भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मसूत्र2 (टीका सहित) · अध्याय 46

46.2

ननु पाकस्वेदगन्धरूपकार्यत्रयोपलब्धेस्त्र्यात्मको देह इत्ययुक्तम् ।
प्राणावकाशयोरप्युपलब्ध्या देहस्य पञ्चभूतात्मत्वादित्यरुच्या व्याख्यान्तरमाह- पुनश्चेति ।
देहधारकत्वाद्धातवस्तैस्त्रिधातुत्वात्र्यायात्मक इत्यन्वयः ।
देहस्य केवलाब्जत्वे वातं पित्तं च वायव्यं तैजसं न स्यातामिति भावः ।
पृथिवीतरभूतापेक्षयापां बाहुल्यम् ।
किञ्च देहनिमित्तानां कर्मणामब्बाहुल्यात्ताभिर्भूतान्तराण्युपलक्ष्यन्त इत्याह- कर्म चेत्यादिना

46.3

एन्द् ब्स्चोम्_3,1.1.2
स्तर्त् ब्स्चोम्_3,1.1.3
प्राणगतेश् च । ब्ब्स्_3,1.3 ।
प्राणानां च देहान्तरप्रतिपत्तौ गतिः श्राव्यते- ऽतमुत्क्रामन्तं प्राणो ऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्तिऽ (बृ. 4.4.2) इत्यादिश्रुतिभिः ।
सा च प्राणानां गतिर्नाश्रयमन्तरेण संभवतीत्यतः प्राणगतिप्रयुक्ता तदाश्रयभूतानामपापमपि भूतान्तरोपसृष्टानां गतिरवगम्यते ।
नहि निराश्रयाः प्राणाः क्वचिद्गच्छन्ति तिष्ठन्ति वा जीवतो दर्शनात्

46.3

उत्क्रान्तौ प्राणा देहबीजपञ्चभूताश्रयाः प्राणत्वज्जीवद्देहस्थप्राणवदित्याह- प्राणगतेश्चेति

46.4

एन्द् ब्स्चोम्_3,1.1.3
स्तर्त् ब्स्चोम्_3,1.1.4
अग्न्यादिगतिश्रुतेर् इति चेन् न भाक्तत्वात् । ब्ब्स्_3,1.4 ।
स्यादेतत् ।
नैव प्राणा देहान्तरप्रतिपत्तौ सह जीवेन गच्छन्ति अग्न्यादिगतिश्रुतेः ।
तथाहि श्रुतिर्मरणकाले वागादयः प्राणा अग्न्यादीन्देवागच्छतीति दर्शयति- ऽयत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणःऽ (बृ. 3.2.13) इत्यादिनेति चेत् ।
न ।
भाक्तत्वात् ।
वागादीनामग्न्यादिगतिश्रुतिर्गौणी केशेषु चादर्शनात् ।
ऽओषधीर्लोमानि वनस्पतीन्केशाःऽ (बृ. 3.2.13) इति हि तत्राम्नायते ।
नहि लोमानि केशाश्चोत्प्लुत्यौषधीर्वनस्पतींश्च गच्छन्तीति संभवति ।
नच जीवस्य प्राणोपाधिप्रत्याख्याने गमनमवकल्प्यते ।
नापि प्राणैर्विना देहान्तर उपभोग उपपद्यते ।
विस्पष्टं च प्राणानां सह जीवेन गमनमन्यत्र श्रावितम् ।
अतो वागाद्यधिष्ठात्रीणामग्न्यादिदेवतानां वागाद्युपकारिणीनां मरणकाल उपकारनिवृत्तिमात्रमपेक्ष्य वागादयो ऽग्न्यादीन्गच्छन्तीत्युपचर्यते

46.4

fन्: अन्यत्र तमुत्क्रामन्तमित्यादौ ।
प्राणानां गतिरसिद्धेत्याशङ्क्य निषेधति- अग्न्यादीति ।
अदर्शनादोषधिवनस्पतिगमनस्येति शेषः ।
लोमान्यपियन्तीत्यर्थः ॥
प्राणानामग्न्यादिषु लयस्य मुख्यत्वे जीवस्य गतिभोगयोरयोगात्सर्वे प्राणा अनूत्क्रामन्तीति विस्पष्टश्रुतेर्लोमादिगौणलयपाठाच्च गौणत्वमित्यर्थः

46.5

एन्द् ब्स्चोम्_3,1.1.4
स्तर्त् ब्स्चोम्_3,1.1.5
प्रथमे ऽश्रवणाद् इति चेन् न ता एव ह्य् उपपत्तेः । ब्ब्स्_3,1.5 ।
स्यादेतत् ।
कथं पुनः ऽपञ्चम्यामाहुतावापः पुरुषवचसो भवन्तिऽ (छा. 5.3.3) इत्येतन्निर्धारयितुं पार्यते ।
यावता नैव प्रथमे ऽग्नावपां श्रवणमस्ति ।
इह हि द्युलोकप्रभृतयः पञ्चाग्नयः पञ्चानामाहुतीनामादारत्वेनाधीताः ।
तेषां च प्रमुखे ऽअसौ वाव लोको गौतमाग्निःऽ (छा. 5.4.1) इत्युपक्रम्य ऽतस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वतिऽ (छा. 5.4.2)
इति श्रद्धा हौम्यद्रव्यत्वेनावेदिता ।
न तत्रापो हौम्यद्रव्यतया श्रुताः ।
यदि नाम पर्जन्यादिषूत्तरेषु चतुर्ष्वग्निष्वपां हौम्यद्रव्यता परिकल्प्येत परिकल्प्यतां नाम ।
तेषु होतव्यतयोपात्तानां सोमादीनामब्बहुलत्वोपपत्तेः ।
प्रथमे त्वग्नौ श्रुतां श्रद्धां परित्यज्याश्रुता आपः परिकल्प्यन्त इति साहसमेतत् ।
श्रद्धा च नाम प्रत्ययविशेषः प्रसिद्धिसामर्थ्यात् ।
तस्मादयुक्तः पञ्चम्याहुतावपां पुरुषभाव इति चेत् ।
नैष दोषः ।
यतस्तत्रापि प्रथमे ऽग्नौ ता एवापः श्रद्धाशब्देनाभिप्रेयन्ते ।
कुतः उपपत्तेः ।
एवंह्यादिमध्यावसानसंगानादनाकुलमेतदेकवाक्यमुपपद्यते ।
इतरथा पुनः पञ्चम्यामाहुतावपां पुरुषवचस्त्वप्रकारे पृष्टे प्रतिवचनावसरे प्रथमाहुतिस्थाने यद्यनपो हौम्यद्रव्यं श्रद्धां नामावतारयेत्ततो ऽन्यथा प्रश्नो ऽन्यथा प्रतिवचनमित्येकवाक्यता न स्यात् ।
ऽइति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तिऽ इति चोपसंहरन्नेतदेव दर्शयति ।
श्रद्धाकार्यं च सोमवृष्ट्यादि स्थूलीभवदब्बहुलं लक्ष्यते ।
सा च श्रद्धाया अप्त्वे युक्तिः ।
कारणानुरूपं हि कार्यं भवति ।
नच श्रद्धाख्यः प्रत्ययो मनसो जीवस्य वा धर्मः सन्धर्मिणो निष्कृष्य होमायोषादातुं शक्यते पश्वादिभ्य इव हृदयादीनित्याप एव श्रद्धाशब्दा भवेयुः ।
श्रद्धाशब्दश्चाप्सूपपद्यते, वैदिकप्रयोगदर्शनात् ऽश्रद्धा वा आपःऽ इति ।
तनुत्वं श्रद्धासारूप्यं गच्छन्त्य आपो देहबीजभूता इत्यतः श्रद्धाशब्दाः स्युः ।
यथा सिंहपराक्रमो नरः सिंहशब्दो भवति ।
श्रद्धापूर्वककर्मसमवायाच्चाप्सु श्रद्धाशब्द उपपद्यते, मञ्चशब्द इव पुरुषेषु ।
श्रद्धाहेतुत्वाच्च श्रद्धाशब्दोपपत्तिः ऽअपो हास्मै श्रद्धां संनमन्ते पुण्याय कर्मणेऽ इति श्रुतेः

46.5

fन्: संगानं तमुत्क्रामन्तमित्यादौ ।
अनपः अब्द्यो ऽन्यतः ।
अस्मै यजमानाय ।
संनमन्ते जनयन्ति ।
भूतान्तरयुक्तानामपां गतिमुक्त्वा पुरुषवचस्त्वं तासामाक्षिप्य समाधत्ते- प्रथम इति ।
ननु प्रथमपदं व्यर्थमुत्तराग्निष्वप्यपामश्रवणादित्याशङ्क्य सोमवृष्ट्यन्नरेतसामब्रूपत्वादुत्तरत्र तासां श्रवणमस्ति, न प्रथम इत्याह- यदिनामेति ।
पञ्चाग्निष्वपामाहुतित्वे सिद्धे तासां पञ्चम्यामाहुतौ पुरुषवचस्त्वं भवेन्न तत्सिद्धं प्रथमाग्नौ तासामनाहुतित्वादिति शङ्कार्थः एवं हि श्रद्धाशब्देनापां ग्रहे सति प्रश्नोत्तरोपसंहाराणां संगानादेकार्थत्वादेकवाक्यतोपपद्यते, अग्रहे तु चतुर्ष्वग्निष्वेवापामाहुतित्वाच्चतुर्थ्यामाहुताविति वाच्यं, अतः प्रश्नोपसंहारयोः पञ्चम्यामिति श्रवणात्, प्रथमाग्नावप्याप एव ग्राह्या इति समाधानार्थः ।
अनपः अद्भ्यो ऽन्यतः ।
एतदेवेति ।
श्रद्धाशब्दस्याबर्थकत्वं दर्शयतीत्यर्थः ।
उपपत्तेरित्यस्यार्थान्तरमाह- श्रद्धाकार्यमिति ।
तस्याः श्रद्धाहुतेः सोमः संभवतीत्यादिना श्रद्धासोमादीनां पूर्वपूर्वपरिणामत्वं श्रुतं ततो द्रवपरिणामत्वात् श्रद्धाया अप्त्वं प्रत्ययात्मकमुख्यश्रद्धाया आहुतित्वायोगाच्चेत्यर्थः ।
श्रद्धाशब्दस्याप्सु सूक्ष्मत्वगुणेन वृत्तिमुक्त्वा लक्षणां वक्तुं श्रद्धाया अद्भिरेककर्मयोगित्वं हेतुत्वं वा संबन्धमाह- श्रद्धापूर्वकेति ।
अस्मै यजमानाय ।
स्नानाद्यर्थमापः श्रद्धां संनमन्ते जनयन्तीति श्रुत्यर्थः

46.6

एन्द् ब्स्चोम्_3,1.1.5
स्तर्त् ब्स्चोम्_3,1.1.6
अश्रुतत्वाद् इति चेन् नेष्टादिकारिणां प्रतीतेः । ब्ब्स्_3,1.6 ।
अथापि स्यात्प्रतिवचनाभ्यां नामापः श्रद्धादिक्रमेण पञ्चम्यामाहुतौ पुरुषाकारं प्रतिपद्येरन् ।
नतु तत्संपरिष्वक्ता जीवा रंहेयुः ।
अश्रुतत्वात् ।
नह्यत्रापामिव जीवानां श्रावयिता कश्चिच्छब्दो ऽस्ति ।
तस्माद्रंहति संपरिष्वक्त इत्ययुक्तमिति चेत् ।
नैष दोषः ।
कुतः - इष्टादिकारिणां प्रतीतेः ।
ऽअथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसंभवन्तिऽ (छा. 5.10.6) इत्युपक्रम्येष्टादिकारिणां धूमादिना पितृयाणेन पथा चन्द्रप्राप्तिं कथयति- ऽआकाशाच्चन्द्रमसमेष सोमो राजाऽ (छा. 5.10.4) इति ।
त एवेहापि प्रतीयन्ते ऽतस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति तस्या आहुतेः सोमो राजा संभवतिऽ (छा. 5.4.2) इति श्रुतिसामान्यात् ।
तेषां चाग्निहोत्रादर्शपूर्णमासादिकर्मसाधनभूता दधिपयःप्रभृतयो द्रवद्रव्यभूयस्त्वात्प्रत्यक्षमेवापः सन्ति ।
तां आहवनीये हुताः सूक्ष्मा आहुत्यो ऽपूर्वरूपाः सत्यस्तानिष्टादिकारिण आश्रयन्ति ।
तेषां च शरीरं नैधनेन विधानेनान्त्ये ऽग्रावृत्विजो जुह्वति ऽअसौ स्वर्गाय लोकाय स्वाहाऽ इति ।
ततस्ताः श्रद्धापूर्वककर्मसमवायिन्य आहुतिमय्य आपो ऽपूर्वरूपाः सत्यस्तानिष्टादिकारिणो जीवान्परिवेष्टयामुं लोकं फलदानाय नयन्तीति यत्तदत्र जुहोतिनाभिधीयते- ऽश्रद्धां जुह्वतिऽ (बृ. 6.2.9) इति ।
तथाचाग्निहोत्रे षट्प्रश्नीनिर्वचनरूपेण वाक्यशेषेण ऽते वा एते आहुती हुते उत्क्रामतःऽ इत्येवमादिनाग्निहोत्राहुत्योः फलारम्भाय लोकान्तरप्राप्तिः प्रदर्शिता ।
तस्मादाहुतीमयीभिरद्भिः संपरिष्वक्ता जीवा रंहन्ति स्वकर्मफलोपभोगायेति श्लिष्यते

46.6

fन्: नैधनेन अन्त्येष्ट्याख्येन ।
असौ स्वर्गाय गच्छत्विति मन्त्रार्थः ।
अपां गतिमुपेत्याद्भिः सह जीवानां गतिमाक्षिप्य समाधत्ते- अथापीत्यादिना ।
द्युलोकाग्नौ श्रद्धाहुतेः सोमो राजा संभवतीत्युक्त्वा वाक्यशेषे धूमादिमार्गेण आकाशाच्चन्द्रमसं प्राप्ता इष्ट्यादिकारिण एष सोमो राजेत्युक्ताः, अतः सोमराजाशब्दसामान्यादिष्ट्यादिकारिणां जीवानां श्रद्धाशब्दिताद्भिः सह गतिरिह श्रद्धाहुतिवाक्ये प्रतीयत इत्यर्थः ।
तेषां सूक्ष्माभिर्द्रव्यापूर्वरूपाभिः पञ्चीकृताभिरद्भिः संबन्धं वदन् सहगतिं विवृणोति- तेषां चाग्निहोत्रेति ।
निधनं मरणं तन्निमित्तकमन्त्येष्टिविधानं, असौ यजमानः, स्वर्गाय गच्छत्विति मन्त्रार्थः ।
हुतद्रव्यरूपाणामपां गमने श्रुत्यन्तरमाह- तथाचेति ।
अग्निहोत्रप्रकरणे जनकेन याज्ञवल्क्यं प्रति ऽनत्वेवैनयोः सायंप्रातराहुत्योस्त्वमुत्क्रान्तिं न गतिं न प्रतिष्ठां न तृप्तिं न पुनरावृत्तिं न लोकं प्रत्युत्थायिनं वेत्थऽइति षट् प्रश्नाः कृतास्तेषां निर्वचनमपि राज्ञैव ऽते वा एते आहुती हुते उत्क्रामतः ते ऽन्तरिक्षद्वारा दिवं गच्छतस्ते दिवमेवाहवनीयं प्रतिष्ठां कुर्वाते दिवं तर्पयतस्ते ततः पुनरावर्तेते ततः पृथिव्यां पुरुषे योषिति च हुते पुरुषरूपेणोत्तिष्ठतःऽइति वाक्यशेषेण कृतम्

46.7

एन्द् ब्स्चोम्_3,1.1.6
स्तर्त् ब्स्चोम्_3,1.1.7
कथं पुनरिदमिष्टादिकारिणां स्वकर्मफलोपभोगाय रंहणं प्रतिज्ञायते ।
यावता तेषां धूमप्रतीकेन वर्त्मना चन्द्रमसमधिरूढानामन्नभावं दर्शयति- ऽएष सोमो राजा तद्देवानामन्नं ते देवा भक्षयन्तिऽ (छा. 5.10.4) इति ऽते चन्द्रं प्राप्यान्नं भवन्ति तांस्तत्र देवा यथा सोमं राजानमप्यायस्वापक्षीयस्वेत्येवमेनांस्तत्र भक्षयन्तिऽ (बृ. 6.2.16) इति च समानविषयं श्रुत्यन्तरम् ।
नच व्याघ्रादिभिरिव देवैर्भक्ष्यमाणानामुपभोगः संभवतीति ।
अत उत्तरं पठति-
भाक्तं वानात्मवित्त्वात् तथा हि दर्शयति । ब्ब्स्_3,1.7 ।
वाशब्दश्चोदितदोषव्यावर्तनार्थः ।
भाक्तमेषामन्नत्वं न मुख्यम् ।
मुख्ये ह्यन्नत्वे स्वर्गकामो यजेत इत्येवञ्जातीयकाधिकारश्रुतिरुपपध्येत ।
चन्द्रमण्डले चेदिष्टादिकारिणामुपभोगो न स्यात्किमर्थमधिकारिण इष्टाद्यायासबहुलं कर्म कुर्युः ।
अन्नशब्दश्चोपभोगहेतुत्वसामान्यादन्ने ऽप्युपचर्यमाणो दृश्यते ।
यथा विशो ऽन्नं राज्ञां पशवो ऽन्नं विशामिति ।
तस्मादिष्टस्त्रीपुत्रमित्रभृत्यादिभिरिव गुणभावोपगतैरिष्टादिकारिभिर्यत्सुखविहरणं देवानां तदैवेषां भक्षणमभिप्रेतं न मोदकादिवच्चर्वणं निगरणं वा ।
ऽन ह वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्तिऽ (छा. 3.6.1) इति च देवानां चर्वणादिव्यापारं वारयति ।
तेषां चेष्टादिकारिणां देवान्प्रति गुणभावोपगतानामप्युपभोग उपपद्यते राजोपजीविनामिव परिजनानाम् ।
अनात्मवित्त्वाच्चेष्टादिकारिणां देवोपभोग्यभाव उपपद्यते ।
तथाहि श्रुतिरनात्मविदां देवोपभोग्यतां दर्शयति- ऽअथ यो ऽन्यां देवतामुपास्ते ऽन्यो ऽसावन्यो ऽहमस्मीति न स वेद यथा पशुरेवं स देवानाम्ऽ (बृ. 1.4.10) इति ।
स चास्मिन्नपि लोक इष्टादिभिः कर्मभिः प्रीमन्पशुवद्देवानामुपकरोतीति लोके तदुपजीवी तदादिष्टं फलमुपभुञ्जानः पशुवद्देवानामुपकरोतीति गम्यते ॥
अनात्मवित्त्वात्तथाहि दर्शयतीत्यस्यापरा व्याख्या- अनात्मविदो ह्येते केवलकर्मिणैष्टादिकारिणो न ज्ञानकर्मसमुच्चयानुष्ठायिनः ।
पञ्चाग्निविद्यामिहात्मविद्येत्युपचरन्ति प्रकरणात् ।
पञ्चाग्निविज्ञानविहीनत्वाच्चेदमिष्टादिकारिणां गुणवादेनान्नत्वमुद्भाव्यते पञ्चाग्निविज्ञानप्रशंसायै ।
पञ्चाग्निविद्या हीह विधित्सिता ।
वाक्यतात्पर्यावगमात् ।
तथाहि श्रुत्यन्तरं चन्द्रमण्डले भोगसद्भावं दर्शयति- ऽस सोमलोके विभूतिमनुभूय पुनरावर्ततेऽ (प्र. 5.4) इति ।
तथान्यदपि श्रुत्यन्तरम् ऽअथ ये शतं पितृणां जितलोलोकानामानन्दाः स एकः कर्मदेवनामानन्दो ये कर्मणा देवत्वमभिसंपद्यतेऽ (बृ. 4.3.33) इतीष्टादिकारिणां देवैः संवसतां भोगप्राप्तिं दर्शयति ।
एवं भाक्तत्वादन्नभाववचनस्येष्टादिकारिणो ऽत्र जीवारंहन्तीति प्रतीयते ।
तस्माद्रंहति संपरिष्वक्त इति युक्तमेवोक्तम्

46.7

fन्: अधिक्रियते पुरुषो विधिना संबध्यते ऽनेनेत्यधिकारः फलकामना ।
यथा पशुर्भोग्य एवमज्ञः न भेदधीमान्देवानां भोग्य इत्यर्थः ।
संप्रत्युत्तरसूत्रव्यावर्त्यं शङ्कते- कथमित्यादिना ।
अत्र सोमाख्यचन्द्रस्यान्नत्वमुक्तं नेष्टादिकारिणामिति भ्रान्तिनिरासार्थं श्रुत्यन्तरमाह- ते चन्द्रमिति ।
यथा यज्ञे चमसस्थं सोममृत्विज आप्यायस्वेति क्रियावृत्तौ लोट् पुनः पुनराप्याय्य पुनः पुनरपक्षय्य भक्षयन्ति ।
एवमेनानिष्टादिकारिणो ऽन्नरूपान् भक्षयन्ति देवा इत्यर्थः ।
अधिक्रियते पुरुषो विधिना संबध्यते ऽनेनेत्यधिकारः फलकामना ।
शास्त्रानर्थक्यवारणाय अन्नत्वं गोणमिति भावः ।
केन दोषेण तेषां देवभोग्यतेत्यत आह- अनात्मवित्त्वाच्चेति ।
यथा पशुर्भोग्य एवमज्ञः स भेदधीमान् देवानां भोग्य इत्यर्थः ।
आत्मशब्दस्य मुख्यत्वबलेन सूत्रांशं व्याख्याय प्रकृतपञ्चाग्नयः सूत्रकृतात्मत्वेनोपचरिता इति व्याख्यान्तरमाह- अनात्मेत्यादिना ।
विद्यास्तुत्यर्थमन्नत्वं न मुख्यमित्यत्र श्रुत्यन्तरार्थं सूत्रशेषं व्याचष्टे- तथाहीति ।
एवं गतिपर्यालोचनया वैराग्यमिति सिद्धम्

46.8

एन्द् ब्स्चोम्_3,1.1.7
स्तर्त् ब्स्चोम्_3,1.2.8
2 कृतात्ययाधिकरणम् । सू. 8-11
कृतात्यये ऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च । ब्ब्स्_3,1.8 ।
इष्टादिकारिणां धूमादिना वर्त्मना चन्द्रमण्डलमधिरूढानां भुक्तभोगानां ततः प्रत्यवरोह आम्नायते- ऽतस्मिन्यावत्संपातमुषित्वाथैतमेवाध्वां पुनर्निवर्तन्ते तथेतम्ऽ (छा. 5.10.5) इत्यारभ्य यावद्रमणीयचरणा ब्राह्मणादियोनिमापद्यन्ते कपूयचरणाः श्वादियोनिमिति ।
तत्रेदं विचार्यते- किं निरनुशया भुक्तकृत्स्नकर्माणो ऽवरोहन्त्याहोस्वित्सानुशया इति ।
किं तावत्प्राप्तम् ।
निरनुशया इति ।
कुतः - यावत्संपातमिति विशेषणात् ।
संपातशब्देनात्र कर्माशय उच्यते- संपतन्त्यनेनास्माल्लोकादमुं लोकं फलोपभोगायेति ।
यावत्संपातमुषित्वेति च कृत्स्नस्य तस्य कृतस्य तत्रैव भुक्ततां दर्शयति ।
तेषां यदा तत्पर्यवेतिऽ (बृ. 6.2.16) इति च श्रुत्यन्तरेणैव एवार्थः प्रदर्श्यते ।
स्यादेतत् ।
यावदमुष्मिंल्लोक उपभोक्तव्यं कर्म तावदुपभुङ् क्त इति कल्पयिष्यामीति ।
नैवं कल्पयितुं शक्यते यत्किञ्चेत्यन्यत्र परामर्शात् ।
प्राप्यन्तं कर्मणस्तस्य यत्किञ्चेह करोत्ययम् ।
तस्माल्लोकात्पुनरैत्यस्मै लोकाय कर्मणे (बृ. 4.4.6) इति ह्यपरा श्रुतिर्यत्किञ्चेत्यविशेषपरामर्शेन कृत्स्नस्येह कृतस्य कर्मणस्तत्र क्षयितां दर्शयति ।
अपिच प्रायणमनारब्धफलस्य कर्मणो ऽभिव्यञ्जकम् ।
प्राक्प्रायणादारब्धफलेन कर्मणा प्रतिबद्धस्याभिव्यक्त्यनुपपत्तेः ।
तच्चाविशेषाद्यावत्किञ्चिदनारब्धफलं तस्य सर्वस्याभिव्यञ्जकम् ।
नहि साधारणे निमित्ते नैमित्तिकमसाधारणं भवितुमर्हति ।
न ह्यविशिष्टे प्रदीपसंनिधौ धटो ऽभिव्यज्यते न पट इत्युपपद्यते ।
तस्मान्निरनुशया अवरोहन्तीत्येवं प्राप्ते ब्रूमः कृतात्यये ऽनुशयवानिति ।
येन कर्मवृन्देन चन्द्रमसमारूढाः फलोपभोगाय तस्मिन्नुपभोगेन क्षीयते तेषां यदंमयं शरीरं चन्द्रमस्युपभोगायारब्धं तदुपभोगक्षयदर्शनशोकाग्निसंपर्कादिव च घृतकाठिन्यम् ।
ततः कृतात्यये कृतस्येष्टादेः कर्मणः फलोपभोगेनोपक्षये सति सानुशया एवेममवरोहन्ति ।
केन हेतुना ।
दृष्टस्मृतिभ्यामित्याह ।
तथाहि प्रत्यक्षा श्रुतिः सानुशयानामवरोहं दर्शयति- ऽतद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन्ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वाथ यैह क पूयचरणां अभ्याशो ह यत्ते कपूयां योनिमापद्येरञ्श्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वाऽ (छा. 5.10.7) इति ।
चरणशब्देनानुशयः सूच्यत इति वर्णयिष्यति ।
दृष्टश्चायं जन्मनैव प्रतिपण्युच्चावचरूप उपभोगः प्रविभज्यमान ।
आकस्मिकत्वासंभवादनुशयसद्भावं सूचयति, अभ्युदयप्रत्यवाययोः सुकृतदुष्कृतहेतुत्वस्य सामान्यतः शास्त्रेणावगमित्वात् ।
स्मृतिरपि ऽवर्णा आश्रमाश्च स्वकर्मनिष्ठाः प्रेत्य कर्मफलमनुभूय ततः शेषेण विशिष्टदेशजातिकुलरूपायुःश्रुतवृत्तसुखमेधसो जन्म प्रतिपद्यन्तेऽ इति सानुशयानामेवावरोहं दर्शयति - कः पुनरनुशयो नामेति ।
केचित्तावदाहुः - स्वर्गार्थस्य कर्मणो भुक्तफलस्यावशेषः कश्चिदनुशयो नाम भाण्डानुसारिस्नेहवत् ।
यथाहि स्नेहभाण्डं रिच्यमानं न सर्वात्मना रिच्यते भाण्डानुसार्येव कश्चित्स्नेहशेषो ऽवतिष्ठते तथानुशयो ऽपीति ।
ननु कार्यविरोधित्वाददृष्टस्य न भुक्तफलस्यावशेषावस्थानं न्याय्यम् ।
नायं दोषः ।
नहि सर्वात्मना भुक्तफलत्वं कर्मणः प्रतिजानीमहे ।
ननु निरवशेषकर्मफलोपभोगाय चन्द्रमण्डलमारूढः ।
बाढम् ।
तथापि स्वल्पकर्मावशेषमात्रेण तत्रावस्थातुं न लभ्यते ।
यथा किल कश्चित्सेवकः सकलैः सेवोपकरणै राजकुलमुपसृपश्चिरप्रवासात्परिक्षीणवहूपकरणश्छत्रपादुकादिमात्रावशेषो न राजकुले ऽवस्थातुं शक्नोति ।
एवमनुशयमात्रपरिग्रहो न चन्द्रमण्डलो ऽवस्थातुं शक्नोतीति ।
नचैतद्युक्तमिव ।
नहि स्वर्गस्थस्य कर्मणो भुक्तफलस्यावशेषानुवृत्तिरुपपद्यते कार्यविरोधित्वादित्युक्तम् ।
नन्वेतदयुक्तम् ।
न स्वर्गफलस्य कर्मणो निखिलस्य भुक्तफलत्वं भविष्यतीति ।
तदेतदपेशलम् ।
स्वर्गार्थं किल कर्म स्वर्गस्थस्यैव स्वर्गफलं निखिलं न जनयति स्वग्रच्युतस्यापि कञ्चित्फललेशं जनयतीति ।
न शब्दप्रमाणकामानीदृशी कल्पनावकल्पते ।
स्नेहभाण्डे तु स्नेहलेशानुवृत्तिर्दृष्टत्वादुपपद्यते ।
तथा सेवकस्योपकरणलेशानुवृत्तिश्च दृश्यते ।
नत्विह तथा स्वर्गफलस्य कर्मणो लेशानुवृत्तिर्दृश्यते नापि कल्पयितुं शक्यते स्वर्गफलत्वशास्त्रविरोधात् ।
अवश्यं चैतदेवं विज्ञेयम् ।
न स्वर्गफलस्येष्टादेः कर्मणो भाण्डानुसारिस्नेहवदेकदेशो ऽनुवर्तमानो ऽनुशय इति ।
यदिहि येन सुकृतेन कर्मणेष्टादिना स्वर्गमन्वभूवंस्तस्यैव कश्चिदेकदेशो ऽनुशयः कल्प्येत ततो रमणीय एवैको ऽनुशयः स्यान्न विपरीतः ।
तत्रेयमनुशयविभागश्रुतिरुपरुध्येत- ऽतद्य इह रमणीयचरणा, अथ कपूयचरणाःऽ (छा. 5.10.7) इति ।
तस्मादामुष्मिकफले कर्मजात उपभुक्ते ऽवशिष्टमैहिकफलं कर्मान्तरजातमनुशयस्तद्वन्तऽवरोहन्तीति ।
यदुक्तं यत्किञ्चेत्यविशेषपरामर्शात्सर्वस्येह कृतस्य कर्मणः फलोपभोगेनान्तं प्राप्य निरनुशया अवरोहन्तीति ।
नैतदेवम् ।
अनुशयसद्भावस्यावगमितत्वात् ।
यत्किञ्चिदिह कृतमामुष्मिकफलं कर्मारब्धभोगं तत्सर्वं फलोपभोगेन क्षपयित्वेति गम्यते ।
यदप्युक्तं प्रायणमविशेषादनारब्धफलं कृत्स्नमेव कर्माभिव्यनक्ति तत्र केनचित्कर्मणामुष्मिंल्लोके फलमारभ्यते केनचिदस्मिन्नित्यत्वं प्रत्युक्तम् ।
अपिचकेन हेतुना प्रायणमनारब्धफलस्य कर्मणो ऽभिव्यञ्जकं प्रतिज्ञायत इति वक्तव्यम् ।
यथैव तर्हि प्राक्प्रयाणादारब्धफलेन कर्मणा प्रतिबद्धस्येतरस्य वृत्त्युद्भवानुपपत्तिरित्येवं प्रायणकाले ऽपि विरुद्धफलस्यानेकस्य कर्मणो युगपत्फलारम्भासंभवाद्बलवता प्रतिबद्धस्य दुर्बलस्य वृत्त्युद्धवानुपपतितिरिति ।
नह्यनारब्धफलत्वसामान्येन जात्यन्तरोपभोग्यफलमप्यनेकं कर्मैकस्मिन्प्रायणे युगपदभिव्यक्तं सदेकां जातिमारभत इति शक्यं वक्तुं, प्रतिनियतफलत्वविरोधात् ।
नापि कस्यचित्कर्मणः प्रायणे ऽभिव्यक्तिः कस्यचिदुच्छेद इति शक्यते वक्तुम् ।
ऐकान्तिकफलत्वविरोधात् ।
नहि प्रायश्चित्तादिभिर्हेतुभिर्विना कर्मणामुच्छेदः संभाव्यते ।
स्मृतिरपि विरुद्धफलेन कर्मणा प्रतिबद्धस्य कर्मान्तरस्य चिरमवस्थानं दर्शयति- ऽकदाचित्सुकृतं कर्म कूचस्थमिह तिष्ठति ॥
मज्जमानस्य संसारे यावद्दुःखादिमुच्यते इत्येवञ्जातीयका ।
यदि च कृत्स्नमनारब्धफलं कर्मैकस्मिन्प्रायणे ऽभिव्यक्तं सदेकां जातिमारभेत ततः स्वर्गनरकतिर्यग्योनिष्वधिकारानवगमाद्धर्माधर्मानुत्पत्तौ निमित्ताभावान्नोत्तरा जातिरुपपद्येत ।

ब्रह्महत्यादीनां चैकैकस्य कर्मणो ऽनेकजन्मनिमित्तत्वं स्मर्यमाणमुपरुध्येत ।
नच धर्माधर्मयोः स्वरूपफलसाधनादिसमधिगमे शास्त्रादतिरिक्तं कारणं शक्यं संभावयतुम् ।
नच दृष्टफलस्य कर्मणः कारीर्यादेः प्रायणमभिव्यञ्जकं संभवतीत्यव्यापिकापीयं प्रायणस्याभिव्यञ्जकत्वकल्पना ।
प्रदीपोपन्यासो ऽपि कर्मबलाबलप्रदर्शनेनैव प्रतिनीतः ।
स्थूलसूक्ष्मरूपाभिव्क्त्यनभिव्यक्तिवच्चेदं द्रष्टव्यम् ।
यथाहि प्रदीपः समाने ऽपि संनिधाने स्थूलं रूपमभिव्यनक्ति न सूक्ष्मम् ।
एवं प्रायणं समाने ऽप्यनारब्धफलस्य कर्मजातस्य प्राप्तावसरत्वे बलवतः कर्मणो वृत्तिमुद्भावयति न दुर्बलस्येति ।
तस्माच्छ्रुतिस्मृतिन्यायविरोधादश्लिष्टो ऽयमशेषकर्माभिव्यक्त्यभ्युपगमः ।
शेषकर्मसद्भावे ऽनिर्मोक्षप्रसङ्गः इत्ययमप्यस्थाने संभ्रमः ।
सम्यग्दर्शनादशेषकर्मक्षयश्रुतेः ।
तस्मात्स्थितमेतदेवानुशयवन्तो ऽवरोहन्तीति ।
ते चावरोहन्तो यथेतमनेवं चावरोहन्ति ।
यथेतमिति यथागतमित्यर्थः ।
अनेवमिति तद्विपर्ययेणेत्यर्थः ।
धूमाकाशयोः पितृयाणे ऽध्वन्युपात्तयोरवरोहे संकीर्तनाद्यथेतंशब्दाच्च यथागतमिति प्रतीयते ।
रात्र्याद्यसंकीर्तनादभ्राद्युपसंख्यानाच्च विपर्ययो ऽपि प्रतीयते

46.8

fन्: अनुशयः कर्म ।
तत् कर्म ।
प्रत्यवैति परिक्षीणं भवति ।
अभिव्यक्तिः फलोन्मुखता ।
तत् तत्रावरोहतां जीवानां मध्ये इह कर्मभूमौ रमणीयचरणाः पुण्यकर्मणः इति यत् तत् आभ्याशोह अवश्यं हीत्यर्थः ।
कपूयं पापम् ।
रिच्यमानं वियुज्यमानम् ।
इदानीं गत्यन्तरभाविनीमागतिं निरूपपयति- कृतात्यय इति ।
भोक्तव्यकर्मसमाप्त्यानन्तर्यमथशब्दार्थः ।
यथेतमित्यारभ्य श्वादियोनिमित्यन्तं वाक्यं यावत्तावदाम्नायत इति योजना ।
अत्र यावत्संपातमिति विशेषणाद्रमणीयचरणा इति वाक्याच्च संशयमाह- तत्रेति ।
अनुशयः कर्म, अत्र पूर्वपक्षे कर्माभावेनागतेरनियमाद्वैराग्यादार्ढ्यं, सिद्धान्ते कर्मसत्त्वेनागतिनियमाद्वैराग्यदार्ढ्यमिति भेदः ।
तेषामिष्टादिकारिणां यदा तत्कर्म पर्यवैति विपरिक्षीणं भवति तदा पुनरावर्तन्त इति श्रुत्यन्तरेणापि कृत्स्रकर्मणश्चन्द्रलोके भुक्तत्वमुच्यत इत्यर्थः ।
यावत्पदसङ्कोचो न युक्तः श्रुत्यन्तरविरोधादित्याह- नैवमिति ।
अयं नरो यत्किञ्चिदिह लोके कर्म करोति तस्यान्तं फलं परलोके प्राप्य कर्मार्थं पुनरायातीति श्रुत्यर्थः ।
कर्माभावे श्रुतिमुक्त्वा युक्तिमाह- अपिचेति ।
अभिव्यक्तिः फलोन्मुखता, मरणेनाभिव्यक्तस्य सर्वस्य कर्मणः परलोकभोगस्यावश्यंभावात्कर्माभाव इत्यर्थः ।
चरणाख्यसीलमात्रादवरोह इति प्राप्ते सिद्धान्तप्रतिज्ञां व्याचष्टे- येनेत्यादिना ।
तत् तत्रावरोहतां जीवानां मध्ये ये केचिदिह कर्मभूमौ रमणीयचरणाः पुण्यकर्माणः पुण्ययोनिभाज इति यत् तत् अभ्याशो ह अवश्यं हीत्यर्थः ।
कपूयं पापम् ।
दृष्टशब्दस्य श्रुत्यर्थमुक्त्वार्थान्तरमाह- दृष्टश्चेति ।
ऽपुण्यो वै पुण्येन कर्म भवति पापः पापेनऽइत्यादिशास्त्रेण सुखदुःखयोर्धर्मार्धर्महेतुकत्वमवगतम् ।
ततश्च जन्मारब्य दृष्टो भोगः कर्महेतुकः भोगत्वात्, स्वर्गभोगवदित्यानुशयसिद्धिः, विपक्षे च हेत्वभावात् भोगस्याकस्मिकत्वप्रसङ्ग इत्यर्थः ।
स्मृतवाश्रमाः आश्रमिणः प्रेत्य मृत्वा लोकान्तरे कर्मफलं भुक्त्वा ततः शेषेण भुक्तादन्येन कर्मणा अनुशयाख्येन पुनर्जन्म प्रतिपद्यन्ते इति संबन्धः ।
विशिष्टा देशादयो मेधान्ता दश गुणा येषु ते तथोक्ताः ।
श्रुतं ज्ञानं, वृत्तं आचारः ।
स्वाभिमतानुशयं वक्तुं पृच्छति- कः पुनरिति ।
कृतस्य कर्मणः स्वर्गे भोगे सति भुक्तस्य कर्मणो लेशो ऽनुशयस्तद्वानवरोहति भाण्डे स्नेहलेशस्य दृष्टत्वात्, ततः शेषेणेति स्मृतेश्चेत्येकदेशिव्याख्यामाह- केचिदित्यादिना ।
रिच्यमानं स्नेहेन वियुज्यमानम् ।
ननु भोगनाश्यत्वात् कर्मणो लेशो न युक्तः इति शङ्कते- नन्विति ।
कृत्स्नकर्मणो भोगे जाते नाशः स्यात्, नतु भोगो जात इति परिहारार्थः ।
भोगो न जायत इत्ययुक्तमिति शङ्कते- नन्विति ।
भोगः सावशेषो जात इति समाधत्ते- बाढमित्यादिना ।
इदमेकदेशिव्याख्यानं दूषयति- नचेति ।
ऽस्वर्गकामो यजेतऽइत्यादिशास्त्रेण स्वर्गभोगार्थं कर्म चोदितं, तच्छेषस्य मर्त्यभोगहेतुत्वे शास्त्रविरोध इत्यर्थः ।
किञ्च स्वर्गहेतुकर्मशेषादवरोहे कपूययोन्यापत्तिश्रुतिविरोध इत्याह- अवश्यं चेति ।
स्वाभिमतमनुशयमाह- तस्मादिति ।
पूर्वपक्षबीजमनूद्य दूषयति- यदित्यादिना ।
क्षपयित्वा पुनरागच्छन्तीति प्राप्यन्तमिति वाक्येन गम्यत इति योजना ।
जन्मारभ्य दृष्टभोगलिङ्गानुगृहीतया रमणीयकपूयचरणश्रुत्यैहिकानुशयाक्यकर्मविशेषणपरया विरोधात्, यत्किञ्चेति यावत्संपातमिति च सामान्यशब्दयोरामुष्मिकविषयत्वेन सङ्कोचो न्याय्य इति भावः ।
मरणं कृत्स्नकर्माभिव्यञ्जकमित्ययुक्तम्, उक्तानुशयश्रुतिविरोधादित्याह- तदपीति ॥
बलवदनारब्धकर्मप्रतिबन्धाच्च न कृत्स्नकर्माभिव्यक्तिरित्याह- अपिचेत्यादिना ।
तस्य कृतस्नकर्मव्यञ्जकत्वे हेतुर्नास्तीति भावः ।
प्रश्नं मत्वोत्तरं शङ्कते- आरब्धेति ।
आरब्धवदनारब्धस्यापि बलवतः प्रतिबन्धकत्वान्न सर्वकर्मणः फलदानायाभिव्यक्तिरिति समाधत्ते- यथेति ।
अनारशब्धफलत्वाविशेषात्सर्वकर्मणामभिव्यक्तिमाशङ्क्य मिथोविरुद्धस्वर्गनरकादिदेहफलानामेकदेहारम्भकत्वासंभव उक्तस्तं विवृणोति- नहीति ।
अस्तु तर्हि दुर्बलस्य कर्मणो नाश इत्यत आह -नापीति ।
नाभुक्तं क्षीयते कर्मेत्येकान्त उत्सर्गः स च प्रायश्चितब्रह्मज्ञानध्यानैर्बाध्यते न मरणमात्रणेत्यर्थः ।
मरणेन दुर्बलकर्माविनाशे मानमाह- स्मृतिरिति ।
कर्मनाशपक्षं निरस्य प्रकृतकृत्स्नकर्माभिव्यक्तिपक्षे दोषान्तरमाह- यदि चेति ।
ऽकृत्स्नकर्मणामेकस्मिन् देवादिजन्मनि भोगेन क्षयान्न जन्मान्तरं स्यात्, ज्ञानाभावान्न मुक्तिरित्यज्ञदेवस्य कष्टान्तरालदशा स्यादित्यर्थः ।
ऽश्वसूकरखरोष्ट्राणां गो ऽजाविमृगपक्षिणाम् ।
चण्डालपुल्कसानां च ब्रह्महा योनिमृच्छति ।
ऽइत्यादिस्मृतिविरोधाच्च न सर्वकर्मणामेकजन्मारम्भकत्वमित्याह- ब्रह्मेति ।
नन्वेकस्य कर्मणः कथमनेकजन्मफलकत्वम्, अदृष्टत्वादित्याह- नचेति ।
किञ्च व्यञ्जकत्वे ऽपि मरणस्य किं सर्वकर्मव्यञ्जकत्वं कल्प्यते उत यत्किञ्चित्कर्मव्यञ्जकत्वम् ।
नाद्यः, इह कृतकारीर्यादेरत्रैव फलहेतोर्मरणव्यज्यत्वासंभवादित्याह- नचेति ।
द्वितीयं निरस्यन् परोक्तं दृष्टान्तं विघटयति- प्रदीपेति ।
रूपाणां प्रदीपवत्, मरणं न कस्यचिदपि कर्मणो वयञ्जकं किन्तु प्रबलकर्मप्रतिबन्धाभावे दुर्बलं व्यज्यत इत्यर्थः ।
एवं मरणस्य व्यञ्जकत्वानङ्गीकारेण प्रदीपदृष्टान्तो निरस्तः,
अङ्गीकारे ऽप्यनुकूलो दृष्टान्त इत्याह- स्थूलेति ।
सूक्ष्ममनुद्भूतरूपमिति मरणे सर्वकर्माभिव्यक्त्यसिद्धिरिति शेषः ।
एवं सर्वकर्मसङ्घ एकजन्मारम्भक इत्यैकभविकः कर्माशय इति मतनिरासमुपसंहरति- तस्मादिति ।
चरणश्रुत्या ऽततः शेषेणऽइत्यादिस्मृत्या ऽप्रबलप्रतिबन्धात्ऽइतिन्यायेन चानभिव्यक्तकर्मसद्भावादित्यर्थः ।
ननु मुक्त्यनुपपत्त्याङ्गीकार्य ऐकभविक इत्यत आह- शेषेति ।
सूत्रशेषं व्याचष्टे- ते चेत्यादिना ।
अवरोहमार्ग इत्थं श्रूयते-ऽतस्मिन् यावत्संपातमुषित्वा अथैतमेवाध्वानं पुनर्निवर्तन्ते यथेतमाकाशमाकशाद्वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वाभ्रं भूत्वा मेघो भवति भूत्वा प्रवर्षति त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्ते अतो वै खलु दुर्निष्प्रपतरं यो यो ह्यन्नमत्ति यो रेतः सिञ्चति तद्भूय एव भवति तद्य इह रमणीयचरणा रमणीयां योनिमापद्यन्तेऽइति ।
धूमाद्यध्वना यथेतं यथागतं तथेतमध्वानं पुनरायन्तीत्युक्त्वा धूमादिरूपपितृमार्गस्थरात्र्यादिकं नोक्तमधिकं चाभ्रादिकमुक्तमिति मत्वा सूत्रकृतोक्तं यथेतमनेवं चेति ।
अवशिष्टश्रुत्यर्थो ऽग्ने स्फुटीभविष्यति

46.9

एन्द् ब्स्चोम्_3,1.2.8
स्तर्त् ब्स्चोम्_3,1.2.9
चरणाद् इति चेन् नोपलक्षणार्थेति कार्ष्णाजिनिः । ब्ब्स्_3,1.9 ।
अतापि स्यात् ।
या श्रुतिरनुशयसद्भावप्रतिपादनायोदाहृता- ऽतद्य इह रमणीयचरणाःऽ (छा. 5.10.7) इति ।
सा खलु चरणाद्योन्यापत्तिं दर्शयति नानुशयात् ।
अन्यच्चरणमन्यो ऽनुशयः ।
चरणं चारित्रमाचारः शीलमित्यनर्थान्तरम् ।
अनुशयस्तु भुक्तफलात्कर्मणो ऽतिरिक्तं कर्माभिप्रेतम् ।
श्रुतिश्च कर्माचरणे भेदेन व्यपदिशति- ऽयथाकारी यथाचारी तथा भवतिऽ (बृ. 4.4.5) इति, ऽयान्यनवद्यानि कर्माणि तानि सेवितव्यानि नो इतराणि, यान्यस्माकं सुचरितानि तानि त्वयोपस्यानिऽ (तै. 1.11.2) इति च ।
तस्माच्चरणाद्योन्यापत्तिश्रुतेर्नानुशयसिद्धिरितिचेत् ।
नैष दोषः ।
यतो ऽनुशयोपलक्षणार्थैवैषा चरणश्रुतिरिति कार्ष्णाजिनिराचार्यो मन्यते

46.9

संप्रति श्रुतिस्थचरणशब्दमाक्षेपपूर्वकं सूत्रकृद्व्याचष्टे- चरणादिति चेदिति ।
ऽअद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा ।
अनुग्रहश्च ज्ञानं च शीलमेतद्विदुर्बुधाःऽइति स्मृतावुक्तावद्रोहादयः शास्त्रार्थज्ञानरूपं शीलं सर्वकर्माङ्गमुक्तं तद्बोधकं चरणपदमङ्गिनः श्रौतादिकर्मणो लक्षकं, कर्मण एवोत्तरावस्था धर्माधर्माख्यापूर्वमिति कर्मलक्षणयैव तदभिन्नापूर्वाख्यानुशयसिद्धिरिति कार्ष्णाजिनिमतम्

46.10

एन्द् ब्स्चोम्_3,1.2.9
स्तर्त् ब्स्चोम्_3,1.2.10
आनर्थक्यम् इति चेन् न तदपेक्षत्वात् । ब्ब्स्_3,1.10 ।
स्यादेतत् ।
कस्मात्पुनश्चरणशब्देन श्रौतं शीलं विहाय लाक्षणिको ऽनुशयः प्रत्याय्यते ।
ननु शीलस्यैव श्रौतस्य विहितप्रतिष्द्धस्य साध्वसाधुरूपस्य शुभाशुभयोन्यापत्तिः फलं भविष्यति ।
अवश्यं च शीलस्यापि किञ्चित्फलमभ्युपगन्तव्यम् ।
अन्यथा ह्यानर्थक्यमेव प्रसज्यतेति चेत् ।
नैष दोषः ।
कुतः - तदपेक्षितत्वात् ।
इष्टादि हि कर्मजातं चरणापेक्षम् ।
नहि सदाचारहीनः कश्चिदधिकृतः स्यात्- ऽआचारहीनं न पुनन्ति वेदाःऽ इत्यादिस्मृतिभ्यः पुरुषार्थत्वे ऽप्याचारस्य नानर्थक्यम् ।
इष्टादौ हि कर्मजाते फलमारभमाणे तदपेक्ष एवाचारस्तत्रैव कञ्चिदतिशयमारप्स्यते ।
कर्म च सर्वार्थकारीति श्रुतिस्मृतिप्रसिद्धिः ।
तस्मात्कर्मैव शीलोपलक्षितमनुशयभूतं योन्यापत्तौ कारणमिति कार्ष्णाजिनेर्मतम् ।
नहि कर्मणि संभवति शीलाद्योन्यापत्तिर्युक्ता ।
नहि पद्भ्यां पलायितुं पारयमाणो जानुभ्यां रंहितुमर्हतीति

46.10

तदेव शङ्कासमाधानाभ्यमाह- आनर्थक्यमिति चेदित्यादिना सूत्रेण ।
चरणशब्दवाच्यस्यैव ग्रहणसंभवान्न लक्षणा युक्तेति शङ्कित्वैव ब्रूते- नन्विति ।
प्रतिषिद्धं शीलं क्रोधानृतादिरूपम् ।
किञ्च शीलस्य निष्फलत्वायोगाच्छ्रुतयोन्यापत्तिस्तस्यैव फलं नानुशयस्येत्याह- अवश्यं चेति ।
वेदास्तदर्थकर्माण्याचारं विना न फलन्तीति स्मृत्या शीलस्य कर्माङ्गत्वान्न पृथक्फलापेक्षा, अङ्गिफलेनार्थवत्त्वात् ।
न चाङ्गमात्राद्योन्यापत्तिः फलमिति वाच्यम् ।
अङ्गस्य फलासंभवेन मुख्यार्थस्याचारस्य ग्रहणायोगाल्लक्षणा युक्तेति समाधानार्थः ।
यद्याचारस्य स्नानादिवत् पुरुषसंस्कारतया पुरुषार्थत्वं तदाप्यविरोध इत्याह- पुरुषार्थत्वे ऽपीति ।
अङ्गावबद्धोपास्तिवदाचारोर्ऽथवानित्यर्थः ।
अस्तु तर्हि शीलख्याचारादेव योन्यापत्तिरित्याशङ्क्य ऽपुण्यो वै पुण्येन कर्मणाऽइत्यादि श्रुत्या विरोधान्नैवमित्याह- कर्म चेति ।
पारयमाणः शक्तः

46.11

एन्द् ब्स्चोम्_3,1.2.10
स्तर्त् ब्स्चोम्_3,1.3.11
सुकृतदुष्कृते एवेति तु बादरिः । ब्ब्स्_3,1.11 ।
बादरिस्त्वाचार्यः सुकृतदुष्कृते एव चरणशब्देन प्रत्याय्येते इति मन्यते ।
चरणमनुष्ठानं कर्मेत्यनर्थान्तरम् ।
तथाहि- अविशेषेण कर्ममात्रे चरतिः प्रयुज्यमानो दृश्यते ।
यो हीष्टादिलक्षणं पुण्यं कर्म करोति तं लौकिका आचक्षते धर्मं चरत्येष महात्मेति ।
आचारो ऽपि च धर्मविशेष एव ।
भेदव्यपदेशस्तु कर्मचरणयोर्बाह्मणपरिव्राजकन्यायेनाप्युपपद्यते ।
तस्माद्रमणीयचरणाः प्रशस्तकर्मणाः कपूयचरणा निन्दितकर्माण इति निर्णयः

46.11

fन्: गोबलीवर्दन्यायो ऽप्ययमेव ।
यद्यप्यक्रोधादिरूपं शीलं साधारणधर्मात्मकं विशेषरूपात् कर्मणो ऽभिन्नं तथापि चरणाचारशब्दौ कर्मवाचिनावेव न शीलवाचकाविति न लक्षणावसर इति बादरिमतं मुख्यसिद्धान्तमाह- सुकृतेति ।
चरणशब्दार्थमुपसंहरति- आचारो ऽपीति ।
कर्मण एवाचारत्वे यथाकारीत्यादिभेदोक्तिः कथमित्यत आह- भेदव्यपदेश इति ।
निरूपपदाचारशब्दात् सदाचाररूपो विशेषो भाति ।
अतस्तत्समभिव्याहृतः कर्मसामान्यवाचको यथाकारीति शब्दस्तदितरविशेषपरः एवमनवद्यानि कर्माणीति सामान्यतः, अस्माकं सुचरितानीति विशेष इति विवेकः ।
तस्मादनुशयबलादागत्यवश्यंभावानुसन्धानाद्वैराग्यमिति सिद्धम्

46.12

एन्द् ब्स्चोम्_3,1.3.11
स्तर्त् ब्स्चोम्_3,1.3.12
3 अनिष्टादिकार्यधिकरणम् । सू. 12-21
अनिष्टादिकारिणाम् अपि च श्रुतम् । ब्ब्स्_3,1.12 ।
इष्टादिकारिणश्चन्द्रमसं गच्छतीत्युक्तम् ।
ये त्वितरे ऽनिष्टादिकारिणस्ते ऽपि किं चन्द्रमसं गच्छन्त्युत न गच्छन्तीति चिन्त्यते ।
तत्र तावदाहुः - इष्टादिकारिण एव चन्द्रमसं गच्छन्तीत्येतन्न ।
कस्मात् ।
यतो ऽनिष्टादिकारिणामपि चन्द्रमण्डलं गन्तव्यत्वेन श्रुतम् ।
एथाह्यविशेषेण कौषीतकिनः समामनन्ति- ऽये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्तिऽ (कौषी. 1.2) इति ।
पञ्चभ्यामाहुतावित्याहुतिसंख्यानियमात् ।
यस्मात्सर्व एव चन्द्रमसमासीदेयुः ।
इष्टादिकारिणामितरेषां च समानगतित्वं न युक्तमिति चेत् ।
न ।
इतरेषां चन्द्रमण्डले भोगाभावात्

46.12

एवं पुण्यात्मनां गत्यागतिचिन्तया वैराग्यं निरूप्य पापिनां तच्चिन्तया तन्निरूपयति- अनिष्टादिकारिणामपीति ।
ऽये वै के चऽइत्यविशेषश्रुतेः, ऽवैवस्वतं संगमनं जनानाम्ऽइति श्रुतेश्च संशये प्रथमाधिकरणेन सिद्धनियमाक्षेपसंगत्या पूर्वपक्षसूत्रं व्याचष्टे- तत्रेत्यादिना ।
यमराजं पापिजनानां सम्यग्गम्यं, हविषा प्रीणयतेति श्रुत्यर्थः ।
पूर्वपक्षे पुण्यवतामेव चन्द्रगतिरिति नियमाभावात् पुण्यवैयर्थ्यं पापाद्वैराग्यादार्ढ्यं चेति फलं, सिद्धान्ते पापिनां चन्द्रलोकदर्शनमपि नास्तीति पुण्यार्थवत्त्वं वैराग्यदार्ढ्यं चेति फलम् ।
पञ्चमाग्नौ देहारम्भ इति नियमात्पापिनामपि प्रथमद्युलोकाग्निप्राप्तिर्वाच्येत्याह- देहारम्भ इति ।
पापिनां स्वर्गभोगाभावे ऽपि मार्गान्तराभावा चन्द्रगतिरिति भावः

46.13

एन्द् ब्स्चोम्_3,1.3.12
स्तर्त् ब्स्चोम्_3,1.3.13
संयमने त्व् अनुभूयेतरेषामारोहाव् अरोहौ तद्गतिदर्शनात् । ब्ब्स्_3,1.13 ।
तुशब्दः पक्षं व्यावर्तयति ।
नैतदस्ति सर्वे चन्द्रमसं गच्छन्तीति ।
एतत्कस्मात् ।
यतो भोगायैव चन्द्रारोहणं न निष्प्रयोजनम् ।
नापि प्रत्यवरोहायैव ।
यथा कश्चिद्वृक्षमारोहति पुष्पफलोपादानायैव न निष्प्रयोजनं नापि पतनायैव ।
भोगश्चानिष्टादिकारिणां चन्द्रमसि नास्तीत्युक्तम् ।
तस्मादिष्चादिकारिण एव चन्द्रमसमारोहन्ति नेतरे ।
ते तु संयमनं यमालयमवगाह्य स्वदुष्कृतानुरूपा यामीर्यातना अनुभूय पुनरेवेमं लोकं प्रत्यवरोन्ति ।
एवंभूतौ तेषामारोहावरोहौ भवतः ।
कुतः - तद्गतिदर्शनात् ।
तथाहि यमवचनसरूपा श्रुतिः प्रयतामनिष्टादिकारिणां यमवश्यतां दर्शयति- ऽन सांपरायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम् ।
अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मेऽ (कठ. 2.6) इति ।
ऽवैवस्वतं संगमनं जनानाम्ऽ इत्येवञ्जातीयकं च बह्वेव यमवश्यताप्राप्तिलिङ्गं भवति

46.13

सिद्धान्तसूत्रं व्याचष्टे- तुशब्द इत्यादिना ।
संयमने यमलोके यमकृता यातना अनुभूयावरोहन्तीत्येवमारोहावरोहाविति योजना सूत्रस्य ज्ञेया ।
प्रयतां मृत्वा गच्छताम् ।
सम्यक् परस्तात्प्राप्यत इति संपरायः परलोकः तदुपायः सांपरायः, बालमज्ञं, विशेषतो वित्तरागेण मूढं मोहात्प्रमादं कुर्वन्तं प्रति न भाति ।
स च बालो ऽयं स्त्रीवित्तादिलोको ऽस्ति न परलोको ऽस्तीति मानी ।
स मे मम यमस्य वशमाप्नोतीत्यर्थः ।
पापिनां यमवश्यतावादिविशेषश्रुतिस्मृतिबलात्ऽये वै के चऽइत्यविशेषश्रुतिरिष्टादिकारिविषयत्वेन व्याख्येयेति भावः

46.14

एन्द् ब्स्चोम्_3,1.3.13
स्तर्त् ब्स्चोम्_3,1.3.14
स्मरन्ति च । ब्ब्स्_3,1.14 ।
अपिच मनुव्यासप्रभृतयः शिष्टाः संयमने पुरे यमायत्तं कपूयकर्मविपाकं स्मरन्ति नाचिकेतोपाख्यानादिषु

46.14

सूत्रत्रयस्य भाष्यं सुबोधम्

46.15

एन्द् ब्स्चोम्_3,1.3.14
स्तर्त् ब्स्चोम्_3,1.3.15
अपि च सप्त । ब्ब्स्_3,1.15 ।
अपिच सप्त नरका रौरवप्रमुखा दुष्कृतफलोपभोगभूमित्वेन स्मर्यन्ते पौराणिकैः ।
ताननिष्टादिकारिणः प्राप्नुवन्ति ।
कुतस्ते चन्द्रं प्राप्नुयुरित्यभिप्रायः

46.16

एन्द् ब्स्चोम्_3,1.3.15
स्तर्त् ब्स्चोम्_3,1.3.16
ननु विरुद्धमिदं यमायत्ता यातनाः पापकर्मणो ऽनुभवन्तीति ।
यावता तेषु रौरवादिष्वन्ये चित्रगुप्तादयो नानाधिष्ठातारः स्मर्यन्त इति ।
नेत्याह-
तत्रापि च तद्व्यापारादविरोधः । ब्ब्स्_3,1.16 ।
तेष्वपि सप्तसु नरकेषु तस्यैव यमस्याधिष्ठातृत्वव्यापाराभ्युपगमादविरोधः ।
यमप्रयुक्ता एव हि ते चित्रगुप्तादयो ऽधिष्ठातारः स्मर्यन्ते

46.17

एन्द् ब्स्चोम्_3,1.3.16
स्तर्त् ब्स्चोम्_3,1.3.17
विद्याकर्मणोर् इति तु प्रकृतत्वात् । ब्ब्स्_3,1.17 ।
पञ्चाग्निविद्यायाम् ऽवेत्थ यथासौ लोको न संपूर्यतेऽ (छा. 5.3.3) इत्यस्य प्रश्नस्य प्रतिवचनावसरे श्रूयते- ऽअथैतयोः पथोर्न कतरेणचन तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति ।
जायस्व म्रियस्वेत्येतत्तृतीयं स्थानं तेनासौ लोको न संपूर्यतेऽ (छा. 5.10.8) इति ।
तत्रैतयोः पथोरिति विद्याकर्मणोरित्येतत् ।
कस्मात् ।
प्रकृतत्वात् ।
विद्याकर्मणी हि देवयानपितृयाणयोः पथोः प्रतिपत्तौ प्रकृते ।
ऽतद्य इत्थं विदुःऽ इति विद्या तया प्रतिपत्तव्यो देवयानः पन्थाः प्रकीर्तितः ।
ऽइष्टापूर्ते दत्तम्ऽ (छा. 5.10.1,3) इति कर्म तेन प्रतिपत्तव्यः पितृयाणः पन्थाः प्रकीर्तितः ।
तत्प्पक्रियायाम्- ऽअथैतयोः पथोर्न कतरेणचनऽ इति श्रुतम् ।
एतदुक्तं भवति- ये न विद्यासाधनेन देवयाने पत्यधिकृता नापि कर्मणा पितृयाणे तेषामेष क्षुद्रजन्तुलक्षणो ऽसकृदावर्ती तृतीयः पन्था भवतीति ।
तस्मादपि नानिष्टादिकारिभिश्चन्द्रमाः प्राप्यते ।
स्यादेतत् ।
ते ऽपि चन्द्रबिम्बमारुह्य ततो ऽवरुह्य क्षुद्रजन्तुत्वं प्रतिपत्स्यन्त इति ।
तदपि नास्ति ।
आरोहानर्थक्यात् ।
अपिच सर्वेषु प्रयत्सु चन्द्रलोकं प्राप्नुवत्स्वसौ लोकः प्रयद्भिः संपूर्येतेत्यतः प्रश्नविरुद्धं प्रतिवचनं प्रसज्येत ।
तथाहि प्रतिवचनं दातव्यं यथासौ लोको न संपूर्यते ।
अवरोहाभ्युपगमादसंपूर्णोपपत्तिरिति चेत् ।
न ।
अश्रुतत्वात् ।
सत्यमवरोहादप्यसंपूरणमुपपद्यते ।
श्रुतिस्तु तृतीयस्थानसंकीर्तनेनासंपूरणं दर्शयति- ऽएतत्तृतीयं स्थानं तेनासौ लोको न संपूर्यतेऽ (छा. 5.10.8) इति ।
तेनानारोहादेवासंपूरणमिति युक्तम् ।
अवरोहस्येष्टादिकारिष्वप्यविशिष्टत्वे सति तृतीयस्थानोक्त्यानर्थक्यप्रसङ्गात् ।
तुशब्दस्तु शाकान्तरीयवाक्यप्रभवामशेषगमनाशङ्कामुच्छिनत्ति ।
एवं सत्यधिकृतापेक्षः शाखान्तरीये वाक्ये सर्वशब्दो ऽवतिष्ठते ।
ये वै केचिदधिकृता अस्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्तीति

46.17

यदुक्तं मार्गान्तराभावात् पापिनामपि चन्द्रगतिरिति ।
तन्न ।
तृतीयमार्गश्रुतेरित्याह- विद्याकर्मणोरिति ।
मार्गद्वितयोक्त्यनन्तरं तृतीयमार्गोक्तिप्रारम्भार्थः श्रुतावथशब्दः ।
एतयोर्विद्याकर्मणोः पथिद्वयसाधनयोरन्यतरेणापि साधनेन ये नरा न युक्तास्ते जन्ममरणावृत्तिरूपतृतीयमार्गस्थानि भूतानि भवन्ति, क्रियावृत्तौ लोट्, तेन पापिनां चन्द्रगत्यभावाच्चन्द्रलोको न संपूर्यत इति श्रुत्यर्थः ।
प्रतिपत्ताविति ।
प्राप्तिसाधने इत्यर्थः ।
अपिच पापिनां चन्द्रगतौ असौ लोकः संपूर्येत ऽअतश्च न संपूर्यतेऽइत्येतत्प्रतिवचनं विरुद्धं प्रसज्येतेत्यन्वयः ।
अवरोहादसंपूरणमश्रुतं न कल्प्यं श्रुतहान्यापत्तेरित्याह- न अश्रुतत्वादिति ।
अवरोह एव तृतीयं स्थानं श्रुत्युक्तमित्यत आह- अवरोहस्येति ।
इममध्वानं पुनर्निवर्तन्त इति इष्टादिकारिणामवरोहोक्तेरनिष्टादिकारिणामपि अवरोहस्यार्थसिद्धत्वात् पुनरुक्तिर्व्यर्थेत्यर्थः ।
अथैतयोरिति मार्गान्तरोपक्रमबाधस्तृतीयशब्दबाधश्चेत्यतः स्थानशब्दो मार्गलक्षक इति द्रष्टव्यम्

46.18

एन्द् ब्स्चोम्_3,1.3.17
स्तर्त् ब्स्चोम्_3,1.3.18
यत्पुनरुक्तं देहलाभोपपत्तये सर्वे चन्द्रमसं गन्तुमर्हन्ति, पञ्चम्यामाहुतावित्याहुतिसंख्यानियमादिति ।
तत्प्रत्युच्यते-
न तृतीये तथोपलब्धेः । ब्ब्स्_3,1.18 ।
न तृतीये स्थाने देहलाभाय पञ्चसंख्यानियम आहुतीनामादर्तव्यः ।
कुतः - तथोपलब्धेः ।
तथाह्यन्तरेणैवाहुतिसंख्यानियमं वर्णितेन प्रकारेण तृतीयस्थानप्राप्तिरुपलभ्यते ऽजायस्व म्रियस्वेत्येतत्तृतीयं स्थानम्ऽ (छा. 5.10.8) इति ।
अपिच ऽपञ्चम्यामाहुतावापः पुरुषवचसो भवन्तिऽ (छा. 5.3.3) इति मनुष्यशरीरहेतुत्वेनाहुतिसंख्या संकीर्त्यते न कीटपतङ्गादिशरीरहेतुत्वेन, पुरुषशब्दस्य मनुष्यजातिवचनत्वात् ।
अपिच पञ्चम्यामाहुतावपां पुरुषवचस्त्वमुपदिश्यते नापञ्चम्यामाहुतौ पुरुषवचस्त्वं प्रतिषिध्यते, वाक्यस्य द्व्यर्थतादोषात् ।
तत्र येषामारोहावरोहौ संभवतस्तेषां पञ्चम्यामाहुतौ देह उद्भविष्यति ।
अन्येषां तु विनैवाहुतिसंख्यया भूतान्तरोपसृष्टाभिरद्भिर्देह आरभ्यते

46.18

एवमविशेषश्रुतेर्मार्गान्तराभावाच्चेति पूर्वपक्षबीजद्वयं निरस्य तृतीयबीजनिरासार्थं सूत्रमादत्ते- यत्पुनरित्यादिना ।
विद्याकर्मशून्यानां कृमिकीटादिभावेन जायस्वेत्यादिश्रुत्या निरन्तरजन्ममरणोपलब्धेर्नाहुतिसंख्यादर इत्यर्थः ।
पुरुषशब्दाच्चैवमित्याह- अपिचेति ।
मनुष्यदेहस्यापि नाहुतिसङ्ख्यानियम इत्याह- अपिचेत्यादिना ।
विधिनिषेधरूपार्थद्वये वाक्यभेदः स्यादित्यर्थः

46.19

एन्द् ब्स्चोम्_3,1.3.18
स्तर्त् ब्स्चोम्_3,1.3.19
स्मर्यते ऽपि च लोके । ब्ब्स्_3,1.19 ।
अपिच स्मर्यते लोके ।
द्रोणधृष्टद्युम्नप्रभृतीनां सीताद्रौपदीप्रभृतीनां चायोनिजत्वम् ।
तत्र द्रोणादीनां योषिद्विषयैकाहुतिर्नास्ति ।
धृष्टद्युम्नादीनां तु योषित्पुरुषविषये द्वे अप्याहुती न स्तः ।
यथा च तत्राहुतिसंख्यानादरो भवत्येवमन्यत्रापि भविष्यति ।
बलाकाप्यन्तरेणैव रेतःसेकं गर्भं धत्त इति लोकरूढिः

46.19

अनियमे स्मृतिसंवादार्थं सूत्रम्- स्मर्यते ऽपीति ।
लोक्यते ऽनेनेति लोको भारतादिरुक्तः मुख्यार्थमप्याह- बलाकेति

46.20

एन्द् ब्स्चोम्_3,1.3.19
स्तर्त् ब्स्चोम्_3,1.3.20
दर्शनाच् च । ब्ब्स्_3,1.20 ।
अपिच चतुर्विधे भूतग्रामे जरायुजाण्डजस्वेदजोद्भिज्जलक्षणे स्वेदजोद्भिज्जयोरन्तरेणैव ग्राम्यधर्ममुत्पत्तिदर्शनादाहुतिसंख्यानादरो भवति ।
एवमन्यत्रापि भविष्यति

46.20

fन्: जीवजं जरायुजम् , उद्भिज्जं वृक्षादि ।
ऽअण्डजानि च जरायुजानि च स्वेदजानि चोद्भिज्जानि च ऽइतिश्रुत्यवष्टम्भेन सूत्रं व्याचष्टे- अपिचेति ।
अन्यत्राप्यनिष्टादिकारिष्वित्यर्थः

46.21

एन्द् ब्स्चोम्_3,1.3.20
स्तर्त् ब्स्चोम्_3,1.3.21
ननु ऽतेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्ति अण्डजं जीवजमुद्भिज्जम्ऽ (छा. 6.3.1) इति ।
अत्र त्रिविध एव भूतग्रामः श्रूयते कथं चतुर्विधत्वं भूतग्रामस्य प्रतिज्ञातमिति ।
अत्रोच्यते-
तृतीयशब्दावरोधः संशोकजस्य । ब्ब्स्_3,1.21 ।
ऽआण्डजं जीवजमुजद्भिजम्ऽ (छा. 6.3.1) इत्यत्र तृतीयेनोद्भिज्जशब्देनैव स्वेदजोपसंग्रहः कृतः प्रत्येतव्यः ।
उभयोरपि स्वेदजोद्भिज्जयोर्भूम्युदकोद्भेदप्रभवत्वस्य तुल्यत्वात् ।
स्थावरोद्भेदात्तु विलक्षणो जङ्गमोद्भेद इत्यन्यत्र स्वेदजोद्भिज्जयोर्भेदवाद इत्यविरोधः

46.21

fन्: संशोकजं स्वेदजम् ।
अनया श्रुत्या चातुर्विध्यं कथमुक्तं श्रुत्यन्तरे त्रीण्येवेत्यवधारणविरोधादिति शङ्कोत्तरत्वेन सूत्रमादत्ते- नन्वित्यादिना ।
जीवजं जरायुजं मनुष्यादि, भूमिमुद्भिद्य जायते वृक्षादिकं, उदकं भित्त्वा जायते यूकादि जङ्गममिति भेदः ।
संशोकः स्वेदः

46.22

एन्द् ब्स्चोम्_3,1.3.21
स्तर्त् ब्स्चोम्_3,1.4.22
4 साभाव्यापत्यधिकरणम् । सू. 22
साभाव्यापत्तिरुपपत्तेः । ब्ब्स्_3,1.22 ।
इष्टादिकारिणश्चन्द्रमसमारुह्य तस्मिन्यावत्संपातमुषित्वा ततःसानुशया अवरोहन्तीत्युक्तम् ।
अतावरोहप्रकारः परीक्ष्यते ।
तत्रेयमवरोहश्रुतिर्भवति- ऽअथैचमेवाध्वानं पुनर्निवर्तन्ते यथेतमाकाशमाकाशाद्वायुं वायिर्भूत्वा धूमो भवति धूमो भूत्वाभ्रं भवत्यभ्रं भूत्वा मेघो भूत्वा प्रवर्षतिऽ (छा. 5.10.5) इति ।
तत्र संशयः - किमाकाशादिस्वरूपमेवावारोहन्तः प्रतिपद्यन्ते किंवाकाशादिसाम्यमिति ।
तत्र प्राप्तं तावदाकाशादिस्वरूपमेव प्रतिपद्यन्त इति ।
कुतः एवं हि श्रुतिर्भवति ।
इतरथा लक्षणा स्यात् ।
श्रुतिलक्षमाविषये च श्रुतिर्न्याय्या न लक्षणा ।
तथाच वायुर्भूत्वा धूमो भवतीत्येवमादीन्यक्षराणि तत्तत्स्वरूपोपत्तावाञ्जस्येनावकल्पन्ते ।
तस्मादाकाशादिस्वरूपप्रतिपत्तिरिति ।
एवं प्राप्ते ब्रूमः - आकाशादिसाम्यं प्रतिपद्यन्त इति ।
चन्द्रमण्डले यदंमयं शरीरमुपभोगार्थमारब्धं तदुपभोगक्षये सति प्रविलीयमानं सूक्ष्ममाकाशसमं भवति ततो वायोर्वशमेति ततो धूमादिभिः संपृच्यत इति ।
तदेतदुच्यते- ऽयथेतमाकाशमाकाशाद्वायुम्ऽ (छा. 5.10.5) इत्येवमादिना ।
कुत एतत् ।
उपपत्तेः ।
एवं ह्येतदुपपद्यते ।
नह्यन्यस्यान्यभावो मुख्य उपपद्यते ।
आकाशस्वरूपप्रतिपत्तौ च वाय्वादिक्रमेणावरोहो नोपपद्यते ।
विभुत्वाच्चाकाशेन नित्यसंबन्धवत्त्वान्न तत्सादृश्यापत्तेरन्यस्तत्संबन्धो घटते ।
श्रुत्यसंभवे च लक्षणाश्रयणं न्याय्यमेव ।
अत आकाशादितुल्यतापत्तिरेवात्राकाशादिभाव इत्युपचर्यते

46.22

5 नातिचिराधिकरणम् । सू. 23
एवं पापिनां गत्यागती विचार्य संप्रतीष्टादिकारिणामवरोहे विशेषमाह- साभाव्यापत्तिरूपपत्तेः ।
यथेतमनेवं चेत्युक्तरीत्या यथागतं धूमाद्यध्वानं पुनर्निवर्तन्ते, निवृत्ताश्चानुशयिनः कर्मान्ते द्रुतदेहा आकाशं गता आकाशसदृशा भवन्ति ।
आकाशसादृश्यानन्तरं पिण्डीकृता अतिसूक्ष्मलिङ्गोपहिताः वायुनेतस्ततश्च नीयमाना वायुसमा भवन्ति ।
सो ऽनुशयी संघो वायुसमो भूत्वा धूमसंगतस्तत्समो भवति, धूमसमो भूत्वाभ्रसमो भवति ।
अपो बिभर्तीत्यभ्रं, मेहति सिञ्चतीति वृष्टिकर्ता मेघस्तत्समो भूत्वा वर्षधाराद्वारा पृथिवीं प्रविश्य व्रीहियवादिरूपो भवतीति सिद्धान्तगत्या श्रुत्यर्थः ।
पूर्वोत्तरयुक्तिद्वयं संश्यबीजं मन्तव्यं, पूर्वत्र मार्गद्वयमुक्त्वा तृतीयत्वोक्तेर्युक्तं स्थानशब्दस्य मार्गलक्षकत्वमिह तु दुग्धं दधि भवतीत्यादिप्रयोगे भवतिश्रुतेर्विकारस्वरूपापत्तौ मुख्यत्वात् सादृश्यापत्तिलक्षणाबीजं नास्तीति प्रत्युदाहरणसङ्गतिः ।
श्रुतिमुख्यत्वं फलमिति पूर्वपक्षः ।
अनुशयिनां पूर्वसिद्धाकाशादिस्वरूपापत्त्ययोगाल्लक्षणेति सिद्धान्तयति- एवमित्यादिना ।
समानो भावो धर्मो यस्य तद्भावः साभाव्यं साम्यमिति सूत्रपदार्थः ।
एवं ह्येतदिति ।
एतद्भवनमेवं सादृश्यरूपमेवोपपद्यत इत्यर्थः ।
अनुशयिनामाकाशादिभ्यो निर्गमनान्यथानुपपत्त्यापि सादृश्यलक्षणेत्याह- आकाशस्वरूपेति ।
संयोगलक्षणामाशङ्क्याह- विभुत्वादि ति ।
भवतिश्रुत्या संयोगलक्षणायामनुवादः स्यादित्यर्थः ।
विविधभूतसाम्यमवरोहे भवतीत्यनुसंधानाद्वैराग्यमुपसंहरति- अत इति

46.23

एन्द् ब्स्चोम्_3,1.4.22
स्तर्त् ब्स्चोम्_3,1.5.23
नातिचिरेण विशेषात् । ब्ब्स्_3,1.23 ।
तत्राकाशादिप्रतिपत्तौ प्राग्विरीह्यादिप्रतिपत्तेर्भवति विशयः ।
किं दीर्घं कालं पूर्वपूर्वसादृश्येनावस्थायोत्तरसादृश्यं गच्छन्त्युताल्पमिति ।
तत्रानियमो नियमकारिणः शास्त्रस्याभावादिति ।
एवं प्राप्त इदमाह- नातिचिरेणेति ।
अल्पमल्पं कालमाकाशादिभावेनावस्थाय वर्षधाराभिः सहेमां भुवमापतन्ति ।
कुत एतत् ।
विशेषदर्शनात् ।
तथाहि व्रीह्यादिभावापत्तेरनन्तरं विशिनष्टि- ऽअतो वै खलु दुर्निष्प्रपतरम्ऽ
(छा. 5.10.6) इति ।
तकार एतश्चन्दस्यां प्रक्रियायां लुप्तो मन्तव्यः ।
दुर्निप्रपततरं दुर्निष्क्रमतरं दुःखतरमस्माद्व्रीह्यादिभावान्निःसरणं भवतीत्यर्थः ।
तदत्र दुःखं निष्प्रपतनं प्रदर्शयन्पूर्वेषु सुखं निष्प्रपतनं दर्शयति ।
सुखदुःखताविशेषश्चायं निष्प्रपतनस्य कालाल्पत्वदीर्घत्वनिमित्तः ।
तस्मिन्नवधौ शरीरानिष्पत्तेरुपभोगासंभवात् ।
तस्माद्व्रीह्यादिभावापत्तेः प्रागल्पेनैव कालेनावरोहः स्यादिति

46.23

नातिचिरेण ।
उक्तं सादृश्यमुपजीव्य लोके गन्तृणां चिराचिरगतिदर्शनात्संशयं वदन् पूर्वपक्षयति- तत्रेत्यादिना ।
अनियमात् कदाचिद्विलम्बेन योन्यापत्तिरिति पूर्वपक्षफलं, सिद्धान्ते तु व्रीहीयवादिभावादनुशयिनां विलम्बेन निर्गमनमिति विशेषादाकाशादिभावाच्छीघ्रं निर्गम इत्यविलम्बेन योन्यापत्तिरित्यनुसंधानाद्वैराग्यदार्ढ्यमिति विवेकः ।
नन्वाकाशादिष्वनुशयिनां सुखं व्रीहियवादिषु दुःखमिति दुःशब्दाद्भाति न चिराचिरनिर्गमनमित्यत आह- सुखदुःखताविशेषश्चायमिति ।
अवधिः कालः

46.24

एन्द् ब्स्चोम्_3,1.5.23
स्तर्त् ब्स्चोम्_3,1.6.24
6 अन्याधिष्ठिताधिकरणम् । सू. 24-27
अन्याधिष्ठितेषु पूर्ववदभिलापात् । ब्ब्स्_3,1.24 ।
तस्मिन्नेवारोहे प्रवर्षणानन्तरं पठ्यते- ऽत इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्तेऽ (छा. 5.10.6)
इति ।
तत्र संशयः - किमस्मिन्नवधौ स्थावरजात्यापन्नाः स्थावरसुखदुःखभाजो ऽनुशायिनो भवत्याहोस्वित्क्षेत्रज्ञान्तराधिष्ठितेषु स्थावरशरीरेषु संश्लेषमात्रं गच्छन्तीति ।
किं तावत्प्राप्तम् ।
स्थावरजात्यापन्नास्तत्सुखदुःखभाजो ऽनुशयिनो भवन्तीति ।
कुत एतत् ।
जनेर्मुख्यार्थत्वोपपत्तेः स्थावरभावस्य च श्रुतिस्मृत्योरुपभोगस्थानत्वप्रसिद्धेः ।
पशुहिंसादियोगाच्चेष्टादेः कर्मजातस्यानिष्टफलत्वोपपत्तेः ।
तस्मान्मुख्यमेवेदमनुशयिनां व्रीह्यादिजन्म ।
श्वादिजन्मवत् ।
यथा श्वयोनिं वा सूकरयोनिं वा चम्डालयोनिं वेति मुख्यमेवानुशयिनां श्वादिजन्म तत्सुखदुःखान्वितं भवति ।
एवं व्रीह्यादिषु संसर्गमात्रमनुशयिनः प्रतिपद्यन्ते न तत्सुखदुःखान्वितं भवति ।
एवं व्रीह्यादिजन्मापीति ।
एवं प्राप्ते ब्रूमः अन्यैर्जीवैरधिष्ठितेषु व्रीह्यादिषु संसर्गमात्रमनुशयिनः प्रतिपद्यन्ते न तत्सुखदुःखभाजो भवन्ति ।
पूर्ववत् ।
यथा वायुधूमादिभावो ऽनुशयिनां तत्संश्लेषमात्रम् ।
एवं व्रीह्यादिभावो ऽपि जातिस्थावरैः संश्लेषमात्रम् ।
कुत एतत् ।
तद्वदेवेहाप्यभिलापात् ।
को ऽभिलापस्य तद्वद्भावः ।
कर्मव्यापारमन्तरेण संकीर्तनम् ।
यथाकाशादिषु प्रवर्षणान्तेषु न कञ्चित्कर्मव्यापारं परामृशत्येवं व्रीह्यादिजन्मन्यपि ।
तस्मान्नास्त्यत्र सुखदुःखभाक्त्वमनुशयिनाम् ।
यत्र तु सुखदुःखभाक्त्वमभिप्रैति परामृशति तत्र कर्मव्यापारं रमणीयचरणाः कपूयचरणा इति च ।
अपिच मुख्ये ऽनुशयिनां व्रीह्यादिजन्मनि व्रीह्यादिषु लूयमानेषु कण्ड्यमानेषु पच्यमानेषु भक्ष्यमाणेषु च तदभिमानिनो ऽनुशयिनः प्रवसेयुः ।
यो हि जीवो यच्छरीरमभिमन्यते स तस्मिन्पीड्यमाने प्रवसतीति प्रसिद्धम् ।
तत्र व्रीह्यादिभावाद्रेतःसिग्भावो ऽनुशयिनां नाभिलप्येत ।
अतः संसर्गमात्रमनुशयिनामन्याधिष्ठितेषु व्रीह्यादिषु भवति ।
एतेन जनेर्मुख्यार्थत्वं प्रतिब्रूयादुपभोगस्थानत्वं च स्थावरभावस्य ।
नच वयमुपभोगस्थानत्वं स्थावरभावस्यावजानीमहे ।
भवत्वन्येषां जन्तूनामपुण्यसामर्थ्येन स्थावरभावमुपगतानामेतदुपभोगस्थानम् ।
चन्द्रमसस्त्ववरोहन्तो ऽनुशयिनो न स्थावरभावमुपभुञ्जत इत्याचक्ष्महे

46.24

अन्याभिलापात् ।
श्रुतिक्रमात् अर्थक्रमाच्चाधिकरणानां क्रमो बोध्यः ।
इह भूमौ वर्षधाराद्वारा पतितास्ते ऽनुशयिनो व्रीह्यादिसाम्येन जायन्त इति श्रुत्यर्थः ।
अत्र जायन्त इति श्रुतेः पूर्वत्राकाशादिवर्षान्तसादृश्योक्तेश्च संशयमाह- तत्रेति ।
अस्मिन्नवधौ वर्षसादृश्यानन्तरमित्यर्थः ।
दुर्निष्प्रपतरशब्देन चिरनिर्गलनलक्षणोक्ता न युक्ता, दुःखेन निर्गमनमिति मुख्यसंभवादित्याक्षेपसङ्गत्या पूर्वपक्षयति- किं तावदित्यादिना ।
अत्र पूर्वपक्षे स्थावरत्वनिवृत्तये ऽधिकारिणां यत्नगौरवं, सिद्धान्ते व्रीह्यादिसंश्लेषमात्रं परिहर्तुं यत्नलाघवं वैराग्यदार्ढ्यं चेति विवेकः ।
ननु देहोत्पत्त्या जीवानां जन्म स्यान्न स्वतः, व्रीह्यदेस्तु न देहत्वमित्यत आह- स्थावरभावस्येति ।
ऽस्थाणुमन्ये ऽनुसंयन्तिऽइत्याद्या श्रुतिः ।
ऽशरीरजैः कर्मदोषैर्याति स्थावरतां नरःऽइत्याद्या स्मृतिः ।
ननु स्वर्गिणां पापाभावात्कथं स्थावरत्वं, तत्राह- पश्विति ।
सोमाद्युच्छिष्टभक्षणसुराग्रहावादिशब्दार्थः ।
क्रत्वर्थहिंसादेरपि हिंसात्वादिसामान्येन प्रवृत्तेर्न हिंस्यादित्यादिशास्त्रनिषिद्धत्वाकारेण दुरितापूर्वकारित्वमविरुद्धमिति साङ्ख्या आहुः ।
श्रुतो ऽत्र व्रीह्यादिभावो ऽनुशयिनां न जन्यरूपः कर्मविशेषपरामर्शं विनात्रोक्तत्वात्, पूर्वोक्ताकाशादिभाववदिति सिद्धान्तयति- एवं प्राप्त इत्यादिना ।
पूर्ववदिति पदं दृष्टान्तत्वेन हेत्वंशत्वेन च व्याख्यातं यदत्र प्रकरणे कर्मविशेषपरामर्शकमुच्यते तज्जन्मेति व्यतिरेकदृष्टान्तमप्याह- यत्र त्विति ।
अपिच ऽयो यो ह्यन्नमत्ति यो रेतः स्त्रियां सिञ्चति तद्भूय एव भवतिऽइति वाक्यशेषे व्रीह्यादिषु प्रविष्टस्यानुशयिसंघस्यान्नद्वारा रेतःसिक्पुरुषयोगः श्रुतस्तदन्यथानुपपत्त्यापि जन्मश्रुतिर्न मुख्येत्याह- अपिचेत्यादिना ।
व्रीह्यादिरूपदेहनाशे देहिनामुक्तान्तेरवश्यंभावाद्रेतः सिग्योगो न स्यादित्यर्थः ।
एतेनेति ।
उक्तानुमानार्थापत्तिभ्याम् ।
जायत इति श्रुतेर्मुख्यार्थत्वमनुशयिभोगायतनत्वं च व्रीह्यादेः प्रतिब्रूयादित्यर्थः ।
ननु व्रीह्यादेर्भोगायतनत्वानङ्गीकारे पूर्वोक्तश्रुतिस्मृतिप्रसिद्धिबाध इत्यत आह- नचेति

46.25

एन्द् ब्स्चोम्_3,1.6.24
स्तर्त् ब्स्चोम्_3,1.6.25
अशुद्धम् इति चेन् न शब्दात् । ब्ब्स्_3,1.25 ।
यत्पुनरुक्तं पशुहिंसादियोगादशुद्धमाध्वरिकं कर्म तस्यानिष्टमपि फलमवकल्पत इत्यतो मुख्यमेवानुशयिनां व्रीह्यादिजन्मास्तु तत्र गौणी कल्पनानर्थिकेति तत्परिह्रियते ।
न, शास्त्रहेतुत्वाद्धर्माधर्मविज्ञानस्य ।
अयं धर्मो ऽयमधर्म इति शास्त्रमेव विज्ञाने कारणम् ।
अतीन्द्रियत्वात्तयोः अनियतदेशकालनिमित्तत्वाच्च ।
यस्मिन्देशे काले निमित्ते च यो धर्मो ऽनुष्ठीयते स एव देशकालनिमित्तान्तरेष्वधर्मो भवति ।
तेन शास्त्रादृते धर्माधर्मविषयं विज्ञानं न कस्यचिदस्ति ।
शास्त्राच्च हिंसानुग्रहाद्यात्मको ज्योतिष्टोमो धर्म इत्यवधारितः स कथमशुद्ध इति शक्यते वक्तुम् ।
ननु ऽन हिंस्यात्सर्वा भूतानिऽ इति शास्त्रमेव भूतविषयां हिंसामधर्म इत्यवगमयति ।
बाढम् ।
उत्सर्गस्तु सः ।
अपवादः ऽअग्नीषोमीयं पशुमालभेतऽ इति ।
उत्सर्गापवादयोश्च व्यवस्थितविषयत्वम् ।
तस्माद्विशुद्धं कर्म वैदिकं, शिष्टैरनुष्ठीयमानत्वादनिन्द्यमानत्वाच्च ।
तेन न तस्य प्रतिरूपं फलं जातिस्थावरत्वम् ।
नच श्वादिजन्मादिवदपि व्रीह्यादिजन्म भवितुमर्हति ।
तद्धि कपूयतरणानधिकृत्योच्यते नैवमिह वैशेषिकः कश्चिदधिकारो ऽस्ति ।
अतश्चन्द्रमण्डलस्खलितानामनुशायिनां व्रीह्यादिसंश्लेषमात्रं तद्भाव इत्युपचर्यते

46.25

वैदिकं कर्माशुद्धं न भवति शास्त्रविहितत्वादिति सूत्रार्थं प्रपञ्चयति- अयं धर्म इत्यादिना ।
शुचौ देशे प्रातः सायङ्काले जीवनादिनिमित्ते कृतमग्निहोत्रं धर्मो भवति स एवाशुचिदेशे मध्यरात्रे मरणादिनिमित्ते कृतः सन्नधर्मो भवतीति निर्णयः शास्त्रैकसाध्य इत्यर्थः ।
ततः किं तत्राह- शास्त्राच्चेति ।
ननु या हिंसा सो ऽधर्म इत्युत्सर्गस्य विशेषविधिना बाधो ऽत्र न युक्तः ।
नाभिचरेदिति निषिद्धश्येनस्य पुरुषार्थत्ववत् निषिद्धहिंसादेरपि क्रतूपकारकत्वाविरोधादिति, तत्राह- उत्सर्गापवादयोरिति ।
अयमर्थः-काम्ये कर्मणि सर्वत्र करणांशे रागतः प्रवृत्तिः, अङ्गेषु विधित इति स्थितिः ।
तथाच श्येनाख्ये कर्मणि निषेधे ऽपि रागप्राबल्यात् प्रवृत्तिः स्यात् क्रत्वङ्गहिंसादौ तु विधित एव प्रवृत्तिर्वाच्या ।
स च विधिर्यद्युत्सर्गप्राप्तमनर्थहेतुत्वं न बाधेत तर्हि प्रवर्तको न स्यात्, प्रवर्तकत्वे वा विधिरनर्थाय स्यात्, अतो निरवकाशो विधिः सावकाशमुत्सर्गमविहितहिंसादिषु स्थापयतीति ।
इदं च निषेधशास्त्रस्य हिंसात्वादिसामान्येन प्रवृत्तिमङ्गीकृत्योक्तम् ।
वस्तुतस्तस्य रागप्राप्तहिंसाविषयत्वाद्वैधहिंसायामप्रवृत्तेर्नाशुद्धत्वशङ्कावसर इति द्रष्टव्यम् ।
प्रतिरूपं दुःखरूपं तस्य फलं नेति योजना ।
इह व्रीह्यादिभावे कश्चिदधिकारः कर्मपरामर्शो नास्तीत्युक्तम्

46.26

एन्द् ब्स्चोम्_3,1.6.25
स्तर्त् ब्स्चोम्_3,1.6.26
रेतःसिग्योगो ऽथ । ब्ब्स्_3,1.26 ।
इतश्च व्रीह्यादिसंश्लेषमात्रं तद्भावो यत्कारणं व्रीह्यादिभावस्यानन्तरमनुशयिनां रेतःसिग्भाव आम्नायते - ऽयो यो ह्यन्नमत्ति यो रेतः सिञ्चति तद्भूय एव भवतिऽ (छा. 5.10.6) इति ।
नचात्र मुख्यो रेतःसिग्भावः संभवति ।
चिरजातो हि प्राप्तयौवनो रेतःसिग्भवति ।
कथमिवानुपचरितं तद्भावमद्यमानान्नानुगतो ऽनुशयी प्रतिपद्यते ।
तत्र तावदवश्यं रेतःसिग्योग एव रेतःसिग्भावो ऽभ्युपगन्तव्यः ।
तद्वद्व्रीह्यादिभावो ऽपि व्रीह्यादियोग एवेत्यविरोधः

46.26

अथ व्रीह्यादिभावानन्तरं रेतः सिग्भावः श्रुतः ।
तत्रान्नस्थानुशयिनो रेतः सेककर्तृत्वायोगाद्योगमात्रं वाच्यं तद्वदुपक्रमे ऽपि योग एवास्थेयः, अन्यथोपक्रमोपसंहारयोर्विरोधः स्यादिति मत्वोक्तम्- इत्यविरोध इति

46.27

एन्द् ब्स्चोम्_3,1.6.26
स्तर्त् ब्स्चोम्_3,1.6.27
योनेः शरीरम् । ब्ब्स्_3,1.27 ।
अथ रेतःसिग्भावस्यानन्तरं योनौ निषिक्ते रेतसि योनेरधिकशरीरमनुशयिनामनुशयफलोपभोगाय जायत इत्याह शास्त्रम् - ऽऽतद्य इह रमणीयचरणाःऽ (छाय 5.10.7) इत्यादि ।
तस्मादप्यवगम्यते नावरोहे व्रीह्यादिभावावसरे तच्छरीरमेव सुखदुःकान्वितं भवतीति ।
तस्माद्व्रीह्यादिसंश्लेषमात्रमनुशयिनां तज्जन्मेति सिद्धम्

मूल पाठ: Brahmasūtra2 with Śaṃkara's Śārīrakamīmāṃsābhāṣya and Govindānanda's Ratnaprabhāvyākhyā (subcommentary) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc