भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मसूत्र2 · अध्याय 1.4

1.4.1

पत्यादिशब्देभ्यः ।
सर्वस्य वशी ।
वशः सामर्थ्यं सर्वस्य जगतः प्रभवत्ययम्, व्यूहावस्थानसमर्थ इति ।
अत एव सर्वस्येशानः, सामर्थ्येन ह्ययमुक्तेन सर्वस्येष्टे, तदिच्छानुविधानाज्जगतः ।
अत एव सर्वस्याधिपतिः सर्वस्य नियन्ता ।
अन्तर्यामीति यावत् ।
किञ्च स एवंभूतो हृद्यन्तर्ज्योतिः पुरुषो विज्ञानमयो न साधुना कर्मणा भूयानुत्कृष्टो भवतीत्येवमाद्याः श्रुतयो ऽसंसारिणं परमात्मानमेव प्रतिपादयन्ति ।
तस्माज्जीवात्मानं मानान्तरसिद्धमनूद्य तस्य ब्रह्मभावप्रतिपादनपरो ऽयो ऽयं विज्ञानमयःऽइत्यादिवाक्यसंदर्भ इति सिद्धम् ॥43॥
इति श्रीमद्वाचस्पतिमिश्रविरचितशारीरकभगवत्पादभाष्यविभागे भामत्यां प्रथमस्याध्यायस्य तृतीयः पादः ॥3॥
॥ इति प्रथमाध्यायस्य ज्ञेयब्रह्मप्रतिपादकास्पष्टश्रुतिसमन्वयाख्यस्तृतीयः पाजः ॥
प्रथमाध्याये चतुर्थः पादः ।
स्तर्त् ब्स्व्भ्_1,4.1.1
आनुमानिकम् अप्य् एकेषाम् इति चेन् न शरीर-रूपक-विन्यस्त-गृहीतेर् दर्शयति च

1.4.2

आनुमानिकमप्येकेषामितिचेन्न शारीररूपकविन्यस्तगृहीतेर्दर्शयति च ।
स्यादेतत् ।
ब्रह्मजिज्ञासां प्रतिज्ञाय ब्रह्मणो लक्षणमुक्तम्-ऽजन्माद्यस्य यतःऽइति ।
तच्चेदं लक्षणं न प्रधानादौ गतं, येन व्यभिचारादलक्षणं स्यात्, किन्तु ब्रह्मण्येवेति ऽईक्षतेर्नाशब्दम्ऽइति प्रतिपादितम् ।
गतिसामान्यं च वेदान्तवाक्यानां ब्रह्मकारणवादं प्रति विद्यते, न प्रधानकारणवादं प्रतीति प्रपञ्चितमधस्ततेन सूत्रसंदर्भेण ।
तत्किमवशिष्यते तदर्थमुत्तरः संदर्भ आरभ्यते ।
नच ऽमहतः परमव्यक्तम्ऽइत्यादीनां प्रधाने समन्वये ऽपि व्यभिचारः ।
नह्येते प्रधानकारणत्वं जगत आहुः, अपितु प्रधानसद्भावमात्रम् ।
नच तत्सद्भावमात्रेण ऽजन्माद्यस्य यतःऽइति ब्रह्मलक्षणस्य किञ्चिद्धीयते ।
तस्मादनर्थक उत्तरः संदर्भ इत्यत आह- ब्रह्मजिज्ञासां प्रतिज्ञायेति ।
न प्रधानसद्भावमात्रं प्रतिपादयन्ति ऽमहतः परमव्यक्तम्ऽ ऽअजामेकाम्ऽइत्यादयः, किन्तु जगत्कारणं प्रधानमिति ।
ऽमहतः परम्ऽइत्यत्र हि परशब्दो ऽविप्रकृष्टपूर्वकालत्वमाह ।
तथा च कारणत्वम् ।
ऽअजामेकाम्ऽइत्यादीनां तु कारणत्वाभिधानमतिस्फुटम् ।
एवं च लक्षणव्यभिचारादव्यभिचाराय युक्त उत्तरसंदर्भारम्भ इति ।
पूर्वपक्षयति- तत्र य एवेति ।
सांख्यप्रवादरूढिमाह- तत्राव्यक्तमिति ।
सांख्यस्मृतिप्रसिद्धेर्न केवलं रूढिः, अवयवप्रसिद्ध्याप्ययमेवार्थो ऽवगम्यत इत्याह- न व्यक्तमिति ।
शान्तघोरमूढशब्दादिहीनत्वाच्चेति ।
श्रुतिरुक्ता ।
स्मृतिश्च सांखीया ।
न्यायश्च-ऽभेदानां परिमाणात्समन्वयाच्छक्तितः प्रवृत्तेश्च ।
कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य ॥
कारणमस्त्यव्यक्तम्ऽइति ।
नच ऽमहतः परमव्यक्तम्ऽइति प्रकरणपरिशेषाभ्यामव्यक्तपदं शरीरगोचरम् ।
शरीरस्य शान्तघोरमूढरूपशब्दाद्यात्मकत्वेनाव्यक्तत्वानुपपत्तेः ।
तस्मात्प्रधानमेवाव्यक्तमुच्यत इति प्राप्ते, उच्यते- नैतदेवम् ।
न ह्येतत्काठकं वाक्यमिति ।
लौकिकी हि प्रसिद्धी रूढिर्वेदार्थनिर्णये निमित्तं, तदुपायत्वात् ।
यथाहुः-ऽय एव लौकिकाः शब्दास्त एव वैदिकास्त एव चैषामर्थाःऽइति ।
नतु परीक्षकाणां पारिभाषिकी, पौरुषेयी हि सा न वेदार्थनिर्णयनिबन्धनसिद्धौ(यनिमित्तं पो?) षधादिप्रसिद्धिवत् ।
तस्माद्रूढितस्तावन्न प्रधानं प्रतीयते ।
योगस्त्वन्यत्रापि तुल्यः ।
तदेवमव्यक्तश्रुतावन्यथासिद्धायां प्रकरणपरिशेषाभ्यां शरीरगोचरो ऽयमव्यक्तशब्दः ।
यथा चास्य तद्गोचरत्वमुपपद्यते तथाग्रे दर्शयिष्यति ।
तेषु शरीरादिषु मध्ये विषयांस्तद्गेचरान् विद्धि ।
यथाश्वो ऽध्वानमालम्ब्य चलत्येवमिन्द्रियहयाः स्वगोचरमालम्ब्येति ।
आत्मा भोक्तेत्याहुर्मनीषिणः ।
कथम्, इन्द्रियमनोयुक्तं योगो यथा भवति ।
इन्द्रियार्थमनः संनिकर्षेण ह्यात्मा गन्धादीनां भोक्ता ।
प्रधानस्याकाङ्क्षावतो वचनं प्रकरणमिति गन्तव्यं विष्णोः परमं पदं प्रधानमिति तदाकाङ्क्षामवतारयति- तैश्चेन्द्रियादिभिरसंयतैरिति ।
असंयमाभिधानं व्यतिरेकमुखेन संयमवदातीकरणम् ।
परशब्दः श्रेष्ठवचनः ।
नन्वान्तरत्वेन यदि श्रेष्ठत्वं तदेन्द्रियाणामेव बाह्येभ्यो गन्धाहिभ्यः श्रेष्ठत्वं स्यादित्यत आह- अर्था ये शब्दादय इति ।
नान्तरत्वेन श्रेष्ठत्वमपि तु प्रधानतया, तच्च विवक्षाधीनं, ग्रहेभ्यश्चेन्द्रियेभ्यो ऽतिग्रहतयार्थानां प्राधान्यं श्रुत्या विवक्षितमितीन्द्रियेभ्योर्ऽथानां प्राधान्यात्परत्वं भवति ।
घ्राणजिह्वावाक्चक्षुः श्रोत्रमनोहस्तत्वचो हि इन्द्रियाणि श्रुत्याष्टौ ग्रहा उक्ताः ।
गृह्णन्ति वशीकुर्वन्ति खल्वेतानि पुरुषपशुमिति ।
न चैतनि स्वरूपवतो वशीकर्तुमीशते, यावदस्मै पुरुषपशवे गन्धरसनामरूपशब्दकामकर्मस्पर्शान्नोपहरन्ति ।
अत एव गन्धादयो ऽष्टावतिग्रहाः, तदुपहारेण ग्रहाणां ग्रहत्वोपपत्तेः ।
तदिदमुक्तम्- इन्द्रियाणां ग्रहणं विषयाणामतिग्रहत्वमिति श्रुतिप्रसिद्धेरिति ।
ग्रहत्वेनेन्द्रियैः साम्ये ऽपि मनसः स्वगतेन विशेषेणार्थेभ्यः परत्वमाह -विषयेब्यश्च मनसः परत्वमिति ।
कस्मात्पुमान् रथित्वेनोपक्षिप्तो गृह्यत इत्यत आह- आत्मशब्दादिति ।
तत्प्रत्यभिज्ञानादित्यर्थः ।
श्रेष्ठत्वे हेतुमाह- भोक्तुश्चेति ।
तदनेन जीवात्मा स्वामितया महानुक्तः ।
अथवा श्रुतिस्मृतिभ्यां हैरण्यगर्भी बुद्धिरात्मशब्देनोच्यत इत्याह -अथवेति ।
पूरिति ।
भोग्यजातस्य बुद्धिरधिकरणमिति बुद्धिः पूः ।
तदेवं सर्वासां बुद्धीनां प्रथमजहिरण्यगर्भबुद्ध्येकनीडतया हिरण्यगर्भबुद्धेर्महत्त्वं चापनादा(चोपादाना?)त्मत्वं च ।
अत एव बुद्धिमात्रात्पृथक्करणमुपपन्नम् ।
नन्वेतस्मिन्पक्षे हिरण्यगर्भबुद्धेरात्मत्वान्न रथिन आत्मनो भोक्तुरत्रोपादानमिति न रथमात्रं परिशिष्यते ऽपि तु रथवानपीत्यत आह- एतस्मिंस्तु पक्ष इति ।
यथा हि समारोपितं प्रतिबिम्बं बिम्बान्न वस्तुतो भिद्यते तथा न परमात्मनो विज्ञानात्मा वस्तुतो भिद्यत इति परमात्मैव रथवानिहोपात्तस्तेन रथमात्रं परिशिष्टमिति ।
अथ रथादिरूपककल्पनायाः शरीरादिषु किं प्रयोजनमित्यत आह -शरीरेन्द्रियमनोबुद्धिविषयवदेनासंयुक्तस्य हीति ।
वेदना सुखाद्यनुभवः ।
प्रत्यर्थमञ्चतीति प्रत्यगात्मेह जीवो ऽभिमतस्तस्य ब्रह्मावगतिः ।
नच जीवस्य ब्रह्मत्वं मानान्तरसिद्धं, येनात्र नागमो ऽपेक्ष्येत्याह- तथाचेति ।
वागिति छान्दसो द्वितीयालोपः ।
शेषमतिरोहितार्थम् ॥1॥
स्तर्त् ब्स्व्भ्_1,4.1.2
सूक्ष्मं तु तदर्हत्वात्

1.4.3

पूर्वपक्षिणो ऽनुशयबीजनिराकरणपरं सूत्रम्-सूक्ष्मं तु तदर्हत्वात् ।
प्रकृतेर्विकारणामनन्यत्वात्प्रकृतेरव्यक्तत्वं विकार उपचर्यते ।
यथा ऽगोभिः श्रीणीतऽइति गौशब्दस्ताद्विकारे पयसि ।
अव्यक्तात्कारणात् विकारणामनन्यत्वेनाव्यक्तशब्दार्हत्वे प्रमाणमाह- तथाच श्रुतिरिति ।
अव्याकृतमव्यक्तमित्यनर्थान्तरम् ।
नन्वेवं सति प्रधानमेवाभ्युपेतं भवति, सुखदुःखमोहात्मकं हि जगदेवंभूतादेव कारणाद्भवितुमर्हति, कारणात्मकत्वात्कार्यस्य ।
यच्च तस्य सुखात्मकत्वं तत्सत्त्वम् ।
यच्च तस्य दुःखात्मकत्वं तद्रजः ।
यच्च तस्य मोहात्मकत्वं तत्तमः ।
तथा चाव्यक्तं पधानमेवाभ्युपेतमिति ॥2॥
स्तर्त् ब्स्व्भ्_1,4.1.3
शङ्कानिराकरणार्थं सूत्रम्-
तदधीनत्वाद् अर्थवत्

1.4.4

तदधीनत्वादर्थवत् ।
प्रधानं हि सांख्यानां सेश्वराणामनीश्वराणां वेश्वरात् क्षेत्रज्ञेभ्यो वा वस्तुतो भिन्नं शक्यं निर्वक्तुम् ।
ब्रह्मणस्त्वियमविद्या शक्तिर्मायादिशब्दवाच्या न शक्या तत्त्वेनान्यत्वेन वा निर्वक्तुम् ।
इदमेवास्या अव्यक्तत्वं यदनिर्वाच्यत्वं नाम ।
सो ऽयमव्याकृतवादस्य प्रधानवादाद्भेदः ।
अविद्याशक्तेश्चेश्वराधीनत्वं, तदाश्रयत्वात् ।
नच द्रव्यमात्रमशक्तं कार्यायालमिति शक्तेरर्थवत्त्वम् ।
तदिदमुक्तम्- अर्थवदिति ।
स्यादेतत् ।
यदि ब्रह्मणो ऽविद्याशक्त्या संसारः प्रतीयते हन्त मुक्तानामपि पुनरुत्पादप्रसङ्गः, तस्याः प्रधानवत्तादवस्थ्यात् ।
तद्विनाशे वा समस्तसंसारोच्छेदः तन्मूलविद्याशक्तेः समुच्छेदादित्यत आह- मुक्तानां च पुनः ।
बन्धस्य अनुत्पत्तिः ।
कुतः ।
विद्यया तस्या बीजशक्तेर्दाहात् ।
अयमभिसंधिः-न वयं प्रधानवदविद्यां सर्वजीवेष्वेकामाचक्ष्महे, यैनेवमुपालभेमहि, किन्त्वियं प्रतिजीवं भिद्यते ।
तेन यस्यैव जीवस्य विद्योत्पन्ना तस्यैवाविद्यापनीयते न जीवान्तरस्य, भिन्नाधिकरणयोर्विद्याविद्ययोरविरोधात्, तत्कुतः समस्तसंसारोच्छेदप्रसङ्गः ।
प्रधानवादिनां त्वेष दोषः ।
प्रधानस्यैकत्वेन तदुच्छेदे सर्वोच्छेदो ऽनुच्छेदे वा न कस्यचिदित्यनिर्मोक्षप्रसङ्गः ।
प्रधानाभेदे ऽपि चैतदविवेकख्यातिलक्षणाविद्यासदसत्त्वनिबन्धनौ बन्धमोक्षौ, तर्हि कृतं प्रधानेन, अविद्यासदसद्भावाभ्यामेव तदुपपत्तेः ।
न चाविद्योपाधिभेदाधीनो जीवभेदो जीवभेदाधीनश्चाविद्योपाधिभेद इति परस्पराश्रयादुभयासिद्धिरिति सांप्रतम् ।
अनादित्वाद्बीजाङ्कुरवदुभयसिद्धेः ।
अविद्यात्वमात्रेण चैकत्वोपचारो ऽव्यक्तमिति चाव्याकृतमिति चेति ।
नन्वेवमविद्यैव जगद्बीजमिति कृतमीश्वरेणेत्यत आह- परमेश्वराश्रयेति ।
नह्यचेतनं चेतनानधिष्ठितं कार्याय पर्याप्तमिति स्वकार्यं कर्तुं परमेश्वरं निमित्ततयोपादानतया वाश्रये, प्रपञ्चविभ्रमस्य हीश्वराधिष्ठानत्वमहिविभ्रमस्येव रज्ज्वधिष्ठानत्वम्, तेन यथाहिविभ्रमो रज्जूपादान एवं प्रपञ्चविभ्रम ईश्वरोपादानः, तस्माज्जीवाधिकरणाप्यविद्या निमित्ततया विषयतया चेश्वरमाश्रयत इतीश्वराश्रयेत्युच्यते, न त्वाधारतया, विद्यास्वभावे ब्रह्मणि तदनुपपत्तेरिति ।
अत एवाह- यस्यां स्वरूपप्रतिबोधरहिताः शेरते संसारिणो जीवा इति ।
यस्यामविद्यायां सत्यां शरते जीवाः ।
जीवानां स्वरूपं वास्तवं ब्रह्म, तद्बोधरहिताः शेरत इति लय उक्तः ।
संसारिण इति विक्षेप उक्तः ।
अव्यक्ताधीनत्वाज्जीवभावस्येति ।
यद्यपि जीवाव्यक्तयोरनादित्वेनानियतं पौर्वापर्यं तथाप्यव्यक्तस्य पूर्वत्वं विवक्षित्वैतदुक्तम् ।
सत्यपि शरीरवदिन्द्रियादीनामिति ।
गोबलीवर्दपदवेतद्द्रष्टव्यम् ।
आचार्यदेशीयमतमाह -अन्ये त्विति ।
एतद्दूषयति- तैस्त्विति ।
प्रकरणपारिशेष्ययोरुभयत्र तुल्यत्वान्नैकग्रहणनियमहेतुरस्ति ।
शङ्कते -आम्नातस्यार्थमिति ।
अव्यक्तपदमेव स्थूलशरीरव्यावृत्तिहेतुर्व्यक्तत्वात्तस्येति शङ्कार्थः ।
निराकरोति- न ।
एकवाक्यताधीनत्वादिति ।
प्रकृतहान्यप्रकृतप्रक्रियाप्रसङ्गेनैकवाक्यत्वे संभवति न वाक्यभेदो युज्यते ।
न चाकाङ्क्षां विनैकवाक्यत्वम्, उभयं च प्रकृतमित्युभयं ग्राह्यत्वेनेहाकाङ्क्षितमित्येकाभिधायकमपि पदं शरीरद्वपरम् ।
नच मुख्यया वृत्त्यातत्परमित्यौपचारिकं न भवति ।
यथोपहन्तृमात्रनिराकाङ्क्षायां काकपदं प्रयुज्यमानं श्वादिसर्वहन्तृपरं विज्ञायते ।
यथाहुः ऽकाकेभ्यो रक्ष्यतामन्नमिति बाले ऽपि नोदितः ।
उपघातप्रधानत्वान्न श्वादिभ्यो न रक्षति ॥
ऽइति ।
ननु न शरीरद्वयस्यात्राकाङ्क्षा ।
किन्तु दुःशोधत्वात्सूक्ष्मस्यैव शरीरस्य, नतु षाट्कौशिकस्य स्थूलस्य ।
एतद्धि दृष्टबीभत्सतया सुकरं वैराग्यविषयत्वेन शोधयितुमित्यत आह- न चैवं मन्तव्यमिति ।
विष्णोः परमं पदमवगमयितुं परं परमत्र प्रतिपाद्यत्वेन प्रस्तुतं न तु वैराग्याय शोधनमित्यर्थः ।
अलं वा विवादेन, भवतु सूक्ष्ममेव शरीरं परिशोध्यं, तथापि न सांख्याभिमतमत्र प्रधानं परमित्यभ्युपेत्याह- सर्वथापि त्विति ॥3॥
स्तर्त् ब्स्व्भ्_1,4.1.4
ज्ञेयत्वावचनाच् च

1.4.5

ज्ञेयत्वावचनाच्च ।
इतो ऽपि नायमव्यक्तशब्दः सांख्याभिमतप्रधानपरः ।
सांख्यैः खलु प्रधानाद्विवेकेन पुरुषं निःश्रेयसाय ज्ञातुं वा विभूत्यै वा प्रधानं ज्ञेयत्वेनोपक्षिप्यते ।
न चेह जानीयादिति चोपासीतेति वा विधिविभक्तिश्रुतिरस्ति, अपि त्वव्यक्तपदमात्रम् ।
न चैतावता सांख्यस्मृतिप्रत्यभिज्ञानं भवतीति भावः ॥4॥
स्तर्त् ब्स्व्भ्_1,4.1.5
ज्ञेयत्वावचनस्यासिद्धिमाशङ्क्य तत्सिद्धिप्रदर्शनार्थं सूत्रम्-
वदतीति चेन् न प्राज्ञो हि प्रकरणात्

1.4.6

वदतीति चेन्न प्राज्ञो हि प्रकरणात् ।
निगदव्याख्यातमस्य भाष्यम् ॥5॥
स्तर्त् ब्स्व्भ्_1,4.1.6
त्रयाणाम् एव चैवम् उपन्यासः प्रश्नश् च

1.4.7

त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ।
वरप्रदानोपक्रमा हि मृत्युनचिकेतः संवादवाक्यप्रवृत्तिरासमाप्तेः कठवल्लीनां लक्ष्यते ।
मृत्युः किल न चिकेतसे कुपितेन पित्रा प्रहिताय तुष्टस्त्रीन्वरान् प्रददौ ।
नचिकेतास्तु पथमेन वरेण पितुः सौमनस्यं वव्रे, द्वितीयेनाग्निविद्याम्, तृतीयेनात्मविद्याम् ।
ऽवरणामेष वरस्तृतीयःऽइति वचनात् ।
ननु तत्र वरप्रदाने प्रधानगोचरे स्तः प्रश्नप्रतिवचने ।
तस्मात्कठवल्लीष्वग्निजीवपरमात्मपरैव वाक्यप्रवृत्तिर्न त्वनुपक्रान्तप्रधानपरा भवितुमर्हतीत्याह- इतश्च न प्रधानस्याव्यक्तशब्दवाच्यत्वमिति ।
ऽहन्तः त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम्ऽइत्यनेन व्यवहितं जीवविषयं ऽयथा तु मरणं प्राप्यात्मा भवति गौतमऽइत्यादिप्रतिवचनमिति योजना ।
अत्राह चोदकः-किं जीवपरमात्मनोरेक एव प्रश्नः, किं वान्यो जीवस्य ऽयेयं प्रेतेऽमनुष्य इति प्रश्नः, अन्यश्च परमात्मनः ऽअन्यत्र धर्मात्ऽइत्यादिः ।
एकत्वे सूत्रविरोधस्त्रयाणमिति ।
भेदे तु सौमनस्यावाप्त्यध्यात्मज्ञानविषयवरत्रयप्रदानानन्तभावो ऽन्यत्र धर्मादित्यादेः प्रश्नस्य ।
तुरीयवरान्तरकल्पनायां वा तृतीय इति श्रुतिबाधप्रसङ्गः ।
वरप्रदानानन्तर्भावे प्रश्नस्य तद्वत् प्रधानाख्यानमप्यनन्तर्भूतं वरप्रदाने ऽस्तु ऽमहतः परमव्यक्तऽमित्याक्षेपः ।
परिहरति- अत्रोच्यते, नैवं वयमिहेति ।
वस्तुतो जीवपरमात्मनोरभेदात्प्रष्टव्याभेदेनैक एव प्रश्नः ।
अत एव प्रतिवचनमप्येकम् ।
सूत्रं त्ववास्तवभेदाभिप्रायम् ।
वास्तवश्च जीवपरमात्मनोरभेदस्तत्र तत्र श्रुत्युपन्यासेन भगवता भाष्यकारेण दर्शितः ।
तथा जीवविषयस्यास्तित्वनास्तित्वप्रश्नस्येत्यादि ।
ऽयेयं प्रेतेऽइति हि नचिकेतसः प्रश्नमुपश्रुत्य तत्तत्कामविषयमलोभं चास्य प्रतीत्य मृत्युः ऽविद्याभीप्सिनं नचिकेतसं मन्येऽइत्यादिना नचिकेतसं प्रशस्य प्रश्नमपि तदीयं प्रशंसन्नस्मिन्प्रश्ने ब्रह्मैवोत्तरमुवाच- तं दुर्दर्शमिति ।
यदि पुनर्जीवात्प्राज्ञो भिद्येत, जीवगोचरः प्रश्नः, प्राज्ञगोचरं चोत्तरमिति किं केन संगच्छेत ।
अपिच यद्विषयं प्रश्नमुपश्रुत्य मृत्युनैष प्रशंसितो नचिकेताः यदि तमेव भूयः पृच्छेत्तदुत्तरे चावदध्यात् ततः प्रशंसा दृष्टार्था स्यात्, प्रश्नान्तरे त्वसावस्थाने प्रसारिता सत्यदृष्टार्था स्यादित्याह- यत्प्रश्नेति ।
यस्मिन् प्रश्नो यत्प्रश्नः ।
शेषमतिरोहितार्थम् ॥6॥
स्तर्त् ब्स्व्भ्_1,4.1.7
महद्वच् च

1.4.8

महद्वच्च ।
अनेन सांख्यप्रसिद्धेर्वैदिकप्रसिद्ध्या विरोधान्न सांख्यप्रसिद्धिर्वेद आदर्तव्येत्युक्तम् ।
सांख्यानां महत्तत्त्वं सत्तामात्रं, पुरुषार्थक्रियाक्षमं सत्तस्य भावः सत्ता तन्मात्रं महत्तत्त्वमिति ।
या या पुरुषार्थक्रिया शब्दाद्युपभोगलक्षणा च सत्त्वपुरुषान्यताख्यातिलक्षणा च सा सर्वा महति बुद्धौ समाप्यत इति महत्तत्त्वं सत्तामात्रमुच्यत इति ॥7॥
स्तर्त् ब्स्व्भ्_1,4.2.8
चमसवदविशेषात्

1.4.9

चमसवदविशेषात् ।
अजाशब्दो यद्यपि छागायां रूढस्तथाप्यध्यात्मविद्याधिकारान्न तत्र कर्तितुमर्हति ।
तस्माद्रूढेरसंभवाद्योगेन वर्तयितव्यः ।
तत्र किं स्वतन्त्रं प्रधानमनेन मन्त्रवर्णेनानूद्यतामुत पारमेश्वरी मायाशक्तिस्तेजो ऽबन्नव्याक्रियाकारणमुच्यताम् किं तावत्प्राप्तं, प्रधानमेवेति ।
तथाहि-यादृशं प्रधानं सांख्यैः स्मर्यते तादृशमेवास्मिन्नन्यूनानतिरिक्तं प्रतीयते ।
सा हि प्रधानलक्षणा प्रकृतिर्न जायत इत्यजा च एका च लोहितशुक्लकृष्णा च ।
यद्यपि लोहितत्वादयो वर्णा न रजःप्रभृतिषु सन्ति, तथापि लोहितं कुसुम्भादि रञ्जयति, रजो ऽपि रञ्जयतीति लोहितम् ।
एवं प्रसन्नं पाथः शुक्लं, सत्त्वमपि प्रसन्नमिति शुक्लम् ।
एवमावरकं मेघादि कृष्णं,
तमो ऽप्यावरकमिति कृष्णम् ।
परेणापि नाव्याकृतस्य स्वरूपेण लोहितत्वादियोग आस्थेयः, किन्तु तत्कार्यस्य तेजो ऽबन्नस्य रोहित्वादिकारण उपचरणीयम् ।
कार्यसारूप्येण वा कारणे कल्पनीयं, तदस्माकमपि तुल्यम् ।
ऽअजो ह्येको जुषमाणो ऽनुशेते जहात्येनां भुक्तभोगामजो ऽन्यःऽइति त्वात्मभेदश्रवणात् सांख्यस्मृतेरेवात्र मन्त्रवर्णे प्रत्यभिज्ञानं न त्वव्याकृतप्रक्रियायाः ।
तस्यामैकात्म्याभ्युपगमेनात्मभेदाभावात् ।
तस्मात्स्वतन्त्रं प्रधानं नाशब्दमिति प्राप्तम् ।
तेषां साम्यावस्थावयवधर्मैरिति ।
अवयवाः प्रधानस्यैकस्य सत्त्वरजस्तमांसि तेषां धर्मा लोहितत्वादयस्तैरिति ।
प्रजास्त्रैगुण्यान्विता इति ।
सुखदुःखमोहात्मिकाः ।
तथाहि-मैत्रदारेषु नर्मदायां मैत्रस्य सुखं, तत् कस्य हेतोः, तं प्रति सत्त्वस्य समुद्भवात् ।
तथाच तत्सपत्नीनां दुःखं, तत् कस्य हेतोः, ताः प्रति रजःसमुद्भवात्, तथा चैत्रस्य तामविन्दतो मोहो विषादः, स कस्य हेतोः, तं प्रति तमःसमुद्भवात् ।
नर्मदया च सर्वे भावा व्याख्याताः ।
तदिदं त्रैगुण्यान्वितत्वं प्रजानाम् ।
अनुशेत इति व्याचष्टे- तामेवाविद्ययेति ।
विषया हि शब्दादयः प्रकृतिविकारस्त्रैगुण्येन सुखदुःखमोहात्मान इन्द्रियमनो ऽहङ्कारप्रणालिकया बुद्धिसत्त्वमुपसंक्रामन्ति ।
तेन तद्बुद्धिसत्त्वं प्रधानविकारः सुखदुःखमोहात्मकं शब्दादिरूपेण परिणमते ।
चितिशक्तिस्त्वपरिणामिन्यप्रतिसंक्रमापि बुद्धिसत्त्वादात्मनो विवेकमबुध्यमाना बुद्धिवृत्त्यैव विपर्यासेनाविद्यया बुद्धिस्थान्सुखादीनात्मन्यभिमन्यमाना सुखादिमतीव भवति ।
तदिदमुक्तम्- सुखी दुःखी मूढो ऽहमित्यविवेकतया संसरति ।
एकः ।
सत्त्वपुरुषान्यताख्यातिसमुन्मूलितनिखिलवासनाविद्यानुबन्धस्त्वन्यो जहात्येनां प्रकृतिम् ।
तदिदमुक्तम्- अन्यः पुनरिति ।
भुक्तभोगामिति व्याचष्टे- कृतभोगापवर्गाम् ।
शब्दाद्युपलब्धिर्भोगः ।
गुणपुरुषान्यताख्यातिरपवर्गः ।
अपवृज्यते हि तया पुरुष इति ।
एवं प्राप्ते ऽभिधीयते-न तावत् ऽअजो ह्येको जुषमाणो ऽनुशेते जहात्येनां भुक्तभोगामजो ऽन्यःऽइत्येतदात्मभेदप्रतिपादनपरमपि तु सिद्धमात्मभेदमनूद्य बन्धमोक्षौ प्रतिपादयतीति ।
स चानूदितो भेदः ऽएको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्माऽइत्यादिश्रुतिभिरात्मैकत्वप्रतिपादनपराभिर्विरोधात्कल्पनिको ऽवतिष्ठते ।
तथाच न सांख्यप्रक्रियाप्रत्यभिज्ञानमित्यजावाक्यं चमसवाक्यवत्परिप्लवमानं न स्वतन्त्रप्रधाननिश्चयाय पर्याप्तम् ।
तदिदमुक्तं सूत्रकृता-ऽचमसवदविशेषात्ऽ इति ॥8॥
स्तर्त् ब्स्व्भ्_1,4.2.9
उत्तरसूत्रमवतारयितुं शङ्कते- तत्र त्विदं तच्छिर इति ।
सूत्रमवतारयति-अत्र ब्रूमः ।
ज्योतिरुपक्रमा तु तथा ह्य् अधीयत एके

1.4.10

ज्योतिरुपक्रमा तु तथा ह्यधीयत एके ।
सर्वशाखाप्रत्ययमेकं ब्रह्मेति स्थितौ शाखान्तरोक्तरोहितादिगुणयोगिनी तेजो ऽबन्नलक्षणा जरायुजाण्डजस्वेदजद्भिज्जचतुर्विधभूतग्रामप्रकृतिभूतेयमजा प्रतिपत्तव्या, ऽरोहितशुक्लकृष्णाम्ऽइति रोहितादिरुपतया तस्या एव प्रत्यभिज्ञानात् ।
न तु सांख्यपरिकल्पिता प्रकृतिः ।
तस्या अप्रामाणिकतया श्रुतहान्यश्रुतकल्पनाप्रसङ्गात्, रञ्जनादिना च रोहिताद्युपचारस्य सति मुख्यार्थसंभवे ऽयोगात् ।
तदिदमुक्तम्- रोहितादीनां शब्दानामिति ।
अजापदस्य च समुदायप्रसिद्धिपरित्यागेन न जायत इत्यवयवप्रसिद्ध्याश्रयणे दोषप्रसङ्गात् ।
अत्र तु रूपककल्पनायां समुदायप्रसिद्धेरेवानपेक्षायाः स्वीकारात् ।
अपि चायमपि श्रुतिकलापो ऽस्मद्दर्शनानुगुणो न सांख्यस्मृत्यनुगुण इत्याह -तथेहापीति ।
किं कारणं ब्रह्मेत्युपक्रम्येति ।
ब्रह्मस्वरूपं तावज्जगत्कारणं न भवति, विशुद्धत्वात्तस्य ।
यथाहुः-ऽपुरुषस्य तु शुद्धस्य नाशुद्धा विकृतिर्भवेत्ऽइत्याशयवतीव श्रुतिः पृच्छति ।
किङ्कारणम् ।
यस्य ब्रह्मणो जगदुत्पत्तिस्तत् किङ्कारणं ब्रह्मेत्यर्थः ।
ते ब्रह्मविदो ध्यानयोगेनात्मानं गताः प्राप्ता अपश्यन्निति योजना ।
यो योनिं योनिमिति ।
अविद्या शक्तिर्योनिः, सा च प्रतिजीवं नानेत्युक्तमतो वीप्सोपपन्ना ।
शेषमतिरोहितार्थम् ॥9॥
स्तर्त् ब्स्व्भ्_1,4.2.10
सूत्रान्तरमवतारयितुं शङ्कते- कथं पुनरिति ।
अजाकृतिर्जातिस्तेजो ऽबन्नेषु नास्ति ।
नच तेजो ऽबन्नानां जन्मश्रवणादजन्मनिमित्तो ऽप्यजाशब्दः संभवतीत्याह- नच तेजो ऽबन्नानामिति ।
सूत्रमवतारयति- अत उत्तरं पठति ।
कल्पनोपदेशाच् च मध्वादिवदविरोधः

1.4.11

कल्पनोपदेशाच्च मध्वादिवदविरोधः ।
ननु किं छागा लोहितशुक्लकृष्णैवान्यादृशीनामपि छागानामुपलम्भादित्यत आह- यदृच्छयेति ।
बहुबर्करा बहुशावा ।
शेषं निगदव्याख्यातम् ॥1॥
स्तर्त् ब्स्व्भ्_1,4.3.11
न संख्योपसंग्रहाद् अपि नानाभावाद् अतिरेकाच् च

1.4.13

न संख्योपसंग्रहादपि नानाभावादतिरेकाच्च ।
अवान्तरसंगतिमाह- एवं परिहृते ऽपीति ।
पञ्चजना इति हि समासार्थः पञ्चसंख्यया संबध्यते ।
नच ऽदिक्संख्ये संज्ञायाम्ऽइति समासविधानान्मनुजेषु निरूढो ऽयं पञ्चजनशब्द इति वाच्यम् ।
तथाहि सति पञ्चमनुजा इति स्यात् ।
एवं चात्मनि पञ्चमनुजानामाकाशस्य च प्रतिष्ठानमिति निस्तात्पर्यं, सर्वस्यैव प्रतिष्ठानात् ।
तस्माद्रूढेरसंभवात्तत्त्यागोनात्र योग आस्थेयः ।
जनशब्दश्च कथञ्चित्तत्त्वेषु व्याख्येयः ।
तत्रापि किं पञ्च प्राणादयो वाक्यशेषगता विवक्ष्यन्ते उत तदतिरिक्ता अन्य एव वा केचित् ।
तत्र पौर्वापर्यपर्यालोचनया कण्वमाध्यन्दिनवाक्ययोर्विरोधात् ।
एकत्र हि ज्योतिषा पञ्चत्वमन्नेनेतरत्र ।
नच षोडशिग्रहणवद्विकल्पसंभवः ।
अनुष्ठानं हि विकल्प्यते न वस्तु ।
वस्तुतत्त्वकथा चेयं नानुष्ठानकथा, विध्यभावात् ।
तस्मात्कानिचिदेव तत्त्वानीह पञ्च प्रत्येकं पञ्चसंख्यायोगीनि पञ्चविंशतितत्त्वानि भवन्ति ।
सांख्यैश्च प्रकृत्यादीनि ।
पञ्चविंशतितत्त्वानि स्मर्यन्त इति तान्येवानेन मन्त्रेणोच्यन्त इति नाशब्दं प्रधानादि ।
न चाधारत्वेनात्मनो व्यवस्थानात्स्वात्मनि चाधाराधेयभावस्य विरोधात् आकाशस्य च व्यतिरेचनात्, त्रयोविंशतिर्जना इति स्यान्न पञ्च पञ्चजना इति वाच्यम् ।
सत्यप्याकाशात्मनोर्व्यतिरेचने मूलप्रकृतिभागैः सत्त्वरजस्तमोभिः पञ्चविंशतिसंख्योपपत्तेः ।
तथाच सत्यात्माकाशाभ्यां सप्तविंशतिसंख्यायां पञ्चविंशतितत्त्वानीति स्वसिद्धान्तव्याकोप इति चेत्, न मूलप्रकृतित्वमात्रेणैकीकृत्य सत्त्वरजस्तमांसि पञ्चविंशतितत्त्वोपपत्तेः ।
हिरुग्भावेन तु तेषां सप्तविंशतित्वाविरोधः ।
तस्मान्नाशाब्दी सांख्यस्मृतिरिति प्राप्तम् ।
मूलप्रकृतिः प्रधानम् ।
नासावन्यस्य विकृतिरपि तु प्रकृतिरेव तदिदमुक्तम्- मूलेति ।
महदहङ्कारपञ्चतन्मात्राणि प्रकृतयश्च विकृतयश्च ।
तथाहि-महत्तत्त्वमहङ्कारस्य तत्त्वान्तरस्य प्रकृतिर्मूलप्रकृतेस्तु विकृतिः ।
एवमहङ्कारतत्त्वं महतो विकृतिः, प्रकृतिश्च तदेव तामसं सत् पञ्चतन्मात्राणाम् ।
तदेव सात्त्विकं सत् प्रकृतिरेकादशेन्द्रियाणाम् ।
पञ्चतन्मात्राणि चाहङ्कारस्य विकृतिराकाशादीनां पञ्चानां प्रकृतिः ।
तदिदमुक्तम्- महदाद्याः प्रकृतिविकृतयः सप्त ।
षोडशकश्च विकारः ।
षोडशसंख्यावच्छिन्नो गणो विकार एव ।
पञ्चभूतान्यतन्मात्राण्येकादशेन्द्रियाणीति षोडशको गणः ।
यद्यपि पृथिव्यादयो गोघटादीनां प्रकृतिस्तथापि न ते पृथिव्यादिभ्यस्तत्त्वान्तरमिति न प्रकृतिः ।
तत्त्वान्तरोपादानत्वं चेह प्रकृतित्वमभिमतं नोपादानमात्रत्वमित्यविरोधः ।
पुरुषस्तु कूटस्थनित्यो ऽपरिणामो न कस्यचित्प्रकृतिर्नापि विकृतिरिति ।
एवं प्राप्ते ऽभिधीयते -न संख्योपसंग्रहादपि प्रधानादीनां श्रुतिमत्त्वाशङ्का कर्तव्या ।
कस्मात् नानाभावात् ।
नाना ह्येतानि पञ्चविंशतितत्त्वानि ।
नैषां पञ्चशः पञ्चशः साधारणधर्मो ऽस्ति ।
न खलु सत्त्वरजस्तमोमहदहङ्काराणामेकः क्रिया वा गुणो वा द्रव्यं वा जातिर्वा धर्मः पञ्चतन्मात्रादिभ्यो व्यावृत्तः सत्त्वादिषु चानुगतः कश्चिदस्ति ।
नापि पृथिव्यप्तेजोवायुघ्राणानाम् ।
नापि रसनचक्षुस्त्वक्श्रोत्रवाचाम् ।
नापि पाणिपादपायूपस्थमनसां, येनैकेनासाधारणेनोपगृहीताः पञ्च पञ्चका भवितुमर्हन्ति ।
पूर्वपक्षैकदेशिनमुत्थापयति- अथोच्येत पञ्चविंशतिसंख्यैवेयमिति ।
यद्यपि परस्यां संख्यायामवान्तरसंख्या द्वित्वादिका नास्ति तथापि तत्पूर्वं तस्याः संभवात् पौर्वापर्यलक्षणया प्रत्यासत्त्या परसंख्योपलक्षणार्थं पूर्वसंख्योपन्यस्यत इति दूषयति- अयमेवास्मिन्पक्षे दोष इति ।
नच पञ्चशब्दो जनशब्देन समस्तो ऽसमस्तः शक्यो वक्तुमित्याह- परश्चात्र पञ्चशब्द इति ।
ननु भवतु समासस्तथापि किमित्यत आह- समस्तत्वाच्चेति ।
अपि च वीप्सायां पञ्चकद्वयग्रहणे दशैव तत्त्वानीति न सांख्यस्मृतिप्रत्यभिज्ञानमित्यसमासमभ्युपेत्याह- न च पञ्चकद्वयग्रहणं पञ्च पञ्चेति ।
न चैका पञ्चसंख्या पञ्चसंख्यान्तरेण शक्या विशेष्टुम् ।
पञ्चशब्दस्य संख्योपसर्जनद्रव्यवचनत्वेन संख्याया उपसर्जनतया विशेषणेनासंयोगादित्याह- एकस्याः पञ्चसंख्याया इति ।
तदेवं पूर्वपक्षैकदेशिनि दूषिते परमपूर्वपक्षिणमुत्थापयति -नन्वापन्नपञ्चसंख्याका जना एवेति ।
अत्र तावद्रूढौ सत्यां न योगः संभवतीति वक्ष्यते ।
तथापि यौगिकं पञ्चजनशब्दमभ्युपेत्य दूषयति- युक्तं यत्पञ्चपूलीशब्दस्येति ।
पञ्चपूलीत्यत्र यद्यपि पृथक्त्वैकार्थसंवायिनी पञ्चसंख्यावच्छेदिकास्ति तथापीह समुदायिनो ऽवच्छिनत्ति न समुदायं समासपदगम्यमतस्तस्मिन् कति ते समुदाया इत्यपेक्षायां पदान्तराभिहिता पञ्चसंख्या संबध्यते पञ्चेति ।
पञ्चजना इत्यत्र तु पञ्चसंख्ययोत्पत्तिशिष्टया जनानामवच्छिन्नत्वात्समुदायस्य च पञ्चपूलीवदत्राप्रतीतेर्न पदान्तराभिहिता संख्या संबध्यते ।
स्यादेतत् ।
संख्येयानां जनानां मा भूच्छब्दान्तरवाच्यसंख्यावच्छेदः ।
पञ्चसंख्यायास्तु तयावच्छेदो भविष्यति ।
नहि साप्यवच्छिन्नेत्यत आह- भवदपीदं विशेषणमिति ।
उक्तो ऽत्र दोषः ।
नह्युपसर्जनं विशेषणेन युज्यते पञ्चशब्द एव तावत्संख्येयोपसर्जनसंख्यामाह विशेषतस्तु पञ्चजना इत्यत्र समासे ।
विशेषणापेक्षायां तु न समासः स्यात्, असामर्थ्यात् ।
नहि भवति ऋद्धस्य राजपुरुष इति समासो ऽपि तु (पद) वृत्तिरेव ऋद्धस्य राज्ञः पुरुष इति ।
सापेक्षत्वेनासामर्थ्यादित्यर्थः ।
अतिरेकाच्चेति ।
अभ्युच्चयमात्रम् ।
यदि सत्त्वरजस्तमांसि प्रधानेनैकीकृत्यात्माकाशौ तत्त्वेभ्यो व्यतिरिच्येते तदा सिद्धान्तव्याकोपः ।
अथ तु सत्त्वरजस्तमांसि मिथो भेदेन विवक्ष्यन्ते तथापि वस्तुतत्त्वव्यवस्थापने आधारत्वेनात्मा निष्कृष्यताम् ।
आधेयान्तरेभ्यस्त्वाकाशस्याधेयस्य व्यतिरेचनमनर्थकमिति गमयितव्यम् ।
कथं च संख्यामात्रश्रवणे सतीति ।
ऽदिक्संख्ये संज्ञायाम्ऽइति संज्ञायां समासस्मरणात् पञ्चजनशब्दस्तावदयं क्वचिन्निरूढः ।
नच रूढौ सत्यामवयवप्रसिद्धेर्ग्रहणं, सापेक्षत्वात्, निरपेक्षत्वाच्च रूढेः ।
तद्यदि रूढौ मुख्योर्ऽथः प्राप्यते ततः स एव ग्रहीतव्यो ऽथ त्वसौ न वाक्ये संबन्धार्हः पूर्वापरवाक्यविरोधी वा ।
ततो रूढ्यपरित्यागेनैव वृत्त्यन्तरेणार्थान्तरं कल्पयित्वा वाक्यमुपपादनीयम् ।
यथा ऽश्येनेनाभिचरन् यजेतऽइति श्येनशब्दः शकुनिविशेषे निरूढवृत्तिस्तदपरित्यागेनैव निपत्यादानसादृश्येनार्थवादिकेन क्रतुविशेषे वर्तते, तथा पञ्चजनशब्दो ऽवयवार्थयोगानपेक्ष एकस्मिन्नपि वर्तते ।
यथा सप्तर्षिशब्दो वसिष्ठ एकस्मिन् सप्तसु च वर्तते ।
न चैष तत्त्वेषु रूढः ।
पञ्चविंशतिसंख्यानुरोधेन तत्त्वेषु वर्तयितव्यः ।
रूढौ सत्यां प्चविंशतेरेव संख्याया अभावात्कथं तत्त्वेषु वर्तते ॥11॥

स्तर्त् ब्स्व्भ्_1,4.3.12
एवं च के ते पञ्चजना इत्यपेक्षायां किं वाक्यशेषगताः प्राणादयो गृह्यन्तामुत पञ्चविंशतिस्तत्त्वानीति विशये तत्त्वानामप्रामाणिकत्वात्, प्राणादीनां च वाक्यशेषे श्रवणात्तत्परित्यागे श्रुतहान्यश्रुतकल्पनाप्रसङ्गात्प्राणादय एव पञ्चजनाः ।
नच काण्डवमाध्यन्दिनयोर्विरोधान्न प्राणादीनां वाक्यशेषगतानामपि ग्रहणमिति सांप्रतम्, विरोधे ऽपि तुल्यबलवतया षोडशिग्रहणवद्विकल्पोपपत्तेः ।
न चेयं वस्तुस्वरूपकथा, अपितूपासनानुष्ठानविधिः, ऽमनसैवानुद्रष्टव्यम्ऽइति विधिश्रवणात् ।
कथं पुनः प्रणादिषु जनशब्दप्रयोग इति ।
जनवाचकः शब्दो जनशब्दः ।
पञ्चजनशब्द इति यावत् ।
तस्य कथं प्राणादिष्वजनेषु प्रयोग इति व्याख्येयम् ।
अन्यथा तु प्रत्यस्तमितावयवार्थे समुदायशब्दार्थे जनशब्दार्थो नास्तीत्यपर्यनुयोग एव ।
रूढ्यपरित्यागेनैव वृत्त्यन्तरं दर्शयति- जनसंबन्धाच्चेति ।
जनशब्दभाजः पञ्चजनशब्दभाजः ।
ननु सत्यामवयवप्रसिद्धौ समुपायशक्तिकल्पनमनुपपन्नं, संभवति च पञ्चविंशत्यां तत्त्वेष्ववयवप्रसिद्धिरित्यत आह- समासबलाच्चेति ।
स्यादेतत् ।
समासबलाच्चेद्रूढिरास्थीयते हन्त न दृष्टस्तर्हि तस्य प्रयोगो ऽश्वकर्णादिवद्वृक्षादिषु ।
तथाच लोकप्रसिद्ध्यभावान्न रूढिरित्याक्षिपति- कथं पुनरसतीति ।
जनेषु तावत्पञ्चजनशब्दश्च प्रथमः प्रयोगो लोकेषु दृष्ट इत्यसति प्रथमप्रयोग इत्यसिद्धमिति स्थवीयस्तयानभिधायाभ्युपेत्य प्रथमप्रयोगाभावं समाधत्ते-शक्योद्भिदादिवदिति ।
आचार्यदेशीयानां मतभेदेष्वपि न पञ्चविंशतिस्तत्त्वानि सिध्यन्ति ।
परमार्थतस्तु पञ्चजना वाक्यशेषगता एवेत्याशयवानाह -कैश्चित्त्विति ।
शेषमतिरोहितार्थम् ॥12॥
स्तर्त् ब्स्व्भ्_1,4.3.13
ज्योतिषैकेषाम् असत्यन्ने

1.4.14

॥ 13 ॥
स्तर्त् ब्स्व्भ्_1,4.4.14
कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः

1.4.15

कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ।
अथ समन्वयलक्षणे केयमकाण्डे विरोधाविरोधचिन्ता, भविता हि तस्याः स्थानमविरोधलक्षणमित्यत आह- प्रतिपादितं ब्रह्मण इति ।
अयमर्थः नानेकशाखागततत्तद्वाक्यालोचनया वाक्यार्थावगमे पर्यवसिते सति प्रमाणान्तरविरोधेन वाक्यार्थागतेरप्रामाण्यमाशङ्क्याविरोधव्युत्पादनेन प्रामाण्यव्यवस्थापनमविरोधलक्षणार्थः ।
प्रासङ्गिकं तु तत्र सृष्टिविषयाणां वाक्यानां परस्परमविरोधप्रतिपादनं न तु लक्षणार्थः ।
तत्प्रयोजनं च तत्रैव प्रतिपादयिष्यते ।
इह तु-वाक्यानां सृष्टिप्रतिपादकानां परस्परविरोधे ब्रह्मणि जगद्योनौ न समन्वयः सेद्धुमर्हति ।
तथाच न जगत्कारणत्वं ब्रह्मणो लक्षणं, नच तत्र गतिसामान्यं, नच तत्सिद्धये प्रधानस्याशब्दत्वप्रतिपादनं, तस्माद्वाक्यानां विरोधाविरोधाभ्यामुक्तार्थाक्षेपसमाधानाभ्यां समन्वयः एवोपपाद्यत इति समन्वयलक्षणे संगतमिदमधिकरणम् ।
ऽवाक्यानां कारणे कार्ये परस्परविरोधतः ।
समन्वयो जगद्योनौ न सिध्यति परात्मनि ॥
ऽ ऽसदेव सोम्येदमग्र आसीत्ऽइत्यादीनां कारणविषयाणां, ऽअसद्वा इदमत्र आसीत्ऽइत्यादिभिर्वाक्यैः कारणविषयैर्विरोधः ।
कार्यविषयाणामपि विभिन्नक्रमाक्रमोत्पत्तिप्रतिपादकानां विरोधः ।
तथाहि-कानिचिदन्यकर्तृका जगदुत्पत्तिमाचक्षते वाक्यानि ।
कानिचित्स्वयङ्कर्तृकाम् ।
सृष्ट्या च कार्येण तत्कारणतया ब्रह्म लक्षितम् ।
सृष्टिविप्रतिपत्तौ तत्कारणतायां ब्रह्मलक्षणे विप्रतिपत्तौ सत्यां भवति तल्लक्ष्ये ब्रह्मण्यपि विप्रतिपत्तिः ।
तस्माद्ब्रह्मणि समन्वयाभावान्न समन्वयागम्यं ब्रह्म ।
वेदान्तास्तु कर्त्रादिप्रतिपादनेन कर्मविधिपरतयोपचरितार्था अविवक्षितार्था वा जपोपयोगिन इति प्राप्तम् ।
क्रमादीति ।
आदिग्रहणेनाक्रमो गृह्यते ।
एवं प्राप्त उच्यते-ऽसर्गक्रमविवादे ऽपि न स सृष्टरि विद्यते ।
सतस्त्वसद्वचो भक्त्या निराकार्यतया क्वचित् ॥
ऽन तावदस्ति सृष्टिक्रमे विगानं, श्रुतीनामविरोधात् ।
तथाहि-अनेकशिल्पपर्यवदातो देवदत्तः प्रथमं चक्रदण्डादि करोति, अथ तदुपकरणः कुम्भं, कुम्भोपकरणश्चाहरत्युदकं, उदकोपकरणश्च संयवनेन गोधूमकणिकानां करोति पिण्डं, पिण्डोपकरणस्तु पटति घृतपूर्णं, तदस्य देवदत्तस्य सर्वत्रैतास्मिन् कर्तृत्वाच्छक्यं वक्तुं देवदत्ताच्चक्रादि संभूतं तस्माच्चक्रादेः कुम्भादीति ।
शक्यं च देवदत्तात्कुम्भः समुद्भूतस्तस्मादुदकाहरणादीत्यादि ।
नह्यस्त्यसंभवः सर्वत्रास्मिन् कार्यजाते क्रमवत्यपि देवदत्तस्य साक्षात्कर्तुरनुस्यूतत्वात् ।
तथेहापि यद्यप्याकाशादिक्रमेणैव सृष्टिस्तथाप्याकाशानलानिलादौ तत्र तत्र साक्षात् परमेश्वरस्य कर्तृत्वाच्छक्यं वक्तुं परमेश्वरादाकाशः संभूत इति ।
शक्यं च वक्तुं परमेश्वरादनलः संभूत इत्यादि ।
यदि त्वाकाशाद्वायुर्वायोस्तेज इत्युक्त्वा तेजसो वायुर्वायोराकाश इति ब्रूयाद्भवेद्विरोधः ।
न चैतदस्ति ।
तस्मादमूषामविवादः श्रुतीनाम् ।
एवं ऽस इमांल्लोकानसृजतऽइत्युपक्रमाभिधायिन्यपि श्रुतिरविरुद्धा ।
एषा हि स्वव्यापारमभिधानक्रमेण कुर्वती नाभिधेयानां क्रमं निरुणद्धि ।
ते तु यथाक्रमावस्थिता एवाक्रमेणोच्यन्ते-यथा क्रमवन्ति ज्ञानानि जानातीति ।
तदेवमविगानम् ।
अभ्युपेत्य तु विगानमुच्यते-सृष्टौ खल्वेतद्विगानम् ।
स्रष्टा तु सर्ववेदान्तवाक्येष्वनुस्यूतः परमेश्वरः प्रतीयते ।
नात्र श्रुतिविगानं मात्रयाप्यस्ति ।
नच सृष्टिविगानं स्रष्टरि तदधीननिरूपणे विगानमावहतीति वाच्यम् ।
नह्येष स्रष्टृत्वमात्रेणोच्यते ऽपि तु ऽसत्यं ज्ञानमनन्तं ब्रह्मऽइत्यादिना रूपेणोच्यते स्रष्टा ।
तच्चास्य रूपं सर्ववेदान्तवाक्यानुगतम् ।
तज्ज्ञानं च फलवत् ।
ऽब्रह्मविदाप्नोति परम्ऽ ऽतरति शोकमात्मवित्ऽइत्यादि श्रुतेः ।
सृष्टिज्ञानस्य तु न फलं श्रूयते ।
तेन ऽफलवत्संनिधावफलं तदङ्गम्ऽइति सृष्टिविज्ञानं स्रष्टृब्रह्मविज्ञानाङ्गं तदनुगुणं सद्ब्रह्मज्ञानावतारोपायतया व्याख्येयम् ।
तथाच श्रुतिः-ऽअन्नेन सोम्य शुङ्गेनापो मूलमन्विच्छऽइत्यादिका ।
शुङ्गेनाग्रेण ।
कार्येणेति यावत् ।
तस्मान्न सृष्टिविप्रतिपत्तिः स्रष्टरि विप्रतिपत्तिमावहति ।
अपि तु ऽगुणे त्वन्यायकल्पनाऽइति तदनुगुणतया व्याख्येया ।
यच्च कारणे विगानम्ऽअसद्वा इदमत्र असीत्ऽइति, तदपि ऽतदप्येष श्लोको भवतिऽइति पूर्वप्रकृतं सद्ब्रह्मणाकृष्य ऽअसदेवेदमत्र आसीत्ऽइत्युच्यमानं त्वसतो ऽभिधाने ऽसंबद्धं स्यात् ।
श्रुत्यन्तरेण च मानान्तरेण च विरोधः ।
तस्मादौपचारिकं व्याख्येयम् ।
ऽतद्धैक आहुरसदेवेदमत्र आसीत्ऽइति तु निराकार्यतयोपन्यस्तमिति न कारणे विवाद इति सूत्रे चशब्दस्त्वर्थः ।
पूर्वपक्षं निवर्तयति ।
आकाशादिषु सृज्यमानेषु क्रमविगाने ऽपि न स्रष्टरि विगानम् ।
कुतः ।
यथैकस्यां श्रुतौ व्यपदिष्टः परमेश्वरः सर्वस्य कर्ता तथैव श्रुत्यन्तरेषूक्तेः, केन रूपेण, कारणत्वेन, अपरः कल्पो यथा व्यपदिष्टः क्रम आकाशादिषु, ऽआत्मन आकाशः संभूत आकाशाद्वायुर्वायोरग्निरग्नेरापो ऽद्भ्यः पृथिवीऽइति, तस्यैव क्रमस्यानपबाधनेन ऽतत्तेजो ऽसृजतऽइत्यादिकाया अपि सृष्टेरुक्तेर्न सृष्टावपि विगानम् ॥14॥
स्तर्त् ब्स्व्भ्_1,4.4.15
समाकर्षात्

1.4.16

नन्वेकत्रात्मन आकाशकारणत्वेनोक्तिरन्यत्र च तेजः कारणत्वेन, तत्कथमविगानमिति ।
अत आह- कारणत्वेति ।
हेतौ तृतीया ।
सर्वत्राकाशानलानिलादौ साक्षात्कारणत्वेनात्मनः ।
प्रपञ्चितं चैतदधस्तात् ।
व्याक्रियत इति च कर्मकर्तरि कर्मणि वा रूपं, न चेतनमतिरिक्तं कर्तारं प्रतिक्षिपति किन्तूपस्थापयति ।
नहि लूयते केदारः स्वयमेवेति वा लूयते केदार इति वा लवितारं देवदत्तादिं प्रतिक्षिपति ।
अपि तूपस्थापयत्येव ।
तस्मात्सर्वमवदातम् ॥15॥
स्तर्त् ब्स्व्भ्_1,4.5.16
जगद्वाचित्वात्

1.4.17

जगद्वाचित्वात् ।
ननु ऽब्रह्म ते ब्रवाणिऽइति ब्रह्माभिधानप्रकरणात्, उपसंहारे च ऽसर्वान् पाप्मनो ऽपहत्य सर्वेषां च भूतानां श्रैष्ठ्यं स्वाराज्यं पर्येति य एवं वेदऽइति निरतिशयफलश्रवणाद्ब्रह्मवेदनादन्यत्र तदसंभवात्, आदित्यचन्द्रादिगतपुरुषकर्तृत्वस्य च ऽयस्य वैतत्कर्मऽइति चास्यासत्यवच्छेदे सर्वनाम्ना प्रत्यक्षसिद्धस्य जगतः परामर्शेन, जगत्कर्तृत्वस्य च ब्रह्मणो ऽन्यत्रासंभवात्कथं जीवमुख्यप्राणाशङ्का ।
उच्यते-ब्रह्म ते ब्रवाणीति बालाकिना गार्ग्येण ब्रह्माभिधानं प्रतिज्ञाय तत्तदादित्यादिगताब्रह्मपुरुषाभिधानेन न तावद्ब्रह्मोक्तम् ।
यस्य चाजातशत्रोः
ऽयो वै बालाके एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्मऽइति वाक्यं न तेन ब्रह्माभिधानं प्रतिज्ञातम् ।
न चान्यदीयेनोपक्रमेणान्यस्य वाक्यं शक्यं नियन्तुम् ।
तस्मादजातशत्रोर्वाक्यसंदर्भपौर्वापर्यपर्यालोचनया यो ऽस्यार्थः प्रतिभाति स एव ग्राह्यः ।
अत्र च कर्मशब्दस्तावद्व्यापारे नेरूढवृत्तिः ।
कार्ये तु क्रियत इति व्युत्पत्त्या वर्तते ।
नच रूढौ सत्यां व्युत्पत्तिर्युक्ताश्रयितुम् ।
नच ब्रह्मण उदासीनस्यापरिणामिनो व्यापारवत्ता ।
वाक्यशेषे च ऽअथास्मिन् प्राण एवैकधा भवतिऽइति श्रवणात्परिस्पन्दलक्षणस्य च कर्मणो यत्रोपपत्तिः स एव वेदितव्यतयोपदिश्यते ।
आदित्यादिगतपुरुषकर्तृत्वं च प्राणस्योपपद्यते, हिरण्यगर्भरूपप्राणावस्थाविशेषत्वादादित्यादिदेवतानाम् ।
ऽकतम एको देवः प्राणःऽइति श्रुतेः ।
उपक्रमानुरोधेन चोपसंहारे सर्वशब्दः सर्वान् पाप्मन इति च सर्वेषां भूतानामिति चापेक्षिकवृत्तिर्बहून् पाप्मनो बहूनां भूतानामित्येवंपरो द्रष्टव्यः ।
एकस्मिन् वाक्ये उपक्रमानुरोधादुपसंहारो वर्णनीयः ।
यदि तु दृप्तबालाकिमब्रह्मणि ब्रह्माभिधायिनमपोद्याजातशत्रोर्वचनं ब्रह्मविषयमेवान्यथा तु तदुक्ताद्विशेषं विवक्षोरब्रह्माभिधानमसंबद्धं स्यादिति मन्यते, तथापि नैतद्ब्रह्माभिधानं भवितुमर्हति, अपितु जीवाभिधानमेव, यत्कारणं वेदितव्यतयोपन्यस्तस्य पुरुषाणां कर्तुर्वेदनायोपेतं बालकिं प्रति बुबोधयिषुरजातशत्रुः सुप्तं पुरुषमामन्त्र्यामान्त्रणशब्दाश्रवणात् प्राणादीनामभोक्तृत्वमस्वामित्वं प्रतिबोध्य यष्टिघातोत्थानात् प्राणादिव्यतिरिक्तं जीवं भोक्तारं स्वामिनं प्रतिबोधयति ।
परस्तादपि ऽतद्यथा श्रेष्ठी स्वैर्भुङ्क्ते यथा वा स्वाः श्रेष्ठिनं भुञ्जन्त्येवमेवैष प्रज्ञात्मैतैरात्मभिर्भुङ्क्ते एवमेवैत आत्मान एनमात्मानं भुञ्जन्तिऽइति श्रवणात् ।
यथा श्रेष्ठी प्रधानः पुरुषः स्वैर्भृत्यैः करणभूतैर्विषयान् भुङ्क्ते, यथा वा स्वा भृत्याः श्रेष्ठिनं भुञ्जन्ति ।
ते हि श्रेष्ठिनमशनाच्छादनादिग्रहणेन भुञ्जन्ति ।
एवमेवैष प्रज्ञात्मा जीव एतैरादित्यादिगैतरात्मभिर्विषयान् भुङ्क्ते ।
ते ह्यादित्यादय आलोकवृष्ट्यादिना साचिव्यमाचरन्तो जीवात्मानं भोजयन्ति, जीवात्मानमपि यजमानं तदुत्सृष्टहविरादानादादित्यादयो भुञ्जन्ति, तस्माज्जीवात्मैव ब्रह्मणो ऽभेदाद्ब्रह्मेह वेदितव्यतयोपदिश्यते ।
यस्य वैतत्कर्म इति ।
जीवप्रत्युक्तानां देहेन्द्रियादीनां कर्म जीवस्य भवति ।
कर्मजन्यत्वाद्वा धर्माधर्मयोः कर्मशब्दवाच्यत्वं रूढ्यनुसारात् ।
तौ च धर्माधर्मौ जीवस्य ।
धर्माधर्माक्षिप्तत्वाच्चादित्यादीनां भोगोपकरणानां तेष्वपि जीवस्य कर्तृत्वमुपपन्नम् ।
उपपन्नं च प्राणभृत्त्वाज्जीवस्य प्राणशब्दत्वम् ।
ये च प्रश्नप्रतिवचने-ऽक्वैष एतद् बालाके पुरुषो ऽशयिष्ट यदा सुप्तः स्वप्नं न कञ्चन पश्यतिऽइति ।
अनयोरपि न स्पष्टं ब्रह्माभिधानमुपलभ्यते ।
जीवव्यतिरेकश्च प्राणात्मनो हिरण्यगर्भस्याप्युपपद्यते ।
तस्माज्जीवप्राणयोरन्यतर इह ग्राह्यो न रपरमेश्वर इति प्राप्तम् ।
एवं प्राप्ते उच्यते-ऽमृष्टावादिनमापोद्य बालाकिं ब्रह्मवादिनम् ।
राजा कथमसंबद्धं मिथ्या वा वक्तुमर्हति ॥
ऽयथा हि केनचिन्मणिलक्षणज्ञमानिना काचे मणिरेव वेदितव्य इत्युक्ते परस्य काचो ऽयं मणिर्न तल्लक्षणायोगादित्यभिधाय आत्मनो विशेषं जिज्ञापयिषोस्तत्त्वाभिधानमसंबद्धम् ।
अमणौ मण्यभिधानं न पूर्ववादिनो विशेषमापादयति स्वयमपि मृषाभिधानात् ।
तस्मादनेनोत्तरवादिना पूर्ववादिनो विशेषमापादयता मणितत्त्वमेव वक्तव्यम् ।
एवमजातशत्रुणा दृप्तबालाकेरब्रह्मवादिनो विशेषमात्मनो दर्शयता जीवप्राणाभिधाने असंबद्धमुक्तं स्यात् ।
तयोर्वाब्रह्मणोर्ब्रह्माभिधाने मिथ्याभिहितं स्यात् ।
तथा च न कश्चिद्विशेषो बालाकेर्गार्ग्यादजातशत्रोर्भवेत् ।
तस्मादनेन ब्रह्मतत्त्वमभिधातव्यम् ।
तथा सत्यस्य न मिथ्यावद्यम् ।
तस्मात् ऽब्रह्म ते ब्रवाणिऽइति ब्रह्मणोपक्रमात्, सर्वान् पाप्मनो ऽपहत्य सर्वेषां च भूतानां श्रैष्ठ्यं स्वराज्यं पर्येति य एवं वेदऽइति च सति संभवे सर्वश्रुतेरसंकोचान्निरतिशयेन फलेनोपसंहारात्, ब्रह्मवेदनादन्यतश्च तदनुपपत्तेः, आदित्यादिपुरुषकर्तृत्वस्य च स्वातन्त्र्यलक्षणस्य मुख्यस्य ब्रह्मण्येव संभवादन्येषां हिरण्यगर्भादीनां तत्पारतन्त्र्यात्, ऽक्वौष एतद्बालाकेऽइत्यादेर्जीवाधिकरणभवनापादनप्रश्नस्य ऽयदा सुप्तः स्वप्नं न कञ्चन पश्यत्यथास्मिन् प्राण एवैकधा भवतिऽइत्यादेरुत्तरस्य च ब्रह्मण्येवोपपत्तेर्ब्रह्मविषयत्वं निश्चीयते ।
अथ कस्मान्न भवतो हिरण्यगर्भगोचरे एव प्रश्नोत्तरे, तथा च नैताभ्यां ब्रह्मविषयत्वसिद्धिरित्येतन्निराचिकीर्षुः पठति-एतस्मादात्मनः प्राणा यथा यथायतनं प्रतिष्ठन्त इति ।
एतदुक्तं भवति-आत्मैव भवति जीवप्राणादीनामधिकरणं नान्यदिति ।
यद्यपि च जीवो नात्मनो भिद्यते तथाप्युपाध्यवच्छिन्नस्य परमात्मनो जीवत्वेनोपाधिभेदाद्भेदमारोप्याधाराधेयभावो द्रष्टव्यः ।
एवं च जीवभवनाधारत्वमपादानत्वं च परमात्मन उपपन्नम् ।
तदेवं बालाक्यजातशत्रुसंवादवाक्यसंदर्भस्य ब्रह्मपरत्वे स्थिते यस्य वैतत्कर्म इति व्यापाराभिधाने न संगच्छत इति कर्मशब्दः कार्याभिधायी भवति, एतदितिसर्वनामपरामृष्टं च तत्कार्यं, सर्वनाम चेदं संनिहितपरामर्शि, नच किञ्चिदिह शब्दोक्तमस्ति संनिहितम् ।
न चादित्यादिपुरुषाः संनिहिता अपि परामर्शार्हाः बहुत्वात् पुंलिङ्गत्वाच्च ।
एतदिति चैकस्य नपुंसकस्याभिधानात् ऽएतेषां पुरुषाणां कर्ताऽइत्यनेनैव गतार्थत्वाच्च ।
तस्मादशब्दोक्तमपि प्रत्यक्षसिद्धं संबन्धार्हं जगदेव पराम्रष्टव्यम् ।
एतदुक्तं भवति ।
अत्यल्पमिदमुच्यते एतेषामादित्यादिगतानां जगदेकदेशभूतानां कर्तेति, किन्तु कृत्स्नमेव जगद्यस्य कार्यमिति वाशब्देन सूच्यते ।
जीवप्राणशब्दौ च ब्रह्मपरौ जीवशब्दस्य ब्रह्मोपलक्षणपरत्वात् ।
न पुनर्ब्रह्मशब्दो जीवोपलक्षणपरः ।
तथा सति हि वह्नसमञ्जनं स्यादित्युक्तम् ।
न चानधिगतार्थावबोधनस्वरसस्य शब्दस्याधिगतबोधनं युक्तम् ।
नाप्यनधिगतेनाधिगतोपलक्षणमुपपन्नम् ।

नच संभवत्येकवाक्यत्वे वाक्यभेदो न्याय्यः ।
वाक्यशेषानुरोधेन च जीवप्राणपरमात्मोपासनात्रयविधाने वाक्यत्रयं भवेत् ।
पौर्वापर्यपर्यालोचनया तु ब्रह्मोपासनपरत्वे एकवाक्यतैव ।
तस्मान्न जीवप्राणपरत्वमपि तु ब्रह्मपरत्वमेवेति सिद्धम् ।
स्यादेतत् ।
निर्दिश्यन्तां पुरुषाः कार्यास्तद्विषया तु कृतिरनिर्दिष्टा तत्फलं वा कार्यस्योत्पत्तिस्ति यस्येदं कर्मेति निर्देक्ष्येते, ततः कुतः पौनरुक्त्यमित्यत आह- नापि पुरुषविषयस्येति ।
एतदुक्तं भवति-कर्तृशब्देनैव कर्तारमभिदधत्ता तयोरुपात्तत्वादाक्षिप्तत्वात् ।
नहि कृतिं विना कर्ता भवति ।
नापि कृतिर्भावनापराभिधाना भूतिमुत्पत्तिं विनेत्यर्थः ।
ननु यदीदमा जगत्परामृष्टं ततस्तदन्तर्भूताः पुरुषा अपीति य एतेषां पुरुषाणामिति पुनरुक्तमित्यत आह- एतदुक्तं भवति ।
य एषां पुरुषाणामिति ॥16॥
स्तर्त् ब्स्व्भ्_1,4.5.17
जीवमुख्यप्राणलिङ्गान् नेति चेत् तद्व्याख्यातम्

1.4.18

॥ 17 ॥
स्तर्त् ब्स्व्भ्_1,4.5.18
अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्याम् अपि चैवम् एके

1.4.19

ननु ऽप्राण एवैकधा भवतिऽइत्यादिकादपि वाक्याज्जीवातिरिक्तः कुतः प्रतीयत इत्यतो वाक्यान्तरं पठति- एतस्मादात्मनः प्राणा इति ।
अपि च सर्ववेदान्तसिद्धमेतदित्याह- सुषुप्तिकाले चेति ।
वेदान्तप्रक्रियायामेवोपपत्तिमुपसंहारव्याजेनाह- तस्माद्यत्रास्य आत्मनो यतो निःसंबोधो ऽतः स्वच्छतारूपमिव रूपमस्येति स्वच्छतारूपो न तु स्वच्छतैव ।
लयविक्षेपसंस्कारयोस्तत्र भावात् ।
समुदाचरद्वृत्तिविक्षेपाभावमात्रेणोपमानम् ।
एतदेव विभजते-उपाधिभिः अन्तःकरणादिभिः जनितं यद्विशेषविज्ञानं घटपटादिविज्ञानं तद्रहितं स्वरूपमात्मनः यदि विज्ञानमित्येवोच्येत ततस्तदविशिष्टमनवच्छिन्नं सद्ब्रह्मैव स्यात्तच्च नित्यमिति नोपाधिजनितं नापि तद्रिहितं स्वरूपं ब्रह्मस्वभावस्याप्रहाणात् ।
अत उक्तम्- विशेषेति ।
यदा तु लयलक्षणाविद्योपबृंहितो विक्षेपसंस्कारः समुदाचरति तदा विशेषविज्ञानोत्पादात्स्वप्नजागरावस्थातः परमात्मनो रूपाद्भ्रंशरूपमागमनमिति ।
न केवलं कौषीतकिब्राह्मणे, वाजसनेये ऽप्येवमेव प्रश्नोत्तरयोर्जीवव्यतिरिक्तमामनन्ति परमात्मानमित्याह- अपिचैवमेक इति ।
नन्वत्राकाशं शयनस्थानं तत्कुतः परमात्मप्रत्यय इत्यत आह- आकाशशब्दश्चेति ।
न तावन्मुख्यस्याकाशस्यात्माधारत्वसंभवः ।
यदपि च द्वासप्ततिसहस्रहिताभिधाननाडीसंचारेण सुषुप्त्यवस्थायां पुरीतदवस्थानमुक्तं तदप्यन्तःकरणस्य ।
तस्मात् ऽदहरो ऽस्मिन्नन्तराकाशःऽइतिवदाकाशशब्दः परमात्मनि मन्तव्य इति ।
प्रथमं भाष्यकृता जीवनिराकरणाय सूत्रमिदमवतारितम् ।
तत्र मन्दधियां नेदं प्राणनिराकरणायेति बुद्धिर्मा भूदित्याशयवानाह- प्राणनिराकरणस्यापीति ।
तौ हि बालाक्यजातशत्रू सुप्तं पुरुषमाजग्मतुः ।
तमजातशत्रुर्नामभिरामन्त्रयाञ्चक्रे ऽबृहत् पाण्डुरवासः सोमराजन्ऽइति ।
स आमन्त्र्यमाणो नोत्तस्थौ ।
तं पाणिनापेषं बोधयाञ्चकार ।
स होत्तस्थौ ।
ऽस होवाचजातशत्रुर्यत्रैष एतत्सुप्तो ऽभूत्ऽइत्यादि ।
सो ऽयं सुप्तपुरुषोत्थापनेन प्राणादिव्यतिरिक्तोपदेश इति ॥18॥
स्तर्त् ब्स्व्भ्_1,4.6.19
वाक्यान्वयात्

1.4.20

वाक्यान्वयात् ।
ननु मैत्रेयीब्राह्मणोपक्रमे याज्ञवल्क्येन गार्हस्थ्याश्रमादुत्तमाश्रमं यियासता मैत्रैय्या भार्यायाः कात्यायन्या सहार्थसंविभागकरण उक्ते मैत्रेयी याज्ञवल्क्यं पतिममृतत्वार्थिनी पप्रच्छ, यन्नु म इयं भगोः सर्वा पृथ्वी वित्तेन पूर्णा स्यात्किमहं तनामृता स्यामुत नेति ।
तत्र नेति होवाच याज्ञवल्क्यः ।
यथैवोपकरणवतां जीवितं तथैव ते जीवितं स्यादमृतत्वस्य तु नाशास्ति वित्तेन ।
एवं वित्तेनामृतत्वाशा भवेद्यदि वित्तसाध्यानि कर्माण्यमृतत्वे उपयुज्येरन् ।
तदेव तु नास्ति, ज्ञानसाध्यत्वादमृतत्वस्य कर्मणां च ज्ञानविरोधिनां तत्सहभावित्वानुपपत्तेरिति भावः ।
सा होवाच मैत्रेयी येनाहं नामृता स्यां किमहं तेनं कुर्यां यदेव भगवान् वेद तदेव मे ब्रूहि ।
अमृतत्वसाधनमिति शेषः ।
तत्रामृतत्वसाधनज्ञानोपन्यासाय वैराग्यपूर्वकत्वात्तस्य रागविषयेषु तेषु तेषु पतिजायादिषु वैराग्यमुत्पादयितुं याज्ञवल्क्यो ऽन वा अरे पत्युः कामायऽइत्यादिवाक्यसंदर्भमुवाच ।
आत्मौपाधिकं हि प्रियत्वमेषां न तु साक्षात् प्रियाण्येतानि ।
तस्मादेतेभ्यः पतिजायादिभ्यो विरभ्य यत्र साक्षात्प्रेम स एव आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः ।
वाशब्दो ऽवधारणे ।
आत्मैव द्रष्टव्यः साक्षात्कर्तव्यः ।
एतत्साधनानि च श्रवणादीनि विहितानि श्रोतव्य इत्यादिना ।
कस्मात् ।
आत्मनो वा अरे दर्शनेन श्रवणादिसाधनेनेदं जगत्सर्वंविदितं भवतीति वाक्यशेषः ।
यतो नामरूपात्मकस्य जगतस्तत्त्वं पारमार्थिकं रूपमात्मैव भुजङ्गस्येव समारोपितस्य तत्त्वं रज्जुः ।
तस्मादात्मनि विदिते सर्वमिदं जगत्तत्त्वं विदितं भवति, रज्ज्वामिव विदितायां समारोपितस्य भुजङ्गस्य तत्त्वं विदितं भवति, यतस्तस्मादात्मैव द्रष्टव्यो न तु तदतिरिक्तं जगत् स्वरूपेण द्रष्टव्यम् ।
कुतः ।
यतो ऽब्रह्म तं परादात्ऽब्राह्मणजातिर्ब्राह्मणो ऽहमित्येवमभिमान इति यावत् ।
परादात् पराकुर्यादमृतत्वपदात् ।
कं, यो ऽन्यत्रात्मनो ब्रह्म ब्राह्मणजातिं वेद ।
एवं क्षत्रियादिष्वपि द्रष्टव्यम् ।
आत्मैव जगतस्तत्त्वं न तु तदतिरिक्तं किञ्चित्तदिति ।
अत्रैव भगवती श्रुतिरुपपत्तिं दृष्टान्तप्रबन्धेनाह ।
यत् खलु यद्ग्रहं विना न शक्यते ग्रहीतुं तत्ततो न व्यतिरिच्यते ।
यथा रजतं शुक्तिकायाः, भुजङ्गो वा रज्जोः,
दुन्दुभ्यादिशब्दसामान्याद्वा तत्तच्छब्दभेदः ।
न गृह्यन्ते च चिद्रूपग्रहणं विना स्थितिकाले नामरूपाणि ।
तस्मान्न चिदात्मनो भिद्यन्ते ।
तदिदमुक्तम् -स यथा दुन्दुभेर्हन्यमानस्येति ।
दुन्दुभिग्रहणेन तद्गतं शब्दसामान्यमुपलक्षयति ।
न केवलं स्थितिकाले नामरूपप्रपञ्चश्चिदात्मातिरेकेणाग्रहेणाच्चिदात्मनो न व्यतिरिच्यते ऽपि तु नामरूपोत्पत्तेः प्रागपि चिद्रूपावस्थानात् तदुपादानत्वाच्च नामरूपप्रपञ्चस्य तदनतिरेकः, रज्जूपादानस्येव भुजङ्गस्य रज्जोरनतिरेक इत्येतद्दृष्टान्तेन साधयति भगवती श्रुतिः-ऽस यथार्द्रैधो ऽग्रेरभ्याहितस्य पृथग्धूमा विनिश्चरन्त्येवं वा अरे ऽस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदःऽइत्यादिना चतुर्विधो मन्त्र उक्तः ।
इतिहास इत्यादिनाष्टविधं ब्राह्मणमुक्तम् ।
एतदुक्तं भवति-यथाग्निमात्रं प्रथममवगम्यते क्षुद्राणां विस्फुलिङ्गानामुपादानाम् ।
अथ ततो विस्फुलिङ्गा व्युच्चरन्ति ।
न चैते ऽग्नेस्तत्त्वान्यत्वाभ्यां शक्यन्ते निर्वुक्तम् ।
एवमृग्वेदादयो ऽप्यल्पप्रयत्नाद्ब्रह्मणो व्युच्चरन्तो न ततस्तत्त्वान्यत्वाभ्यां निरुच्यन्ते ।
ऋगादिभिर्नामोपलक्ष्यते ।
यदा च नामधेयस्येयं गतिस्तदा तत्पूर्वकस्य रूपधेयस्य कैव कथेति भावः ।
न केवलं तदुपादानत्वात्ततो न व्यतिरिच्यते नामरूपप्रपञ्चः, प्रलयसमये च तदनुप्रवेशात्ततो न व्यतिरिच्यते ।
यथा सामुद्रमेवाम्भः पृथिवीतेजः संपर्कात् काठिन्यमुपगतं सैन्धवं खिल्यः, स हि स्वाकारे समुद्रे क्षिप्तो ऽम्भ एव भवति, एवं चिदम्भोधौ लीनं जगच्छिदेव भवति न तु ततो ऽतिरिच्यत इति ।
एतद्दृष्टान्तप्रबन्धेनाह- स यथा सर्वासामपामित्यादि ।
दृष्टान्तप्रबन्धमुक्त्वा दार्ष्टान्तिके योजयति- एवं वा अरे इदं महदिति ।
बहुत्त्वेन ब्रह्मोक्तम् ।
इदं ब्रह्मेत्यर्थः ।
भूतं सत्यम् ।
अनन्तं नित्यम् ।
अपारं सर्वगतम् ।
विज्ञानघनः ।
विज्ञानैकरस इति यावत् ।
एतेभ्यः कार्यकारणभावेन व्यवस्थितेभ्यो भूतेभ्यः समुत्थाय साम्येनोत्थाय ।
कार्यकारणसंघातस्य ह्यवच्छेदाद्दुःखित्वशोकित्वादयस्तदवच्छिन्ने चिदात्मनि तद्विपरीते ऽपि प्रतीयन्ते, यथोदकप्रतिबिम्बिते चन्द्रमसि तोयगताः कम्पादयः ।
तदिदं साम्येनोत्थानम् ।
यदा त्वागमाचार्योपदेशपूर्वकमनननिदिध्यासनप्रकर्षपर्यन्तजो ऽस्य ब्रह्मस्वरूपसाक्षात्कार उपावर्तते तदा निर्मृष्टनिखिलसवासनाविद्यामलस्य कार्यकारणसंघातभूतस्य विनाशे तान्येव भूतानि नश्यन्त्यनु तदुपाधिश्चिदात्मनः खिल्यभावो विनश्यति ।
ततो न प्रेत्य कार्यकारणभूतनिवृत्तौ रूपगन्धादिसंज्ञास्तीति ।
न प्रेत्य संज्ञास्तीति संज्ञामात्रनिषेधादात्मा नास्तीति मन्यमाना सा मैत्रेयी होवाच, अत्रैव मा भगवानमूमुहन्मोहितवान् न प्रेत्य संज्ञास्तीति ।
स होवाच याज्ञवल्क्यः स्वाभिप्रायं, द्वैते हि रूपादिविशेषसंज्ञानिबन्धनो दुःखित्वाद्यभिमानः ।
आनन्दज्ञानैकरसब्रह्माद्वयानुभवे तु तत् केन कं पश्येत्, ब्रह्म वा केन विजानीयात् ।
नहि तदास्य कर्भावो ऽस्ति स्वप्रकाशत्वात् ।
एतदुक्तं भवति-न संज्ञामात्रं मया व्यासेधि, किन्तु विशेषसंज्ञेति ।
तदेवममृतत्वफलेनोपक्रमात्, मध्ये चात्मविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय तदुपपादनात्, उपसंहारे च महद्भूतमनन्तमित्यादिना च ब्रह्मरूपाभिधानात्, द्वैतनिन्दया चाद्वैतगुणकीर्तनाद्ब्रह्मैव मैत्रेयीब्राह्मणे प्रतिपाद्यं न जीवात्मेति नास्ति पूर्वपक्ष इत्यनारभ्यमेवेदमधिकरणम् ।
अत्रोच्यते-भोक्तृत्वज्ञातृताजीवरूपोत्थानसमाधये मैत्रेयीब्राह्मणे पूर्वपक्षेणोपक्रमः कृतः ।
पतिजायादिभोग्यसंबन्धो नाभोक्तुर्ब्रह्मणो युज्यते, नापिज्ञानकर्तृत्वमकर्तुः साक्षाच्च महतो भूतस्य विज्ञानात्मभावेन समुत्तानाभिधानं विज्ञानात्मन एव द्रष्टव्यत्वमाह ।
अन्यथा ब्रह्मणो द्रष्टव्यत्वपरे ऽस्मिन् ब्राह्मणे तस्य विज्ञानात्मत्वेन समुत्थानाभिधानमनुपयुक्तं स्यात्तस्य तु द्रष्टव्यमुपयुज्यत इत्युपक्रममात्रं पूर्वपक्षः कृतः ।
भोक्त्रर्थत्वाच्च भोग्यजातस्येति तदुपोद्बलमात्रम् ।
सिद्धान्तस्तु निगदव्याख्यातेन भाष्येणोक्तः ॥19॥
स्तर्त् ब्स्व्भ्_1,4.6.20
तदेवं पौर्वापर्यालोचनया मैत्रेयीब्राह्मणस्य ब्रह्मदर्शनपरत्वे स्थिते भोक्त्रा जीवात्मनोपक्रममाचार्यदेशीयमतेन तावत्समाधत्ते सूत्रकारः-
प्रतिज्ञासिद्धेर् लिङ्गम् आश्मरथ्यः

1.4.21

प्रतिज्ञासिद्धेर्लिङ्गमाश्मरध्यः ।
यथा हि वह्नेर्विकारा व्युच्चरन्तो विस्फुलिङ्गा न वह्नेरत्यन्तं भिद्यन्ते, तद्रूपनिरूपणत्वात्, नापि ततो ऽत्यन्तमभिन्नाः, वह्नेरिव परस्परव्यावृत्त्यभावप्रसङ्गात्, तथा जीवात्मनो ऽपि ब्रह्मविकार न ब्रह्मणो ऽत्यन्तं भिद्यन्ते, चिद्रूपत्वाभावप्रसङ्गात् ।
नाप्यत्यन्तं न भिद्यन्ते, परस्परं व्यावृत्त्यभावप्रसङ्गात्, सर्वज्ञं प्रत्युपदेशवैयर्थ्याच्च ।
तस्मात्कथञ्चिद्भेदो जीवात्मनामभेदश्च ।
तत्र तद्विज्ञानेन सर्वविज्ञानप्रतिज्ञासिद्धये विज्ञानात्मपरमात्मनोरभेदमुपादाय परमात्मनि दर्शयितव्ये विज्ञानात्मनोपक्रम इत्याश्मरध्य आचार्यो मेने ॥20॥
स्तर्त् ब्स्व्भ्_1,4.6.21
आचार्यदेशीयान्तरमतेन समाधत्ते-
उत्क्रमिष्यत एवं भावाद् इत्य् औडुलोमिः

1.4.22

उत्क्रमिष्यत एवंभावादित्यौडुलोमिः ।
जीवो हि परमात्मनो ऽत्यन्तं भिन्न एव सन् देहेन्द्रियमनोबुद्ध्युपधानसंपर्कात्सर्वदा कलुषः, तस्य च ज्ञानध्यानादिसाधनानुष्ठानात्संप्रसन्नस्य देहेन्द्रियादिसंघातादुत्क्रमिष्यतः परमात्मनैक्योपपत्तेरिदमभेदेनोपक्रमणम् ।
एतदुक्तं भवति-भविष्यन्तमभेदमुपादाय भेदकाले ऽप्यभेद उक्तः ।
यथाहुः पाञ्चरात्रिकाः-ऽआमुक्तेर्भेद एव स्याज्जीवस्य च परस्य च ।
मुक्तस्य तु न भेदो ऽस्ति भेदहेतोरभावतः ॥
ऽइति ।
अत्रैव श्रुतिमुपन्यस्यति- श्रुतिश्चैवमिति ।
पूर्वं देहेन्द्रियाद्युपाधिकृतं कलुषत्वमात्मन उक्तम् ।
संप्रति स्वाभाविकमेव जीवस्य नामरूपप्रपञ्चाश्रयत्वलक्षणं कालुष्यं पार्थिवानामणूनामिव श्यामत्वं केवलं पाकेनेव ।
ज्ञानध्यानादिना तदपनीय जीवः परात्परतरं पुरुषमुपैतीत्याह- क्वचिच्च जीवाक्षयमपीति ।
नदीनिदर्शनम् ऽयथा सोम्येमा नद्यःऽइति ॥21॥
स्तर्त् ब्स्व्भ्_1,4.6.22
तदेवमाचार्यदेशीयमतद्वयमुक्त्वात्रापरितुष्यन्नाचार्यमतमाह सूत्रकारः-
अवस्थितेर् इति काशकृत्स्नः

1.4.23

अविस्थितेरिति काशकृत्स्नः ।
एतद्व्याचष्टे- अस्यैव परमात्मन इति ।
न जीव आत्मनो ऽन्यः ।
नापि तद्विकारः किन्त्वात्मैवाविद्योपाधानकल्पितावच्छेदः ।
आकाश इव घटमणिकादिकल्पितावच्छेदो घटाकाशो मणिकाकाशो न तु परमाकाशादन्यस्तद्विकारो वा ।
ततश्च जीवात्मनोपक्रमः परामात्मनैवोपक्रमस्तस्य ततो ऽभेदात् ।
स्थूलदर्शिलोकप्रतीतिसौकर्यायौपाधिकेनात्मरूपेणोपक्रमः कृतः ।
अत्रैव श्रुतिं प्रमाणयति- तथाचेति ।
अथ विकारः परमात्मनो जीवः कस्मान्न भवत्याकाशादिवदित्याह- नच तेजःप्रभृतीनामिति ।
नहि यथा तेजःप्रभृतीनामात्मविकारत्वं श्रूयते एवं जीवस्येति ।
आचार्यत्रयमतं विभजते- काशकृत्स्नस्याचार्यस्येति ।
आत्यन्तिके सत्यभेदे कार्यकारणभावाभावादनात्यन्तिको ऽभेद आस्थेयः, तथाच कथञ्चिद्भेदो ऽपीति तमास्थाय कार्यकारणभाव इति मतत्रयमुक्त्वा काशकृत्स्नीयमतं साधुत्वेन निर्धारयति- तत्र तेषु मध्ये ।
काशकृत्स्नीयं मतमिति ।
आत्यन्तिके हि जीवपरमात्मनोरभेदे तात्त्विके ऽनाद्यविद्योपाधिकल्पितो भेदस्तत्त्वमसीति जीवात्मनो ब्रह्मभावतत्त्वोपदेशश्रवणमनननिदिध्यासनप्रकर्षपर्यन्तजन्म्ःअना साक्षात्कारेण विद्यया शक्यः समूलकाषं कषितुं, रज्ज्वामहिविभ्रम इव रज्जुतत्त्वसाक्षात्कारेण, राजपुत्रस्येव च म्लेच्छकुले वर्धमानस्यात्मनि समारोपितो म्लेच्छभावो राजपुत्रो ऽसीति आप्तोपदेशेन ।
न तु मृद्विकारः शरावादिः शतशो ऽपि मृन्मृदिति चिन्त्यमानस्तज्जन्मना मृद्भावसाक्षात्कारेण शक्यो निवर्तयितुं, तत्कस्य हेतोः, तस्यापि मृदो भिन्नाभिन्नस्य तात्त्विकत्वात्, वस्तुतस्तु ज्ञानेनोच्छेत्तुमशक्यत्वात्, सो ऽयं प्रतिपादयिषितार्थानुसारः ।
अपि च जीवस्यात्मविकारत्वे तस्य ज्ञानध्यानादिसाधनानुष्ठानात् स्वप्रकृतावप्यये सति नामृतत्वस्याशास्तीत्यपुरुषार्थत्वममृतत्वप्राप्तिश्रुतिविरोधश्च ।
काशकृत्स्नमते त्वेतदुभयं नास्तीत्याह- एवं च सतीति ।
ननु यदि जीवो न विकारः किन्तु ब्रह्मैव कथं तर्हि तस्मिन्नामरूपाश्रयत्वश्रुतिः, कथञ्च ऽयथाग्नेः श्रुद्रा विस्फुलिङ्गाऽइति ब्रह्मविकारश्रुतिरित्याशङ्कामुपसंहारव्याजेन निराकरोति- अतश्च स्वाश्रयस्येति ।
यतः प्रतिपिपादयिषितार्थानुसारश्चामृतत्वप्राप्तिश्च विकारपक्षे न संभवतः, अतश्चेति योजना ।
द्वितीयपूर्वपक्षबीजमनस्यैव त्रिसूत्र्यापाकरोति- यदप्युक्तमिति ।
शेषमतिरोहितार्थं व्याख्यातार्थं च ।
तृतीयपूर्वपक्षबीजनिरासे काशकृत्स्नीयेनैवेत्यवधारणं तन्मताश्रयणेनैव तस्य शक्यनिरासत्वात् ।
ऐकान्तिके ह्याद्वैते आत्मनो ऽन्यकर्मकरणे ऽकेन कं पश्येत्ऽइति आत्मनश्च कर्मत्वं ऽविज्ञातारमरे केन विजानीयात्ऽइति शक्यं निषेद्धुम् ।
भेदाभेदपक्षे वैकान्तिके वा भेदे सर्वमेतदद्वैताश्रयमशक्यमित्यवधारणस्यार्थः ।
न केवलं काशकृत्स्नीयदर्शनाश्रयणेन भूतपूर्वगत्या विज्ञातृत्वमपि तु श्रुतिपौर्वापर्यपर्यालोचनयाप्येवमेवेत्याह- अपि च यत्र हीति ।
कस्मात् पुनः काशकृत्स्नस्य मतमास्थीयते नेतरेषामाचार्याणामित्यत आह- दर्शितं तु पुरस्तादिति ।
काशकृत्स्नीयस्य मतस्य श्रुतिप्रबन्धोपन्यासेन पुनः श्रुतिमत्त्वं स्मृतिमत्त्वं चोपसंहारोपक्रममाह- अतश्चेति ।
क्वचित्पाठ आतश्चेति ।
तस्यावश्यं चेत्यर्थः ।
जननजरामरणभीतयो विक्रियास्तासां सर्वासां ऽमहानजःऽइत्यादिना प्रतिषेधः ।
परिणामपक्षे ऽन्यस्य चान्यभावपक्षे ऐकान्तिकाद्वैतप्रतिपादनपराः ऽएकमेवाद्वितीयम्ऽइत्यादयः, द्वैतदर्शननिन्दापराश्च ऽअन्यो ऽसावन्यो ऽहमस्मिऽइत्यादयः, जन्मजरादिविक्रियाप्रतिषेधपराश्च ऽएष महानजःऽइत्यादयः श्रुतयः उपरुध्येरन् ।
अपिच यदि जीवपरमात्मनोर्भेदाभेदावास्थीयेयातां ततस्तयोर्मिथो विरोधात्समुच्चयाभावादेकस्य बलीयस्त्वे नात्मनि निरपवादं विज्ञानं जायेत, बलीयसैकेन दुर्बलपक्षावलम्बिनो ज्ञानस्य बाधनात् ।
अथ त्वगृह्यमाणविशेषतया न बलाबलावधारणं, ततः संशये सति न सुनिश्चितार्थमात्मनि ज्ञानं भवेत् ।
सुनिश्चितार्थं च ज्ञानं मोक्षोपायः श्रूयते-ऽवेदान्तविज्ञानसुनिश्चितार्थाःऽइति ।
तदेतदाह- अन्यथा मुमुक्षूणामिति ।
ऽएकत्वमनुपश्यतःऽइति श्रुतिर्न पुनरेकत्वानेकत्वे अनुपश्यत इति ।
ननु यदि क्षेत्रज्ञपरमात्मनोरभेदो भाविकः, कथं तर्हि व्यपदेशबुद्धिभेदौ क्षेत्रज्ञः परमात्मेति कथञ्च नित्यशुद्धबुद्धमुक्तस्वभावस्य भगवतः संसारिता ।
अविद्याकृतनामरूपोपाधिवशादिति चेत् ।
कस्येयमविद्या ।
न तावज्जीवस्य, तस्य परमात्मनो व्यतिरेकाभावात् ।
नापि परमात्मनः, तस्य विद्यैकरसस्याविद्याश्रयत्वानुपपत्तेः ।
तदत्र संसारित्वासंसारित्वविद्याविद्यावत्त्वरूपविरुद्धधर्मसंसर्गाद्बुद्धिव्यप्ःअदेशभेदाच्चास्ति जीवेश्वरयोर्भेदो ऽपि भाविक इत्यत आह- स्थिते च परमात्मक्षेत्रज्ञात्मैकत्वेति ।
न तावद्भेदाभेदावेकात्र भाविकौ भवितुमर्हत इति विप्रपञ्चितं प्रथमे पादे ।
द्वैतदर्शननिन्दया चैकान्तिकाद्वैतप्रतिपादनपराः पौर्वापर्यालोचनया सर्वे वेदान्तः प्रतीयन्ते ।
तत्र यथा बिम्बादवदतात्तात्त्विके प्रतिबिम्बानामभेदे ऽपि नीलमणिकृपाणकाचाद्युपधानभेदात्काल्पनिको जीवानां भेदो बुद्धिव्यपदेशभेदौ वर्तयति, इदं बिम्बमवदातमिमानि च प्रतिबिम्बानि नीलोत्पलपलाशश्यामलानि वृत्तदीर्घादिभेदभाञ्जि बहूनीति, एवं परमात्मनः शुद्धस्वभावाज्जीवानमभेद ऐकान्तिके ऽप्यनिर्वचनीयानाद्यविद्योपधानभेदात्काल्पनिको जीवानां भेदो बुद्धिव्यपदेशभेदावयं च परमात्मा शुद्धविज्ञानानन्दस्वभाव इमे च जीवा अविद्याशोकदुःखाद्युपद्रवभाज इति वर्तयति ।
अविद्योपधानं च यद्यपि विद्यास्वभावे परमात्मनि न साक्षादस्ति तथापि तत्प्रतिबिम्बकल्पजीवद्वारेण परस्मिन्नुच्यते ।
न चैवमन्योन्याश्रयो जीवविभागाश्रयाविद्या, अविद्याश्रयश्च जीवविभाग इति, बीजाङ्कुरवदनादित्वात् ।
अत एव कानुद्दिश्यैष ईश्वरो मायामारचयत्यनार्थिकां, उद्देश्यानां सर्गादौ जीवानामभावात्, कथं चात्मानं संसारिणं विविधवेदनाभाजं कुर्यादित्याद्यनुयोगो निरवकाशः ।
न खल्वादिमान् संसारः, नाप्यादिमानविद्याजीवविभागः, येनानुयुज्येतेति ।
अत्र च नामग्रहणेनाविद्यामुपलक्षयति ।
स्यादेतत् ।
यदि न जीवात् ब्रह्म भिद्यते, हन्त जीवः स्फुट इति ब्रह्मापि तथा स्यात्, तथा च ऽनिहितं गुहायाम्ऽइति नोपपद्यत इत्यत आह- नहि सत्यमिति ।
यथाहि बिम्बस्य मणिकृपाणादयो गुहा एवं ब्रह्मणो ऽपि प्रतिजीवं भिन्ना अविद्या गुहा इति ।
यथा प्रतिबिम्बेषु भासमानेषु बिम्बं तदभिन्नमपि गुह्यमेवं जीवेषु भासमानेषु तदभिन्नमपि ब्रह्म गुह्यम् ।
अस्तु तर्हि ब्रह्मणो ऽन्यद्गुह्यमित्यत आह- नच ब्रह्मणो ऽन्य इति ।
ये तु आश्मरथ्यप्रभृतयः निर्बन्धं कुर्वन्ति ते वेदान्तार्थमिति ।
ब्रह्मणः सर्वात्मना भागशो वा परिणामाभ्युपगमे तस्य कार्यत्वादनित्यत्वाच्च तदाश्रितो मोक्षो ऽपि तथा स्यात् ।

यदि त्वेवमपि मोक्षं नित्यङ्कृतकं ब्रूयुस्तत्राह -न्यायेनेति ।
एवं ये नदीसमुद्रनिदर्शनेनामुक्तेर्भेदं मुक्तस्य चाभेदं जीवस्यास्थिषत तेषामपि न्यायेनासंगतिः ।
नो जातु घटः पटो भवति ।
ननूक्तं यथा नदी समुद्रो भवतीति ।
का पुनर्नद्यभिमता आयुष्मतः ।
किं पाथः परमाणव उतैषां संस्थानभेद आहोस्वित्तदारब्धो ऽवयवी ।
तत्र संस्थानभेदस्य वावयविनो वा समुद्रनिवेशे विनाशात् कस्य समुद्रेणैकता ।
नदीपाथः परमाणूनां तु समुद्रपाथः परमाणुभ्यः पूर्ववस्थितेभ्यो भेद एव नाभेदः ।
एवं समुद्रादपि तेषां भेद एव ।
ये तु काशकृत्स्नीयमेव मतमास्थाय जीवं परमात्मनोंऽशमाचख्युस्तेषां कथं ऽनिष्कलं निष्क्रियं शान्तम्ऽइति न श्रुतिविरोधः ।
निष्कलमिति सावयवत्वं व्यासेधि न तु सांशत्वम्, अंशश्च जीवः परमात्मनो नभस इव कर्णनेमिमण्डलावच्छिन्नं नभः शब्दश्रवणयोग्यं, वायोरिव च शरीरावच्छिन्नः पञ्चवृत्तिः प्राण इति चेत् ।
न तावन्नभो नभसोंशः, तस्य तत्त्वात् ।
कर्णनेमिमण्डलावच्छिन्नमंश इति चेत्, हन्त तर्हि प्राप्ताप्राप्तविवेकेन कर्णनेमिमण्डलं वा तत्संयोगो वेत्युक्तं भवति ।
नच कर्णनेमिमण्डलं तस्यांशः, तस्य ततो भेदात् ।
तत्संयोगो नभोधर्मत्वात्तस्यांश इति चेत् ।
न ।
अनुपपत्तेः ।
नभोधर्मत्वे हि तदनवयवं सर्वत्राभिन्नमिति तत्संयोगः सर्वत्रा प्रथेत ।
नह्यस्ति संभवो ऽनवयवमव्याप्यवर्तत इति ।
तस्मात्तत्रास्ति चेद्व्याप्यैव ।
न चेद्व्याप्नोति तत्र नास्त्येव ।
व्याप्यैवास्ति केवलं प्रतिसंबध्यधीननिरूपणतया न सर्वत्र निरूप्यत इति चेत्, न नाम निरूप्यताम् ।
तत्संयुक्तं तु नभः श्रवणयोग्यं सर्वत्रास्तीति सर्वत्र श्रवणप्रसङ्गः ।
नच भेदाभेदयोरन्यतरेणांशः शक्यो निर्वक्तुम् न चोभाभ्यां, विरुद्धयोरेकत्रासमवायादित्युक्तम् ।
तस्मादनिर्वचनीयानाद्यविद्यापरिकल्पित एवांशो नभसो न भाविक इति युक्तम् ।
नच काल्पनिको ज्ञानमात्रायत्तजीवितः कथमविज्ञायमानो ऽस्ति, असंश्चांशः कथं शब्दश्रवणलक्षणाय कार्याय कल्पते, न जातु रज्ज्वामज्ञायमान उरगो भयकम्पादिकार्याय पर्याप्त इति वाच्यम् ।
अज्ञातत्वासिद्धेः कार्यव्यङ्गत्वादस्य ।
कार्योत्पादात्पूर्वमज्ञातं कथं कार्योत्पादाङ्गमिति चेत् ।
न ।
पूर्वपूर्वकार्योत्पादव्यङ्ग्यत्वादसत्यपि ज्ञाने तत्संस्कारानुवृत्तेरनादित्वाच्च कल्पना तत्संस्कारप्रवाहस्य ।
अस्तु वानुपपत्तिरेव कार्यकारणयोर्मायात्मकत्वात् ।
अनुपपत्तिर्हि मायामुपोद्बलयत्यनुपपद्यमानार्थत्वान्यमायायाः ।
अपि च भाविकांशवादिनां मते भाविकांशस्य ज्ञानेनोच्छेत्तुमशक्यत्वान्न ज्ञानध्यानसाधनो मोक्षः स्यात् ।
तदेवमकाशांश इव श्रोत्रमनिर्वचनीयम् ।
एवं जीवो ब्रह्मणोंऽश इति काशकृत्स्नीयं मतमिति सिद्धम् ॥22॥
स्तर्त् ब्स्व्भ्_1,4.7.23
प्रकृतिश् च प्रतिज्ञादृष्टान्तानुपरोधात्

1.4.24

प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ।
स्यादेतत् ।
वेदान्तानां ब्रह्मणि समन्वये दर्शिते समाप्तं समन्वयलक्षणमिति किमपरमवशिष्यते यदर्थमिदमारभ्यत इति शङ्कां निराकर्तुं संगतिं दर्शयन्नवशेषमाह- यथाभ्युदयेति ।
अत्र च लक्षणस्य संगतिमुक्त्वा लक्षणेनास्याधिकरणस्य संगतिरुक्ता ।
एतदुक्तं भवति-सत्यं जगत्कारणे ब्रह्मणि वेदान्तानामुक्तः समन्वयः ।
तत्र कारणभावस्योभयथा दर्शनाज्जगत्कारणत्वं ब्रह्मणः किं निमित्तत्वेनैव, उतोपादानत्वेनापि ।
तत्र यदि प्रथमः पक्षस्तत उपादानकारणानुसारणे सांख्यस्मृतिसिद्धं प्रधानमभ्युपेयम् ।
तथा च ऽजन्माद्यस्य यतःऽइति ब्रह्मलक्षणमसाधु, अतिव्याप्तेः प्रधाने ऽपि गतत्वात् ।
असंभवाद्वा ।
यदि तूत्तरः पक्षस्ततो नातिव्याप्तिर्नाप्यव्याप्तिरिति साधु लक्षणम् ।
सो ऽयमवशेषः ।
तत्र ऽईक्षापूर्वकर्तृत्वं प्रभुत्वमसरूपता ।
निमित्तकारणेष्वेव नोपादानेषु कर्हिचित् ॥
ऽतदिदमाह- तत्र निमित्तकारणमेव तावदिति ।
आगमस्य कारणमात्रे पर्यवसानादनुमानस्य तद्विशेषनियममागमो न प्रतिक्षिपत्यपि त्वनुमन्यत एवेत्याह- पारिशेष्याद्ब्रह्मणो ऽन्यदिति ।
ब्रह्मोपादानत्वस्य प्रसक्तस्य प्रतिषेधे ऽन्यत्राप्रसङ्गात्सांख्यस्मृतिप्रसिद्धमानुमानिकं प्रधानं शिष्यत इति ।
एकविज्ञानेन च सर्वविज्ञानप्रतिज्ञानम् ऽउत तमादेशम्ऽइत्यादिना, ऽयथा सोम्यैकेन मृत्पिण्डेनऽइति च दृष्टान्तः, परमात्मनः प्राधान्यं सूचयतः ।
यथा सोमशर्मणैकेन ज्ञातेन सर्वे कठा ज्ञाता भवन्ति ।
एवं प्राप्त उच्यते -प्रकृतिश्च ।
न केवलं ब्रह्म निमित्तकारणं, कुतः, प्रतिज्ञादृष्टान्तयोरनुपरोधात् ।
निमित्तकारणत्वमात्रे तु तावुपरुध्येयाताम् ।
तथाहिः-ऽन मुख्ये संभवत्यर्थे जघन्या वृत्तिरिष्यते ।
न चानुमानिकं युक्तमागमेनापबाधितम् ॥
सर्वे हि तावद्वेदान्ताः पौर्वापर्येण वीक्षिताः ।
ऐकान्तिकाद्वैतपरा द्वैतमात्रनिषेधतः ॥
ऽतदिहापि प्रतिज्ञादृष्टान्तौ मुख्यार्थावेव युक्तौ न तु ऽयजमानः प्रस्तरःऽइतिवद्गुणकल्पनया नेतव्यौ, तस्यार्थवादस्यातत्परत्वात् ।
प्रतिज्ञादृष्टान्तवाक्ययोस्त्वद्वैतपरत्वादुपादानकारणात्मकत्वाच्चोपादेयस्य कार्यजातस्योपादानज्ञानेन तज्ज्ञानोपपत्तेः ।
निमित्तकारणं तु कार्यादत्यन्तभिन्नमिति न तज्ज्ञाने कार्यज्ञानं भवति ।
अतो ब्रह्मोपादानकारणं जगतः ।
नच ब्रह्मणो ऽन्यन्निमित्तकारणं जगत इत्यपि युक्तम् ।
प्रतिज्ञादृष्टान्तोपरोधादेव ।
नहि तदानीं ब्रह्मणि ज्ञाते सर्वं विज्ञातं भवति ।
जगन्निमित्तकारणस्य ब्रह्मणो ऽन्यस्य सर्वमध्यपातिनस्तज्ज्ञानेनाविज्ञानात् ।
यत इति च पञ्चमी न कारणमात्रे स्मर्यते अपि तु प्रकृतौ, ऽजनिकर्तुः प्रकृतिःऽइति ।
ततो ऽपि प्रकृतित्वमवगच्छामः ।
दुन्दुभिग्रहणं दुन्दुभ्याघातग्रहणं च तद्गतशब्दत्वसामान्योपलक्षणार्थम् ॥23॥
स्तर्त् ब्स्व्भ्_1,4.7.24
अभिध्योपदेशाच् च

1.4.25

अनागतेच्छासंकल्पो ऽभिध्या ।
एतया खलु स्वातन्त्र्यलक्षणेन कर्तृत्वेन निमित्तत्वं दर्शितम् ।
ऽबहु स्याम्ऽइति च स्वविषयतयोपादानत्वमुक्तम् ॥24॥
स्तर्त् ब्स्व्भ्_1,4.7.25
साक्षाच् चोभयाम्नानात्

1.4.26

आकाशादेव ।
ब्रह्मण एवेत्यर्थः ।
साक्षादिति चेति सूत्रावयवमनूद्य तस्यार्थं व्याचष्टे- आकाशादेवेति ।
श्रुतिर्ब्रह्मणो जगदुपादानत्वमवधारयन्ती उपादानान्तराभावं साक्षादेव दर्शयतीति साक्षादिति सूत्रावयवेन दर्शितमिति योजना ॥25॥
स्तर्त् ब्स्व्भ्_1,4.7.26
आत्मकृतेः परिणामात्

1.4.27

आत्मकृतेः परिणामात् ।
प्रकृतिग्रहणमुपलक्षणं, निमित्तमित्यपि द्रष्टव्यं, कर्मत्वेनोपादानत्वात्कर्तृत्वेन च तत्प्रति निमित्तत्वात् ।
कथं पुनरिति ।
सिद्धसाध्ययोरेकत्रासमवायो विरोधादिति ।
परिणामादिति ब्रूम इति ।
पूर्वसिद्धस्याप्यनिर्वचनीयविकारात्मना परिणामो ऽनिर्वचनीयत्वाद्भेदेनाभिन्न इवेति सिद्धस्यापि साध्यत्वमित्यर्थः ।
एकवाक्यत्वेन व्याख्याया परिणामादित्यवच्छिद्य व्याचष्टे- परिणामादिति वेति ।
सच्चत्यच्चेति द्वे ब्रह्मणो रूपे ।
सच्च सामान्यविशेषेणापरोक्षतया निर्वाच्यं, पृथिव्यप्तेजोलक्षणम् ।
त्यच्च परोक्षमत एवानिर्वाच्यमिदन्तया वाय्वाकाशलक्षणं, कथं च तद्ब्रह्मणो रूपं यदि तस्य ब्रह्मोपादानं, तस्मात्परिणामाद्ब्रह्म भूतानां प्रकृतिरिति ॥26॥
स्तर्त् ब्स्व्भ्_1,4.7.27
योनिश् च हि गीयते

1.4.28

पूर्वपक्षिणो ऽनुमानमनुभाष्यागमविरोधेन दूषयति -यत्पुनरिति ।
एतदुक्तं भवति-ईश्वरो जगतो निमित्तकारणमेव ईक्षापूर्वकजगत्कर्तृत्वात्, कुम्भकर्तुकुलालवत् ।
अत्रेश्वरस्यासिद्धेराश्रयासिद्धो हेतुः पक्षश्चाप्रसिद्धविशेषः ।
यथाहुः-ऽनानुपलब्धे न्यायः प्रवर्ततेऽइति ।
आगमात्तत्सिद्धिरिति चेत्, हन्त तर्हि यादृशमीश्वरमागमो गमयति तादृशो ऽभ्युपगन्तव्यः स च निमित्तकारणं चोपादानकारणं चेश्वरमवगमयति ।
विशेष्याश्रयग्राह्यागमविरोधान्नानुमानमुदेतुमर्हतीति कुतस्तेन निमित्तत्वावधारणेत्यर्थः ।
इयं चोपादानपरिणामादिभाषा न विकाराभिप्रायेणापि तु तथा सर्पस्योपादानं रज्जुरेवं ब्रह्म जगदुपादानं द्रष्टव्यम् ।
न खलु नित्यस्य निष्कलस्य ब्रह्मणः सर्वात्मनैकदेशेन वा परिणामः संभवति, नित्यत्वादनेकदेशत्वादित्युक्तम् ।
नच मृदः शरवादयो भिद्यन्ते, न चाभिन्नाः, न वा भिन्नाभिन्नाः किन्त्वनिर्वचनीया एव ।
यथाह श्रुतिः-ऽमृत्तिकेत्येव सत्यम्ऽइति ।
तस्मादद्वैतोपक्रमादुपसंहाराच्च सर्व एव वेदान्ता ऐकान्तिकाद्वैतपराः सन्तः साक्षादेव क्वचिदद्वैतमाहुः, क्वचिद्द्वैतनिषेधेन, क्वचिद्ब्रह्मोपादानत्वेन जगतः ।
एतावतापि तावद्भेदो निषिद्धो भवति, न तूपादानत्वाभिधानमात्रेण विकारग्रह आस्थेयः ।
नहि वाक्यैकदेशस्यार्थो ऽस्तीति ॥27॥
स्तर्त् ब्स्व्भ्_1,4.8.28
एतेन सर्वे व्याख्याता व्याख्याताः

मूल पाठ: Brahmasūtra2 with Vācaspati's Bhāmatī (a subcommentary on Śaṃkara's Śārīrakamīmāṃsābhāṣya) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc