भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मसूत्र2 (टीका सहित) · अध्याय 66

66.2

वाच्युक्तं न्यायं चक्षुरादिष्वतिदिशति- एत एवेति ।
उपशान्तदेहौष्ण्यस्तस्मादुत्क्रमणादूर्ध्वं पुनर्भवं प्रतिपद्यत इति श्रुत्यर्थः ।
इन्द्रियशब्दस्य श्रुतिस्थस्य वृत्तिपरतयोपपत्तेः ।
सर्वेन्द्रियवृत्तिलयश्चेदिष्टस्तर्हि वाङ्मनसीति पृथक्सूत्रं किमर्थमित्यत आह- सर्वेषां करणानामिति

66.3

एन्द् ब्स्चोम्_4,2.1.2
स्तर्त् ब्स्चोम्_4,2.2.3
मनोधिकरणम् । सू. 3
तन्मनः प्राण उत्तरात् । ब्ब्स्_4,2.3 ।
समधिगतमेतत् ऽवाङ्मनसि संपद्यतेऽ (छा. 6.8.6) इति अत्र वृत्तिसंपत्तिविवक्ष इति ।
अथ यत् उत्तरवाक्यम् ऽमनः प्राणेऽ (छा. 6.8.6) इति किम् अत्र अपि वृत्तिसंपत्तिः एव विवक्ष्यत उत वृत्तिमत् संपत्तिः इति विचिकित्सायां वृत्तिमत् संपत्तिः एव अत्र इति प्राप्तम् ।
श्रुति अनुग्रहात् तत् प्रकृतिकत्व उपपत्तेः च ।
तथा हि - ऽअन्नमयं हि सोम्य मन आपोमयःप्राणःऽ (छा. 6.5.4) इति अन्नयोनि मन आत्मनन्ति अप् योनिं च प्राणम् ।
ऽआपश्चान्नमसृजन्तऽ इति श्रुतिः ।
अत- च यत् मनः प्राणे प्रकृतिविकार अभेदात् इति ।
एवं प्राप्ते ब्रूमः - तत् अपि अगृहीत बाह्य इन्द्रियवृत्ति मनो वृत्तिद्वारेण एव प्राणे प्रलीयते इति उत्तरात् वाक्यात् अवगन्तव्यम् ।
तथा हि सुषुप्सो- मुमूर्षोः च प्राणवृत्तौ परिस्पन्द आत्मिकायाम् अवस्थितायां मनोवृत्तीनाम् उपशमो दृश्यते ।
न च मनसः स्वरूप अप्ययः प्राणे संभवति ।
अतत् प्रकृतित्वात् ।
ननु दर्शितं मनसः प्राणप्रकृतित्वम् ।
न एतत् सारम् ।
न हि ईदृशेन प्राणाडिकेन तत् प्रकृतित्वेन मनः प्राणे संपत्तुम् अर्हति ।
एवम् अपि हि अन्ने मनः संपद्येत अप्सु च अन्नम् अप्सु एव च प्राणः ।
न हि एतस्मिन् अपि पक्षे प्राणभावपरिणताभ्यः अद्भ्यो मनो जायत इति किञ्चन प्रमाणम् अस्ति तस्मात् न मनसः प्राणे स्वरूप अप्ययः ।
वृत्ति अप्यये अपि तु शब्दः अवकल्पते वृत्तिवत्तिमतोः अभेद उपचारात् इति दर्शितम्

66.3

तन्मनः प्राण उत्तरात् ।
वाक्यक्रमादर्थक्रमाच्चाधिकरणक्रमः ।
श्रुतिन्यायाभ्यां संशयः पूर्वं प्रबलन्यायविरोधाद्वागिति श्रुतेर्बाधः ।
कृतः इह त्वबात्मकप्राणस्य अन्नात्मकमनःप्रकृतित्वेन प्रकृतौ विकारलय इति न्यायानुग्रहान्न मनःश्रुतिर्बाध्येति पूर्वपक्षफलं पूर्ववत्, सिद्धान्तस्त्वबन्नयोः प्रकृतिविकृतिभावे ऽपि न तद्विकारयोः प्राणमनसोस्तद्भावो हिमघटयोरपि तद्भावप्रसङ्गादतो न्यायविरोधात्पूर्ववच्छ्रुतिर्बाध्येति विवेकः ।
आगृहीता बाह्येन्द्रियवृत्तयो येन तत्तथा लीनेन्द्रियवृत्तिकं मनो ऽपि वृत्तिलयेनैव प्राणे लीयत इत्यर्थः ।
एवमपीति ।
प्राणस्याब्विकारत्वपक्षे ऽपीत्यर्थः ।
तस्मादिति प्राणस्य साक्षान्मनःप्रकृतिभावान्मनःशब्दो वृत्तिं लक्षयतीत्यर्थः

66.4

एन्द् ब्स्चोम्_4,2.2.3
स्तर्त् ब्स्चोम्_4,2.3.4
3 अध्यक्ष अधिकरणम् । सू. 4-6
सो ऽध्यक्षे तदुपगमादिभ्यः । ब्ब्स्_4,2.4 ।
स्थितम् एतत् यस्य यतो न उत्पत्तिः तस्य तस्मिन् वृत्तिप्रलयो न स्वरूपप्रलय इति ।
इदम् इदानीं प्राणः तेजसि इति अत्र चिन्त्यते -
किं यथाश्रुति प्राणस्य तेजसि एव वृत्ति उपसंहारः किंवा देह इन्द्रियपञ्जर अध्यक्षे जीव इति ।
तत्र श्रुतेः अनतिशङ्क्यत्वात् प्राणस्य तेजसि एव संपत्तिः स्यात् अश्रुतकल्पनाया अन्याय्यत्वात् इति ।
एवं प्राप्ते प्रतिपद्यते सः अध्यक्ष इति ।
स प्रकृतः प्राणः अध्यक्षे अविद्याकर्मपूर्वप्रज्ञ उपाधिके विज्ञान आत्मनि अवतिष्ठते ।
तत् प्रधाना प्राणवृत्तिः भवति इति अर्थः ।
कुतः - तत् उपगमादिभ्यः ।
एवम् एव इमम् आत्मानम् अन्तकाले सर्वे प्राणा अभिसामयन्ति यत्र एतत् ऊर्ध्व उच्छ्वासी भवति इति हि श्रुत्यन्तरम् अध्यक्ष उपगामिनः सर्वान् प्राणान् अविशेषेण दर्शयति ।
विशेषेण च ऽतमुत्क्रामन्तं प्राणो ऽनूत्क्रामतिऽ (बृ. 4.4.2) इति पञ्चवृत्तेः प्राणस्य अध्यक्ष अनुगामितां दर्शयति तत् अनुवृत्तितां च इतरेषाम् ।
ऽप्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामतिऽ (बृ. 4.4.2) इति ।
ऽसविज्ञानो भवतिऽ इति च अध्यक्षस्य अन्तर्विज्ञानवत्त्व प्रदर्शनेन तस्मिन् अपीतकरणग्रामस्य प्राणस्य अवस्थानं गमयति ।
ननु प्राणः तेजसि इति श्रूयते कथं प्राणः अध्यक्ष इति अधिकावापः क्रियते ।
न एष दोषः ।
अध्यक्षप्रधानत्वात् उत्क्रमणादिव्यवहारस्य श्रुत्यन्तरगतस्य अपि च विशेषस्य अपेक्षणीयत्वात्

66.4

सो ऽध्यक्षे तदुपगमादिभ्यः ।
उक्तन्यायसिद्धं प्राणस्यापि वृत्तिलयमुपजीव्य ऽप्राणस्तेजसिऽइति श्रुतेरूपगमादिश्रुतेश्च संशयमुक्त्वा जीवे लयं विनापि उपगमादिसंभव इति पूर्वपक्षयति- स्थितमित्यादिना ।
अत्र तेजःशब्दस्य मुख्यत्वं, सिद्धान्ते तु भूतोपहित जीवलक्षकत्वमिति मत्वा सूत्रं योजयति- स प्रकृत इत्यादिना ।
अज्ञानकर्मवासनोपाधिक इत्यर्थः ।
तं जीवं प्रति प्राणानामुपगमानुगमनावस्थानश्रुतिभ्य इति हेत्वर्थः ।
यथा यात्रेच्छावन्तं राजानं भृत्या उपगच्छन्त्येवमेव परलोकं जिगमिषुं जीवं सर्वे प्राणा अभिमुख्येनायान्तीत्युपगमः श्रुतः ।
तमुत्क्रामन्तमित्यनुगमनं श्रुतम् ।
जीवे प्राणावस्थानश्रुतिमाह- सविज्ञान इति ।
जीवस्य प्राप्तव्यफलावगमाय हि विज्ञानसाहित्यश्रुत्याः मुख्यप्राणसहितकरणानां जीवे स्थितिर्भातीत्यर्थः

66.5

एन्द् ब्स्चोम्_4,2.3.4
स्तर्त् ब्स्चोम्_4,2.3.5
कथं तर्हि प्राणः तेजसि इति श्रुतिः इति अत आह -
भूतेषु तच्छ्रुतेः । ब्ब्स्_4,2.5 ।
स प्राणसंपृक्तः अध्यक्षः तेजःसहचरितेषु भूतेषु देहबीजभूतेषु सूक्ष्मेषु अवतिष्ठत इति अवगन्तव्यम् ।
प्राणः तेजसि इति श्रुतेः ।
ननु च इयं श्रुतिः प्राणस्य तेजसि स्थितिं दर्शयति न प्राणसंपृक्तस्य अध्यक्षस्य ।
न एष दोषः ।
सः अध्यक्ष इति अध्यक्षस्य अपि अन्तराले अपि उपसंख्यातत्वात् ।
यः अपि हि स्रुघ्नान्मथुरां गत्वा मथुरायाः पाटलिपुत्रं व्रजति सः अपि स्रुघ्नात्पाटलिपुत्रं याति इति शक्यते वदितुम् ।
तस्मात् प्राणः तेजसि इति प्राणसंपृक्तस्य अध्यक्षस्य एव एतत् तेजः सहचरितेषु भूतेषु अवस्थानम्

66.6

यद्यपि प्राणस्य तेजस्यव्यवधानेन लयः श्रुतस्तथाप्युभयश्रुत्यनुग्रहाय प्राणो जीवे लीयते, जीवद्वारा च तदुपाधिषु तेजआदिभूतेष्विति श्रुत्यर्थस्फुटीकरणार्थं सूत्रं गृह्णाति- कथं तर्हीति ।
नच लयं विनापि जीवं प्रत्यिपगमादिसंभवात्तेजः श्रुतिर्मुख्यास्त्विति वाच्यं, जीवं प्रत्यागत्य प्राणस्य निर्व्यापारत्वेन स्थितेरेवात्र लयत्वादिति भावः ।
भूतेषु जीवस्थितिः किं बलाद्व्याख्यायत इत्याशङ्क्य ऽसो ऽध्यक्षेऽइति सूत्रोदाहृतश्रुतिबलादित्याह- नन्वित्यादिना ।
प्राणस्य जीवद्वारा भूतप्राप्तौ दृष्टान्तमाह- यो ऽपि हीति ॥
एन्द् ब्स्चोम्_4,2.3.5
स्तर्त् ब्स्चोम्_4,2.3.6
कथं तेजःसहचरितेषु भूतेषु इति उच्यते यावत् एकमेव श्रूयते प्राणः तेजसि इति ।
अत आह -
नैकस्मिन् दर्शयतो हि । ब्ब्स्_4,2.6 ।
न एकस्मिन् एव तेजसि शरीरान्तरप्रेप्सावेलायां जीवः अवतिष्ठते कार्यस्य शरीरस्य अनेकात्मकत्वदर्शनात् ।
दर्शयतः च एतम् अर्थं प्रश्नप्रतिवचने ऽआपः पुरुषवचसःऽ (छा. 5.3.3) इति ।
तत् व्याख्यातम् ऽत्र्यात्मकत्वात्तु भूयस्त्वात्ऽ (ब्र.सू. 3.1.2) इति अत्र ।
श्रुतिस्मृती च एतमर्थं दर्शयतः ।
श्रुतिः ऽपृथ्वीमय आपोमयो वायुमय आकाशमयस्तोजोमयःऽ इत्याद्या ।
स्मृतिः अपि ऽअण्व्यो मात्राविनाशिन्यो दशार्धानां तु याःस्मृताः ।
ताभिः सार्धमिदं सर्वं संभवत्यनुपूर्वशःऽ इत्याद्या ।
ननु च उपसंहृतेषु वाक् आदिषु करणेषु शरीरान्तरप्रेप्सावेलायां ऽक्वायं तदा पुरुषो भवतिऽ (बृ. 3.2.13) इति उपक्रम्य श्रुत्यन्तरं कर्माश्रयतां निरूपयति - ऽतौ ह यदूचतुः कर्म हैव तदूचतुरथ ह यत्प्रशशंसतुः कर्म हैव तत्प्रशशंसतुःऽ (बृ. 3.2.13) इति ।
अत्र उच्यते - तत्र कर्मप्रयुक्तस्य ग्रह अतिग्रहसंज्ञकस्थ इन्द्रियविषयात्मकस्य बन्धनस्य प्रवृत्तिः इति कर्माश्रयता उक्ता ।
इह पुनः भूत उपादानात् देहान्तर उत्पत्तिः इति भूताश्रयत्वम् उक्तम् ।
प्रशंसाशब्दात् अपि तत्र प्राधान्यमात्रं कर्मणः प्रदर्शितं न तु आश्रयान्तरं निवारितम् ।
तस्मात् अविरोधः

66.6

fन्: दशार्धानां पञ्चभूतानां , अण्व्यः सूक्ष्माः , मीयन्त इति मात्राः ।
स्थूलदेहारम्भाय पञ्चीकृतभूतान्यावश्यकानीति रंहत्यधिकरणे व्याख्यातम् ।
अण्व्यः सूक्ष्माः, मीयन्त इति मात्राः परिच्छिन्नाः, प्राङ्मोक्षादविनाशिन्यः, दशार्धानां पञ्चानां भूतानां सूक्ष्मभागा इति यावत् ।
जीवस्य भूताश्रयत्वं कर्माश्रयत्वश्रुतिविरुद्धमित्याशङ्क्य कर्म निमित्तत्वेनाश्रयः, भूतानि तु देहोपादानत्वेनेत्युभयमविरुद्धमित्याह- ननु चेत्यादिना ।
तौ याज्ञवल्क्यार्तभागौ यज्जीवाधारमूचतुस्तत्कर्मेति श्रुतेर्वचनम्

66.7

एन्द् ब्स्चोम्_4,2.3.6
स्तर्त् ब्स्चोम्_4,2.4.7
4 आसृत्युपक्रम अधिकरणम् । सू. 7
समाना चासृत्युपक्रमाद् अमृतत्वं चानुपोष्य । ब्ब्स्_4,2.7 ।
सा इयम् उत्क्रान्तिः किं विद्वत् अविदुषोः समाना किंवा विशेषवति इति विशयानानां विशेषवति इति तावत् प्राप्तम् ।
भूताश्रयविशिष्टा हि एषा ।
पुनः भवाय च भूतानि आश्रीयन्ते ।
न च विदुषः पुनर्भवः संभवति ।
ऽअमृतत्वं हि विद्वानश्नुतेऽ इति स्थितिः ।
तस्मत् अविदुष एव एष उत्क्रान्तिः ।
ननु विद्याप्रकरणे समाम्नानात् विदुष एव एषा भवेत् ।
न ।
स्वापादिवत् यथाप्राप्त अनुकीर्तनात् ।
तथा हि ऽयत्रैतत्पुरुषः स्वपिति नामऽ ऽअशिशिषति नामऽ ऽपिपासति नामऽ (छा. 6.8.3,5) इति च सर्वप्राणिसाधारणा एव स्वापादयः अनुकीर्त्यन्ते विद्याप्रकरणे अपि प्रतिपादयिषितवस्तुप्रतिपादन अनुगुण्येन न तु विदुषो विशेषवन्तो विधित्स्यन्ते ।
एवम् इयम् अपि उत्क्रान्तिः महाजनगत एव अनुकीर्त्यते यस्यां परस्यां देवतायां पुरुषस्य प्रयतः तेजः संपद्यते स आत्मा तत्त्वमसि इति एतत् प्रतिपादयितुम् ।
प्रतिषिद्धा च एषा विदुषः ऽन तस्य प्राणा उत्क्रामन्तिऽ (बृ. 4.4.6) इति ।
तस्मात् अविदुष एव एष इति ।
एवं प्राप्ते ब्रूमः - समाना च एष उत्क्रान्तिः वाक् मनसि इत्याद्या विद्वत् अविदुषोः आसृति उपक्रमात् भवितुम् अर्हति ।
अविशेषश्रवणात् ।
अविरुद्धान् देहबीजभूतानि भूतसूक्ष्माणि आश्रित्य कर्मप्रयुक्तो देहग्रहणम् अनुभवितुं संसरति ।
विद्वान् तु ज्ञानप्रकाशितं मोक्षनाडीद्वारम् आश्रयते ।
तत् एतत् आसृति उपक्रमात् इति उक्तम् ।
ननु अमृतत्वं हि विदुषा प्राप्तव्यं न च तत् देशान्तर आयत्तं तत्र कृतो भूत आश्रयत्वं सृति उपक्रमो वा इति ।
अत्र उच्यते - अनुपोष्य च इदम्, अदग्ध्वा अत्यन्तम् अविद्यादीन् क्लेशान् अपरविद्यासामर्थ्यात् आपेक्षिकम् अमृतत्वं प्रेप्सते संभवति तत्र सृति उपक्रमो भूत आश्रयत्वं च ।
ने हि निराश्रयाणां प्राणानां गतिः उपपद्यते ।
तस्मात् अदोषः

66.7

एवं बाह्येन्द्रियाणां मनसि प्रथमं वृत्तिलयलाभात्ततो मनोवृत्तेः प्राणे लयः प्राणवृत्तेर्भूतोपहितजीवे लय इत्युत्क्रान्तिव्यवस्थोक्ता ।
साच सर्वप्राणिषु तुल्येत्याह- समाना चानुपोष्य ।
ऽपुरुषस्य प्रयतो वाङ्मनसिऽइत्यविशेषश्रुतेः ऽविद्ययामृतमश्नुतेऽइति श्रुतेश्च संशयमाह- सेयमिति ।
विशयानानां संदिहानानामित्यर्थः ।
पूर्वपक्षे सगुणब्रह्मविदसंबन्धित्वमुत्क्रान्तेर्विशेषः साध्यते ।
ततो ऽनूत्क्रान्त उपासको मुक्तिमश्नुत इति फलं, सिद्धान्ते तूत्क्रान्तो ब्रह्मलोकभागीति फलभेदः ।
पूर्वपक्षमाक्षिप्य समाधत्ते- ननु विद्येत्यादिना ।
विद्ययामृतमिति श्रुतिनिर्गुणविद्यावत्परा ।
न तस्य प्राणा उत्क्रामन्तीति प्रतिषेधो ऽपि तद्विषयः ।
अतः सगुणविदो ऽप्यज्ञस्यैवोत्क्रान्तिरिति सिद्धान्तयति- एवमिति ।
सृतिर्मार्गस्तस्योपक्रमो ऽर्चिःप्राप्तिस्ततः प्राक्तना उत्क्रान्तिस्तुल्या, तत उपासको मूर्धन्यनाडीद्वारार्चिरादिमार्गं प्राप्नोति नान्य इति विशेषः ।
यत्तु दहरोपासकस्यामृतत्वं श्रुतं ऽतयोर्ध्वमायन्नमृतत्वमेतिऽइति तदापेक्षिकमेव न मुख्यं ऽयं कामं कामयते सो ऽस्य संकल्पादेव समुत्तिष्ठतिऽइति भोगश्रवणादित्याह- अनुपोष्य चेदमिति ।
उष दाह इति धातोरिदं रूपम्

66.8

एन्द् ब्स्चोम्_4,2.4.7
स्तर्त् ब्स्चोम्_4,2.5.8
5 संसारव्यपदेश अधिकरणम् ॥ सू. 8-11
तदापीतेः संसारव्यपदेशात् । ब्ब्स्_4,2.8 ।
ऽतेजः परस्यां देवतायाम्ऽ (छा. 6.8.6) इति अत्र प्रकरणसामर्थ्यात् तत् यथाप्रकृतं तेजः साध्यक्षं सप्राणं सकरणग्रामं भूतान्तरसहितं प्रयतः पुंसः परस्यां देवतायां संपद्यत इति एतत् उक्तं भवति ।
कीदृशी पुनः इयं संपत्तिः स्यात् इति चिन्त्यते ।
तत्र आत्यन्तिक एव तावत् स्वरूपप्रविलय इति प्राप्तम् ।
तत् प्रकृतित्व उपपत्तेः ।
सर्वस्य हि जनिमतो वस्तुजातस्य प्रकृतिः परा देवता इति प्रतिष्ठापितम् ।
तस्मात् आत्यन्तिकीयम् अविभागापत्तिः इति ।
एवं प्राप्ते ब्रूमः - तत् तेज आदि भूतसूक्ष्मं श्रोत्रादिकरणाश्रयभूतमापीतेरा संसारमोक्षात् सम्यक् ज्ञाननिमित्तात् अवतिष्ठते ।
ऽयोनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः ।
स्थाणुमन्ये ऽनुसंयन्ति यथाकर्मयथाश्रुतम्ऽ (क. 5.7) इत्यादि संसारव्यपदेशात् ।
अन्यथा हि सर्वः प्रायणसमय एव उपाधिप्रत्यस्तमयात् अत्यन्तं ब्रह्म संपद्येत ।
तत्र विधिशास्त्रम् अनर्थकं स्यात् विद्याशास्त्रं च ।
मिथ्याज्ञाननिमित्तः च बन्धो न सम्यक् ज्ञानात् ऋते विस्रंसितुम् अर्हति ।
तस्मात् तत् प्रकृतित्वे अपि सुषुप्तप्रलयवत् बीजभाव अवशेष एव एषा संत्सपत्तिः इति

66.8

तदापीतेः ।
पूर्वोदाहृतोत्क्रान्तिवाक्यशेषं व्याख्याय लिङ्गाश्रयपञ्चभूतानां किमात्यन्तिको ब्रह्मणि लय उतानात्यन्तिक इति लयस्योभयथादर्शनात्संशयमाह- कीदृशी पुनरियमिति ।
पूर्वत्रापेक्षिकममृतत्वमित्युक्तं तदयुक्तमित्याक्षेपात्संगतिः पूर्वपक्षे मृतमात्रस्य मुक्तिसिद्धिः, सिद्धान्ते तु कर्मविद्याशास्त्रबलात्सावशेषलयसिद्धिरिति विवेकः

66.9

एन्द् ब्स्चोम्_4,2.5.8
स्तर्त् ब्स्चोम्_4,2.5.9
सूक्ष्मं प्रमाणतश् च तथोपलब्धेः । ब्ब्स्_4,2.9 ।
तत् च इतरभूतसहितं तेजो जीवस्य अस्मात् शरीरात् प्रवसत आश्रयभूतं स्वरूपतः प्रमाणतः च सूक्ष्मं भवितुम् अर्हति ।
तथा हि - नाडीनिष्क्रमणश्रवणादिभ्यः अस्य सौक्ष्म्यम् उपलभ्यते ।
तत्र तनुत्वात् संचार उपपत्तिः ।
स्वच्छत्वात् च अप्रतीघात उपपत्तिः ।
अत एव च देहात् निर्गच्छन् पार्श्वस्थैः न उपलभ्यते

66.9

ननु लिङ्गात्मकस्य तेजसः कथं सूक्ष्मतमनाडीद्वारा गतिः कुतो वा केनचिन्मूर्तेन प्रतिघातो नास्ति कुतो वा न दृश्यत इत्यत आह- सूक्ष्ममिति

66.10

एन्द् ब्स्चोम्_4,2.5.9
स्तर्त् ब्स्चोम्_4,2.5.10
नोपमर्देनातः । ब्ब्स्_4,2.10 ।
अत एव सूक्ष्मत्वात् न अस्य स्थूलस्य शरीरस्य उपमर्देन दाहादिनिमित्तेन इतरत् सूक्ष्मं शरीरम् उपपद्यते

66.10

प्रमाणसौक्ष्म्याद्गतिरनुद्भूतस्पर्शरूपवत्त्वाख्यस्वच्छत्वादप्रतिघातानुपलब्धी इत्यर्थः

66.11

एन्द् ब्स्चोम्_4,2.5.10
स्तर्त् ब्स्चोम्_4,2.6.11
अस्यैव चोपपत्तेर् ऊष्मा । ब्ब्स्_4,2.11 ।
अस्य एव च सूक्ष्मस्या शरीरस्य एष ऊष्मा यम् एतस्मिन् शरीरे संस्पर्शेन ऊष्माणं विजानन्ति ।
तथा हि मृतावस्थायाम् अवस्थिते अपि देहे विद्यमानेषु अपि च रूपादिषु देहगुणेषु न ऊष्म उपलभ्यते जीवत् अवस्थायाम् एव तु उपलभ्यत इति अत देहगुणेषु न ऊष्म उपलभ्यते जीवत् अवस्थायाम् एव तु उपलभ्यत इति अत उपपद्यते प्रसिद्धशरीरव्यतिरिक्तव्यपाश्रय एव एष ऊष्म इति ।
तथा च श्रुतिः - ऽउष्ण एव जीविष्यञ्शितो मरिष्यन् इतिऽ

66.11

लिङ्गसद्भावे चौष्ण्यलिङ्गकानुमानमाह- अस्यैव चेति

66.12

एन्द् ब्स्चोम्_4,2.6.11
स्तर्त् ब्स्चोम्_4,2.6.12
6 प्रतिषेध अधिकरणम् । सू. 12-14
प्रतिषेधाद् इति चेन् न शारीरात् । ब्ब्स्_4,2.12 ।
ऽअमृतत्वं चानुपोष्यऽ इति अतो विशेषणात् आत्यन्तिके अमृतत्वे गति उत्क्रान्त्योः अभावो अभ्युपगतः ।
तत्र अपि केनचित् कारणेन उत्क्रान्तिम् आशङ्क्य प्रतिषेधति - ऽअथाकामयमानो यो ऽकामो निष्काम आप्तकाम आत्मकामो भवति न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन्ब्रह्माप्येतिऽ (बृ. 4.4.6) इति अतः परविद्याविषयात् प्रतिषेधात् न परब्रह्मविदो देहात् प्राणानाम् उत्क्रान्तिः अस्ति इति चेत् ।
न इति उच्यते ।
यतः शारीरात् आत्मन एष उत्क्रान्तिप्रतिषेधः प्राणानां न शरीरात् ।
कथम् अवगम्यते ऽन तस्मात्प्राणा उत्क्रामन्तिऽ इति शाखान्तरे पञ्चमी प्रयोगात् ।
संबन्धसामान्यविषया हि षष्ठी शाखान्तरगतया पञ्चम्या संबन्धविशेषे व्यवस्थाप्यते ।
तस्मात् इति च प्राधान्यात् अभ्युदयनिःश्रेयस अधिकृतो देही संबध्यते न देहः ।
न ।
तस्मात् उच्चिक्रमिषोः जीवात् प्राणा अपक्रामन्ति सह एव तेन भवन्ति इति अर्थः

66.12

प्रतिषेधादिति चेन्न शारीरात् ।
पूर्वमनुपोष्येति पदेन दग्धाशेषक्लेशस्य निर्गुणज्ञानिन उत्क्रान्त्याद्यभावः ।
सूचितस्तस्यात्राक्षिप्य समाधानाद्व्यवहितेनास्य संगतिरित्याह- अमृतत्वं चेति ।
सकामस्य संसारोक्त्यनन्तरं निष्कामस्य मुक्तिप्रकरणार्थो ऽथशब्दः आत्मकामत्वात् पूर्णानन्दात्मवित्त्वादाप्तकामः प्राप्तपरमानन्दः, अतो निष्कामः अनभिव्यक्तान्तरवासनात्मककामशून्यः, तस्मादकामः व्यक्तबहिष्कामरहितः, ईदृशो यो ऽकामयमानस्तस्येत्यन्वयः ।
ज्ञानिन उत्क्रान्तिरस्ति न वेति पञ्चमीषष्ठीश्रुतिभ्यां संदेहे सिद्धान्तिशङ्कानिरासपूर्वकं पूर्वपक्षयति- नेत्यादिना

66.13

एन्द् ब्स्चोम्_4,2.6.12
स्तर्त् ब्स्चोम्_4,2.6.13-14
सप्राणस्य च प्रवसतो भवति उत्क्रान्तिः देहात् इति एवं प्राप्ते प्रति उच्यते -
स्पष्टो ह्येकेषाम् । ब्ब्स्_4,2.13 ।
न तत् अस्ति यत् उक्तं परब्रह्मविदः अपि देहात् अस्ति उत्क्रान्तिः उत्क्रान्तिप्रतिषेधस्य देह उपादानत्वात् इति ।
यतो देह उपादान एव उत्क्रान्तिप्रतिषेध एकेषां समाम्नातृणां स्पष्ट उपलभ्यते ।
तथा हि - आर्तभागप्रश्ने ऽयत्रायं पुरुषो म्रियत उदस्मात्प्राणाः क्रामन्त्याहो नेतिऽ (बृ. 3.2.11) इति अत्र ऽनेति होवाच याज्ञवल्क्यःऽ (बृ. 3.211) इति अनुत्क्रान्तिपक्षं परिगृह्य न तर्हि अयम् अनुत्क्रान्तेषु प्राणेषु म्रियत इति अस्याम् आशङ्कायाम् ऽअत्रैव समवनीयन्तऽ इति प्रविलयं प्राणानां प्रतिज्ञाय तत् सिद्धये ऽस उच्छ्वयत्याध्यात्मायत्याध्मातो मृतः शेतेऽ (बृ. 3.2.11) इति सशब्दपरामृष्टस्य प्रकृतस्य उत्क्रान्ति अवधेः उच्छ्वयनादीनि समामनन्ति ।
देहस्य च एतानि स्युः
न देहिनः ।
तत् सामान्यात् ऽन तस्मात्प्राणा उत्क्रामन्त्यत्रैव समवनीयन्तेऽ इति अत्र अपि अभेद उपचारेण देहापादानस्य एव उत्क्रमणस्य प्रतिषेधः ।
यदि अपि प्राधान्यं देहिन इति व्याख्येयं येषां पञ्चमी पाठः ।
येषां तु षष्ठीपाठः तेषां विद्वत् संबन्धिनि उत्क्रान्तिः प्रतिषिध्यत इति प्राप्त उत्क्रान्तिप्रतिषेधार्थत्वात् अस्य वाक्यस्य देहपादान एव सा प्रतिषिद्धा भवति, देहात् उत्क्रान्तिः प्राप्ता न देहिनः ।
अपि च ऽचक्षुषो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यस्तमुत्क्रामन्तं प्राणो ऽनूत्क्रामति प्राणो ऽनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्तिऽ (बृ. 4.4.2) इति एवम् अविद्वत् विषयं सप्रपञ्चम् उत्क्रमणं संसारगमनं च दर्शयित्वा ऽइति नु कामयमानःऽ (बृ. 4.4.6) इति उपसंहृत्य अविद्वत् कथाम् ऽअथाकामयमानःऽ (बृ. 4.4.6) इति व्यपदिश्य विद्वांसं यदि तत् विषये अपि उत्क्रान्तमेव प्रापदेयसमञ्जस एव व्यपदेशः स्यात् ।
तस्मात् अविद्विषये प्राप्तयोः गति उत्क्रान्त्योः विद्वत् विषये प्रतिषेध इति एवमेव व्याख्येयं व्यपदेशार्थवत्त्वाय ।
न च ब्रह्मविदः सर्वगतब्रह्मात्मभूतस्य प्रक्षीणकामकर्मण उत्क्रान्तिः गतिः वा उपपद्यते निमित्त अभावात् ।
ऽअत्र ब्रह्म समश्नुतेऽ इति च एवञ्जातीयकाः श्रुतयो गति उत्क्रान्त्योः अभावं सूचयन्ति

66.14

स्मर्यते च । ब्ब्स्_4,2.14 ।
स्मर्यते अपि च महाभारते गति उत्क्रान्त्योः अभावः - ऽसर्वभूतात्मभूतस्य सम्यग्भूतानि पश्यतः ।
देवा अपि मार्गे मुह्यन्त्यपदस्य पदैषिणःऽ इति ।
ननु गतिः इति ब्रह्मविदः सर्वगतब्रह्मात्मभूतस्य स्मर्यते ऽशुकः किल वैयासकिर्मुमुक्षुरादित्यमण्डलमभिप्रतस्थे पित्रा चानुगम्याहूतो भो इति प्रतिशुश्रावऽ इति ।
न ।
सशरीरस्य एव अयं योगबलेन विशिष्टदेशप्राप्तिपूर्वकः शरीर उत्सर्ग इति द्रष्टव्यम् ।
सर्वभूतदृश्यत्वादि उपन्यासात् ।
न हि अशरीरं गच्छन्तं सर्वभूतानि द्रष्टुं शक्नुयुः ।
तथा च तत्र एवौपसंहृतम्- ऽशुकस्तु मारुताच्छीघ्रां गतिं कृत्वान्तरिक्षगः ।
दर्शयित्वा प्रभावं स्वं सर्वभूतगतो ऽभवत्ऽ इति ।
तस्मात् अभावः परब्रह्मविदो गति उत्क्रान्त्योः ।
गतिश्रुतीनां तु विषयम् उपरिष्टात् व्याख्यास्यामः

66.13

काण्वश्रुतौ तावत्तस्येति सर्वनाम्ना प्रकृतं ज्ञानिनं परामृश्य संबन्धसामान्यमुक्तं तत्र माध्यन्दिनशाखायां तस्मादित्यपादानत्वरूपविशेष उक्तो ग्राह्यस्तथाच जीवात्प्राणोत्क्रान्तिप्रतिषेधो भाति न देहात्तच्छब्देन देहस्यानुक्तेस्तस्माज्ज्ञानिनो ऽप्युत्क्रान्तिरस्तीति ज्ञानवैयर्थ्यमिति पूर्वपक्षफलम् ।
सिद्धान्ते तत्सार्थक्यमाह- स्पष्टो हीति ।
अत्र पुरुषशब्दवाच्यो देह एवस्मादित्युत्क्रान्त्यवधिरुच्यते ।
सशब्दपरामृष्टस्य प्रकृतस्य पुरुषस्योच्छ्वयनादिधर्मकस्य जीवत्वायोगादित्यर्थः ।
उच्छ्वयति बाह्यवायुपूरणाद्वर्धते, आध्मायति आर्द्रभेरीवच्छब्दं करोतीत्यर्थः ।
येषां पञ्चमीपाठस्तेषां यद्यपि देहिनः प्राधान्यं तथापि देहदेहिनोरभेदात्तस्मादिति देहं परामृश्य तदापादन एवोत्क्रान्तिप्रतिषेध इति व्याख्येयम् ।
तत्सामान्यदुक्तश्रुत्यास्य पाठस्यैकार्थत्वादिति योजना ।
इदानीं काण्वपाठस्यानुगुण्यमाह- येषां तु षष्ठीपाठ इति ।
संबन्धविशेषाकाङ्क्षायां भोक्ता प्राणानां भोगोपकरणत्वविशेषो ऽत्रैव प्राणमयो मनोमयः इति पूर्वश्रुत्युक्तो ग्राह्यः ।
न शाखान्तरस्थमपादानत्वं ग्राह्यं जीवादुत्क्रान्तेरप्राप्तायाः प्रतिषेधायोगात् ।
अतो विद्वत्संबन्धिप्राणानामुत्क्रान्त्यपादानापेक्षायां चक्षुष्टो वा मूर्ध्नोवेत्युक्तदेहप्रदेशा एव ग्राह्यः ।
तथाचायमर्थः-तस्य विदुषो भोगोपकरणात्मकाः प्राणाः देहप्रदेशेभ्यो नोत्क्रामन्तीति ।
एवं च प्राप्तोत्क्रान्तिनिषेधार्थत्वं वाक्यस्येति सर्वं चतुरस्रम् ।
अपिचेति स्पष्टार्थम् ।
सम्यगात्मभावेन भूतानि पश्यतः अपदस्य प्राप्यपदरहितस्य पदैषिणो देवा अपि मार्गे मुह्यन्ति मार्गं न जानन्ति तदभावादिति स्मृतियोजना ।
समृत्यन्तरविरोधं शङ्कते- ननु गतिरपीति ।
सगुणविद्याबलेनैषा गतिरिति परिहरति- सशरीरस्येति ।
ननु तर्हि ऽतयोर्ध्वमायन्नमृतत्वमेतिऽ, ऽस एवैतान्ब्रह्म गमयतिऽइत्यादिश्रुतीनां का गतिः, तत्राह- गतीति

66.15

एन्द् ब्स्चोम्_4,2.6.13-14
स्तर्त् ब्स्चोम्_4,2.7.15
7 वागादिलय अधिकरणम् । सू. 15
तानि परे तथा ह्य् आह । ब्ब्स्_4,2.15 ।
तानि पुनः प्राणशब्दोदितानि इन्द्रियाणि भूतानि च परब्रह्मविदः तस्मिन् एव परस्मिन् आत्मनि प्रलीयन्ते ।
कस्मात् ।
तथा हि आह श्रुतिः - ऽएवमेवास्य परिद्रष्टुरिमाः षोडश कलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति (प्रश्न. 6.5) इति.
ननु ऽगताः कलाः पञ्चदश प्रतिष्ठाःऽ (मु. 3.2.7) इति विद्वत् विषय एव अपरा श्रुतिः परस्मात् आत्मनः अन्यत्र अपि कलानां प्रलयम् आह स्म ।
न ।
सा खलु व्यवहारापेक्षा, पार्थिवाद्याः कलाः पृथिव्यादिः एव स्वप्रकृतीः अपीयन्ति इति ।
इतरा तु विद्वत् प्रतिपत्ति अपेक्षा, कृत्स्नं कलाजातं परब्रह्मविदो ब्रह्म एव संपद्यत इति ।
तस्मात् अदोषः

66.15

तानि परे तथाह्याह ।
पूर्वत्र गतिनिषेधेन विद्वत्कलानां घ्राणादीनामत्रैव लय उक्तः ।
तमुपजीव्य स किं तत्तत्कलाप्रकृतिषु पृथिव्यादिषु स्यादुत परमात्मनीति श्रुतिद्वयदर्शनात्संशयः कार्यः ।
तत्र साक्षात्प्रकृतौ विकारलय इति न्यायानुगृहीतया ऽगताः कलाःऽइति श्रुत्या पूर्वपक्षमग्रे वदन्नादौ सिद्धान्तमाह- तानीति ।
यथा नद्यः समुद्रं प्राप्य लीयन्ते एवमेवास्य परितः सर्वत्र ब्रह्मद्रष्टुरिमाः प्राणश्रद्धाद्याः पुरुषायणाः पुरुषे कल्पिताः पुरुषमेव ज्ञेयं प्राप्य लयं गच्छन्तीत्यर्थः ।
मनःप्राणयोरेकीकरणेन कलानां पञ्चदशत्वम् ।
प्रतिष्ठा इति द्वितीयाबहुवचनम् ।
स्वस्य प्रकृतीः पृथिव्याद्या इत्यर्थः ।
वस्तुगत्या विद्वद्दृष्ट्या परमात्मनि कलालये ऽपि लोकदृष्ट्या प्रतिष्ठासु लयोक्तिरविरुद्धा ।
तथाच कलाः स्वप्रकृतिषु विलाप्य ताभिः सह पुरुषे लीयन्ते इति श्रुतिद्वयतात्पर्यम्

66.16

एन्द् ब्स्चोम्_4,2.7.15
स्तर्त् ब्स्चोम्_4,2.8.16
8 अविभाग अधिकरणम् । सू. 16
अविभागो वचनात् । ब्ब्स्_4,2.16 ।
स पुन- विदुषः कलाप्रलयः किम् इतरेषाम् इव सावशेषो भवति आहोस्वित् निरवशेष इति ।
तत्र प्रलयसामान्यात् शक्ति अवशेषताप्रसक्तौ ब्रवीति - अविभागापत्तिः एव इति ।
कुतः - वचनात् ।
तथा हि कलाप्रलयम् उक्त्वा वक्ति - ऽभिद्यते तासां नामरूपे पुरुष इत्येवं प्रोच्यते स एषो ऽकलो ऽमृतो भवतिऽ (प्र. 6.5) इति ।
अविद्या निमित्तानां च कलानां न विद्यानिमित्ते प्रलये सावशेषत्व उपपत्तिः ।
तस्मात् अविभाग एव इति

66.16

अविभागो वचनात् ।
उक्तलयमुपजीव्य लयस्य द्वेधादर्शनात्संशयमाह- स पुनरिति ।
मुक्त्यसिद्धिस्तत्सिद्धिश्चेत्युभयत्र फलम् ।
अवशेषो मूलकारणे शक्त्यात्मना स्थितिः ।
पुनर्जन्मयोग्यतेति यावत् ।
विमतः कलालयः सावशेषः, कलालयत्वात्सुषुप्तिवदिति पूर्वपक्षः ।
विमतो निरवशेषः, विद्याकृतत्वाद्रज्ज्वा विद्यया सर्पलयवदिति युक्त्युपेतश्रुत्या सिद्धान्तयति- ब्रवीतीति ।
नामरूपे शक्त्यात्मके अपि भिद्येते इत्यर्थः

66.17

एन्द् ब्स्चोम्_4,2.8.16
स्तर्त् ब्स्चोम्_4,2.9.17
9 तदोकः अधिकरणम् । सू. 17
तदोकोग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात् तच्छेषगत्यनुस्मृतियोगाच् च हार्दानुगृहीताः शताधिकया । ब्ब्स्_4,2.17 ।
समाप्ता प्रासङ्गिकी परविद्यागता चिन्ता ।
संप्रतितु अपरविद्याविषयाम् एव चिन्ताम् अनुवर्तयति ।
समाना च असृति उपक्रमात् विद्वत् अविदुषोः उत्क्रान्तिःइति उक्तं तम् इदानीं सति उपक्रमं दर्शयति ।
तस्य उपसंहृतवागादि कलापस्य उच्चिक्रमिषतो विज्ञानात्मन ओक आयतनं हृदयम् ऽस एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामतिऽ इति श्रुतेः ।
तत् अग्रप्रज्वलनपूर्विका चक्षुरादिस्थान अपादाना च उत्क्रान्तिः श्रूयते - ऽतस्य हैतस्य हृदयस्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुषो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यःऽ (बृ. 4.4.2) इति ।
सा किम् अनियमेन एव विद्वत् अविदुषोः भवति अथ अस्ति कश्चित् विदुषो विशेषनियम इति विचिकित्सायां श्रुति अविशेषात् अनियमप्राप्तौ आचष्टे - समा अपि हि विद्वत् अविदुषोः हृदयाग्रप्रद्योतने तत् प्रकाशितद्वारत्वे च मूर्धस्थानात् एव विद्वान् निष्क्रामति स्थानान्तरेभ्यः तु इतरे ।
कुतः - विद्यासामर्थ्यात् ।
यदि विद्वान् अपीतरवत् यतः कुतश्चित् देहदेशात् उत्क्रामेत न एव उत्कृष्टं लोकं लभेत ।
तत्र आनर्थिका एव विद्या स्यात् ।
तत् शेषगति अनुस्मृतियोगात् च विद्याशेषभूता च मूर्धनि अनाडीसंबद्धा गतिः अनुशीलयितव्या विद्याविशेषेषु विहिता ताम् अभ्यस्यन् तस्य एव प्रतिष्ठित इति युक्तम् ।
तस्मात् हृदयालयेन ब्रह्मणा सु उपासितेन अनुगृहीतः तद्भावं समापन्नो विद्वान् मूर्धन्यया एव शताधिकया शतात् अतिरिक्तया एकशततम्या नाड्या निष्क्रामति इतराभिः इतरे ।
तथा हि हार्दविद्यां प्रकृत्य समामनन्ति - ऽशतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका ।
तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङ्न्या उत्क्रमेण भवन्तिऽ (छा. 8.6.6) इति

66.17

तदोकोग्रज्वलनम् ।
सृतेर्मार्गस्योपक्रमो नाडीप्रवेशनियमस्तं वक्तुं सूत्रभागव्याख्याद्वाराधिकरणविषयमाह- तस्येति ।
स मुमूर्षुस्तेजोमात्रा इन्द्रियाणि ।
तस्य हृदयस्याग्रं नाडीमुखं तस्य ज्वलनं भाविफलस्फुरणं प्रद्योताख्यम् ।
चक्षुषो वेत्यनियमश्रुतेस्तयोर्घ्वमायन्निति विशेषश्रुतेश्च संशयः-किमुपासको ऽप्यनुपासकवद्येन केनचिद्द्वारेण निर्गच्छति उत मूर्धन्यनाड्यैवेति ।
अत्र पूर्वपक्षे विद्याकृतातिशयासिद्धिः, सिद्धान्ते तत्सिद्धिरिति विवेकः ।
वचनादविभागवदनियम इति प्राप्ते सिद्धान्तयति- आचष्ट इति ।
येन केनचिन्मार्गेण निर्गतस्यापि ब्रह्मलोकप्राप्तौ विद्यशेषत्वेन मार्गानुस्मृतिविधेः केवलादृष्टार्थत्वं स्यादतो ऽन्वहं स्मृतेनैव मार्गेण गमनं युक्तमिति भावः ।
हार्दं ब्रह्म ।
विष्वङ् नानाविधा अन्या नाड्यो ऽन्येषामित्यर्थः ।
सुषुम्नाख्या नाडी हृदयात् निर्गता दक्षिणाक्षितालुकण्ठान्तस्तननासिकामध्याभित्तिद्वारा ब्रह्मरन्ध्रं प्राप्ता सूर्यरश्मिभिरेकीकृता ब्रह्मलोकमार्ग उपासकस्येति स्थितम्

66.18

एन्द् ब्स्चोम्_4,2.9.17
स्तर्त् ब्स्चोम्_4,2.10.18
रश्मि अधिकरणम् । सू. 18
रश्म्यनुसारी । ब्ब्स्_4,2.18 ।
अस्ति हार्दविद्या - ऽअथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्मऽ (छा. 8.1.1) इति उपक्रम्य विहिता ।
तत् प्रक्रियायाम् ऽअथ या एता हृदयस्य नाड्यःऽ (छा. 8.6.1) इति उपक्रम्य सप्रपञ्चं नाडीरश्मिसंबन्धम् उक्त्वा उक्तम् ऽअथ यत्रैतदस्माच्छरीरादुत्क्रामत्यथैतैरेव रश्मिभिरूर्ध्वमाक्रमतेऽ (छा. 8.6.5) इति ।
पुनः च उक्तम् ऽतयोर्ध्वमायन्नमृतत्वमेतिऽ (छा. 8.6.6) इति ।
तस्मात् शताधिकया नाड्या निष्क्रामन् रश्मि अनुसारी निष्क्रामति इति गम्यते ।
तत् किंम् अविशेषेण एव अहनि रात्रौ वा म्रियमाणस्य रश्मि अनुसारित्वम् आहोस्वित् अहनि एव इति संशये सति अविशेषश्रवणात् अविशेषेण एव तावत् रश्मि अनुसारि इति प्रतिज्ञायते

66.18

रश्म्यनुसारी ।
प्रकरणशोधनपूर्वकमुपासकस्य रश्म्यनुसारित्वं विषयमाह- अस्तीत्यादिना ।
अथ प्रारब्धान्ते एतदुत्क्रमणं यदा स्यादथ तदा एतैरेव नाडीसंबद्धै रश्मिभिरुत्क्रामतीत्यर्थः ।
अत्र संबन्धस्य कालविशेषाश्रवणाद्रात्रौ रश्म्यभावाच्च संशयमाह- तत्किमिति ।
पूर्वोक्तनाडीसंबद्धरश्मीनामत्रोपजीव्यत्वात्संगतिः ।
पूर्वपक्षे रात्रौ मृतस्य रश्मिप्राप्त्यर्थं सूर्योदयप्रतीक्षास्ति, सिद्धान्ते नास्तीति मत्वा सिद्धान्तं प्रतिजानीते- अविशेषेणेति

66.19

एन्द् ब्स्चोम्_4,2.10.18
स्तर्त् ब्स्चोम्_4,2.10.19
निशि नेति चेन् न सम्बन्धस्य यावद्देहभावित्वाद् दर्शयति च । ब्ब्स्_4,2.19 ।
अस्ति अहनि नाडीरश्मिसंबन्ध इति अहनि मृतस्य स्यात् रश्मि अनुसारित्वं रात्रौ तु प्रेतस्य न स्यात् ।
नाडीरश्मिसंबन्धविच्छेदात् इति चेत् ।
न ।
नाडीरश्मिसंबन्धस्य यावत् देहभावित्वात् ।
यावत् देहभावी हि शिराकिरणसंपर्कः ।
दर्शयति च एतमर्थं श्रुतिः - ऽअमुष्मादादित्यात्प्रतायन्ते ता आसु नाडीषु सृप्ता आभ्यो नाडीभ्यः प्रतायन्ते ते ऽमुष्मिन्नादित्ये सृप्ताःऽ (छा. 8.6.2) इति निदाघसमये च निशासु अपि किरण अनुवृत्तिः उपलभ्यते प्रतापादिकार्यदर्शनात् ।
स्तोक अनुवृत्तेः तु दुर्लक्ष्यत्वम् ऋत्वन्तररजनीषु शैशिरेषु इव दुर्दिनेषु ।
ऽअहरेवैतद्रात्रौ दधातिऽ इति च एतदेव दर्शयति ।
यदि च रात्रौ प्रेतो विना एव रश्मि अनुसारेण ऊर्ध्वम् आक्रमेत रश्मि अनुसार आनर्थक्यं भवेत् ।
न हि एतत् विशिष्य अधीयते यो दिवा प्रैति स रश्मीन् अपेक्ष्य ऊर्द्वम् आक्रमते यः तु रात्रौ सः अनपेक्ष्य एव इति ।
अथ तु विद्वान् अपि रात्रिप्रायण अपराधमात्रेण न ऊर्ध्वम् आक्रमेत पाक्षिकफला विद्या इति अप्रवृत्तिः एव तस्यां स्यात् ।
मृत्युकालानियमात् ।
अथ अपि रात्रौ उपरतः अहरागमम् उदीक्षेत ।
अहरागमे अपि अस्य कदाचित् अरश्मिसंबन्धार्हं शरीरं स्यात् पावकादिसंपर्कात् ।
ऽस यावत्क्षिप्येन्मनस्तावदादित्यं गच्छतिऽ (छा. 8.6.5) इति च श्रुतिः अनुदीक्षां दर्शयति ।
तस्मात् तत् अविशेषेण एव इदं रात्रिदिवं रश्मि अनुसारित्वम्

66.19

पूर्वपक्षबीजमुपन्यस्य दूषयति- निशीत्यादिना ।
शिरा नाड्यः प्रतायन्ते विस्तृता भवन्ति सृप्ताः संबद्धाः ।
श्रुतसंबन्धस्य रात्रौ सत्त्वे युक्तिमाह- निदाघेति ।
तर्हि हेमन्तादिरात्रिष्वौष्ण्योपलब्धिः स्यादित्यत आह- स्तोकेति ।
सविता रात्रावप्यहर्दधातीति धारणाभिधानं स्तोकरश्म्यनुवृत्त्यभिप्रायमेवेत्यर्थः ।
किञ्च यदि रात्रौ मृतस्य रश्मियोगं विनैवोर्ध्वगतिः स्यात्तदा रश्मिश्रुतेर्दिवामृतविषयतया संकोचः स्यादूर्ध्वगत्यभावे च विद्यायामप्रवृत्तिः स्यात् ।
नच प्रतीक्षयोर्ध्वगतिरिति वाच्यं, रश्म्युदयात्प्राग्देहदाहे आदित्यप्रतीक्षावैयर्ध्यापातादप्रतीक्षाश्रुतिविरोधाच्च ।
तस्माद्यदाकदाचिन्मृतस्य रश्मिप्राप्त्या झटिति ब्रह्मलोकप्राप्तिरिति

66.20

एन्द् ब्स्चोम्_4,2.10.19
स्तर्त् ब्स्चोम्_4,2.10.20
11 दक्षिणायन अधिकरणम् । सू. 20-21
अतश् चायने ऽपि दक्षिणे । ब्ब्स्_4,2.20 ।
अत एव च उदीक्षा अनुपपत्तेः अपाक्षिकफलत्वात् च विद्याया अनियतकालत्वात् च मृत्योः दक्षिण अयने अपि म्रियमाणो विद्वान् प्राप्नोति एव विद्याफलम् ।
उत्तरायण मरण प्राशस्ति अप्रसिद्धेर्भीष्मस्य च प्रतीक्षादर्शनात् ऽआपूर्यमाणपक्षाद्यान्षडुदङ्ङेति मासांस्तान्ऽ (छा. 4.15.5) इति च श्रुतेः अपेक्षितव्यम् उत्तरायणम् इति इमाम् आशङ्काम् अनेन सूत्रेण अपनुदति ।
प्राशस्त्यप्रसिद्धिः अविद्वत् विषया ।
भीष्मस्य प्रतिपालनम् आचारप्रतिपालनार्थं पितृप्रसादलब्धस्वच्छन्दमृत्युताख्यापनार्थं च ।
श्रुतेः तु अर्थं वक्ष्यति ऽआतिवाहिकास्तल्लिङ्गात्ऽ (ब्र. सू. 4.3.4) इति

66.20

एवं दक्षिणायने मृतो विद्वान्विद्याफलमाप्नोति न वेति विद्याया नित्यवत्फलश्रुतेरुत्तरायणप्राशस्त्यशास्त्राच्च संदेहे पूर्वोक्तहेतूनतिदिशति- अतश्चायने ऽपि दक्षिणे ।
पूर्वपक्षमाशङ्क्यापनुदति- उत्तरायणेत्यादिना ।
अज्ञानामुत्तरायणे दैवान्मरणं चेत्प्रशस्तमित्यभिज्ञाभिवचनरूपाचारपरिपालनार्थं भीष्मस्य प्रतीक्षा ।
षण्मासानिति श्रुतिस्तूत्तरायणदेवतापरेति वक्ष्यते ।
तथाच देवतायाः सदा सत्त्वाद्विद्यया दक्षिणायनकाले ऽपि तत्प्राप्तिरविरुद्धेति भावः

66.21

एन्द् ब्स्चोम्_4,2.10.20
स्तर्त् ब्स्चोम्_4,2.11.21
ननु च - ऽयत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः ।
प्रयाता यान्ति तं फलं वक्ष्यामि भरतर्षभऽ (गी. 8.23) इति कालप्राधान्येन उपक्रम्य अहरादिकालविशेषः स्मृतौ अपुनरावृत्तये नियमितः कथं रात्रौ दक्षिणायने वा प्रयातो अनावृत्तिं यायादिति ।
अत्र उच्यते -
योगिनः प्रति च स्मर्येते स्मार्ते चैते । ब्ब्स्_4,2.21 ।
योगिनः प्रति च अयम् अहरादिकालविनियोगः अनावृत्तये स्मर्यते ।
स्मार्ते च एते योगसांख्ये न श्रौते ।
अतो विषयभेदात् प्रमाणाविशेषात् च न अस्य स्मार्तस्य कालविनियोगस्य श्रौतेषु विज्ञानेषु अवतारः ।
ननु - ऽअग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम्ऽ ।
ऽधूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम्ऽ (गी. 8. 24,25) इति च श्रौतौ एतौ देवयानपितृयाणौ प्रत्यभिज्ञायेते स्मृतौ अपि इति ।
उच्यते - ऽतं कालं वक्ष्यामिऽ (गी. 8.23) इति स्मृतौ कालप्रतिज्ञानात् विरोधम् आशङ्क्य परिहार उक्तः ।
यदा पुनः स्मृतौ अपि अग्न्याद्या देवता एव अतिवाहिक्यो गृह्यन्ते तदा न कश्चित् विरोध इति

66.21

स्मृतिबलात्कालप्राधान्यं शङ्कते- ननु चेति ।
श्रौतदहराद्युपासकस्यास्माभिः कालानपेक्षोक्ता, स्मार्तयोगिनां तु कालापेक्षा स्मृतावुच्यत इत्यविरोधमाह- योगिन इति ।
योगी दहराद्युपासक एव स्मृत्युक्तः किं न स्यादित्यत आह- स्मार्ते चेति ।
भगवदाराधनबुद्ध्यानुष्ठितं कर्म योगः ऽअनाश्रितः कर्मफलं कार्यं कर्म करोति यः ।
स संन्यासी च योगी चऽइति स्मृतेः ।
धारणापूर्वको ऽकर्तृत्वानुभवः सांख्यं, ऽइन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन्ऽइति स्मृतेः ।
ननु श्रुतिस्मृत्योर्भिन्नार्थत्वमयुक्तं प्रत्यभिज्ञाविरोधादिति शङ्कते- नन्वग्निरिति ।
कालाग्रहिणं प्रति भिन्नार्थत्वमुक्तम् ।
यदि तु श्रौतार्थप्रत्यभिज्ञया कालशब्दो देवतापरस्तर्ह्यैकार्थ्यमेवेति समाध्यर्थः ।
तस्माद्विद्यासामर्थ्यात्सर्वदैव दिष्ठङ्गतस्य उपासकस्य फलप्राप्तिरिति सिद्धम्

मूल पाठ: Brahmasūtra2 with Śaṃkara's Śārīrakamīmāṃsābhāṣya and Govindānanda's Ratnaprabhāvyākhyā (subcommentary) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc