ब्रह्मसूत्र2 (टीका सहित) · अध्याय 9
स्तर्त् ब्स्चोम्_1,2.1.1
सर्वत्र प्रसिद्धोपदेशात् । ब्ब्स्_1,2.1 ।
इदमाम्नायते- ऽसर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत ।
अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिंल्लोके पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीतऽ, ऽमनोमयः प्राणशरीरो भारूपःऽ (छा. 3.14.1,2) इत्यादि ।
तत्र संशयः- किमिह मनोमयत्वादिभिर्धर्मैः शारीर आत्मोपास्यत्वेनोपदिश्यत आहोस्वित्परं ब्रह्मेति ।
किं तावत्प्राप्तम् ।
शारीर इति ।
कुतः, तस्य हि कार्यकरणाधिपतेः प्रसिद्धो मनआदिभिः संबन्धो न परस्य ब्रह्मणः, ऽअप्राणो ह्यमनाः शुभ्रःऽ (मु. 2.1.2) इत्यादिश्रुतिभ्यः ।
ननु ऽसर्वं खल्विदं ब्रह्मऽ इति स्वशब्देनैव ब्रह्मोपात्तं, कथमिह शारीर आत्मोपास्य आशङ्क्यते ।
नैष दोषः ।
नेदं वाक्यं ब्रह्मोपासनाविधिपरं किं तर्हि शमविधिपरम् ।
यत्कारणं ऽसर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीतऽ इत्याह ।
एतदुक्तं भवति- यस्मात्सर्वमिदं विकारजातं ब्रह्मैव, तज्जत्वात्तल्लत्वात्तदनत्वाच्च ।
नच सर्वस्यैकात्मत्वे रागादयः संभवन्ति, तस्माच्छान्त उपासीतेति ।
नच शमविधिपरत्वे सत्यनेन वाक्येन ब्रह्मोपासनं नियन्तुं शक्यते ।
उपासनं तु ऽस क्रतुं कुर्वीतऽ इत्यनेन विधीयते ।
क्रतुः संकल्पो ध्यानमित्यर्थः ।
तस्य च विषयत्वंन श्रूयते- ऽमनोमयः प्राणशरीरःऽ इति जीवलिङ्गम् ।
अतो ब्रूमो जीवविषयमेतदुपासनमिति ।
ऽसर्वकर्मा सर्वकामःऽ इत्याद्यपि श्रूयमाणं पर्यायेण जीवविषयमुपपद्यते ।
ऽएष म आत्मान्तर्हृदये ऽणीयान्व्रीहेर्वा यवाद्वाऽ इति च हृदयायतनत्वमणीयस्त्वं चाराग्रमात्रस्य जीवस्यावकल्पते नापरिच्छिन्नस्य ब्रह्मणः ।
ननु ऽज्यायान्पृथिव्याऽ इत्याद्यपि न परिच्छिन्ने ऽवकल्पत इति ।
अत्र ब्रूमः- न तावदणीयस्त्वं ज्यायस्त्वं चोभयमेकस्मिन्समाश्रयितुं शक्यं, विरोधात् ।
अन्यतराश्रयणे च प्रथमश्रुतत्वादणीयस्त्वं युक्तमाश्रयितुं, ज्यायस्त्वं तु ब्रह्मभावापेक्षया भविष्यतीति ।
निश्चिते च जीवविषयत्वे यदन्ते ब्रह्मसंकीर्तनं ऽएतद्ब्रह्मऽ (छा. 3.14.4) इति, तदपि प्रकृतपरामर्शार्थत्वाज्जीवविषयमेव ।
तस्मान्मनोमयत्वादिभिर्धर्मैरुपास्यम् ।
कुतः, सर्वत्र प्रसिद्धोपदेशात् ।
यत्सर्वेषु वेदान्तेषु प्रसिद्धं ब्रह्मशब्दस्यालम्बनं जगत्कारणंस इह च ऽसर्वं खल्विदं ब्रह्मऽ इति वाक्योपक्रमे श्रुते, तदेव मनोमयत्वादिधर्मैर्विशिष्टमुपदिश्यत इति युक्तम् ।
एवञ्च प्रकृतहानाप्रकृतप्रक्रिये न भविष्यतः ।
ननु वाक्योपक्रमे शमविधिविवक्षया ब्रह्म निर्दिष्टं न स्वविवक्षयेत्युक्तम् ।
अत्रोच्यते- यद्यपि शमविधिविवक्षया ब्रह्म निर्दिष्टं तथापि मनोमयत्वादिषूपदिश्यमानेषु तदेव ब्रह्म संनिहितं भवति ।
जीस्तु न संनिहितो नच स्वशब्देनोपात्त इति वैषम्यम्
मूल पाठ: Brahmasūtra2 with Śaṃkara's Śārīrakamīmāṃsābhāṣya and Govindānanda's Ratnaprabhāvyākhyā (subcommentary) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0