरुद्धत्वं च चिरनिरुद्धत्वं विवक्षितं, तथा चोभयोरप्यभावग्रस्तत्वाद्धेतुत्वानुपपत्तिः ।
शङ्कते-- अथ भावभूत इति ।
कारणस्य हि कार्योत्पादात् प्राक्कालसत्तार्ऽथवती न कार्यकाला, तदा कार्यस्य सिद्धत्वेन तत्सिद्य्धर्थायाः सत्ताया अनुपयोगादिति भावः ।
तदेतल्लोकदृष्ट्या दूषयति-- भावभूतस्येति ।
भूत्वा व्यापृत्य भावाः प्रायेण हि कार्यं कुर्वन्तो लोके दृश्यन्ते ।
तथा च स्थिरत्वम्, इतरथा तु लोकविरोध इति ।
पुनः शङ्कते-- अथ भाव एवेति ।
यथाहुः--ऽभूतिर्येषां क्रिया सैव कारकं सैव चोच्यते ऽइति ।
भवत्येवं व्यापारवत्ता तथापि क्षणिकस्य न कारणत्वमित्याह-- तथापि नैवोपपद्यते क्षणिकस्य कारणभावः ।
मृत्सुवर्णकारणा हि घटादयश्च रूचकादयश्च मृत्सुवर्णात्मानो ऽनुभूयन्ते ।
यदि च न कार्यसमये कारणं सत् कथं तेषां तदात्मनानुभवः ।
नच कारणसादृश्यं कार्यस्य न तु तादात्म्यमिति वाच्यम् ।
असति कस्यचिद्रूपस्यानुगमे सादृश्यस्याप्यनुपपत्तेः ।
अनुगमे वा तदेव कारणं, तथा च तस्य कार्यतादात्म्यमिति सिद्धिमक्षणिकत्वमित्यर्थः ।
सर्वथा वैलक्षण्ये तु हेतुफलभावस्तन्तुघटादावपि प्राप्त इत्यतिप्रसङ्ग इत्याह-- विनैव वेति ।
नच तद्भावभावो नियामकः, तस्यैकस्मिन् क्षणे ऽशक्यग्रहत्वात्, सामान्यस्य चाकारणत्वात् ।
कारणत्वे वा क्षणिकत्वहानेरस्मत्पक्षपातप्रसङ्गाच्चेति भावः ।
अपि चोत्पादनिरोधयोर्विकल्पत्रये ऽपि वस्तुनः शाश्वतत्वप्रसङ्ग इत्याह-- अपि चोत्पादनिरोधौ नामेति ।
पर्यायत्वापादने ऽपि नित्यत्वापादनं मन्तव्यम् ।
वस्तूत्पादनिरोधाभ्यामसंसृष्टमिति वस्तुनः शाश्वतत्वप्रसङ्गः ।
संसर्गे ऽप्यसता संसर्गानुपपत्तेः ।
सत्त्वाभ्युपगमे शाश्वतत्वमित्यपि द्रष्टव्यम् ।
शेषं निगदव्याख्यातम् ॥20॥
स्तर्त् ब्स्व्भ्_2,2.4.21
असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा
नीलाभावस्य हि चित्तस्य नीलादालम्बनप्रत्ययान्नीलाकारता ।
समनन्तरप्रत्ययात्पूर्वविज्ञानाद्बोधरूपता ।
चक्षुषो ऽधिपतिप्रत्ययाद्रूपग्रहणप्रतिनियमः ।
आलोकात्सहकारिप्रत्ययाधेतोः स्पष्टार्थता ।
एवं सुखादीनामपि चैत्तानां चित्ताभिन्नहेतुजानां चत्वार्येतान्येव कारणानि ।
सेयं प्रतिज्ञा चतुर्विधान् हेतून्
प्रतीत्य चित्तचैत्ता उत्पद्यन्त इत्यभावकारणत्व उपरुध्येत ।
अथोत्तरक्षणोत्पत्तिं यावत्तावदवतिष्ठत इति ।
उत्पत्तिरुत्पद्यमानाद्भावादभिन्ना, तथा च क्षणिकत्वहानिरिति प्रतिज्ञाहानिः ॥21॥
स्तर्त् ब्स्व्भ्_2,2.4.22
प्रतिसंख्याप्रतिसंख्यानिरोधाप्राप्तिर् अविच्छेदात्
भावप्रतीपा संख्या बुद्धिः प्रतिसंख्या, तया निरोधः प्रतिसंख्यानिरोधः ।
सन्तमिममसन्तं करोमीत्येवमाकारता च बुद्धेर्भावप्रतीपत्वम् ।
एतेनाप्रतिसंख्यानिरोधो ऽपि व्याख्यातः ।
संतानगोचरो वा निरोधः, संतानिक्षणगोचरो वा ।
न तावत्संतानस्य निरोधः संभवति ।
हेतुफलभावेन हि व्यवस्थिताः संतानिन एवोदयव्ययधर्माणः संतानाः ।
तत्र यो ऽसावन्त्यः संतानी, यन्निरोधात्संतानोच्छेदेन भवितव्यम्, स किं फलं किञ्चिदारभते न वा ।
आरभते चेत्, नान्त्यः ।
तथा च न संतानोच्छेदः ।
अनारम्भे तु भवेदन्त्यः सः, किन्तु स्यादसन्, अर्थक्रियाकारितायाः सत्तालक्षणस्य विरहात् ।
तदसत्वे तज्जनकमप्यसज्जनकत्वेनासदित्यनेन क्रमेणासन्तः सर्व एव संतानिन इति
तत्संतानो नितरामसन्निति कस्य प्रतिसंख्यया निरोधः ।
नच सभागानां संतानिनां हेतुफलभावः संतानः, तस्य विसभागोत्पादो निरोधः, विसभागोत्पादक एव च क्षणः संतानस्यान्त्यः ।
तथासति रूपविज्ञानप्रवाहे रसादिविज्ञानोत्पत्तौ संतानोच्छेदप्रसङ्गः ।
कथञ्चित्सारूप्ये वा विसभागे ऽप्यन्ततः सत्तया तदस्तीति न संतानोच्छेदः ।
तदनेनाभिसंधिनाह-- सर्वेष्वपि संतानेषु संतानिनामविच्छिन्नेनहेतुफलभावेन संतानविच्छेदस्यासंभवादिति ।
नापि भावगोचरौ संभवतः प्रतिसंख्याप्रतिसंख्यानिरोधौ ।
अत्र तावदुत्पन्नमात्राप्रवृत्तस्य भावस्य न प्रतिसंख्यानिरोधः संभवति,
तस्य पुरुषप्रयत्नापेक्षाभावादित्यस्त्येव दूषणं, तथापि दोषान्तरमुभयस्मिन्नपि निरोधो ब्रूते-- न हि भावानामिति ।
यतो निरन्वयो विनाशो न संभवत्यतो निरूपाख्यो ऽपि न संभवति, तेनैवान्वयिना रूपेण भावस्य नष्टस्याप्युपाख्येयत्वात् ।
निरन्वयविनाशाभावे हेतुमाह-- सर्वास्वप्यवस्थास्विति ।
यद्यदन्वयिरूपं तत्तत्परमार्थसद्भावः ।
अवस्थास्तु विशेषाख्या उपजनापायधर्माणः, तासां सर्वसामनिर्वचनीयतया स्वतो न परमार्थसत्त्वम् ।
अन्वय्येव तु रूपं तासां तत्त्वम् ।
तस्य च सर्वत्र प्रत्यभिज्ञायमानत्वान्न विनाश इत्यवस्थावतो ऽविनाशान्नावस्थानां निरन्वयो विनाश इति ।
तासां तत्त्वस्यान्वयिनः सर्वत्राविच्छेदात् ।
स्यादेतत् ।
मृत्पिण्डमृद्घटमृत्कपालादिषु सर्वत्र मृत्तत्त्वप्रत्यभिज्ञानाद्भवत्वेवम् ।
तप्तोपलतलपतितनष्टस्य तूदबिन्दोः किमस्ति रूपमन्वयि प्रत्यभिज्ञायमानं, येनास्य न निरन्वयो नाशः स्यादित्यत आह-- अस्पष्टप्रत्यभिज्ञानास्वपीति ।
अत्रापि तत्तोयं तेजसा मार्तण्डमण्डलमम्बुदत्वाय नीयत इत्यनुमेयं, मृदादीनामन्वयिनामविच्छेददर्शनात् ।
शक्यं तत्र वक्तुम् ऽउदबिन्दौ च सिन्धौ च तोयभावोन भिद्यते ।
विनष्टे ऽपि ततो बिन्दावस्ति तस्यान्वयो ऽम्बुधौ ॥
ऽतस्मान्न कश्चिदपि निरन्वयो नाश इति सिद्धम् ॥22॥
स्तर्त् ब्स्व्भ्_2,2.4.23
उभयथा च दोषात्
परिकरः सामग्री सम्यग्ज्ञानस्य यमनियमादिः श्रवणमननादिश्च ।
मार्गाः क्षणिकनैरात्म्यादिभावनाः ।
अतिरोहितमन्यत् ॥23॥
स्तर्त् ब्स्व्भ्_2,2.4.24
आकाशे चाविशेषात्
एतद्व्याचष्टे-- यच्च तेषामिति ।
वेदप्रामाण्ये विप्रतिपन्नानपि प्रतिशब्दगुणानुमेयत्वमाकाशस्य वक्तव्यम् ।
तथाहि--जातिमत्त्वेन सामान्यविशेषसमवायेभ्यो विभक्तस्य शब्दस्यास्पर्शत्वे सति बाह्यैकेन्द्रियग्राह्यत्वेन गन्धादिवद्गुणत्वमनुमितम् ।
नायमात्मगुणो बाह्येन्द्रिगोचरत्वात् ।
अत एव न मनोगुणः, तद्गुणानामप्रत्यक्षत्वात् ।
न पृथिव्यादिगुणः, तद्गुणगन्धादिसाहचर्यानुपलब्धेः ।
तस्माद्गुणो भूत्वा गन्धादिवदसाधारणेन्द्रियग्राह्यो यद्रव्यमनुमापयति तदाकाशं पञ्चमं भूतं वस्त्विति ।
अपि
चावरणाभावमाकाशमिच्छत इति ।
निषेध्यनिषेधाधिकरणनिरूपणाधीननिरूपणो निषेधो नासत्यधिकरणनिरूपणे शक्यो निरूपयितुम् ।
तच्चावरणाभावाधिकरणमाकाशं वस्त्विति ।
अतिरोहितार्थमन्यत् ॥24॥
स्तर्त् ब्स्व्भ्_2,2.4.25
अनुस्मृतेश्च
विभजते-- अपि वैनाशिकः सर्वस्य वस्तुन इति ।
यस्तु सत्यप्येतस्मिन्नुपलब्धृस्मर्त्रोरन्यत्वे ऽपि समानायां संततौ कार्यकारणभावात् स्मृतिरुपपत्स्यत इति मन्यमानो न परितुष्यति तं प्रति प्रत्यभिज्ञासमाज्ञातप्रत्यक्षविरोधमाह-- अपि च दर्शनस्मरणयोः कर्तरीति ।
ततो ऽहमद्राक्षीदिति प्रतीयात्, अहं स्मराम्यन्यस्त्वद्राक्षीदित्यर्थः ।
प्रत्यभिज्ञाप्रत्यक्षविरोधप्रपञ्चस्तूत्तरः ।
आ जन्मनः आ चोत्तमादुच्छ्वासात् ।
आमरणादित्यर्थः ।
नच सादृश्यनिबन्धनं प्रत्यभिज्ञानं, पूर्वापरक्षणदर्शिन एकस्याभावे तदुपपत्तेः ।
शङ्कते-- तेनेदं सदृशमिति ।
अयमर्थः--विकल्पप्रत्ययो ऽयं, विकल्पश्च स्वाकारं बाह्यतयाध्यवस्यति, न तु तत्त्वतः पूर्वापरौ क्षणौ तयोः सादृश्यं वा गृह्णाति ।
तत्कथमेकस्यानेकदर्शिनः स्थिरस्य प्रसङ्ग इति ।
निराकरोति-- न ।
तेनेदमिति भिन्नपदार्थोपादानादिति ।
नानापदार्थसंभिन्नवाक्यार्थाभासस्तावदयं विकल्पः प्रथते तत्रैते नानापदार्था न प्रथन्त इति ब्रुवाणः स्वसंवेदनं बाधेत ।
न चैकस्य ज्ञानस्य नानाकारत्वं संभवति, एकत्वविरोधात् ।
नच तावन्त्येव ज्ञानानीति युक्तं, तथासति प्रत्याकारं ज्ञानानां समाप्तेस्तेषां च परस्परवार्ताज्ञानाभावान्नानेत्येव न स्यात् ।
तस्मात् पूर्वापरक्षणतत्सादृश्यगोचरत्वं ज्ञानस्य वक्तव्यम् ।
न चैतत्पूर्वापरक्षणावस्थायिनमेकं ज्ञातारं विनेति क्षणभङ्गभङ्गप्रसङ्गः ।
यद्युच्येत अस्त्येतस्मिन् विकल्पे तेनेदं सदृशमिति पदद्वयप्रयोगो न त्विह
तत्तेदन्तास्पदौ पदार्थौ तयोश्च सादृश्यमिति विवक्षितम्, अपि त्वेवमाकारता ज्ञानस्य कल्पितेति, तत्राह-- यदा हि लोकप्रसिद्धः पदार्थ इति ।
एकाधिकरणविप्रतिषिद्धधर्मद्वयाभ्युपगमो विवादः ।
तत्रैकः स्वपक्षं साधयत्यन्यश्च तत्साधनं दूषयति ।
न चैतत्सर्वमसति विकल्पानां बाह्यालम्बनत्वे ऽसति च लोकप्रसिद्धपदार्थकत्वे भवितुमर्हति ।
ज्ञानाकारत्वे हि विकल्पप्रतिभासिनां
नित्यत्वानित्यत्वादीनामेकार्थविषयत्वाभावात् ज्ञानानां च धर्मिणां भेदान्न विरोधः ।
नह्यात्मनित्यत्वं बुद्ध्यनित्यत्वं च ब्रुवाणौ विप्रतिपद्यते ।
न चालौकिकार्थेनानित्यशब्देनात्मनि विभुत्वं विवक्षित्वानित्यशब्दं प्रयुञ्जानो लौकिकार्थं नित्यशब्दमात्मनि प्रयुञ्जानेन विप्रतिपद्यते ।
तस्मादनेन स्वपक्षं प्रतितिष्ठापयिषता परपक्षसाधनं च निराचिकीर्षता विकल्पानां लोकसिद्धपदार्थकता बाह्यलम्बनता च वक्तव्या ।
यद्युच्येत द्विविधो हि विकल्पानां विषयो ग्राह्यश्चाध्यवसेयश्च ।
तत्र स्वाकारो ग्राह्यो ऽध्यवसेयस्तु बाह्यः ।
तथाच पक्षप्रतिपक्षपरिग्रहलक्षणा विप्रतिपत्तिः प्रसिद्धपदार्थकत्वं चोपपद्यत इत्यत आह-- एवमेवैषोर्ऽथ इति निश्चितं यत्तदेव वक्तव्यं, ततो ऽन्यदुच्यमानं बहुप्रलापित्वमात्मनः केवलं प्रख्यापयेत् ।
अयमभिसंधिः--केयमध्यवसेयता बाह्यस्य ।
यदि ग्राह्यता न द्वैविध्यम् ।
अथान्या सोच्यतां, ननूक्ता तैरेव स्वप्रतिभासे ऽनर्थेर्ऽथाध्यवसायेन प्रवृत्तिरिति ।
अथ विकल्पाकारस्य को ऽयमध्यवसायः ।
किं करणमाहो योजनमुतारोप इति ।
न तावत् करणम् ।
नह्यन्यदन्यत् कर्तुं शक्यम् ।
नहि जातु सहस्रमपि शिल्पिनो घटं पटयितुमीशते ।
न चान्तरं बाह्येन योजयितुम् ।
अपि च तथासति युक्त इति प्रत्ययः स्यात् ।
न चास्ति ।
आरोपो ऽपि किं गृह्यमाणे बाह्ये उतागृह्यमाणे ।
यदि गृह्यमाणे तदा किं विकल्पेनाहो तत्समयजेनाविकल्पकेन ।
न तावद्विकल्पो ऽभिलापसंसर्गयोग्यगोचरो ऽशक्याभिलापसमयं स्वलक्षणं देशकालाननुगतं
गोचरयितुमर्हति ।
यथाहुः--ऽअशक्यसमयो ह्यात्मा सुखादीनामनन्यभाक् ।
तेषामतः स्वसंवित्तिर्नाभिजल्पानुषङ्गिणी ॥
ऽइति ।
न च तत्समयभाविना निर्विकल्पकेन गृह्यमाणे बाह्ये विकल्पेनागृहीते तत्र विकल्पः स्वाकारमारोपयितुमर्हति ।
न हि रजतज्ञानाप्रतिभासिनि पुरोवर्तिनि वस्तुनि रजतज्ञानेन शक्यं रजतमारोपयितुम् ।
अगृह्यमाणे तु बाह्ये स्वाकार इत्येव स्यान्न बाह्य इति ।
तथा च नारोपणम् ।
अपि चायं विकल्पः स्वसंवेदनं सन्तं विकल्पं किं वस्तुसन्तं स्वाकारं गृहीत्वा पश्चाद्बाह्यमारोपयति, अथ यदा स्वाकारं गृह्णाति तदैवारोपयति ।
न तावत् क्षणिकतया क्रमविरहिणो ज्ञानस्य क्रमवर्तिनी ग्रहणारोपणे कल्पेते ।
तस्माद्यदैव स्वाकारमनर्थं गृह्णाति तदैवार्थमारोपयतीति वक्तव्यम् ।
न चैतद्युज्यते ।
स्वाकारो हि स्वसंवेदनप्रत्यक्षतयातिविशदः ।
बाह्यं चारोप्यमाणमविशदं सत्ततो ऽन्यदेव स्यान्न तु स्वाकारः समारोपितः ।
न च भेदाग्रहमात्रेण समारोपाभिधानं, वैशद्यावैशद्यरूपतया भेदग्रहस्योक्तत्वात् ।
अपि चागृह्यमाणे चेद्बाह्ये ऽबाह्यात्स्वलक्षणाद्भेदाग्रहणेन तदभिमुखी प्रवृत्तिः, हन्त तर्हि त्रैलोक्यत एवानेन न भेदो गृहीत इति यत्र क्वचन प्रवर्तेताविशेषात् ।
एतेन ज्ञानाकारस्यैवालोकस्यापि बाह्यत्वसमारोपः प्रत्युक्तः ।
तस्मात्सुष्ठूक्तं ऽततो ऽन्यदुच्यमानं बहुप्रलापित्वमात्मनः ख्यापयेत्ऽइति ।
अपि च सादृश्यनिबन्धनः संव्यवहारस्तेनेदं सदृशमित्येवमाकारबुद्धिनिबन्धनो भवेन्न तु तदेवेदमित्याकारबुद्धिनिबन्धन इत्याह--न चायं सादृश्यात्संव्यवहार इति ।
ननु ज्वालादिषु सादृश्यादसत्यामपि सादृश्यबुद्धौ तद्भावावगमनिबन्धनः संव्यहारो दृश्यते यथा तथेहापि
भविष्यतीति पूर्वापरितोषेणाह-- भवेदपि कदचिद्बाह्यवस्तुनीति ।
तथाहि--विविधजनसंकीर्णगोपुरेण पुरं निविशमानं नरान्तरेभ्य आत्मनिर्धारणायासाधारणं चिह्नं विदधतमुपहसन्ति पाशुपतं पृथग्जना इति ॥25॥
स्तर्त् ब्स्व्भ्_2,2.4.26
नासतो ऽदृष्टत्वात्
इतश्चानुपपन्नो वैनाशिकसमय इति ।
अस्थिरात् कारयोत्पत्तिमिच्छन्तो वैनाशिका अर्थादभावादेव भावोत्पत्तिमाहुः ।
उक्तमेतदधस्तात् ।
निरपेक्षात् कार्योत्पत्तौ पुरुषकर्मवैयर्थ्यम् ।
सापेक्षतायां च क्षणस्याभेद्यत्वेनोपकृतत्वानुपपत्तेः, अनुपकारिणि चापेक्षाभावादक्षणिकत्वप्रसङ्गः ।
सापेक्षत्वानपेक्षत्वयोश्चान्यतरनिषेधस्यान्यतरविधाननान्तरीयकत्वेन प्रकारान्तराभावान्नास्थिराद्भावाद्भावोत्पत्तिरिति क्षणिकपक्षेर्ऽथादभावाद्भावोत्पत्तिरिति परिशिष्यत इत्यर्थः ।
न केवलमर्थादापद्यते, दर्शयन्ति च-- नानुपमृद्य प्रादुर्भावादिति ।
एतद्विभजते-- विनष्टाद्धिकिलेति ।
किलकारो ऽनिच्छायाम् ।
कूटस्थाच्चेत्कारणात् कार्यमुत्पद्येतापि सर्वं सर्वत उत्पद्येत ।
अयमभिसंधिः--कूटस्थो हि कार्यजननस्वभावो वा स्यादतत्स्वभावो वा ।
स चेत्कार्यजननस्वभावस्ततो यावदनेन कार्यं कर्तव्यं तावत्सहसैव कुर्यात् ।
समर्थस्य क्षेपायोगात् ।
अतत्स्वभावे तु न कदाचिदपि कुर्यात् ।
यद्युच्येत समर्थो ऽपि क्रमवत्सहकारिसचिवः क्रमेण कार्याणि करोतीति ।
तदयुक्तम् ।
विकल्पासहत्वात् ।
किमस्य सहकारिणः कञ्चिदुपकारमादधति न वा ।
अनाधाने ऽनुपकारितया सहकारिणो नापेक्षेरन् ।
आधाने ऽपि भिन्नमभिन्नं वोपकारमादध्युः ।
अभेदे तदेवाभिहितमिति कौटस्थ्यं व्याहन्येत ।
भेदे तूपकारस्य तस्मिन् सति कार्यस्य भावादसति चाभावात्सत्यपि कूटस्थे कार्यानुत्पादादन्वयव्यतिरेकाभ्यामुपकार
एव कार्यकारी न भाव इति नार्थक्रियाकारी भावः ।
तदुक्तम्-ऽवर्षातपाभ्यां किं व्योम्नश्चर्मण्यस्ति तयोः फलम् ।
चर्मोपमश्चेत्सो ऽनित्यः स्वतुल्यश्चेदसत्फलः ॥
ऽइति ।
तथा चाकिञ्चित्करादपि चेत् कूटस्थात्कार्यं जायेत, सर्वं सर्वस्माज्जायेतेति सूक्तम् ।
उपसंहरति- तस्मादभावग्रस्तेभ्य इति ।
तत्रेदमुच्यते ।
नासतो ऽदृष्टत्वादिति ।
नाभावात् कार्योत्पत्तिः ।
कस्मात् ।
अदृष्टत्वात् ।
नहि शशविषाणादङ्गुरादीनां कार्याणामुत्पत्तिर्दृश्यते ।
यदि त्वभावाद्भावोत्पत्तिः स्यात्ततो ऽभावत्वाविशेषात् शशविषाणादिभ्यो ऽप्यङ्गुरोत्पत्तिः ।
नह्यभावो विशिष्यते ।
विशेषणयोगे वा सो ऽपि भावः स्यान्न निरूपाख्य इत्यर्थः ।
विशेषणयोगमभावस्याभ्युपेत्याह- नाप्यभावः कस्यचिदुत्पत्तिहेतुरिति ।
अपि च यद्येनानन्वितं न तत्तस्य विकारः, यथा घटशरावोदञ्चानादयो हेम्नानन्विता न हेमविकारः ।
अनन्विताश्चैते विकारा अभावेन ।
तस्मान्नाभावविकारः ।
भावविकारस्तु ते, भावस्य तेनान्वितत्वादित्याह- अभावाच्च भावोत्पत्ताविति ।
अभावकारणवादिनो वचनमनुभाष्य दूषयति- यत्तूक्तमिति ।
स्थिरो ऽपि भावः क्रमवत्सहकारिसमवधानात् क्रमेण कार्याणि करोति ।
न चानुपकारकाः सहकारिणः ।
स चास्य सहकारिभिराधीयमाना उपकारो न भिन्नो नाप्यभिन्नः ।
किन्त्वनिर्वाच्य एव ।
अनिर्वाच्याच्च कार्यमप्यनिर्वाच्यमेव जायते ।
न चैतावता स्थिरस्याकारणत्वं, तदुपादानत्वात्कार्यस्य, रज्जूपादानत्वमिव भुजङ्गस्येत्युक्तम् ।
तथा च श्रुतिः-ऽमृत्तिकेत्येव सत्यम्ऽइति ।
अपिच ये ऽपि सर्वतो विलक्षणानि स्वलक्षणानि वस्तुसन्त्यास्थिषत, तेषामपि किमिति बीजजातीयेभ्यो ऽङ्कुरजातीयान्येव जायन्ते कार्याणि, नतु क्रमेलकजातीयानि ।
नहि बीजाद्बीजान्तरस्य वा क्रमेलकस्य वात्यन्तवैलक्षण्ये कश्चिद्विशेषः ।
नच बीजाङ्गुरत्वे सामान्ये परमार्थसती, येनैतयोर्भाविकः कार्यकारणभावो भवेत् ।
तस्मात्काल्पनिकादेव स्वलक्षणोपादानाद्बीजजातीयात्तथाविधस्यैवाङ्गुरजातीयस्योत्पत्तिनियम आस्थेयः ।
अन्यथा
कार्यहेतुकानुमानोच्छेदप्रसङ्गः ।
दिङ्मात्रस्य सूचितम् ।
प्रपञ्चस्तु ब्रह्मतत्वसमीक्षान्यायकणिकयोः कृत इति नेह प्रतन्यते विस्तरभयात् ॥26॥
स्तर्त् ब्स्व्भ्_2,2.5.27
उदासीनानामपि चैवं सिद्धिः
भाष्यमस्य सुगमम् ॥27॥
स्तर्त् ब्स्व्भ्_2,2.5.28
नाभाव उपलब्धेः
पूर्वाधिकरणसंगतिमाह-- एवमिति ।
बाह्यार्थवादिभ्यो विज्ञानमत्रवादिनां सुगताभिप्रेततया विशेषमाह- केषाञ्चित्किलेति ।
अथ प्रमाता प्रमाणं प्रमेयं प्रमितिरिति हि चतसृषु विधासु तत्वपरिसमाप्तिरासामन्यतमाभावे ऽपि तत्त्वस्याव्यवस्थानात् ।
तस्मादनेन विज्ञानस्कन्धमात्रं तत्त्वं व्यवस्थापयता चतस्रो विधा एषितव्याः, तथाच न विज्ञानस्कन्धमात्रं तत्त्वम् ।
नह्यस्ति संभवो विज्ञानमात्रं चतस्रो विधाश्चेत्यत आह-- तस्मिंश्च विज्ञानवादे बुद्ध्यारूढेन रूपेणेति ।
यद्यप्यनुभवान्नान्यो ऽनुभाव्यो ऽनुभवितानुभवनं, तथापि बुद्ध्यारूढेन बुद्धिपरिकल्पितेनान्तस्थ एवैष प्रमाणप्रमेयफलव्यवहारः प्रमातृव्यवहारश्चेत्यपि द्रष्टव्यम् ।
न पारमार्थिक इत्यर्थः ।
एवं च सिद्धसाधनम् ।
न हि ब्रह्मवादिनो नीलाद्याकारां वित्तिमभ्युपगच्छन्ति, किन्त्वनिर्वचनीयं नीलादीति ।
तथाहि-स्वरूपं विज्ञानस्यासत्याकारयुक्तं प्रमेयं प्रमेयप्रकाशनं प्रमाणफलं, तत्प्रकाशनशक्तिः प्रमाणम् ।
बाह्यवादिनोरपि वैभाषिकसौत्रान्तिकयोः काल्पनिक एव प्रमाणफलव्यवहारो ऽभिमत इत्याह-- सत्यपि बाह्येर्ऽथ इति ।
भिन्नाधिकरणत्वे हि प्रमाणफलयोस्तद्भावो न स्यात् ।
नहि खदिरगोचरे परशौ पलाशे द्वैधीभावो भवति ।
तस्मादनयोरैकाधिकरण्यं वक्तव्यम् ।
कथं च तद्भवति ।
यदि ज्ञानस्थे एव प्रमाणफले भवतः ।
न च ज्ञानं स्वलक्षणमनंशमंशाभ्यां वस्तुसद्भ्यां युज्यते ।
तदेव ज्ञानमज्ञानव्यावृत्तिकल्पितज्ञानत्वांशं फलम् ।
अशक्तिव्यावृत्तिपरिकल्पितात्मानात्मप्रकाशनशक्त्यंशं प्रमाणम् ।
प्रमेयं त्वस्य बाह्यमेव ।
एवं सौत्रान्तिकसमये ऽपि ।
ज्ञानस्यार्थसारूप्यमनीलाकारव्यावृत्त्या कल्पितनीलाकारत्वं प्रमाणं व्यवस्थापनहेतुत्वात् ।
अज्ञानव्यावृत्तिकल्पितं च ज्ञानत्वं फलं व्यवस्थाप्यत्वात् ।
तथा चाहुः--ऽनहि
वित्तिसत्तैव तद्वेदना युक्ता, तस्याः सर्वत्राविशेषात् ।
तां तु सारूप्यमाविशत्सरूपयत्तद्घटयेत्ऽइति ।
प्रश्नपूर्वकं बाह्यार्थाभाव उपपत्तीराह-- कथं पुनरवम्यत इति ।
स हि विज्ञानालम्बनत्वाभिमतो बाह्योर्ऽथः परमाणुस्तावन्न संभवति ।
एकस्थूलनीलाभासं हि ज्ञानं न परमसूक्ष्मपरमाण्वाभासम् ।
न चान्याभासमन्यगोचरं भवितुमर्हति ।
अतिप्रसङ्गेन सर्वगोचरतया सर्वसर्वज्ञत्वप्रसङ्गात् ।
न च प्रतिभासधर्मः स्थौल्यमिति युक्तम् ।
विकल्पासहत्वात् ।
किमयं प्रतिभासस्य ज्ञानस्य धर्म उत प्रतिभासनकालेर्ऽथस्य धर्मः ।
यदि पूर्वः कल्पः, अद्धा, तथासति हि स्वांशालम्बनमेव विज्ञानमभ्युपेतं भवति ।
एवं च कः प्रतिकूलीभवत्यनुकूलमाचरति ।
द्वितीय इति चेत् ।
तथा हि--रूपपरिमाणव एव
निरन्तरमुत्पन्ना एकविज्ञानोपारोहिणः स्थौल्यम् ।
न चात्र कस्यचिद्भ्रान्तता ।
नहि न ते रूपपरमाणवः ।
नच न निरन्तरमुत्पन्नाः ।
न चैकविज्ञानानुपारोहिणः ।
तेन मा भून्नीलत्वादिवत्परमाणुधर्मः, प्रत्येकं परमाणुष्वभावात् ।
प्रतिभासदशापन्नानां तु तेषां भविष्यति बहुत्वादिवत्सांवृतं स्थौल्यम् ।
यथाहुः--ऽग्रहे ऽनेकस्य चैकेन किञ्चिद्रूपं हि गृह्यते ।
सांवृतं प्रतिभासस्थं तदेकात्मन्यसंभवात् ॥1॥
नच तद्दर्शनं भ्रान्तं नानावस्तुग्रहाद्यतः ।
सांवृतं ग्रहणं नान्यन्न च वस्तुग्रहो भ्रमः ॥2॥
ऽइति ।
तन्न ।
नैरन्तर्यावभासस्य भ्रान्तत्वात् ।
गन्धरसस्पर्शपरमाण्वन्तरिता हि ते रूपपरमाणवो न निरन्तराः तस्मादारात्सान्तरेषु वृक्षेष्वेकधनवनप्रत्ययवदेष स्थूलप्रत्ययः परमाणुषु सान्तरेषु भ्रान्त एवेति पश्यामः ।
तस्मात् कल्पनाषोढत्वे ऽपि भ्रान्तत्वाद्घटादिप्रत्ययस्य पीतशङ्खादिज्ञानवन्न प्रत्यक्षता परमाणुगोचरत्वाभ्युपगमे ।
तदिदमुक्तम्, न तावत्परमाणवः
स्तम्भादिप्रत्ययपरिच्छेद्या भवितुमर्हन्ति ।
नापि तत्समूहा वा स्तम्भादयो ऽ वयविनः ।
तेषामभेदे परमाणुभ्यः परमाणव एव ।
तत्र चोक्तं दूषणम् ।
भेदे तु गवाश्वस्येवात्यन्तवैलक्षण्यमिति न तादात्म्यम् ।
समवायश्च निराकृत इति ।
एवं भेदाभेदविकल्पेन जातिगुणकर्मादीनपि प्रत्याचक्षीत ।
तस्माद्यद्यत्प्रतिभासते तस्य सर्वस्य विचारासहत्वात्, अप्रतिभासमानसद्भावे च प्रमाणाभावान्न बाह्यालम्बनाः प्रत्यया इति ।
अपि च न तावद्विज्ञानमिन्द्रियवन्निलीनमर्थं प्रत्यक्षयितुमर्हति ।
नहि यथेन्द्रियमर्थविषयं ज्ञानं जनयत्येवं विज्ञानमपरं विज्ञानं जनयितुमर्हति ।
तत्रापि समानत्वादनुयोगस्यानवस्थाप्रसङ्गात् ।
न चार्थाधारं प्राकट्यलक्षणं फलमाधातुमुत्सहते ।
अतीतानागतेषु तदसंभवात् ।
नह्यस्ति संभवो ऽप्रत्युत्पन्नो धर्मी धर्माश्चास्य प्रत्युत्पन्ना इति ।
तस्माज्ज्ञानस्वरूपप्रत्यक्षतैवार्थप्रत्यक्षताभ्युपेया ।
तच्चानाकारं सदाजानतो भेदाभावात् कथमर्थभेदं व्यवस्थापयेदिति तद्भेदव्यवस्थापनायाकारभेदो ऽस्यैषितव्यः ।
तदुक्तम्--ऽन हि वित्तिसत्तैव तद्वेदना युक्ता, तस्याः सर्वत्राविशेषात् ।
तां तु सारूप्यमाविशत्सरूपयत्तद्घटयेत्ऽइति ।
एकश्चायमाकारो ऽनुभूयते ।
स चेद्विज्ञानस्य नार्थसद्भावे किञ्चन प्रमाणमस्तीत्याह-- अपिचानुभवमात्रेण साधारणात्मनो ज्ञानस्येति ।
अपि च सहोपलम्भनियमादिति ।
यद्येन सह नियतसहोपलम्भनं तत्ततो न भिद्यते, यथैकस्माच्चन्द्रमसो द्वितीयश्चन्द्रमाः ।
नियतसहोपलम्भनश्चार्थो ज्ञानेनेति व्यापकविरुद्धोपलब्धिः ।
निषेध्यो हि भेदः सहोपलम्भानियमेन व्याप्तो यथा भिन्नावश्विनौ नावश्यं सहोपलभ्येते कदाचिदभ्रापिधाने ऽन्यतरस्यैकस्योपलब्धेः ।
सो ऽयमिह भेदव्यापकानियमविरूद्धो नियम उपलभ्यमानस्तद्व्याप्यं भेदं निवर्तयतीति ।
तदुक्तम्--ऽसहोपलम्बनियमादभेदो नीलतद्धियोः ।
भेदश्च भ्रान्तिविज्ञानैर्द्दृश्यतेन्दाविवाद्वये ॥
ऽइति ।
स्वप्नादिवच्चेदं द्रष्टव्यम् ।
यो यः प्रत्ययः स सर्वो बाह्यानावम्बनः, यथा स्वप्नमायादिप्रत्ययः, तथा
चैष विवादाध्यासितः प्रत्यय इति स्वभावहेतुः ।
बाह्यानालम्बनता हि प्रत्ययत्वमात्रानुबन्धिनी वृक्षतेव शिंशपात्वमात्रानुबन्धिनीति तन्मात्रानुबन्धिनि निरालम्बनत्वे साध्ये भवति प्रत्ययत्वं स्वभावहेतुः ।
अत्रान्तरे सौत्रान्तिकश्चोदयति-- कथं पुनरसति बाह्येर्ऽथे नीलमिदं पीतमित्यादि प्रत्ययवैचित्र्यमुपपद्यते ।
स हि मेने ये यस्मिन् सत्यपि कादाचित्कास्ते सर्वे तदतिरिक्तहेतुसापेक्षाः, यथाविवक्षत्यजिगमिषति मयि वचनगमनप्रतिभासाः प्रत्ययाश्चेतनसंतानान्तरसापेक्षाः ।
तथा च विवादाध्यासिताः सत्यप्यालयविज्ञानसंताने षडपि प्रवृत्तिप्रत्यया इति स्वभावहेतुः ।
यश्चासावालयविज्ञानसंतानातिरिक्तः कादाचित्कप्रवृत्तिज्ञानभेदहेतुः स बाह्योर्ऽथं इति ।
वासनापरिपाकप्रत्ययकादाचित्कत्वात् कदाचिदुत्पाद इति चेत् ।
नन्वेकसंततिपतितानामालयविज्ञानानां तत्प्रवृत्तिविज्ञानजननशक्तिर्वासना, तस्याश्च स्वकार्योपजनं प्रत्याभिमुख्यं परिपाकस्तस्य च प्रत्ययः स्वसंतानवर्ती पूर्वक्षणः संतानान्तरापेक्षानभ्युपगमात्, तथाच सर्वे ऽप्यालयसंतानपतिताः परिपाकहेतवो भवेयुः ।
न वा कश्चिदपि, आलयसंतानपातित्वाविशेषात् ।
क्षणभेदाच्छक्तिभेदस्तस्य च कादाचित्कत्वात्कार्यकादाचित्कत्वमिति चेत् ।
नन्वेवमेकस्यैव नीलज्ञानोपजनसामर्थ्यं तत्प्रबोधसामर्थ्यं चेति क्षणान्तरस्यैतन्न स्यात् ।
सत्त्वे वा कथं क्षणभेदात्सामर्थ्यभेद इत्यालयसंतानवर्तिनः सर्वे समर्था इति समर्थहेतुसद्भावे कार्यक्षेपानुपपत्तेः ।
स्वसंतानमात्राधीनत्वे निषेध्यस्य कादाचित्कत्वस्य विरुद्धं सदातनत्वं तस्योपलब्ध्या कादाचित्कत्वं निवर्तमानं हेत्वन्तरापेक्षत्वे व्यवतिष्ठत इति प्रतिबन्धसिद्धिः ।
नच ज्ञानसंतानान्तरनिबन्धनत्वं
सर्वेषामिष्यते प्रवृत्तिविज्ञानानां विज्ञानवादिभिरपि तु कस्यचिदेव विच्छिन्नगमनवचनप्रतिभासस्य प्रवृत्तिविज्ञानस्य ।
अपि च
सत्त्वान्तरसंताननिमित्तत्वे तस्यापि सदा संनिधानान्न कादाचित्कत्वं स्यात् ।
न हि सत्त्वान्तरसंतानस्य देशतः कालतो वा विप्रकर्षसंभवः ।
विज्ञानवादे विज्ञानातिरिक्तदेशानाभ्युपगमादमूर्तत्वाच्च विज्ञानानामदेशात्मकत्वात्संसारस्यादिमत्वाप्रसङ्गेनापूर्वसत्त्वप्रादुर्भावानभ्युपगमाच्च न कालतो ऽपि विप्रकर्षसंभवः ।
तस्मादसति बाह्येर्ऽथे प्रत्ययवैचित्र्यानुपपत्तेरस्त्यानुमानिको बाह्यार्थ इति सौत्रान्तिकाः प्रतिपेदिरे, तान्निराकरोति-- वासनावैचित्र्यादित्याह विज्ञानवादी ।
इदमत्राकूतम्--स्वसंतानमात्रप्रभवत्वे ऽपि प्रत्ययकादाचित्कत्वोपपत्तौ संदिग्धविपक्षव्यावृत्तिकत्वेन हेतुरनैकान्तिकः ।
तथाहि--बाह्यनिमित्तकत्वे ऽपि कथं कदाचित् नीलसंवेदनं कदाचित् पीतसंवेदनम् ।
बाह्यनीलपीतसंनिधानासंनिधानाभ्यामिति चेत् ।
अथ पीतसंनिधाने ऽपि किमिति नीलज्ञानं न भवति, पीतज्ञानं भवति ।
तत्र तस्य सामर्थ्यादसामर्थ्याच्चेतरस्मिन्निति चेत् ।
कुतः पुनरयं सामर्थ्यासामर्थ्यभेदः ।
हेतुभेदादिति चेत् ।
एवं तर्हि क्षणानामपि स्वकारणभेदनिबन्धः शक्तिभेदो भविष्यति ।
संतानिनो हि क्षणाः कार्यभेदहेतवस्ते च प्रतिकार्यं भिद्यन्ते च ।
न च संतानो नाम कश्चिदेक उत्पादकः क्षणानां यदभेदात् क्षणा न भिद्येरन् ।
ननूक्तं न क्षणभेदाभेदाभ्यां शक्तिभेदाभेदौ, भिन्नानामपि क्षणानामेकसामर्थ्योपलब्धेः ।
अन्यथैक एव क्षणे नीलज्ञानजननसामर्थ्यं इति न भूयो नीलज्ञानानि जायेरन् ।
तत्समर्थस्यातीतत्वात्, क्षणान्तराणां चासामर्थ्यात् ।
तस्मात् क्षणभेदे ऽपि न सामर्थ्यभेदः, संतानभेदे तु सामर्थ्यं भिद्यत इति ।
तन्न ।
यदि भिन्नानां संतानानां नैकं सामर्थ्यं, हन्त तर्हि नीलसंतानानामपि मिथो भिन्नानां नैकमस्ति नीलाकाराधानसामर्थ्यमिति संनिधाने ऽपि
नीलसंतानान्तरस्य न नीलज्ञानमुपजायेत ।
तस्मात्संतानान्तराणामिव क्षणान्तराणामपि स्वकारणभेदाधीनोपजनानां केषाञ्चिदेव सामर्थ्यभेदः केषाञ्चिन्नेति वक्तव्यम् ।
तथा चैकालयज्ञानसंतानपतितेषु कस्यचिदेव ज्ञानक्षणस्य स तादृशः सामर्थ्यातिशयो वासनापरनामा स्वप्रत्ययासादितः ।
यतो नीलाकारं प्रवृत्तिविज्ञानं जायते न पीताकारम् ।
कस्यचित्तु स तादृशो यतः पीताकारं ज्ञानं न नीलाकारमिति वासनावैचित्र्यादेव स्वप्रत्ययासादिताज्ज्ञानवैचित्र्यसिद्धेर्न तदतिरिक्तार्थसद्भावे किञ्चनास्ति प्रमाणमिति पश्यामः ।
आलयविज्ञानसंतानपतितमेवासंविदितं ज्ञानं वासना तद्वैचित्र्यान्नीलाद्यनुभववैचित्र्यं, पूर्वनीलाद्यनुभववैचित्र्याच्च वासनावैचित्र्यमित्यनादितानयोर्विज्ञानवासनयोः ।
तस्मान्न परस्पराश्रयदोषसंभवो बीजाङ्कुरसंतानवदिति ।
अन्वयव्यतिरेकाभ्यामपि वासनावैचित्र्यस्यैव ज्ञानवैचित्र्यहेतुता नार्थवैचित्र्यस्येत्याह-- अपि चान्वयव्यतिरेकाभ्यामिति ।
एवं प्राप्ते ब्रूमः ।
नाभाव उपलब्धेरिति ।
न खल्वभावो बाह्यस्यार्थस्याध्यवसातुं शक्यते ।
स ह्युपलम्भाभावाद्वाध्यवसीयेत, सत्यप्युपलम्भे तस्य बाह्याविषयत्वाद्वा, सत्यपि बाह्यविषयत्वे बाह्यार्थबाधकप्रमाणसद्भावाद्वा ।
न तावत् सर्वथोपलम्भाभाव इति प्रश्नपूर्वकमाह-- कस्मात् ।
उपलब्धेरिति ।
नहि स्फुटतरे सर्वजनीन उपलम्भे सति तदभावः शक्यो वक्तुमित्यर्थः ।
द्वितीयं पक्षमवलम्बते-- ननु नाहमेवं ब्रवीमीति ।
निराकरोति-- बाढमेवं ब्रवीषि ।
उपलब्धिग्राहिणा हि साक्षिणोपलब्धिर्गृह्यमाणा बाह्यविषयत्वेनैव गृह्यते नोपलब्धिमात्रमित्यर्थः ।
अतश्च इति वक्ष्यमाणोपपत्तिपरामर्शः ।
तृतीयं पक्षमालम्बते-- ननु
बाह्यस्यार्थस्यासंभवादिति ।
निराकरोति-- नायं साधुरध्यवसाय इति ।
इदमत्राकूतम्--घटपटादयो हि स्थूला भासन्ते न तु परमसूक्ष्माः ।
तत्रेदं नानादिग्देशव्यापित्वलक्षणं स्थौल्यं यद्यपि ज्ञानाकारत्वेनावरणानावरणलक्षणेन विरुद्धधर्मसंसर्गेण युज्यते ज्ञानोपाधेरनावृतत्वादेव तथापि तद्देशत्वातद्देशत्वकम्पाकम्पत्वरक्तारक्तत्वलक्षणैर्विरुद्धधम्रसंसर्गैरस्य नानात्वं प्रसज्यमानं ज्ञानाकारत्वे ऽपि न शक्यं
शक्रेणापि वारयितुम् ।
व्यतिरेकाव्यतिरेकवृत्तिविकल्पौ च परमाणोरंशवत्त्वं चोपपादितानि वैशेषिकपरीक्षायाम् ।
तस्माद्बाह्यार्थवन्न ज्ञाने ऽपि स्थौल्यसंभवः ।
न च तावत् परमाण्वाभासमेकज्ञानम्, एकस्य नानात्मत्वानुपपत्तेः ।
आकाराणां वा ज्ञानतादात्म्यादेकत्वप्रसङ्गात् ।
न च यावन्त आकारास्तावन्त्येव ज्ञानानि, तावतां ज्ञानानां मिथो वार्तानभिज्ञतया स्थूलानुभवाभावप्रसङ्गात् ।
न च तत्पृष्ठभावी समस्तज्ञानाकारसंकलनात्मक एकः स्थूलविकल्पो विजृम्भत इति सांप्रतम् ।
तस्यापि साकारतया स्थौल्यायोगात् ।
यथाह धर्मकीर्तिः-ऽतस्मान्नार्थे न च ज्ञाने स्थूलाभासस्तदात्मनः ।
एकत्र प्रतिषिद्धत्वाद्बहुष्वपि न संभवः ॥
ऽइति ।
तस्माद्भवतापि ज्ञानाकारं स्थौल्यं समर्थयमानेन प्रमाणप्रवृत्त्यप्रवृत्तिपूर्वकौ संभवासंभवा वास्थेयौ ।
तथा चेदन्तास्पदमशक्यं ज्ञानाद्भिन्नं बाह्यमपह्नोतुमिति ।
यच्च ज्ञानस्य प्रत्यर्थं व्यवस्थायै विषयसारूप्यमास्थितं, नैतेन विषयो ऽपह्नोतुं शक्यः,
असत्यर्थे तत्सारूप्यस्य तद्व्यवस्थायाश्चानुपपत्तेरित्याह- न च ज्ञानस्य विषयसारूप्यादिति ॥
यश्च सहोपलम्भनियम उक्तः सो ऽपि विकल्पं न सहते ।
यदि ज्ञानार्थयोः साहित्येनोपलम्भस्ततो विरुद्धो हेतुर्नाभेदं साधयितुमर्हति, साहित्यस्य तद्विरुद्धभेदव्याप्तत्वादभेदे तदनुपपत्तेः ।
अथैकोपलम्भनियमः ।
न एकत्वस्यावाचकः सहशब्दः ।
अपि च किमेकत्वेनोपलम्भ आहो एक उपलम्भो ज्ञानार्थयोः ।
न
तावदेकत्वेनोपलम्भ इत्याह-- बहिरुपलब्धेश्च विषयस्य ।
अथैकोपलम्भनियमः, तत्राह-- अत एव सहोपलम्भनियमो ऽपि प्रत्ययविषयो ऽरुपायोपेयभावहेतुको नाभेदहेतुक इत्यवगन्तव्यम् ।
यथा हि सर्वं चाक्षुषं प्रभारूपानुविद्धं बुद्धिबोध्यं नियमेन मनुजैरुपलभ्यते, न चैतावता घटादिरूपं प्रभात्मकं भवति, किन्तु प्रभोपायत्वान्नियमः, एवमिहाप्यात्मसाक्षिकानुभवोपायत्वादर्थस्यैकोपलम्भनियम इति ।
अपि च यत्रैकविज्ञानगोचरौ घटपटौ तत्रार्थभेदं विज्ञानभेदं चाद्यवस्यन्ति प्रतिपत्तारः ।
न चैतदेकात्म्ये ऽवकल्पत इत्याह-- अपिच घटज्ञनं पटज्ञानमिति ।
तथार्थाभेदे ऽपि विज्ञानभेददर्शनान्न विज्ञानात्मकत्वमर्थस्येत्याह- तथा घटदर्शनं घटस्मरणमिति ।
अपि च स्वरूपमात्रपर्यवसितं ज्ञानं ज्ञानान्तरवार्तानभिज्ञमिति ययोर्भेदस्ते द्वे न गृहीते इति भेदो ऽपि तद्गतो न गृहीत इति ।
एवं क्षणिकशून्यानात्मत्वादयो ऽप्यनेकप्रतिज्ञाहेतुदृष्टान्तज्ञानभेदसाध्याः ।
एवं स्वमसाधारणमन्यतो व्यावृत्तं लक्षणं यस्य तदपि यद्व्यावर्तते यतश्च व्यावर्तते तदनेकज्ञानसाध्यम् ।
एवं सामान्यलक्षणमपि विधिरूपमन्यापोहरूपं वानेकज्ञानगम्यम् ।
एवं वास्यवासकभावो ऽनेकज्ञानसाध्यः ।
एवमविद्योपप्लववशेन यत्सदसद्धर्मत्वं यथा नीलमिति सद्धर्मः, नरविषाणमित्यसद्धर्मः, अमूर्तमिति सदसद्धर्मः ।
शक्यं हि शशविषाणममूर्तं वक्तुम् ।
शक्यं च विज्ञानममूर्तं वक्तुम् ।
यथोक्तम्--ऽअनादिवासनोद्भूतविकल्पपरिनिष्ठितः ।
शब्दार्थस्त्रिविधो धर्मो भावाभावोभयाश्रयः ॥
ऽइति ।
एवं मोक्षप्रतिज्ञा च यो मुच्यते यतश्च मुच्यते येन मुच्यते तदनेकज्ञानसाध्या ।
एवं विप्रतिपन्नं प्रतिपादयितुं प्रतिज्ञेति यत्प्रतिपादयति येन प्रतिपादयति यश्च
पुरुषः प्रतिपाद्यते यश्च प्रतिपादयति तदनेकज्ञानसाध्येत्यसत्येकस्मिन्ननेकार्थज्ञानप्रतिसंधातरि नोपपद्यते ।
तत्सर्वं विज्ञानस्य स्वांशालम्बने ऽनुपपन्नमित्याह-- अपि च द्वयोर्विज्ञानयोः पूर्वोत्तरकालयोरिति ।
अपि च भेदाश्रयः कर्मफलभावो नाभिन्ने ज्ञाने भवितुमर्हति ।
नो खलु छिदा छिद्यते किन्तु दारु ।
नापि पाकः पच्यते ऽपि तु तण्डुलाः ।
तदिहापि न ज्ञानं स्वांशेन ज्ञेयमात्मनि वृत्तिविरोधादपि तु तदतिरिक्तोर्ऽथः, पाच्या इव तण्डुलाः पाकातिरिक्ता इति ।
भूमिरचनापूर्वकमाह- -किञ्चान्यत् ।
विज्ञानं विज्ञानमित्यभ्युपगच्छेतेति ।
चोदयति -ननु विज्ञानस्य स्वरूपव्यतिरिक्तग्राह्यत्व इति ।
अयमर्थः--स्वरूपादतिरिक्तमर्थं चेद्विज्ञानं गृह्णाति ततस्तदप्रत्यक्षं सन्नर्थं प्रत्यक्षयितुमर्हति ।
न हि चक्षुरिव तन्निलीनमर्थे कञ्चनातिशयमाधत्ते, येनार्थमप्रत्यक्षं सत्प्रत्यक्षयेत् ।
अपितु तत्प्रत्यक्षतैवार्थप्रत्यक्षता ।
यथाहुः--ऽअप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यतिऽइति ।
तच्चेत् ज्ञानान्तरेण प्रतीयेत तदप्रतीतं नार्थविषयं ज्ञानमपरोक्षयितुमर्हति ।
एवं तत्तदित्यनवस्था तस्मादनवस्थाया बिभ्यता वरं स्वात्मनि वृत्तिरास्थिता ।
अपिच यथा प्रदीपो न दीपान्तरमपेक्षते, एवं ज्ञानमपि न ज्ञानान्तरमपेक्षितुमर्हति समत्वादिति ।
तदेतत्परिहरति-- तदुभयमप्यसत् ।
विज्ञानग्रहणमात्र एव विज्ञानसाक्षिणो ग्रहणाकाङ्क्षानुत्पादादनवस्थाशङ्कानुपपत्तेः ।
अयमर्थः--सत्यमप्रत्यक्षस्योपलम्भस्य नार्थदृष्टिः प्रसिध्यति, न तूपलब्धारं प्रति तत्प्रत्यक्षत्वायोपलम्भान्तरं प्रार्थनीयम्, अपितु तस्मिन्निन्द्रियार्थसंनिकर्षादन्तः करणविकारभेद उत्पन्नमात्र एव प्रभातुरर्थश्चोपलम्भश्च प्रत्यक्षौ भवतः ।
अर्थो हि निलीनस्वभावः प्रमातारं प्रति स्वप्रत्यक्षत्वायान्तःकरणविकारभेदमनुभवमपेक्षते, अनुभवस्तु जडो ऽपि स्वच्छतया चैतन्यबिम्बोद्ग्रहणाय नानुभवान्तरमपेक्षते, येनानवस्था भवेत् ।
नह्यस्ति संभवो ऽनुभव उत्पन्नश्च, न च प्रमातुः प्रत्यक्षो भवति, यथा नीलादिः ।
तस्माद्यथा छेत्ता
छिदया छेद्यं वृक्षादि व्याप्नोति, न तु छिदा छिदान्तरेण, नापि छिदैव छेत्री, किन्तु स्वत एव देवदत्तादिः, यथा वा पक्ता पाक्यं पाकेन व्याप्नोति ननु पाकं पाकान्तरेण, नापि पाक एव पक्ता किन्तु स्वत एव देवदेत्तादिः, एवं प्रमाता प्रमेयं नीलादि प्रमया व्याप्नोति न तु प्रमां प्रमान्तरेण, नापि प्रमैव प्रमात्री, किन्तु स्वत एव प्रमायाः प्रमाता व्यापकः ।
न च प्रमातरि कूटस्थनित्यचैतन्ये प्रमापेक्षासंभवो यतः प्रमातुः प्रमायाः प्रमात्रन्तरापेक्षायामनवस्था भवेत् ।
तस्मात् सुष्ठूक्तं ऽविज्ञानग्रहणमात्र एव विज्ञानसाक्षिणः प्रमातुः कूटस्थनित्यचैतन्यस्य ग्रहणाकाङ्क्षानुत्पादात्ऽइति ।
यदुक्तं ऽसमत्वादवभास्यावभासकभावानुपपत्तेःऽइति ।
तत्राह-
साक्षिप्रत्यययोश्च स्वभाववैषम्यादुपलब्ध्रुपलभ्यभावोपपत्तेः ।
मा भूत् ज्ञानयोः साम्येन ग्राह्यग्राहकभावः ।
ज्ञातृज्ञानयोस्तु वैषम्यादुपपद्यत एव ।
ग्राह्यत्वं च ज्ञानस्य न ग्राहकक्रियाजनितफलशालितया यथा बाह्यार्थस्य, फले फलान्तरानुपपत्तेः ।
यथाहुः--ऽन संविदर्यते फलत्वात्ऽइति ।
अपि तु प्रमातारं प्रति स्वतःसिद्धप्रकटतया ।
ग्राह्यो ऽप्यर्थः प्रमातारं प्रति सत्यां संविदि प्रकटः संविदपि प्रकटा ।
यथाहुरन्ये--नास्याः कर्मभावो विद्यते इति ।
स्यादेतत् यत्प्रकाशते तदन्येन प्रकाश्यते यथा ज्ञानार्थौ तथा च साक्षिति नास्ति प्रत्ययसाक्षिणोर्वैषम्यमित्यत आह-- स्वयंसिद्धस्य च साक्षिणो ऽप्रत्याख्येयत्वात् ।
तथाहि--अस्य साक्षिणः सदासंदिग्धाविपरीतस्य नित्यसाक्षात्कारतानागन्तुकप्रकाशत्वे घटते ।
तथाहि--प्रमाता संदिहानो ऽप्यसंदिग्धो विपर्यस्यन्नप्यविपरीतः परोक्षमर्थमुत्प्रेक्षमाणो ऽप्यपरोक्षः स्मरन्नप्यनुभविकः
प्राणभृन्मात्रस्य ।
न चैतदन्याधीनसंवेदनत्वे घटते ।
अनवस्थाप्रसङ्गश्चोक्तः ।
तस्मात्स्वयंसिद्धतास्यानिच्छताप्यप्रत्याख्येया प्रमाणमार्गयत्तत्वादिति ।
किञ्चोक्तेन क्रमेण ज्ञानस्य स्वयमवगन्तृत्वाभावात्प्रमातुरनभ्युपगमे च प्रदीपवद्विज्ञानमवभासकान्तरनिरपेक्षं स्वयमेव प्रथत इति ब्रुवताप्रमाणगम्यं विज्ञानमनवगन्तृकमित्युक्तं स्यात् ।
शिलाघनमध्यस्थप्रदीपसहस्रप्रथनवत् ।
अवगन्तुश्चेत्कस्यचिदपि न प्रकाशते कृतमवगमेन स्वयंप्रकाशेनेति ।
विज्ञानमेवावगन्त्रिति मन्वानः शङ्कते-- बाढमेवम् ।
अनुभवरूपत्वादिति ।
न फलस्य कर्तृत्वं कर्मत्वं वास्तीति प्रदीपवत्कर्त्रन्तरमेषितव्यं, तथा च न सिद्धसाधनमिति परिहरति-- न ।
अन्यस्यावगन्तुरिति ।
ननु साक्षिस्थाने ऽस्त्वस्मदभिमतमेव विज्ञानं तथा च नाम्न्येव विप्रतिपत्तिर्नार्था इति शङ्कते-- साक्षिणो ऽवगन्तुः स्वयंसिद्धतामुपक्षिपता अभिप्रेय ता स्वयं प्रथते विज्ञानमित्येष एवेति ।
निराकरोति-- नेति ।
भवन्ति हि विज्ञानस्योत्पादादयो धर्मा अभ्युपेतास्तथा चास्य फलतया नावगन्तृत्वं, कर्तृफलभावस्यैकत्र विरोधात् ।
किन्तु प्रदीपादितुल्यतेत्यर्थः ॥28॥
स्तर्त् ब्स्व्भ्_2,2.5.29
वैधर्म्याच् च न स्वप्नादिवत्
बाधाबाधौ वैधर्म्यम् ।
स्वप्नप्रत्ययो बाधितो जाग्रत्प्रत्ययश्चाबाधितः ।
त्वयापि चावश्यं जाग्रत्प्रत्ययस्याबाधितत्वमास्थेयं, तेन हि स्वप्नप्रत्ययो बाधितो मिथ्येत्यवगम्यते ।
जाग्रत्प्रत्ययस्य तु बाध्यत्वे स्वप्नप्रत्ययस्यासौ न बाधको भवेत् ।
नहि बाध्यमेव बाधकं भवितुमर्हति ।
तथा च न स्वप्नप्रत्ययो मिथ्येति साध्यविकलो दृष्टान्तः स्यात् स्वप्नवदिति ।
तस्माद्बाधाबाधाभ्यां वैधर्म्यान्न स्वप्नप्रत्ययदृष्टान्तेन जाग्रत्प्रत्ययस्य शक्यं निरालम्बनत्वमध्यवसातुम् ।
निद्राग्लानमिति ।
करणदोषाभिदानम् ।
मिथ्यात्वाय वैधर्म्यान्तरमाह- -अपि च स्मृतिरेवेति ।
संस्कारमात्रजं हि विज्ञानं स्मृतिः ।
प्रत्युत्पन्नेन्द्रियसंप्रयोगलिङ्गशब्दसारूप्यान्यथानुपपद्यमानयोग्यप्रमाणानुत्पत्तिलक्षणसामग्रीप्रभवं तु
ज्ञानमुपलब्घिः ।
तदिह निद्राणस्यसामग्र्यन्तरविरहात्संस्कारः परिशिष्यते, तेन संस्कारजत्वात्स्मृतिः, सापि च निद्रादोषाद्विपरीतावर्तमानमपि पित्रादि वर्तमानतया भासयति ।
तेन स्मृतेरेव तावदुपलब्धेर्विशेषस्तस्याश्च स्मृतेर्वैपरीत्यमिति ।
अतो महदन्तरमित्यर्थः ।
अपि च स्वतःप्रामाण्ये सिद्धे जाग्रत्प्रत्ययानां यथार्थत्वमनुभवसिद्धं नानुमानेनान्यथयितुं शक्यम्, अनुभवविरोधेन तदनुत्पादात् ।
अबादितविषयताप्यनुमानोत्पादसामग्रीग्राह्यतया प्रमाणम् ।
न च कारणाभावे कार्यमुत्पत्तुमर्हतीत्याशयवानाह- अपि चानुभवविरोधप्रसङ्गादिति ॥29 ॥
स्तर्त् ब्स्व्भ्_2,2.5.30
न भावो ऽनुपलब्धेः
यथालोकदर्शनं चान्वयव्यतिरेकावनुश्रियमाणावर्थ एवोपलब्धेर्भवतो नार्थानपेक्षायां वासनायाम् ।
वासनाय अप्यर्थोपलब्ध्यधीनत्वदर्शनादित्यर्थः ।
अपि चाश्रयाभावादपि न लौकिकी वासनोपपद्यते ।
न च क्षणिकमालयविज्ञानं वासनाधारो भवितुमर्हति ।
द्वयोर्युगपदुत्पद्यमानयोः सव्यदक्षिणशृङ्गवदाधाराधेयभावाभावात् ।
प्रागुत्पन्नस्य चाधेयोत्पादसमये ऽसतः क्षणिकत्वव्याघात इत्याशयवानाह-- अपि च वासना नामेति ।
शेषमतिरोहितार्थम् ॥30॥
स्तर्त् ब्स्व्भ्_2,2.5.31
क्षणिकत्वाच् च
स्यादेतत् ।
यदि साकारं विज्ञानं संभवति बाह्यश्चार्थः स्थूलसूक्ष्मविकल्पेनासंभवी हन्तैवमर्थज्ञाने सत्त्वेन तावद्विचारं न सहेते ।
नाप्यसत्त्वेन, असतो भासनायोगात् ।
नोभयत्वेन, विरोधात्सदसतोरेकत्रानुपपत्तेः ।
नाप्यनुभयत्वेन, एकनिषेधस्येतरविधाननान्तरीयकत्वात् ।
तस्माद्विचारासहत्वमेवास्तु तत्त्वं वस्तूनाम् ।
यथाहुः--ऽइयं वस्तु बलायातं यद्वदन्ति विपश्चितः ।
यथा यथार्थाश्चिन्त्यन्ते विविच्यन्ते तथा तथा ॥
ऽइति ॥
न क्वचिदपि पक्षे व्यवतष्ठन्त इत्यर्थः ।
तदेतन्निराचिकीर्षुराह- -शून्यवादिपक्षस्तु सर्वप्रमाणविप्रतिषिद्ध इति तन्निराकरणाय नादरः क्रियते ।
लौकिकानि हि प्रमाणानि सदसत्त्वगोचराणि ।
तैः खलु सत्सदिति गृह्यमाणं यथाभूतमविपरीतं तत्त्वं
व्यवस्थाप्यते ।
असच्चासदिति गृह्यमाणं यथाभूतमविपरीतं तत्त्वं व्यवस्थाप्यते ।
सदसतोश्च विचारासहत्वं व्यवस्थापयता सर्वप्रमाणविप्रतिषिद्धं व्यवस्थापितं भवति ।
तथा च सर्वप्रमाणविप्रतिषेधान्नेयं व्यवस्थोपपद्यते ।
यद्युच्येत तात्त्विकं प्रामाण्यं प्रमाणानामनेन विचारेण व्युदस्यते न सांव्यवहारिकम् ।
तथाच भिन्नविषयत्वान्न सर्वप्रमाणविप्रतिषेध इत्यत आह-- नह्येयं सर्वप्रमाणप्रसिद्धो ललोकव्यवहारो ऽन्यतत्त्वमनधिगम्य शक्यते ऽपह्नोतुम् ।
प्रमाणानि हि स्वगोचरे प्रवर्तमानानि तत्त्वमिदमित्येव प्रवर्तन्ते ।
अतात्त्विकत्वं तु तद्गोचरस्यान्यतो बाधकादवगन्तव्यम् ।
न पुनः सांव्यवहारिकं नः प्रामाण्यं न तु तात्त्विकमित्येव प्रवर्तन्ते ।
बाधकं चातात्त्विकत्वमेषां तद्गोचरविपरीततत्त्वोपदर्शनेन दर्शयेत् ।
यथा शुक्तिकेयं न रजतं मरीचयो न तोयमेकश्चन्द्रो न चन्द्रद्वयमित्यादि, तद्वदिहापि समस्तप्रमाणगोचरविपरीततत्त्वान्तरव्यवस्थापनेनातात्त्विकत्वमेषां प्रमाणानां बाधकेन दर्शनीयं न त्वव्यवस्थापिततत्त्वान्तरेण प्रमाणानि शक्यानि बाधितुम् ।
विचारासहत्वं वस्तूनां तत्त्वं व्यवस्थापयद्बाधकमतात्त्विकत्वं प्रमाणानां दर्शयतीति चेत्, किं पुनरिदं विचारासहत्वं वस्तु यत्तत्त्वमभिमतं, किं तद्वस्तु परमार्थतः सदादीनामन्यतमत् केवलं विचारं न सहते, अथ विचारासहत्वेन निस्तत्त्वमेव ।
तत्र परमार्थतः सदादीनामन्यतमद्विचारं न सहत इति विप्रतिषिद्धम् ।
न सहते चेन्न सदादीनामन्यतमत् ।
अन्यतमच्चेत् कथं न विचारं सहते ।
अथ निस्तत्त्वं चेत् कथमन्यतमत्तत्त्वमव्यवस्थाप्य शक्यमेवं वक्तुम् ।
न च निस्तत्त्वतैव तत्त्वं भावानाम् ।
तासति हि तत्त्वाभावः स्यात् ।
सो ऽपि च विचारं न सहत इत्युक्तं भवद्भिः ।
अपि चारोपितं
निषेधनीयम् ।
आरोपश्च तत्त्वाधिष्ठानो दृष्टो यथा शुक्तिकादिषु रजतादेः ।
न चेत् किञ्चिदस्ति तत्त्वं कस्य कस्मिन्नारोपः ।
तस्मान्निष्प्रपञ्चं परमार्थसद्ब्रह्मानिर्वाच्यप्रपञ्चात्मनारोप्यते, तच्च तत्त्वं व्यवस्थाप्यातात्त्विकत्वेन सांव्यवहारिकत्वं प्रमाणानां बाधकेनोपपद्यत इति युक्तमुत्पश्यामः ॥31॥
स्तर्त् ब्स्व्भ्_2,2.5.32
सर्वथानुपपत्तेश् च
विभजते- किं बहुना उक्तेन यथायथा ग्रन्थतोर्ऽथतश्च अयं वैनाशिकसमय इति ।
ग्रन्थतस्तावत्पश्यनातिष्ठनामिद्धपोषधाद्यसाधुपदप्रयोगः ।
अर्थतश्च नैरात्म्यमभ्युपेत्यालयविज्ञानं समस्तवासनाधारमभ्युपगच्छन्नक्षरमात्मानमभ्युपैति ।
एवं क्षणिकत्वमभ्युपेत्य ऽउत्पादाद्वा तथागतानामनुत्पादाद्वा स्थितैवैषां धर्माणां धर्मता धर्मस्थितिताऽइति नित्यतामुपैतीत्यादि बहून्नेतव्यमिति ॥32॥
स्तर्त् ब्स्व्भ्_2,2.6.33
नैकस्मिन्नसंभवात्
निरस्तो मुक्तकच्छानां सुगतानां समयः ।
विवसनानां समय इदानीं निरस्यते ।
तत्समयमाह संक्षेपविस्तराभ्याम् ।
सप्त चैषां पदार्थाः संमता इति ।
तत्र संक्षेपमाह-- संक्षेपतस्तु द्वावेव पदार्थाविति ।
बोधात्मको जीवो जडवर्गस्त्वजीव इति ।
यथायोगं तयोर्जीवाजीवयोरिममपरं प्रपञ्चमाचक्षते ।
तमाह-- पञ्चास्तिकाया नामेति ।
सर्वेषामप्येषामवान्तरप्रभेदानिति ।
जीवास्तिकायस्त्रिधा--बद्धो मुक्तो नित्यसिद्धश्चेति ।
पुद्गलास्तिकायाः षोढा-पृथिव्यादीनि चत्वारि भूतानि स्थारं जङ्गमं चेति धर्मास्तिकायः प्रवृत्त्यनुमेयो ऽधर्मास्तिकायाः स्थित्यनुमेयः ।
आकाशास्तिकायो द्वेधा-लोकाकाशो ऽलोकाकाशश्च ।
तत्रोपर्युपरि स्थितानां लोकानामन्तर्वर्ती लोकाकाशस्तेषामुपरि मोक्षस्थानमलोकाकाशः ।
तत्र हि न लोकाः सन्ति ।
तदेवं जीवाजीवपदार्थौ पञ्चधा प्रपञ्चितौ ।
आस्त्रवसंवरनिर्जरास्त्रयः पदार्थाः
प्रवृत्तिलक्षणाः प्रपञ्च्यन्ते ।
द्विधा प्रवृत्तिः सम्यङ्मिथ्या च ।
तत्र मिथ्या प्रवृत्तिरास्रवः ।
सम्यक्प्रवृत्ती तु संवरनिर्जरौ ।
आस्रावयति पुरुषं विषयेष्वितीन्द्रियप्रवृत्तिरास्रवः ।
इन्द्रियद्वारा हि पौरुषं ज्योतिर्विषयान् स्पृशद्रूपादिज्ञानरूपेण परिणमत इति ।
अन्ये तु कर्माण्यास्रवमाहुः ।
तानि हि कर्तारमभिव्याप्य स्रवन्ति कर्तारमनुगच्छन्तीत्यास्रवः ।
सेयं मिथ्याप्रवृत्तिरनर्थहेतुत्वात् ।
संवरनिर्जरौ च सम्यक्प्रवृत्ती ।
तत्र शमदमादिरूपा प्रवृत्तिः संवरः ।
सा ह्यास्रवस्रोतसो द्वारं संवृणोताति संवर उच्यते ।
निर्जरस्त्वनादिकालप्रवृत्तिकषायकलुषपुण्यापुण्यप्रहाणहेतुस्तप्तशिलारोहणादिः ।
स हि निःशेषं पुण्यापुण्यं सुखदुःखोपभोगेन जरयतीति निर्जरः ।
बन्धो ऽष्टविधं कर्म ।
तत्र घातिकर्म चतुर्विधम् ।
तद्यथा--ज्ञानावरणीयं दर्शनावरणीयं मोहनीयमन्तरायमिति ।
तथा चत्वार्यघातिकर्माणि ।
तद्यथा--वेदनीयं नामिकं गोत्रिकमायुष्कं चेति ।
तत्र सम्यग् ज्ञानं न मोक्षसाधनं, नहि ज्ञानाद्वस्तुसिद्धिरतिप्रसङ्गादिति विपर्ययो ज्ञानावरणीयं कर्मोच्यते ।
आर्हतदर्शनाभ्यासान्न मोक्ष इति ज्ञानं दर्शनावरणीयं कर्म ।
बहुषु विप्रतिषिद्धेषु तीर्थकरैरुपदर्शितेषु मोक्षमार्गेषु विशेषानवधारणं मोहनीयं कर्म ।
मोक्षमार्गप्रवृत्तानां तद्विघ्नकरं विज्ञानमन्तरायं कर्म ।
तानीमानि श्रेयोहन्तृत्वाद्धातिकर्माण्युच्यन्ते ।
अघातानि कर्माणि, तद्यथा वेदनीयं कर्म शुक्लपुद्गलविपाकहेतुः, तद्धि
बन्धो ऽपि न निःश्रेयसपरिपन्थि तत्त्वज्ञानाविघातकत्वात् ।
शुक्लपुद्गलारम्भकवेदनीयकर्मानुगुणं नामिकं कर्म, तद्धि शुक्लपुद्गलस्याद्यावस्थां कललबुद्धुदादिमारभते ।
गोत्रिकमव्याकृतं ततो ऽप्याद्यं शक्तिरूपेणावस्थितम् ।
आयुष्कं त्वायुः कायति कथयत्युत्पादनद्वारेत्यायुष्कम् ।
तान्येतानि शुक्लपुद्गलाद्याश्रयत्वादघातीनि कर्माणि ।
तदेतत् कर्माष्टकं पुरुषं बध्नातीति बन्धः ।
विगलितसमस्तक्लेशतद्वासनस्यानावरणज्ञानस्य सुखैकतानस्यात्मन उपरि देशावस्थानं मोक्ष
इत्येके ।
अन्ये तूर्ध्वगमनशीलो हि जीवो धर्माधर्मास्तिकायेन बद्धस्तद्विमोक्षाद्यदूर्ध्वं गच्छत्येव स मोक्ष इति ।
त एते सप्तपदार्था जीवादयः सहावान्तरप्रभेदैरपन्यस्ताः ।
तत्र सर्वत्र चेमं सप्तभङ्गीनयं नाम न्यायमवतारयन्ति, स्यादस्ति, स्यान्नास्ति, स्यादस्ति च नास्ति च, स्यादवक्तव्यः, स्यादस्ति चावक्तव्यश्च, स्यान्नास्ति चावक्तव्यश्च, स्यादस्ति च नास्ति चावक्तव्यश्चेति ।
स्याच्छब्दः खल्वयं निपातस्तिङन्तप्रतिरूपको ऽनेकान्तद्योती ।
यथाहुः--ऽवाक्येष्वनेकान्तद्योति गम्यं प्रतिविशेषणम् ।
स्यान्निपातोर्ऽथयोगित्वात्तिङन्तप्रतिरूपकः ॥
ऽइति ।
यदि पुनरयमनेकान्तद्योतकः स्याच्छब्दो न भवेत् स्यादस्तीतिवाक्ये स्यात्पदमनर्थकं स्यात् तदिदमुक्तम्--ऽअर्थयोगित्वात्ऽइति ।
अनैकान्तद्योतकत्वे तु स्यादस्ति कथञ्चिदस्तीति स्यात्पदात्कथञ्चिदर्थो ऽस्तीत्यनेनानुक्तः प्रतीयत इति नानर्थक्यम् ।
तथा च ऽस्याद्वादः सर्वथैकान्तत्यागात्किंवृत्तचिद्विधेः ।
सप्तभङ्गनयापेक्षोहेयादेयविशेषकृत् ॥
ऽकिंवृत्ते प्रत्यये खल्वयं चिन्निपातविधिना सर्वथैकान्तत्यागात् सप्तस्वेकान्तेषु यो भङ्गस्तत्र यो नयस्तदपेक्षः सन् हेयोपादेयभेदाय स्याद्वादः कल्पते ।
तथाहि--यदि वस्त्वस्त्येवेत्येवैकान्ततस्तत् सर्वथा सर्वदा सर्वत्र सर्वात्मनास्त्येवेति न तदीप्साजिहासाभ्यां क्वचित् कदाचित् कथञ्चित् कश्चित् प्रवर्तेत निवर्तेत वा प्राप्ताप्रापणीयत्वात्, हेयहानानुपपत्तेश्च ।
अनैकान्तपक्षे तु क्वचित् कदाचित् कस्यचित् कथञ्चित् सत्त्वे हानोपादाने प्रेक्षावतां कल्पेते इति ।
तमेनं सप्तभङ्गीनयं दूषयति-- नैकस्मिन्नसंभवात् ।
विभजते-- न ह्येकस्मिन्धर्मणि परमार्थसति परमार्थसतां युगपत्सत्त्वादीनां धर्माणां परस्परपरिहारस्वरूपाणां समावेशः संभवति ।
एतदुक्तं भवति--सत्यं यदस्ति
वस्तुतस्तत्सर्वथा सर्वदा सर्वत्र सर्वात्मना निर्वचनीयेन रूपेणास्त्येव न नास्ति, यथा प्रत्यगात्मा ।
यत्तु क्वचित् कथञ्चित् कदाचित् केनचिदात्मनास्तीत्युच्यते, यथा प्रपञ्चः, तद्व्यवहारतो न तु परमार्थतः, तस्य विचारासहत्वात् ।
न च प्रत्ययमात्रं वास्तवत्वं व्यवस्थापयति, शुक्तिमरुमरीचिकादिषु रजततोयादेरपि वास्तवत्वप्रसङ्गात् ।
लौकिकानामबाधेन तु तद्व्यवस्थायां देहात्माभिमानस्याप्यबाधेन तात्त्विकत्वे सति लोकायतमतापातेन नास्तिकत्वप्रसङ्गात् ।
पण्डितरूपाणां तु देहात्माभिमानस्य विचारतो बाधनं प्रपञ्चस्याप्यनैकान्तस्य तुल्यमिति ।
अपि च सदसत्त्वयोः परस्परविरुद्धत्वेन समुच्चयाभावे विकल्पः ।
न च वस्तुनि विकल्पः संभवति ।
तस्मात् स्थाणुर्वा पुरुषो वेति ज्ञानवत् सप्तत्वपञ्चत्वनिर्धारणस्य फलस्य निर्धारयितुश्च प्रमातुस्तत्करणस्य प्रमाणस्य च तत्प्रमेयस्य च सप्तत्वपञ्चत्वस्य सदसत्त्वसंशये साधु समर्थितं तीर्थकरत्वमृषेमेणात्मनः ।
निर्धारणस्य चैकान्तसत्त्वे सर्वत्र नानेकान्तवाद इत्याह-- य एते सप्त पदार्था इति ।
शेषमतिरोहितार्थम् ॥33॥
स्तर्त् ब्स्व्भ्_2,2.6.34
एवं चात्माकार्त्स्न्यम्
एवं चेति चेन समुच्चयं द्योतयति ।
शरीरपरिमाणत्वे ह्यात्मनो ऽकृत्स्नत्वं परिच्छिन्नत्वम् ।
तथा चानित्यत्वम् ।
ये हि परिच्छिन्नास्ते सर्वे ऽनित्या यथा घटादयस्तथा चात्मेति ।
तदेतदाह-- यथैकस्मिन्धर्मिणीति ।
इदं चापरमकृत्स्नत्वेन सूत्रितमित्याह-- शरीराणां चानवस्थितपरिमाणत्वादिति ।
मनुष्यकायपरिमाणो हि जीवो न हस्तिकायं कृत्स्नं व्याप्तुमर्हत्यल्पत्वादित्यात्मनः कृत्स्नशरीराव्यापित्वादकार्त्स्न्यम्, तथा च न शरीरपरिमाणत्वमिति ।
तथा हस्तिशीररं परित्यज्य यदा पुत्तिकाशरीरो भवति तदा न तत्र कृत्स्नः पुत्तिकाशरीरे संमीयेतेत्यकार्त्स्न्यमात्मनः ।
सुगममन्यत् ।
चोदयति-- स्यादेतत् ।
अनन्तावयव इति ।
यथा हि प्रदीपो घटमहाहर्म्योदरवर्ती संकोचविकाशवानेवं जीवो ऽपि पुत्तिकाहस्तिदेहयोरित्यर्थः ।
तदेतद्विकल्प्य दूषयति-- तेषां
पुनरनन्तानामिति ।
न तावत्प्रदीपो ऽत्र निदर्शनं भवितुमर्हति, अनित्यत्वप्रसङ्गात् ।
विशरारवो हि प्रदीपावयवः , प्रदीपश्चावयवी प्रतिक्षणमुत्पत्तिनिरोधधर्मा, तस्मादनित्यत्वात्तस्य नास्थिरो जीवस्तदवयवाश्चाभ्युपेतव्याः ।
तथा च विकल्पद्वयोक्तं दूषणमिति ।
यच्च जीवावयवानामानन्त्यमुदितं तदनुपपन्नतरमित्याह-- अपि च शरीरमात्रेति ॥34॥
शङ्कापूर्वं सूत्रान्तरमवतारयति- अथ पर्यायेणेति ।
तत्राप्युच्यते--
स्तर्त् ब्स्व्भ्_2,2.6.35
न च पर्यायाद् अप्य् अविरोधो विकारादिभ्यः
कर्माष्टक मुक्तं ज्ञानावरणीयादि ।
किं चात्मनो नित्यत्वाभ्युपगमे आगच्छतामपगच्छतां
चावयवानामियत्तानिरूपणेन चात्मज्ञानाभावान्नापवर्ग इति भावः ।
अत एवमादिदोषप्रसङ्गादिति ।
आदिग्रहणसूचितं दोषं ब्रूमः ।
किं चैते जीवावयवाः प्रत्येकं वा चेतयेरन् समूहो वा ।
तेषां प्रत्येकं चैतन्ये बहूनां चेतनानामेकाभिप्रायत्वनियमाभावात् कदाचिद्विरुद्धदिक्क्रियत्वेन शरीरमुन्मथ्येत ।
समूहचैतन्ये तु हस्तिशरीरस्य पुत्तिकाशरीरत्वे द्वित्रावयवशेषो जीवो न चेतयेत् ।
विगलितबहुसमूहितया समूहस्याभावात्पुत्तिकाशरीरे इति ।
अथवेति ।
पूर्वसूत्रप्रसञ्जितायां जीवानित्यतायां बौद्धवत्संताननित्यतामाशङ्क्येदं सूत्रम्--ऽन च पर्यायादप्यविरोधो विकारादिभ्यःऽ ।
न च पर्यायात् परिमाणानवस्थाने ऽपि संतानाभ्युपगमेनात्मनो नित्यत्वादविरोधो बन्धमोक्षयोः ।
कुतः ।
परिणामादिभ्यो दोषेभ्यः ।
संतानस्य वस्तुत्वे परिणामस्ततश्चर्मवदनित्यत्वादिदोषप्रसङ्गः ।
अवस्तुत्वे चादिग्रहणसूचितो नैरात्म्यापत्तिदोषप्रसङ्ग इति ।
विसिचो विवसनाः ॥35॥
स्तर्त् ब्स्व्भ्_2,2.6.36
अन्त्यावस्थितेश् चोभयनित्यत्वाद् अविशेषः
एवं हि मोक्षावस्थाभावि जीवपरिमाणं नित्यं भवेत्,
यद्यभूत्वा न भवेत् ।
अभूत्वा भाविनामनित्यत्वाद्घटादीनाम् ।
कथं चाभूत्वा न भवेद्यदि प्रागप्यासीत् ।
न च परिमाणान्तरावरोधे ऽपूर्वं भवितुमर्हति ।
तस्मादन्त्यमेव परिमाणं पूर्वमप्यासीदित्यभेदः ।
तथा चैकशरीरपरिमाणतैव स्यान्नोपचितापचितशरीरप्राप्तिः शरीरपरिमाणत्वाभ्युपगमव्याघातादिति ।
अत्र चोभयोः परिमाणयोर्नित्यत्वप्रसङ्गादिति योजना ।
एकशरीरपरिमाणतैवेति च दीप्यम् ।
द्वितीये तु व्याख्याने उभयोरवस्थयोरिति योजना ।
एकशरीरपरिमाणता न दीप्या, किन्त्वेकपरिमाणतामात्रमणुर्महान् वेति विवेकः ॥36॥
स्तर्त् ब्स्व्भ्_2,2.7.37
पत्युर् असामञ्जस्यात्
अविशेषेणेश्वरकारणवादो ऽनेन निषिध्यत इति भ्रमनिवृत्त्यर्थमाह-- केवलेति ।
सांख्ययोगव्यपाश्रया हिरण्यगर्भपतञ्जलिप्रभृतयः ।
प्रधान मुक्तम् ।
दृक्शक्तिः पुरुषः प्रत्ययानुपश्यः ।
स च नानाक्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः प्रधानपुरुषाभ्यामन्यः ।
माहेश्वरा श्चत्वारः--शैवाः, पाशुपताः, कारुणिकसिद्धान्तिनः, कापालिकाश्चेति ।
चत्वारो ऽप्यमी महेश्वरप्रणीतसिद्धान्तानुयायितया माहेश्वराः ।
कारणमीश्वरः ।
कार्यं प्रधानिकं महदादि ।
योगो ऽप्योङ्कारादिध्यानदारणादिः ।
विधिस्त्रिषवणस्नानादिर्गूढचर्यावसानः, दुःखान्तो मोक्षः ।
पशव आत्मानस्तेषां पाशो बन्धनं तद्विमोक्षो दुःखान्तः ।
एष तेषामभिसंधिः--चेतनस्य खल्वधिष्ठातुः कुम्भकारादेः कुम्भादिकार्ये निमित्तकारणत्वमात्रं न तूपादानत्वमपि ।
तस्मादिहापीश्वरो ऽधिष्ठात जगत्कारणानां निमित्तमेव, न तूपादानमप्येकस्याधिष्ठातृत्वाधिष्ठेयत्वविरोधादिति प्राप्तम् ।
एवं प्राप्ते ऽभिधीयते-- पत्युरसामञ्जस्यात् इति ।
इदमत्राकूतम्---ईश्वरस्यनिमित्तकारणत्वमात्रमागमाद्वोच्येत प्रमाणान्तराद्वा प्रमाणान्तरमप्यनुमानमर्थापत्तिर्वा ।
न तावदागमात्, तस्य निमित्तोपादानकारणत्वप्रतिपादनपरत्वादित्यसकृदावेदितम् ।
तस्मादनेनास्मिन्नर्थे
प्रमाणान्तरमास्थेयम् ।
तत्रानुमानं तावन्न संभवति ।
तद्धि दृष्ट्यनुसारेण प्रवर्तते तदनुसारेण चासामञ्जस्यम् ।
तदाह-- हीनमध्यमेति ।
एतदुक्तं भवति--आगमादीश्वरसिद्धौ न दृष्टमनुसर्तव्यम् ।
न हि स्वर्गापूर्वदेवतादिष्वागमादवगम्यमानेषु किञ्चिदस्ति दृष्टम् ।
नह्यागमो दृष्टसाधर्म्यात्प्रवर्तते ।
तेन श्रुतसिद्द्यर्थमदृष्टानि दृष्टविपरीतस्वभावानि सुबहून्यपि कल्प्यमानानि न लोहगन्धितामावहन्ति प्रमाणवत्त्वात् ।
यस्तु तत्र कथञ्चिद्दृष्टानुसारः क्रियते स सुहृद्भावमात्रेण ।
आगमानपेक्षितमनुमानं तु दृष्टसाधर्म्येण प्रवर्तमानं दृष्टविपर्यये तुषादपि बिभेतितरामिति ।
प्राणिकर्मापेक्षितत्वाददोष इति चेत् ।
न ।
कुतः ।
कर्मेश्वरयोर्मिथः प्रवर्त्यप्रवर्तयितृत्व इतरेतराश्रयत्वदोषप्रसङ्गात् ।
अयमर्थः--यदीश्वरः करुणापराधीनो वीतरागस्ततः प्रणिनः कपूये कर्मणि न प्रवर्तयेत्, तच्चोत्पन्नमपि नाधितिष्ठेत्, तावन्मात्रेण प्राणिनां दुःखानुत्पादात् ।
न हीश्वराधीना जनाः स्वातन्त्र्येण कपूयं कर्म कर्तुमर्हन्ति ।
तदनधिष्ठितं वा कपूयं कर्म फलं प्रसोतुमुत्सहते ।
तस्मात्स्वतन्त्रो ऽपीश्वरः कर्मभिः प्रवर्त्यत इति दृष्टविपरीतं कल्पनीयम् ।
तथाचायमपरो गण्डस्योपरि स्फोट इतरेतराश्रयः प्रसज्येत, कर्मणेश्वरः प्रवर्तनीय ईश्वरेण च कर्मेति ।
शङ्कते-- नानादित्वादिति चेत् ।
पूर्वकर्मणेश्वरः संप्रतितने कर्मणि प्रवर्त्यते तेनेश्वरेण संप्रतितनं कर्म स्वकार्ये प्रवर्त्येत इति ।
निराकरोति-- न वर्तमानकालवदिति ।
अथ पूर्वं कर्म कथमीश्वराप्रवर्तितमीश्वरप्रवर्तनलक्षणं कार्यं करोति ।
तत्रापि प्रवर्तितमीश्वरेण पूर्वतनकर्मप्रवर्तितेनेत्येवमन्धपरम्परादोषः ।
चक्षुष्मता ह्यन्धो नीयते नान्धान्तरेण ।
तथेहापि द्वावपि प्रवर्त्याविति कः कं प्रवर्तयेदित्यर्थः ।
अपिच नैयायिकानामीश्वरस्य निर्देषत्वं
स्वसमयविरुद्धमित्याह-- अपिचेति ।
अस्माकं तु नायं समय इति भावः ।
ननु कारुण्यादपि प्रवर्तमानो जनो दृश्यते ।
न च कारुण्यं दोष इत्यत आह-- स्वार्थप्रयुक्त एव चेति ।
कारुण्ये हि सत्यस्य दुःखं भवति तेन तत्प्रहाणाय प्रवर्तत इति कारुणिका अपि स्वार्थप्रयुक्ता एव प्रवर्तन्त इति ।
ननु स्वार्थप्रयुक्त एव प्रवर्ततामेवमपि को दोष इत्यत आह-- स्वार्थवत्वादीश्वरस्येति ।
अर्थित्वादित्यर्थः ।
पुरुषस्य चौदासीन्याभ्युपगमान्न वास्तवी प्रवृत्तिरिति ॥37॥
अपरमपि दृष्टानुसारेण दूषणमाह--
स्तर्त् ब्स्व्भ्_2,2.7.38
संबन्धानुपपत्तेश् च
दृष्टो हि सावयवानामसर्वगतानां च संयोगः ।
अप्राप्तिपूर्विका हि प्राप्तिः संयोगो न सर्वगतानां संभवत्यप्राप्तेरभावान्निरवयवत्वाच्च ।
अव्याप्यवृत्तिता हि संयोगस्य स्वभावः ।
न च निरवयवेष्वव्याप्यवृत्तिता संयोगस्य संभवतीत्युक्तम् ।
तस्मादव्याप्यवृत्तितायाः संयोगस्य व्यापिकाया निवृत्तेस्तद्व्याप्यस्य संयोगस्य विनिवृत्तिरिति भावः ।
नापि समवायलक्षणः ।
स ह्ययुतसिद्धानामाधाराधेयभूतानामिहप्रत्ययहेतुः संबन्ध इत्यभ्युपेयते ।
न च प्रधानपुरुषेश्वराणां मिथो ऽस्त्याधाराधेयभाव इत्यर्थः ।
नापि योग्यतालक्षणः कार्यगम्यसंबन्ध इत्याह-- नाप्यन्य इति ।
नहि प्रधानस्य महदहङ्कारादिकारणत्वमद्यापि सिद्धमिति ।
शङ्कते-- ब्रह्मवादिन इति ।
निराकरोति- न ।
कुतः ।
तस्य मते ऽनिर्वचनीय तादात्म्यलक्षणसंबन्धोपपत्तेः ।
अपिचेति ।
आगमो हि प्रवृत्ति प्रति न दृष्टान्तमपेक्षत इत्यदृष्टपूर्वे तद्विरुद्धे च प्रवर्तितुं समर्थः ।
अनुमानं तु दृष्टानुसारि नैवंविधे प्रवर्तितुमर्हतीति ।
शङ्कते-- परस्यापीति ।
परिहरति- नेति ।
अस्माकं त्वीश्वरागमयोरनादित्वादीश्वरयोनित्वे ऽप्यागमस्य न विरोध इति भावः ॥38॥
स्तर्त् ब्स्व्भ्_2,2.7.39
अधिष्ठानानुपपत्तेश्च
यथादर्शनमनुमानं प्रवर्तते नालौकिकार्थविषयमितीहापि न प्रस्मर्तव्यम् ।
सुगममन्यत् ॥39॥
स्तर्त् ब्स्व्भ्_2,2.7.40
करणवच्चेन्न भोगादिभ्यः
रूपादिहीनमिति ।
अनुद्भूतरूपमित्यर्थः ।
रूपादिहीनकरणाधिष्ठानं हि पुरुषस्य स्वभोगादावेव दृष्टं नान्यत्र ।
नहि बाह्यं कुठाराद्यपरिदृष्टं व्यापारयन् कश्चिदुपलभ्यते ।
तस्माद्रूपादिहीनं करणं व्यापारयत ईश्वरस्य भोगादिप्रसक्तिः तथा चानीश्वरत्वमिति भावः ।
कल्पान्तरमाह-- अन्यथेति ।
पूर्वमधिष्ठितिरधिष्ठानमिदानीं तु अधिष्ठानं भोगायतनं शरीरमुक्तम् ।
तथा भोगादिप्रसङ्गेनानीश्वरत्वं पूर्वमापादितम् ।
संप्रति तु शरीरित्वेन भोगादिप्रसङ्गादनीश्वरत्वमुक्तमिति विशेषः ॥40॥
स्तर्त् ब्स्व्भ्_2,2.7.41
अन्तवत्त्वम् असर्वज्ञता वा
अपि च सर्वत्रानुमानं प्रमाणयतः प्रधानपुरुषेश्वराणामपि संख्याभेदवत्त्वमन्तवत्त्वं च द्रव्यत्वात् संख्यान्यत्वे सति प्रमेयत्वाद्वानुमातव्यं, ततश्चान्तवत्त्वमसर्वज्ञता वा ।
अस्माकं त्वागमगम्येर्ऽथे तद्बाधितविषयतया नानुमानं प्रभवतीति भावः ।
स्वरूपपरिमाणमपि यस्य यादृशमणु महत् परममहद्दीर्घं ह्रस्वं चेति ।
अथ मा भूदेष दोष इत्युत्तरो विकल्पः ।
यस्यान्तो ऽस्ति तस्यान्तवत्त्वाग्रहणमसर्वज्ञतामापादयेत् ।
यस्य त्वन्त एव नास्ति तस्य तदग्रहणं नासर्वज्ञतामावहति ।
नहि शशविषाणाद्यज्ञानादज्ञो भवतीति भावः ।
परिहरति-- तत इति ।
आगमानपेक्षस्यानुमानमेषामन्तवत्त्वमवगमयतीत्युक्तम् ॥41॥
स्तर्त् ब्स्व्भ्_2,2.8.42
उत्पत्त्यसंभवात्
अन्यत्र वेदाविसंवादाद्यत्रांशे विसंवादः स निरस्यते ।
तमंशमाह-- यत्पुनरिदमुच्यते वासुदेवात्संकर्षणो जीव इति ।
जीवस्य कारणवत्वे सत्यनित्यत्वम्, अनित्यत्वेपरलोकिनो ऽभावात्परलोकाभावः, ततश्च स्वर्गनरकापवर्गाभावापत्तेर्नास्तिक्यमित्यर्थः ।
अनुपपन्ना च जीवस्योत्पत्तिरित्याह-- प्रतिषेधिष्यति चेति ॥42॥
स्तर्त् ब्स्व्भ्_2,2.8.43
न च कर्तुः करणम्
यद्यप्यनेकशिल्पपर्यवदातः परशुं कृत्वा तेन पलाशं छिनत्ति,
यद्यपि च प्रयत्नेनेन्द्रियार्थात्ममनः संनिकर्षलक्षणं ज्ञानकरणमुपादायात्मार्थं विजानाति, तथापि संकर्षणो ऽकरणः कथं प्रद्युम्नाख्यं मनः करणं कुर्यात् ।
अकरणस्य वा करणनिर्माणसामर्थ्ये कृतं करणनिर्माणेन ।
अकरणादेव निखिलकार्यसिद्धेरिति भावः ॥43॥
स्तर्त् ब्स्व्भ्_2,2.8.44
विज्ञानादिभावे वा तदप्रतिषेधः
वासुदेवा एवैते संकर्षमादयो निर्देषा अविद्यादिदोषरहिताः ।
निरधिष्ठाना निरूपादानाः ।
अत एव निरवद्या अनित्यत्वादिदोषरहिताः ।
तस्मादुत्पत्त्यसंभवो ऽनुगुणत्वान्न दोष इत्यर्थः ।
अत्रोच्यते--एवमपीति ।
मा भूदभ्युपगमेन दोषः, प्रकारान्तरेण स्वयमेव दोषः ।
प्रश्नपूर्वं प्रकारान्तरमाह- कथम् ।
यदि तावदिति ।
न तावदेते परस्परं भिन्ना ईश्वराः परस्परव्याहतेच्छा भवितुमर्हन्ति ।
व्याहतकामत्वे च कार्यानुत्पादात् ।
अव्याहतकामत्वे वा प्रत्येकमीश्वरत्वे एकेनैवेशनायाः कृतत्वादानर्थक्यमितरेषाम् ।
संभूय चेशनायां परिशुद्धो न कश्चिद्दीश्वरः स्यात्, सिद्धान्तहानिश्च ।
भगवानेवैको वासुदेवः परमार्थतत्त्वमित्यभ्युपगमात् ।
तस्मात्कल्पान्तरमास्थेयम् ।
तत्र चोत्पत्त्यसंभवो दोष इत्याशयवान् कल्पान्तरमुपन्यस्योत्पत्त्यसंभवेनापाकरोति-- अथायमभिप्राय इति ।
सुगममन्यत् ॥44॥
स्तर्त् ब्स्व्भ्_2,2.8.45
विप्रतिषेधाच् च
मूल पाठ: Brahmasūtra2 with Vācaspati's Bhāmatī (a subcommentary on Śaṃkara's Śārīrakamīmāṃsābhāṣya) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0