भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मसूत्र (टीका सहित) · अध्याय 4.4

4.4.1

नामादिषु प्रतीक उपासनेषु पूर्वस्मात् पूर्वस्मात् फलविशेषम् उत्तरस्मिन् उत्तरस्मिन् उपासने दर्शयति - ऽयावन्नाम्नो गतं तत्रास्य यथाकामचारो भवतिऽ (छा. 7.1.5) ऽवाग्वाव नाम्नो भूयसीऽ (छा. 7.2.1) ऽयावद्वाचो गतं तत्रास्य यथाकामचारो भवतिऽ(छा. 7.2.2) ऽमनो वाव वाचो भूयःऽ (छा. 7.3.1)
इत्यादिना ।
स च अयं फलविशेषः प्रतीक तन्त्रत्वात् उपासनानाम् उपपद्यते ।
ब्रह्म तन्त्रत्वे तु ब्रह्मणः अविशिष्टत्वात् कथं फलविशेषः स्यात् ।
तस्मात् न प्रतीक आलम्बनानाम् इतरैः तुल्यफलत्वम् इति ॥ 16 ॥
इति श्रीगोविन्दभगवत्पूज्यपादशिष्यश्रीशङ्करभगवत्पादकृतौ श्रीमच्छारीरकमीमांसाभाष्ये चतुर्थाध्यायस्य तृतीयः पादः ॥ 3 ॥
____________________________________________________________________________________________ ____________________________________________________________________________________________
चतुर्थो ऽध्याये चतुर्थः पादः ।
[अत्र पादे ब्रह्मप्राप्ति-ब्रह्मलोकस्थितिनिरूपणम्]
1 संपद्याविर्भाव अधिकरणम् । सू. 1-3
संपद्याविर्भावः स्वेन शब्दात्

4.4.2

एवम् एव एष संप्रसादः अस्मात् शरीरात् समुत्थाय परं ज्योतिः उपसंपद्य स्वेन रूपेण अभिनिष्पद्यत इति श्रूयते ।
तत्र संशयः - किं देवलोकादि उपभोगस्थानेषु इव आगन्तुकेन केनचित् विशेषेण अभिनिष्पद्यत आहोत् आत्ममात्रेण इति ।
किं तावत् प्राप्तम् ।
स्थानान्तरेषु इव आगन्तुकेन केनचित् रूपेण अभिनिष्पत्तिः स्यात् ।
मोक्षस्य अपि फलत्वप्रसिद्धेः ।
अभिनिष्पद्यत इति च उत्पत्तिपर्यायत्वात् ।
स्वरूपमात्रेण चेत् अभिनिष्पत्तिः पूर्वासु अपि अवस्थासु स्वरूप अनापायात् विभाव्येत ।
तस्मात् विशेषेण केनचित् अभिनिष्पद्यत इति ।
एवं प्राप्ते ब्रूमः - केवलेन एव आत्मन आविर्भवति न धर्मान्तरेण इति ।
कुतः - स्वेन रूपेण अभिनिष्पद्यत इति स्वशब्दात् ।
अन्यथा हि स्वशब्देन इति विशेषणम् अनवकॢप्तं स्यात् ।
ननु आत्मीय अभिप्रायः स्वशब्दो भविष्यति ।
न ।
तस्य अवचनीयत्वात् ।
येन एव हि केनचित् रूपेण अभिनिष्पद्यते तस्य एव आत्मीयत्व उपपत्तेः स्वेन इति विशेषणम्न अर्थकं स्यात् ।
आत्मवचनतायां तु अर्थवत् केवलेन एव आत्मरूपेण अभिनिष्पद्यते न आगन्तुकेन अपररूपेणापि इति ॥ 1 ॥
कः पुनः विशेषः पूर्वासु अवस्थासु इह च स्वरूप अनपायसाम्ये सति इत्यत आह -
मुक्तः प्रतिज्ञानात्

4.4.3

यः अत्र अभिनिष्पद्यत इति उक्तः स सर्वबन्ध विनिर्मुक्तः शुद्धेन एव आत्मना अवतिष्ठते ।
पूर्वत्र तु अन्धो भवति अपि रोदिति इव विनाशमेव अपीतो भवति इति च अवस्थात्रय कलुषितेन आत्मन इति अयं विशेषः ।
कथं पुनः अवगम्यते मुक्तः अयम् इदानीं भवति इति - प्रतिज्ञानात् इत्याह ।
तथा हि ऽएतं त्वेव ते भूयो ऽनुव्याख्यास्यामिऽ (छा. 8.9.3, 8.10.4, 8.11.3) इति अवस्थात्रय दोषविहीनम् आत्मानं व्याख्येयत्वेन प्रतिज्ञाय ऽअशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः (छा. 8.12.1) इति च उपन्यस्य ऽस्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषःऽ (छा. 8.12.3) इति च उपसंहरति ।
तथा आख्यायिक उपक्रमे अपि ऽय आत्मापहतपाप्माऽ (छा. 8.7.1) इत्यादि मुक्त आत्मविषयम् एव प्रतिज्ञानम् ।
फलत्वप्रसिद्धिः अपि मोक्षस्य बन्धनिवृत्तिमात्र अपेक्षा न अपूर्व उपजनन अपेक्षा ।
यत् अपि अभिनिष्पद्यत इति उत्पत्तिपर्यायत्वं तत् अपि पूर्व अवस्थापेक्षं यथा रोगनिवृत्तौ अरोगःअभिनिष्पद्यत इति तद्वत् ।
तस्मात् अदोषः ॥ 2 ॥
आत्मा प्रकरणात्

4.4.4

कथं पुनः मुक्त इति उच्यते - यावता ऽपरं ज्योतिरुपसंपद्यऽ (छा. 8.12.3) इति कार्यगोचरम् एव एनं श्रावयति ।
ज्योतिःशब्दस्य भौतिके ज्योतिषि रूढत्वात् ।
न च अनतिवृत्तो विकारविषयात् कश्चित् मुक्तो भवितुम् अर्हति ।
विकारस्य आर्तत्वप्रसिद्धेः इति ।
न एष दोषः ।
यत ज्योतिः शब्देन आवेद्यते प्रकरणात् ऽय आत्मापहतपाप्मा विजरो विमृत्युःऽ (छा. 8.7.1) इति हि प्रकृते परस्मिन् आत्मनि न अकस्मात् भौतिकं ज्योतिः शक्यं ग्रहीतुम् ।
प्रकृतहान अप्रकृतप्रक्रिया प्रसङ्गात् ।
ज्योतिःशब्दः तु आत्मनि अपि दृश्यते ऽतद्देवा ज्योतिषं ज्योतिः (बृ. 4.4.16) इति ।
प्रपञ्चितं चैतत्ऽ(ब्र. सू. 1.3.40) इत्यत्र ॥ 3 ॥
2 अविभागेन दृष्टत्व अधिकरणम् । सू. 4
अविभागेन दृष्टत्वात्

4.4.5

परं ज्योतिः उपसंपद्य स्वेन रूपेण अभिनिष्पद्यते यः स किं परस्मात् आत्मनः पृथगेव भवति उत अविभागेन एव अवतिष्ठत वीक्षायाम् स ऽतत्र पर्येतिऽ ( 8.12.3) इति अधिकरण अधिकर्तव्य निर्देशात् ज्योतिः उपसंपद्य (छा. 8.12.3) इति च कर्तृकर्मनिर्देशात् भेदेन एव अवस्थानम् इति यस्य मतिः तं व्युत्पादयति अविभक्त एव परेण आत्मना मुक्तः अवतिष्ठते ।
कुतः - दृष्टत्वात् ।
तथा हि ऽतत्त्वमसिऽ (छा. 6.8.7) ऽअहं ब्रह्मास्मिऽ (बृ. 1.4.10) ऽयत्र नान्यत्पश्यतिऽ (छा. 7.24.1) ऽन तु तद्द्वितीयमस्ति ततो ऽन्यद्विभक्तं यत्पश्येत्ऽ (बृ. 4.3.23) इति एवमादीनि वाक्यानि अविभागेन एव परमात्मानं दर्शयन्ति ।
यथादर्शनम् एव च फलं युक्तं तत्क्रतु न्यायात् ।
ऽयथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति ।
एवं मुनेः विजानत आत्मा भवति गौतमऽ (क. 4.15) इति च एवमादीनि मुक्तस्वरूपनिरूपणपराणि वाक्यानि अविभागमेव दर्शयन्ति ।
नदी समुद्रादि निदर्शनानि च ।
भेदनिर्देशः तु अभेदे अपि उपचर्यते ।
ऽस भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्निऽ (छा. 7.24.1) इति ऽआत्मरतिरात्मक्रीडःऽ (छा. 7.25.2) इति च एवमादिदर्शनात् ॥ 4 ॥
3 ब्राह्म अधिकरणम् । सू. 5-7
ब्राह्मेण जैमिनिर् उपन्यासादिभ्यः

4.4.6

स्थितम् एतत् ऽस्वेन रूपेणऽ(छा. 8.3.4) इति अत्र आत्ममात्ररूपेण अभिनिष्पद्यत न आगन्तुकेन अपररूपेण इति ।
अधुना तु तत् विशेषबुभुत्सायाम् अभिधीयते स्वम् अस्य रूपं ब्राह्मम् अपहतपाप्मत्वादि सत्यसंकल्पत्व अवसानं तथा सर्वज्ञत्वं सर्वेश्वरत्वं च तेन स्वरूपेण अभिनिष्पद्यत इति जैमिनिः आचार्यो मन्यते ।
कुतः - उपन्यासादिभ्यः तथात्व अवगमात् ।
तथा हि - ऽय आत्मापहतपाप्माऽ (छा. 8.7.1) इत्यादिना ऽसत्यकामः सत्यसंकल्पःऽ (छा. 8.7.1) इति एवम् अन्तेन उपन्यासेन एवम् आत्मकताम् आत्मनो बोधयति ।
तथा ऽस तत्र पर्येति जक्षन्क्रीडन्रममाणःऽ (छा. 8.12.3) इति ऐश्वर्यरूपम् आवेदयति ।
ऽतस्य सर्वेषु लोकेषु कामचारो भवतिऽ (छा. 7.25.2) इति च ।
ऽसर्वज्ञः सर्वेश्वरःऽ इत्यादि व्यपदेशाः च एवम् उपपन्ना भविष्यन्ति इति ॥ 5 ॥
चितितन्मात्रेण तदात्मकत्वाद् इत्य् औडुलोमिः

4.4.7

यद्यपि अपहपाप्मत्वादयोभेदेन एव धर्मा निर्दिश्यन्ते तथा अपि शब्दविकल्पजा एव एते ।
पाप्मादिनिवृत्तिमात्रं हि तत्र गम्यते ।
चैतन्यमेव तु अस्य आत्मनः स्वरूपम् इति तन्मात्रेण स्वरूपेण अभिनिष्पत्तिः युक्ता ।
तथा च श्रुतिः - ऽएवं वा अरे ऽयमात्मानन्तरो ऽबाह्यः कृत्स्नः प्रज्ञानघन एवऽ (बृ. 4.5.13) इति एवञ्जातीयका अनुगृहीता भविष्यति ।
सत्यकामत्वादयः तु यदि अपि वस्तुस्वरूपेण एव धर्मा उच्यन्ते सत्याः कामा अस्य इति ।
तथा अपि उपाधिसंबन्ध अधीनत्वात् तेषां न चैतन्यवत् स्वरूपसंभवः ।
अनेक आकारत्वप्रतिषेदात् ।
प्रतिषिद्धं हि ब्रह्मणः अनेक आकारत्वम् ऽन स्थानतो ऽपि परस्योभयलिङ्गम्ऽ (ब्र.सू, 3.2.11) इत्यत्र ।
अत एव च जक्षणादि संकीर्तनम् अपि दुःख अभावमात्र अभिप्रायं स्तुत्यर्थम् आत्मरतिः इत्यादिवत् ।
न हि मुख्यानि एव रतिक्रीडामिथुनानि आत्मनि शक्यन्ते वर्णयितुं द्वितीय विषयत्वात् तेषाम् ।
तस्मात् निरस्त अशेषप्रपञ्चेन प्रसन्नेन अव्यपदेश्येन बोधात्मना अभिनिष्पद्यत इति औडुलोमिः आचार्यो मन्यते ॥ 6 ॥
एवम् अप्य् उपन्यासात् पूर्वभावाद् अविरोधं बादरायणः

4.4.8

एवम् अपि पारमार्थिक चैतन्यमात्रस्वरूप अभ्युपगमे अपि व्यवहार अपेक्षया पूर्वस्य अपि उपन्यासादिभ्यः अवगतस्य ब्राह्मस्य ऐश्वर्यरूपस्य अप्रत्ययाख्यानात् अविरोधं बादरायण आचार्यो मन्यते ॥7 ॥
4 संकल्प अधिकरणम् । सू. 8-9
संकल्पाद् एव तु तच्छ्रुतेः

4.4.9

हार्दविद्यायां श्रूयते - ऽस यदि पितृलोककामो भवति संकल्पादेवास्य पितरः समुत्तिष्ठन्तिऽ (छा. 8.2.1) इत्यादि ।
तत्र संशयः किं संकल्प एव केवलः पित्रादिसमुत्थाने हेतुः उत निमित्तान्तर सहित इति ।
तत्र सति अपि संकल्पादेव इति श्रवणे लोकवत् निमित्तान्तर अपेक्षता युक्ता ।
यथा लोके अस्मदादीनां संकल्पात् गमनादिभ्यः च हेतुभ्यः पित्रादि संपत्तिः भवति एवं मुक्तस्य अपि स्यात् ।
एवं दृष्टविपरीतं न कल्पितं भविष्यति ।
संकल्पादेव इति तु राज्ञ इव संकल्पितार्थसिद्धिकरीं साधनान्तरसामग्रीं सुलभाम् अपेक्ष्य उच्यते ।
न च संकल्पमात्रसम् उत्थानाः पित्रादयो मनोरथाविजृम्भितवत् चलत्वात् पुष्कलं भोगं समर्पयितुं पर्याप्ताः स्युः इति ।
एवं प्राप्ते ब्रूमः संकल्पादेव तु केवलात् पित्रादिसमुत्थानम् इति ।
कुतः - तत् श्रुतेः ।
ऽसंकल्पादेवास्य पितरः समुत्तिष्ठन्तिऽ (छा. 8.2.1) इत्यादिका हि श्रुतिः निमित्तान्तर अपेक्षायां पीड्येत ।
निमित्तान्तरम् अपि तु यदि संकल्प अनुविधायि एव स्यात् भवतु न तु प्रयत्नान्तरसंपाद्यं निमित्तान्तरम् इति इष्यते ।
प्राक् तत् संपत्तेः वन्ध्यसंकल्पत्व प्रसङ्गात् ।
न च श्रुति अवगम्ये अर्थे लोकवत् इति सामान्यतो दृष्टं क्रमते ।
संकल्पबलात् एव च एषां यावत् प्रयोजनं स्थैर्य उपपत्तिः. प्राकृतसंकल्पविलक्षणत्वात् मुक्तसंकल्पस्य ॥ 8 ॥
अत एव चानन्याधिपतिः

4.4.10

अत एव च अवन्ध्यसंकल्पत्वात् अनन्य अधिपतिः विद्वान् भवति न अस्य अन्यः अधिपतिः भवति इत्यर्थः ।
न हि प्राकृतो अपि संकल्पयन् अन्यस्वामिकत्वम् आत्मनः सत्यां गतौ संकल्पयति ।
श्रुतिः च एतत् दर्शयति - ऽअथ य इहात्मानमनुविद्य व्रजन्त्येश्च सत्यान्कामांस्तेषां सर्वेषु लोकेषु कामचारो भवतिऽ (छा. 8.1.6) इति ॥ 9 ॥
अभाव अधिकरणम् । सू. 10-14
अभावं बादरिर् आह ह्य् एवम्

4.4.11

ऽसंकल्पादेवास्य पितरः समुत्तिष्ठन्तिऽ (छा. 8.2.1) इत्यादि श्रुतेः मनः तावत् संकल्पसाधनं सिद्धम् ।
शरीर इन्द्रियाणि पुनः प्राप्त ऐश्वर्यस्य विदुषः सन्ति न वा सन्ति इति समीक्ष्यते ।
तत्र बादरिः तावत् आचार्यः शरीरस्य इन्द्रियाणां च अभावं महीयमानस्य विदुषो मन्यते ।
कस्मात् ।
एवं हि आह आम्नायः ऽमनसैतान्कामान्पश्यन्रमतेऽ (छा. 8.12.5) ऽय एते ब्रह्मलोकेऽ (छा. 8.13.1) इति ।
यदि मनसा शरीर इन्द्रियाणां मोक्षे ॥ 10 ॥
भावं जैमिनिर् विकल्पामननात्

4.4.12

जैमिनिः तु आचार्यो मनोवत् शरीरस्य अपि सेन्द्रियस्य भावं मुक्तं प्रति मन्यते ।
यतः ऽस एकधा भवति त्रिधा भवतिऽ(छा. 7.23.2) इत्यादिना अनेकधा अभावविकल्पम् आमनन्ति ।
न हि अनेकविधता विना शरीरभेदेन आञ्जसी स्यात् ।
यदि अपि निर्गुणायां भूमविद्यायाम् अयम् अनेकधा अभावविकल्पः पठ्यते तथा अपि विद्यमानमेव इदं सगुणावस्थायाम् ऐश्वर्यं भूमविद्या स्तुतये संकीर्त्यत इति अतः सगुणविद्याफलभावेन उपतिष्ठत इति ॥ 11 ॥
उच्यते -
द्वादशाहवद् उभयविधं बादरायणो ऽतः

4.4.13

बादरायणः पुनः आचार्यः अत एव उभयलिङ्गश्रुतिदर्शनात् उभयविधत्वं साधु मन्यते यदा सशरीरतां संकल्पयति तदा सशरीरो भवति यदा तु अशरीरतां तदा अशरीर इति ।
सत्यसंकल्पत्वात् ।
संकल्प वैचित्र्यात् च ।
द्वादश अहवत् ।
यथा द्वादश अहःसत्रम् अहीनः च भवति ।
उभयलिङ्ग श्रुतिदर्शनात् एवम् इदम् अपि इति ॥ 12 ॥
तन्वभावे सन्ध्यवद् उपपत्तेः

4.4.14

यदा तनोः सेन्द्रियस्य शरीरस्य अभावः तदा यथा संध्ये स्थाने शरीर इन्द्रियविषयेषु अविद्यमानेषु अपि उपलब्धिमात्रा एव पित्रादिकामा भवति एवं मोक्षे अपि स्युः एवं हि एतत् उपपद्यते ॥ 13 ॥
भावे जाग्रद्वत्

4.4.15

भावे पुनः तनोः यथा जागरिते विद्यमाना एव पित्रादिकामा भवन्ति एवं मुक्तस्य अपि उपपद्यते ॥ 14 ॥
6 प्रदीप अधिकरणम् । सू. 15-16
प्रदीपवदावेशस् तथा हि दर्शयति

4.4.16

भावं ऽजैमिनिर्विकल्पामननात्ऽ ( ब्र.सू. 4.4.11) इति अत्र सशरीरत्वं मुक्तस्य उक्तम् ।
तत्र त्रिधाभावादिषु अनेकशरीरसर्गे किं निरात्मकानि शरीराणि दारुयन्त्राणि इव सृज्यन्ते किं वा सात्मकानि अस्मदादि शरीरवत् इति भवति वीक्षा ।
तत्र च आत्म मनसोः भेद अनुपपत्तेः एकेन शरीरेण योगात् इतराणि शरीराणि निरात्मकानि इति ।
एवं प्राप्ते प्रतिपद्यते - प्रदीपवत् आवेश इति ।
यथा प्रदीप एकः अनेकप्रदीपभावम् आपद्यते विकारशक्तियोगात् ।
एवम् एकः अपि सन् विद्वान ऐश्वर्ययोगात् अनेकभावम् आपद्य सर्वाणि शरीराणि आविशति ।
कुतः, तथा हि दर्शयति शास्त्रम् एकस्य अनेकभावम् - ऽस एकधा भवति त्रिधा भवति पञ्चधा सप्तधा नवधाऽ (छा. 7.26.2) इत्यादि ।
न एतत् दारुयन्त्र उपमा अभ्युपगमे अवकल्पते न अपि जीवान्तरावेशे ।
न च निरात्मकानां शरीराणां प्रवृत्तिः संभवति ।
यत् तु आत्म मनसोः भेद अनुपपत्तेः अनेकशरीरयोग असंभव इति ।
न एष दोषः ।
एकमनोनुवर्तिनि समनस्कानि एव अपराणि शरीराणि सत्यसंकल्पत्वात् स्रक्ष्यति ।
सृष्टेषु च तेषु उपाधिभेदात् आत्मनः अपि भेदेन अधिष्ठातृत्वं योक्ष्यते ।
एष एव च योगशास्त्रेषु योगिनाम् अनेकशरीरप्रयोगक्रिया ॥ 15 ॥
कथं पुनः मुक्तस्य अनेकशरीर आवेशादिलक्षणम् ऐश्वर्यम् अभ्युपगम्यते यावता ऽतत्केन कं विजानीयात्ऽ (बृ. 4.5.15) ऽन तु तद्द्वितीयमस्ति ततो ऽन्यद्विभक्तं यद्विजानीयात्ऽ (बृ. 4.3.30) ऽसलिल एको द्रष्टाद्वैतो भवतिऽ (बृ. 4.3.32) इति च एवञ्जातीयका श्रुतिः विशेषविज्ञानं वारयति इत्यत उत्तरं पठति -
स्वाप्ययसंपत्योर् अन्यतरापेक्षम् आविष्कृतं हि

4.4.17

स्वाप्ययः सुषुप्तम् ऽस्वमपीतो भवति तस्मादेनं स्वपितीत्याचक्षतेऽ (छा. 6.8.1) इति श्रुतेः ।
संपत्तिः कैवल्यम्, ऽब्रह्मैव सन्ब्रह्माप्येतिऽ (बृ. 4.4.6) इति श्रुतेः ।
तयोः अन्यतराम् अवस्थाम् अपेक्ष्य एतत् विशेषसंज्ञाभाव वचनम् ।
क्वचित् सुषुप्त अवस्थाम् अपेक्ष्य उच्यते क्वचित् कैवल्य अवस्थाम् ।
कथम् अवगम्यते यतः तत्र एव एतत् अधिकारवशात् आविष्कृतम् ऽएतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्य संज्ञास्तीतिऽ (बृ. 2.4.14) ऽयत्र त्वस्य सर्वमात्मैवाभूत्ऽ (बृ. 2.4.14) ऽयत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यतिऽ (बृ. 4.3.19, माण्डू. 5) इत्यादि श्रुतिभ्यः ।
सगुणविद्याविपाक अवस्थानं तु एतत् स्वर्गादिवत् अवस्थान्तरं यत्र एतत् ऐश्वर्यम् उपवर्ण्यते ।
तस्मात् अदोषः ॥ 16 ॥
7 जगत् व्यापार अधिकरणम् । सू. 17-22
जगद्व्यापारवर्जं प्रकरणाद् असंनिहितत्वाच् च

4.4.18

ये सगुणब्रह्म उपासनात् सह एव मनसा ईश्वरसायुज्यं व्रजन्ति किं तेषां निरवग्रहम् ऐश्वर्यं भवति आहोस्वित् सावग्रहम् इति संशयः ।
किं तावत् प्राप्तम् ।
निरङ् कुशमेव एषाम् ऐश्वर्यं भवितुम् अर्हति ऽआप्नोति स्वाराज्यम्ऽ (तै. 1.6.2) ऽसर्वे ऽस्मै देवा बलिमावहन्तिऽ (तै. 1.5.3) ऽतेषां सर्वेषु लोकेषु कामचारो भवतिऽ (छा. 7.25.2, 8.1.6) इत्यादि श्रुतिभ्य इति ।
एवं प्राप्ते पठति - जगत् व्यापारवर्जम् इति ।
जगत् उत्पत्त्यादि व्यापारं वर्जयित्वा अन्यत् अणिमादि आत्मकम् ऐश्वर्यं मुक्तानां भवितुम् अर्हति जगत् व्यापारः तु नित्यसिद्धस्य एव ईश्वरस्य ।
कुतः - तस्य तत्र प्रकृतत्वात् असंनिहितत्वात् च इतरेषाम् ।
पर एव हि ईश्वरो जगत् व्यापारे अधिकृतः ।
तम् एव प्रकृत्य उत्पत्त्यादि उपदेशात् ।
नित्यशब्दनिबन्धनत्वात् च ।
तत् अन्वेषणविजिज्ञासनपूर्वकं तु इतरेषाम् अणिमादि ऐश्वर्यं श्रूयते ।
तेन असंनिहिताः ते जगत् व्यापारे ।
समनस्कत्वात् एव च एतेषाम् अनैकमत्ये कस्यचित् स्थिति अभिप्रायः कस्यचित् संहार अभिप्राय इति एवं विरोधः अपि कदाचित् स्यात् ।
अथ कस्यचित् संकल्पम् अन्वयस्य संकल्प इति अविरोधः समर्थ्येत ततः परमेश्वर आकूततन्त्रत्वम् एव इतरेषाम् इति व्यवतिष्ठते ॥ 17 ॥
प्रत्यक्षोपदेशाद् इति चेन् नाधिकारिकमण्डलस्थोक्तेः

4.4.19

अथ यत् उक्तम् ऽआप्नोति स्वाराज्यम्ऽ (तै. 1.6.2) इत्यादि प्रत्यक्ष उपदेशात् निरवग्रहम् ऐश्वर्यं विदुषां न्याय्यम् इति तत्परिहर्तव्यम् ।
अत्र उच्यते ।
न अयं दोषः ।
आधिकारिकमण्डलस्थ उक्तेः ।
आधिकारिको यः सवितृमण्डलादिषु विशेष आयतनेषु अवस्थितः पर ईश्वरः तदायत्त एव इयं स्वाराज्यप्राप्तिः उच्यते ।
यत्कारणम् अनन्तरम् ऽआप्नोति मनसस्पतिम्ऽ (तै. 1.6.2) इत्याह ।
यो हि सर्वमनसां पतिः पूर्वसिद्ध ईश्वरः तं प्राप्नोति इति एतत् उक्तं भवति ।
तत् अनुसारेण एव च अनन्तरम् ऽवाक्पतिश्चक्षुष्पतिः श्रोत्रपतिर्विज्ञानपतिश्च भवतिऽ (तै. 1.6.2) इत्याह ।
एवम् अन्यत्र अपि यथासंभवं नित्यसिद्ध ईश्वर आयत्तम् एव इतरेषाम् ऐश्वर्यं योजयितव्यम् ॥ 18 ॥
विकारावर्ति च तथा हि स्थितिम् आह

4.4.20

विकारावर्त्यपि च नित्यमुक्तं पारमेश्वरं रूपं न केवलं विकारमात्रगोचरं सवितृमण्डलादि अधिष्ठानम् ।
तथा हि अस्य द्विरूपां स्थितिम् आह आम्नायः ऽतावानस्य महिमा ततो ज्यायांश्च पुरुषः ।
पादो ऽस्य सर्वा भूतानि, त्रिपादस्यामृतं दिविऽ (छा. 3.12.6) इति एवमादिः ।
न च तत् निर्विकारं रूपम् इतर आलम्बनाः प्राप्नुवन्ति इति शक्यं वक्तुम् अतत्क्रतुत्वात् तेषाम् ।
अतः च यथा एव द्विरूपे परमेश्वरे निर्गुणं रूपम् अनवाप्य सगुण एव अवतिष्ठन्त एवं सगुणः अपि निरवग्रहम् ऐश्वर्यम् अनवाप्य सावग्रह एव अवतिष्ठन्त इति द्रष्टव्यम् ॥ 19 ॥
दर्शयतश् चैवं प्रत्यक्षानुमाने

4.4.21

दर्शयतः च विकार आवर्तित्वं परस्य ज्योतिषः श्रुति स्मृती ।
ऽन तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतो ऽयमग्निःऽ (कठ. 5.15, श्वेता. 6.14, मुण्ड. 2.2.10) इति ।
ऽन तद्भासयते सूर्यो न शशाङ् को न पावकःऽ (गी. 15.6) इति च ।
तत् एवं विकार आवर्तित्वं परस्य ज्योतिषः प्रसिद्धम् इति अभिप्रायः ॥ 20 ॥
भोगमात्रसाम्यलिङ्गाच् च

4.4.22

इतः च न निरङ् कुशं विकार आलम्बनानाम् ऐश्वर्यं यस्मात् भोगमात्रम् एव एषाम् अनादिसिद्धेन ईश्वरेण समानम् इति श्रूयते - ऽतमाहापो वै खलु मीयन्ते लोको ऽसौऽ इति ऽस यथैतां देवतां सर्वाणि भूतान्यवन्त्येवं हैवंविदं सर्वाणि भूतान्यवन्ति तेनो एतस्यै देवतायै सायुज्यं सलोकतां जयतिऽ(बृ. 1.5.23) इत्यादिभेदव्यपदेशलिङ्गेभ्यः ॥ 21 ॥
ननु एवं सति सातिशयत्वात् अन्तवत्त्वम् ऐश्वर्यस्य स्यात् ततः च एषाम् आवृत्तिः प्रसज्येत इत्यत उत्तरं भगवान् बादरायण आचार्यः पठति -
अनावृत्तिः शब्दाद् अनावृत्तिः शब्दात्

मूल पाठ: Brahmasūtra with Śaṃkara's Śārīrakamīmāṃsābhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc