ब्रह्माण्ड पुराण · अध्याय 2.72
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपदे वृष्णिवंशानुकीर्त्तनं नामैकसप्ततितमो ऽध्यायः ॥ 71॥
सूत उवाच
मनुष्यप्रकृतीन्देवान्कीर्त्यमानान्निबोधत ।
संकर्षणो वासुदेवः प्रद्युम्नः सांब एव च
अनिरुद्धश्च पञ्चैते वंशवीराः प्रकीर्त्तिताः ।
सप्तर्ष्यः कुबेरश्च यज्ञे मणिवरस्तथा
शालूकिर्नारदश्चैव विद्वान्धन्वन्तरिश्तथा ।
नन्दिनश्च महादेवः सालकायन एव च ।
आदिदेव स्तदा विष्णुरेभिश्च सह दैवतैः
ऋषय ऊचुः
विष्णुः किमर्थं संभूतः स्मृताः संभूतयः कति ।
भविष्याः कति चान्ये च प्रादुर्भावा महात्मनः
ब्रह्मक्षत्रेषु शस्तेषु किमर्थमिह जायते ।
पुनः पुनर्मनुष्येषु तन्नः प्रब्रूहि पृच्छताम्
विस्तरेणैव सर्वाणि कर्माणि रिपुघातिनः
श्रोतुमिच्छामहे सम्यग्वद कृष्णस्य धीमतः ।
कर्मणामानुपूर्वीं च प्रादुर्भावाश्च ये प्रभो
या वास्य प्रकृतिस्तात तां चास्मान्वक्तुमर्हसि ।
कथं स भगवान्विष्णुः सुरेष्वरिनिषूदनः
वसुदेवकुले धीमान्वासुदेवत्वमागतः ।
अमरैरावृतं पुण्यं पुण्यकृद्भिरलङ्कृतम्
देवलोकं किमुत्सृज्य मर्त्यलोकमिहागतः ।
देवमानुषयोर्नेता धातुर्यः प्रसवो हरिः
किमर्थं दिव्यमात्मानं मानुष्ये समवेशयत् ।
यश्चक्रं वर्त्तयत्येको मनुष्याणां मनोमयम्
मानुष्ये स कथं बुद्धिं चक्रे चक्रभृतां वरः ।
गोपायन यः कुरुते जगतः सर्वकालिकम्
स कथं गां गतो विष्णुर्गोपत्वमकरोत्प्रभुः ।
महाभूतानि भूतात्मा यो दधार चकार ह
श्रीगर्भः स कथं गर्भे स्त्रिया भूचरया वृतः ।
येन लोकान्क्रमैर्जित्वा सश्रीकास्त्रिदशाः कृताः
स्थापिता जगतो मार्गास्त्रिक्रमं वपुराहृतम् ।
ददौ जितां वसुमतीं सुराणां सुरसत्तमः
येन सैंहं वपुः कृत्वा द्विधाकृत्वा च तत्पुनः ।
पूर्वदैत्यो महावीर्यो हिरण्यकशिपुर्हतः
यः पुरा ह्यनलो भूत्वा त्वौर्वः संवर्त्तको विभुः ।
पातालस्थोर्ऽणवगतः पपौ तोयमयं हविः
सहस्रचरणं देवं सहस्रांशुं सहस्रशः ।
सहस्रशिरसं देवं यमाहुर्वै युगे युगे
नाभ्यरण्यां समुद्भूतं यस्य पैतामहं गृहम् ।
एकार्णवगते लोके तत्पङ्कजमपङ्कजम्
येन ते निहता दैत्याः संग्रामे तारकामये ।
सर्वदेवमयं कृत्वा सर्वायुधधरं वपुः
महाबलेन वोत्सिक्तः कालनेमिर्निपातितः ।
उत्तरांशे समुद्रस्य क्षीरोदस्यामृतोदधेः ।
यः शेतेशश्वतं योगमाच्छाद्य तिमिरं महत्
सुरारणीगर्भमधत्त दिव्यं तपःप्रकर्षाददितिः पुरायम् ।
शक्रं च यो दैत्यगणं च रूद्धं गर्भावमानेन भृशं चकार ह
पदानि यो लोकपदानि कृत्वा चकार दैत्यान्सलिलेशयांस्तान् ।
कृत्वा च देवांस्त्रिदिवस्य देवांश्चक्रे सुरेशं पुरुहूतमेव
गार्हपत्येन विधिना अन्वाहार्येण कर्मणा
अग्निमाहवनीयं च वेदीं चैव कुशं स्रुवम् ।
प्रोक्षणीयं श्रुतं चैव आवभृथ्यं तथैव च
अथर्षींश्चैव यश्चक्रे हव्यभागप्रदान्मखे ।
हव्यादांश्च सुरांश्चक्रे कव्यादांश्च पितॄनपि ।
भोगार्थं यज्ञविधिना यो यज्ञो यज्ञकर्मणि
यूपान्समित्स्रुवं सोमं पवित्रं परिधीनपि ।
यज्ञियानि च द्रव्याणि यज्ञियांश्च तथानलान्
सदस्यान्यजमानांश्च ह्यश्वमेधान्क्रतुत्तमान् ।
विचित्रान्राजसूयदीन्पारमेष्ठ्येन कर्मणा
उद्गात्रादींश्च यः कृत्वा यज्ञांल्लोकाननुक्रमम् ।
क्षणा निमेषाः काष्ठाश्च कलास्त्रैकाल्यमेव च
मुहूर्त्तास्तिथयो मासा दिनं संवत्सरं तथा ।
ऋतवः कालयोगाश्च प्रमाणं त्रिविधं त्रिषु
आयुः क्षेत्राण्यथ बलं क्षणं यद्रूपसौष्ठवम् ।
मेधावित्वं च शौर्यं च शास्त्रस्येव च पारणम्
त्रयो वर्णास्त्रयो लोकास्त्रैविद्यं पावकास्त्रयः ।
त्रैकाल्यं त्रीणि कर्माणि तिस्रो मात्रा गुणास्त्रयः
सृष्टा लोकेश्वराश्चैव येन येन च कर्मणा ।
सर्वभूतगणाः सृष्टाः सर्वभूतगणात्मना
क्षणं संधाय पूर्वेण योगेन रमते च यः ।
गतागतानां यो नेता सर्वत्र विविधेश्वरः
यो गतिर्द्धर्मयुक्तानामगतिः पापकर्मणाम् ।
चातुर्वर्ण्यस्य प्रभवश्चातुर्वर्ण्यस्य रक्षिता
चातुर्विद्यस्य यो वेत्ता चातुराशम्यसंश्रयः ।
दिगन्तरं नभो भूमिरापो वायुर्विभावसुः
चन्द्रसूर्यद्वयं ज्योतिर्युगेशाः क्षणदाचराः ।
यः परं श्रुयते देवो यः परं श्रूयते तपः
यः परं तमसः प्राहुर्यः परं परमात्मवान् ।
आदित्यादिस्तु यो देवो यश्च दैत्यान्तको विभुः
युगान्तेष्वन्तको यश्च यश्च लोकान्तकान्तकः ।
सेतुर्यो लोकसेतूनां मेधो यो मध्यकर्मणाम्
वेद्यो यो वेदविदुषां प्रभुर्यः प्रभवात्मनाम् ।
सोमभूतस्तु भूतानामग्निभूतो ऽग्निवर्चसाम्
मनुष्याणां मनुर्भूतस्तपोभूतस्तपस्विनाम् ।
विनयो नयतृप्तानां तेजस्तेजस्विनामपि
विग्रहो विग्रहाणां यो गतिर्गतिमतामपि ।
आकाशप्रभवो वायुर्वायुप्राणो हुताशनः
देवा हुताशनप्राणाः प्राणो ऽग्नेर्मधुसूदनः ।
रसाच्छोणितसंभूतिः शोणितान्मासमुच्यते
मांसात्त मेदसो जन्म मेदसो ऽस्थि निरुच्यते ।
अस्य्नो मज्जा समभवन्मज्जातः शुक्रसंभवः
शुक्राद्गर्भः समाभव द्रसमूलेन कर्मणा ।
तत्रापां प्रथमावापः स सौम्यो राशिरुच्यते
गर्भो ऽश्मसंभवो ज्ञेयो द्वितीयो राशिरुच्यते ।
शुक्रं सोमात्मकं विद्यादार्त्तवं पावकात्मकम्
भावौ रसानुगावेतौ वीर्ये च शशिपावकौ ।
कफवर्गे भवेच्छुक्रं पित्तवर्गे च शोणितम्
कफस्य त्दृदयं स्थानं नाभ्यां पित्तं प्रतिष्ठितम् ।
देहस्य मध्ये त्दृदयं स्थानं तु मनसः स्मृतम्
नाभिश्चोदर संस्था तु तत्र देवो हुताशनः ।
मनः प्रजापतिर्ज्ञेयः कफः सोमो विभाव्यते
पित्तमग्निः स्मृतो ह्येतदग्नीषोमात्मकं जगत् ।
एवं प्रवर्त्तिते गर्भे वृत्ते कर्कन्धुसंनिभे
वायुः प्रवेशनं चक्रे संगतः परमात्मना ।
स पञ्चधा शरीरस्थो विद्यते वर्द्धयेत्पुनः
प्राणापानौ समानश्च ह्युदानो व्यान एव च ।
प्राणो ऽस्य परमात्मानं वर्द्धयन्परिवर्त्तते
अपानः पश्चिमं कायमु दानो ऽर्द्धं शरीरिणः ।
व्यानो व्यानीयते येन समानः सर्वसंधिषु
भूतावाप्तिस्ततस्तस्य जायतेन्द्रियगोचरा ।
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्
सर्वेद्रियनिविष्टास्ते स्वस्वयोगं प्रचक्रिरे ।
पार्थिवं देहमाहुस्तु प्राणात्मानं च मारुतम्
छिद्राण्याकाशयोनीनि जलात्स्रावः प्रवर्त्तते ।
ज्योतिश्चक्षुषि कोष्ठो ऽस्मात्तेषां यन्नामतः स्मृतम्
संग्राह्य विषयांश्चैव यस्य वीर्यात्प्रवर्तिताः ।
इत्येतान्पुरुषः सर्वान्सृजत्येकः सनातनः
नैधने ऽस्मिन्कथं लोके नरत्वं विष्णुरागतः ।
एष नः संशयो धीमन्नेष वै विस्मयो महान्
कथं गतिर्गतिमतामापन्नो मानुषीं तनुम् ।
श्रोतुमिच्छामहे विष्णोः कर्माणि च यथाक्रमम्
आश्चर्यं परमं विष्णुर्वेदैर्देवश्चै कथ्यते ।
विष्णोरुत्पत्तिमाश्चय कथयस्व महामते
एतदाश्चर्यमाख्यातं कथ्यतां वै सुखावहम् ।
प्रख्यातबलवीर्यस्य प्रादुर्भावन्महात्मनः ।
कर्मणाश्चर्यभूतस्य विष्णोः सत्त्वमिहोच्यते
सूत उवाच
अहं वः कीर्त्तयिष्यामि प्रादुर्भावं महात्मनः
यथा बभूव भगवान्मानुषेषु महातपाः ।
भृगुस्त्रीवधदोषेण भृगुशापेन मानुषे
जायते च युगान्तेषु देवकार्यार्थसिद्धये ।
तस्य दिव्यां तनुं विष्णोर्गदतो मे निबोधत
युगधर्मे परावृत्ते काले च शिथिले प्रभुः ।
कर्त्तुं धर्मव्यवस्थानं जायते मानुषेष्विह ।
भृगोः शापनिमित्तेन देवासुरकृतेन च
ऋषय ऊचुः
कथं देवासुरकृते तद्व्याहारमवाप्तवान् ।
एतद्वेदितुमिच्छामो वृत्तं देवासुरं कथम्
सूत उवाच
देवासुरं यथावृत्तं ब्रुवतस्तन्निबोधत
हिरण्यकशिपुर्दैत्यस्त्रैलोक्यं प्राक्प्रशासति ।
बलिनाधिष्ठितं राज्यं पुनर्लोकत्रये क्रमात्
सख्यमासीत्परं तेषां देवानामसुरैः सह ।
युगाख्या दश संपूर्णा ह्यासीदव्याहतं जगत्
निदेशस्थायिनश्चैव तयोर्देवासुराभवन् ।
बद्धे बलौ विवादो ऽथ संप्रवृत्तः सुदारुणः
देवासुराणां च तदा घोरः क्षयकरो महान् ।
तेषां द्वीपनिमित्तं वै संग्रामा बहवो ऽभवेन्
वराहे ऽस्मिन्दश द्वौ च षण्डामर्कान्तगाः स्मृताः ।
नामतस्तु समासेन शृणुध्वं तान्विवक्षतः
प्रथमो नारसिंहस्तु द्वितीयश्चापि वामनः ।
तृतीयः स तु वाराहश्चतुर्थो ऽमृतमन्थनः
संग्रामः पञ्चमश्चैव सुघोरस्तारकामयः ।
षष्ठो ह्याडीबकस्तेषां सप्तमस्त्रैपुरः स्मृतः
अन्धकारो ऽष्टमस्तेषां ध्वजश्च नवमः स्मृतः ।
वार्त्रश्च दशमो घोरस्ततो हालाहलः स्मृतः
स्मृतो द्वादशकस्तेषां घोरः कोलाहलो ऽपरः ।
हिरण्यकशिपुर्दैत्यो नरसिंहेन सूदितः
वामनेन बलिर्बद्धस्त्रैलोक्याक्रमणे कृते ।
हिरण्याक्षो हतो द्वन्द्वे प्रतिवादे च दैवते
महाबलो महासत्त्वः संग्रामेष्वपराजितः ।
दंष्ट्रया तु वराहेण स दैत्यस्तु द्विधाकृतः
प्रह्लादो निर्जितो युद्धे इन्द्रेणामृतमन्थने ।
विरोचनस्तु प्राह्लादिर्नित्यमिन्द्रवधोद्यतः
इन्द्रेणैव स विक्रम्य निहतस्तारकामये ।
भवादवध्यतां प्राप्य विशेषास्त्रादिभिस्तु यः
स जंभो निहतः षष्ठे शक्राविष्टेन विष्णुना ।
अशक्नुवत्सु देवेषु परं सोढुमदैवतम्
निहता दानवाः सर्वे त्रिपुरे त्र्यंबकेण तु ।
अथ दैत्याः सुराश्चैव राक्षसास्त्वन्धकारिके
जिता देवमनुष्येस्ते पितृभिश्चैव संगताः ।
सवृत्रान्दानवांश्चैव संगतान्कृत्स्नशश्च तान्
जघ्ने विष्णुसहायेन महेन्द्रस्तेन वर्द्धितः ।
हतो ध्वजे महेन्द्रेण मयाछत्रश्च योगवित्
ध्वजलक्षं समाविश्य विप्रचित्तिः महानुजः ।
दैत्यांश्च दानवांश्चैव संहतान्कृत्स्नशश्च तान्
जयद्धालाहले सर्वैर्देवैः परिवृतो वृषा ।
रजिः कोलाहले सर्वान्दैत्यान्परिवृतो ऽजयत्
यज्ञस्यावभृथे जित्वा षण्डामकारै तु दैवतैः ।
एते देवासुरा वृत्ताः संग्रामा द्वादशैव तु
सुरासुरक्षयकराः प्रजाना मशिवश्च ह ।
हिरण्यकशिपू राजा वर्षाणामर्बुदं बभौ
तथा शतसहस्राणि ह्यधिकानि द्विसफतिः ।
अशीतिश्च सहस्राणि त्रैलोक्यस्येश्वरो ऽभवत्
पारंपर्येण राजा तु बलिर्वर्षार्बुधं पुनः ।
षष्टिश्चैव सहस्राणि त्रिंशच्च नियुतानि च
बले राज्याधिकारस्तु यावत्कालं बभूव ह ।
प्रह्लादो निर्जितो ऽभूच्च तावत्कालं सहासुरैः
इन्द्रास्त्रयस्ते विख्याता ह्यसुराणां महौ जसः ।
दैत्यसंस्थमिदं सर्वमासीद्दशयुगं किल
अशपत्तु ततः शुक्रो राष्ट्रं दशयुगं पुनः ।
त्रैलोक्यमिदमव्यग्रं महेन्द्रो ह्यभ्ययाद्बलेः
प्रह्लादस्य हृते तस्मिंस्त्रैलोक्ये कालपर्ययात् ।
पर्यायेणैव संप्राप्तं त्रैलोक्यं पाकशासनम्
ततो ऽसुरान्परित्यज्य यज्ञो देवानुपागमत् ।
यज्ञे देवानथ गते काव्यं ते ह्यसुरां ब्रुवन्
किं तन्नो मिषतां राष्ट्रं त्यक्त्वा यज्ञः सुरान्गतः ।
स्थातुं न शक्रुमो ह्यद्य प्रविशाम रसातलम्
एवमुक्तो ऽब्रवीदेतान्विषण्णः सांत्वयन्गिरा ।
माभैष्ट धारयिष्यामि तेजसा स्वेन वः सुराः
वृष्टिरोषधयश्चैव रसा वस्तु च यत्परम् ।
कृत्स्नानि ह्यपि तिष्ठन्तु पापस्तेषां सुरेषु वै
युष्मदर्थं प्रदास्यामि तत्सर्व धार्यते मया ।
ततो देवासुरान्दृष्ट्वा धृतान्काव्येन धीमता
अमन्त्रयंस्तदा ते वै संविघ्ना विजिगीषया ।
एष काव्य इदं सर्वं व्यावर्त्तयति नो बलात्
साधु गच्छामहे तूर्णं यावन्नाप्याययेत्तु तान् ।
प्रसह्य हत्वा शिष्टांस्तु पातालं प्रापयामहे
ततो देवास्तु संरब्धा दानवानभिसृत्य वै ।
जघ्नुस्तैर्वध्यमानास्ते काव्यमेवाभिदुद्रुवुः
ततः काव्यस्तु तान्दृष्ट्वा तूर्णं देवैरभिद्रुतान् ।
समारक्षत संत्रस्तान्देवेभ्यस्तान्दितेः सुतान्
काव्यो दृष्ट्वा स्थितान्देवांस्तत्र दैवमचिन्तयत् ।
तानुवाच ततो ध्यात्वा पूर्ववृत्तमनुस्मरन्
त्रैलोक्यं विजितं सर्वं वामनेन त्रिभिःक्रमैः ।
बलिर्बद्धो हतो जंभो निहतश्च विरोचनः
महासुरा द्वादशसु संग्रामेषु सुरैर्हताः ।
तैस्तैरुपायैर्भूयिष्ठा निहता ये प्रधानतः
किञ्चिच्छिष्टास्तु वै यूयं युद्धे स्वल्पे तु वै स्वयम् ।
नीतिं वो हि विधास्यामि कालः कश्चित्प्रतीक्ष्यताम्
यास्याम्यहं महादेवं मन्त्रार्थे विजयाय च ।
अग्निमाप्याययेद्धोता मेत्रैरेष दहिष्यति
ततो यास्याम्यहं देवं मन्त्रार्थे नीललोहितम् ।
युष्माननुग्रहीष्यामि पुनः पश्चादिहागतः
यूयं तपश्चरध्वं वै संवृता वल्कलैर्वने ।
न वै देवा वाधिष्यन्ति यावदागमनं मम
अप्रतीपांस्ततो मन्त्रान्देवात्प्राप्य महेश्वरात् ।
योत्स्यामहे पुनर्देवांस्ततः प्राप्स्यथ वै जयम्
ततस्ते कृतसंवादा देवानूचुस्ततो ऽसुराः ।
न्यस्तशस्त्रा वयं सर्वे लोकान्यूयं क्रमन्तु वै
वयं तपश्चरिष्यामः संवृत्ता वल्कलैर्वने ।
प्रह्लादस्य वचः श्रुत्वा सत्यानुव्यात्दृतं तु तत्
ततो देवा न्यवर्त्तन्त विज्वरा मुदिताश्च ह ।
न्यस्तशस्त्रेषु दैत्येषु स्वान्वै जग्मुर्यथागतान्
ततस्तानब्रवीत्काव्यः कञ्चित्कालं प्रतीक्ष्यताम् ।
निरुत्सुकास्तपोयुक्ताः कालः कार्यार्थसाधकः
पितुर्ममाश्रमस्था वै संप्रतीक्षत दानवाः ।
स संदिश्यसुरान्काव्यो महोदेवं प्रपद्य च
प्रणम्यैवमुवाचायं जगत्प्रभवमीश्वरम् ।
मन्त्रानिच्छामि हे देव ये न संति बृहस्पतौ
पराभवाय देवानामसुरेष्वभयावहान् ।
एवमुक्तो ऽब्रवीद्देवो मन्त्रानिच्छसि वै द्विज
व्रतं चर मयोद्दिष्टं ब्रह्मचारी समाहितः ।
पूर्मं वर्षसहस्रं वै कुण्डधूममवाक्शिराः
यदि पास्यति भद्रं ते मत्तो मन्त्रमवाप्स्यसि ।
तथोक्तो देवदेवेन स शुक्रस्तु महातपाः
पादौ संस्पृश्य देवस्य बाढमित्यभाषत ।
व्रतं चराम्यहं देव यथोद्दिष्टो ऽस्मि वैप्रभो
ततो नियुक्तो देवेन कुण्डधारो ऽस्य धूमकृत् ।
असुराणां हितार्थाय तस्मिञ्छुक्रे गते तदा
मन्त्रार्थं तत्र वसति ब्रह्म चर्यं महेश्वरे ।
तद्बुद्ध्वा नीतिपूर्वं तु राष्ट्रं न्यस्तं तदासुरैः
तस्मिञ्छिद्रे तदामर्षाद्देवास्तान्समभिद्रवन् ।
प्रगृहीतायुधाः सर्वे बृहस्पतिपुरोगमाः
दृष्ट्वासुरगणा देवान्प्रगृहीतायुधान्पुनः ।
उत्पेतुः सहसा सर्वे संत्रस्तास्ते ततो ऽभवन्
न्यस्ते शस्त्रे ऽभये दत्ते ह्याचार्ये व्रतमास्थिते ।
संत्यज्य समयं देवास्ते सपत्नजिघांसवः
अनाचार्यास्तु भद्रं वो विश्वस्तास्तपसे स्थिताः ।
चीरवल्काजिनधरा निष्क्रिया निष्परिग्रहाः
रणे विजेतुं देवान्वै न शक्ष्यामः कथञ्चन ।
अयुद्धेन प्रपद्यामः शरणं काव्यमातरम्
प्रापद्यन्त ततो भीतास्तया चैव तदाभयम् ।
दत्तं तेषां तु भीतानां दैत्यानामभयार्थिनाम्
तया चाभ्युपपन्नांस्तान्दृष्ट्वा देवास्तदासुरान् ।
अभिजघ्नुः प्रसह्यैतान्विचार्य च बलाबलम्
तत स्तान्वध्यमानांस्तु देवैर्दृष्ट्वासुरांस्तदा ।
देवी क्रुद्धाब्रवीदेनाननिन्द्रत्वं करोम्यहम्
संस्तभ्य शीघ्रं संरंभादिन्द्रं साभ्यचरत्ततः ।
ततः संस्तंभितं दृष्ट्वा शक्रं देवास्तु मूढवत्
व्यद्रवन्त ततो भीता दृष्ट्वा शक्रं वशीकृतम् ।
गतेषु सुरसंघेषु विष्मुरिन्द्रमभाषत
मां त्वं प्रविश भद्रं ते नेष्यामि त्वां सुरेश्वर ।
एवमुक्तस्ततो विष्णुः प्रविवेश पुरन्दरः
विष्मुना रक्षितं दृष्ट्वा देवी क्रुद्धा वचो ऽवदत् ।
एषा त्वां विष्णुना सार्द्ध दहामि मघवन्बलात्
मिषता सर्वभूतानां दृश्यतां मे तपोबलम् ।
तयाभिभूतौ तौ देवाविन्द्राविष्णू जजल्पतुः
कथं मुच्येव सहितौ विष्णुरिन्द्रमभाषत ।
इन्द्रो ऽब्रवीज्जहि ह्येनां यावन्नो न दहे द्विभो
विशेषेणाभिभूतो ऽहमिमां तज्जहि माचिरम् ।
ततः समीक्ष्य तां विष्णुः स्त्रीवधं कर्त्तुमास्थितः
अभिध्याय ततश्शक्रमापन्नं सत्वरं प्रभुः ।
तस्याः संत्वरमाणायाः शीघ्रङ्कारी मुरारिहा
त्रिधा विष्णुस्ततो देवः क्रूरं बुद्ध्वा चिकीर्षितम् ।
क्रुद्धस्तदस्त्रमाविध्य शिरश्चिच्छेद माधवः
तं दृष्ट्वा स्त्रीवधं घोरं चुकोप भृगुरीश्वरः ।
ततो ऽभिशप्तो भृगुणा विष्णुर्भार्यावधे तदा
यस्मात्ते जानता धर्ममवध्या स्त्री निषूदिता ।
तस्मात्त्वं सप्तकृत्वो वै मनुष्येषु प्रपद्यसे
ततस्तेनाभिशापेन नष्टे धर्मे पुनः पुनः ।
सर्वलोक हितार्थाय जायते मानुषेष्विह
अनुव्याहृत्य विष्मुं स तदादाय शिरः स्वयम् ।
समानीय ततः काये समायोज्येदमब्रवीत्
एतां त्वां विष्णुना सत्यं हतां संजीवयाम्यहम् ।
यदि कृत्स्नो मया धर्मश्चरितो ज्ञायते ऽपि वा
तेन सत्येन जीवस्व यदि सत्यं ब्रवीम्यहम् ।
सत्याभिव्यहृतात्तस्य देवी संजीविता तदा
तदा तां प्रोक्ष्य शीताभिरद्भिर्जीवेति सो ऽब्रवीत् ।
ततस्तां सर्वभूतानां दृष्ट्वा सुप्तोत्थितामिव
साधुसाध्वित्यदृश्यानां वाचस्ताः सस्वनुर्दिशः ।
दृष्ट्वा संजीवितामेवं देवीं तां भृगुणा तदा
मिषतां सर्वभूतानां तदद्भुतमिवाभवत् ।
असंभ्रान्तेन भृगुणा पत्नी संजीवितां ततः
दृष्ट्वा शक्रो न लेभे ऽथ शर्म काव्यभयात्ततः ।
प्रजागरे ततश्चेन्द्रो जयन्तीमात्मनः सुताम्
प्रोवाच मतिमान्वाक्यं स्वां कन्यां पाकशासनः ।
एष काव्यो ह्यनिन्द्राय चरते दारुणं तपः
तेनाहं व्याकुलः पुत्रि कृतो धृतिमना दृढम् ।
गच्छ संभावयस्वैनं श्रमापनयनैः शुभे
तैस्तैर्मनो ऽनुकूलैश्च ह्युपचारैरतद्रिता ।
देवी सारीन्द्रदुहिता जयन्ती शुभचारिणी
सुस्वरूपधरागात्तं दुर्वहं व्रतमास्थितम् ।
पित्रा यथोक्तं वाक्यं सा काव्ये कृतवती तदा
गीर्भिश्चैवानुकूलाभिः स्तुवन्ती वल्गुभाषिणी ।
गात्रसंवाहनैः काले सेवमाना त्वचासुखैः
शुश्रूषन्त्यनुकूला च उवास बहुलाः समाः ।
पूर्णं धूमव्रते चापि घोरे वर्षसहस्रके
वरेण च्छन्दयामास काव्यं प्रीतो ऽभवस्तदा ।
एवं व्रतं त्वयैकेन चीर्णं नान्येन केन चित्
तस्मात्त्वं तपसा बुद्ध्या श्रुतेन च बलेन च ।
तेजसा वापि विबुधान्सर्वानभिभविष्यसि
यच्च किञ्चिन्ममब्रह्म विद्यते भृगुनन्दन ।
सांग च सरहस्यं च यज्ञोपनिषदस्तथा
प्रतिभाति ते सर्वं तद्वाच्यं तु न कस्यचित् ।
सर्वाभिभावी तेन त्वं द्विजश्रेष्ठो भविष्यसि
एवं दत्त्वा वरं तस्यै भार्गवाय भवः पुनः ।
प्रजेशत्वं धनेशत्वमवध्यत्वं च वै ददौ
एतांल्लब्ध्वा वरान्काव्यः संप्रहृष्टतनूरुहः ।
हर्षात्प्रादुर्बभौ तस्य दिव्यं स्तोत्रं महेशितुः
तदा तिर्यक्स्थितस्त्वेवं तुष्टुवे नीललोहितम् ।
नमो ऽस्तु शितिकण्ठाय सुराद्याय सुवर्चसे
लेलिहानाय लेह्याय वत्सराय जगत्पते ।
कपर्दिने ह्यूर्द्ध्वरोम्णे हर्यक्षवरदाय च
संस्तुताय सुतीर्थाय देवदेवाय रंहसे ।
उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे
वसुरेताय रुद्राय तपसे चीरवाससे ।
निस्वाय मुक्तकेशाय सेनान्ये रोहिताय च
कवये राजवृद्धाय तक्षकक्रीडनाय च ।
गिरिशायार्कनेत्राय यतये चाज्यपाय च
सुवृत्ताय सुहस्ताय धन्विने भार्गवाय च ।
सहस्रबाहवे चैव सहस्रामलचक्षुषे
सहस्रकुक्षये चैव सहस्रचरणाय च ।
सहस्रशिरसे चैव बहुरूपाय वेधसे
भवाय विश्वरूपाय श्वेताय पुरुषाय च ।
निषङ्गिणे कवचिने सूक्ष्माय क्षपणाय च
ताम्राय चैव भीमाय उग्राय च शिवाय च ।
महादेवाय सर्वाय विश्वरूपशिवाय च
हिरण्याय वसिष्ठाय वर्षाय मध्यमाय च ।
धाम्ने चैव पिशङ्गाय पिङ्गलायारुणाय च
पिनाकिने चेषुमते चित्राय रोहिताय च ।
दुन्दुभ्यायैकपादाय अर्हाय बुद्धये तथा ।
मृगव्याधाय सर्वाय स्थाणवे भीषणाय च
बहुरूपाय चोग्राय त्रिनेत्रायेश्वराय च ।
कपिलोयैकवीराय मृत्यवे त्र्यंबकाय च
वास्तोष्पते पिनाकाय शङ्कराय शिवाय च ।
आरण्याय गृहस्थाय यतिने बह्मचारिणे
सांख्याय चैव योगाय ध्यानिने दीक्षिताय च ।
अन्तर्हिताय सर्वाय तप्याय व्यापिने तथा
बुद्धाय चैव शुद्धाय मुक्ताय केवलाय च ।
रोधसे चैकितानाय ब्रह्मिष्ठाय महार्षये
चतुष्पादाय मेध्याय वर्मिणे शीघ्रगाय च ।
शिखण्डिने कपालाय दण्डिने विश्वमेधसे
अप्रतीताय दीप्ताय भास्कराय सुमेधसे ।
क्रूराय विकृतायैव बीभत्साय शिवाय च
शुचये परिधानाय सद्योजाताय मृत्यवे ।
पिशिताशाय शर्वाय मेघाय वैद्युताय च
दक्षाय च जघन्याय लोकानामीश्वराय च ।
अनामयाय चेध्माय हिरण्यायैकचक्षुषे
श्रेष्ठाय वामदेवाय ईशानाय च धीमते ।
महाकल्पाय दीप्ताय रोदनाय हसाय च
दृढधन्विने कवचिने रथिने च वरूथिने ।
भृगुनाथाय शुक्राय गह्वरिष्ठाय धीमते
अमोघाय प्रशान्ताय सदा विप्रप्रियाय च ।
दिग्वासः कृत्तिवासाय भगघ्नाय नमो ऽस्तु ते
पशूनां पतये चैव भूतानां पतये नमः ।
प्रभवे ऋग्यजुःसाम्ने स्वाहायै च सुधाय च
वषट्कारतमायैव तुभ्यं मन्त्रात्मने नमः ।
स्रष्ट्रे धात्रे तथा कर्त्रे हर्त्रे च क्षपणाय च
भूतभव्यभवेशाय तुभ्यं कर्मात्मने नमः ।
वसवे चैव साध्याय रुद्रादित्याश्विनाय च
विश्वाय मरुते चैव तुभ्यं देवात्मने नमः ।
अग्नीषोमविधिज्ञाय पशुमन्त्रौ षधाय च
दक्षिणावभृथायैव तुभ्यं यज्ञात्मने नमः ।
तपसे चैव सत्याय त्यागाय च शमाय च
अहिंसायाथ लोभाय सुवेषायानिशाय च ।
सर्वभूतात्प्रभूताय तुभ्यं योगात्मने नमः
पृथिव्यै चान्तरिक्षाय महासे त्रिदिवाय च ।
जनस्तपाय सत्याय तुभ्यं लोकात्मने नमः
अव्यक्तायाथ महते भूतायैवेन्द्रियाय च ।
तन्मात्रायाथ महते तुभ्यं तत्त्वात्मने नमः
नित्याय चाप्यलिङ्गाय सूक्ष्माय चेतराय च ।
शुद्धाय विभवे चैव तुभ्यं नित्यात्मने नमः
नमस्ते त्रिषु लोकेषु स्वरन्तेषु भुवादिषु ।
सत्यान्तमहराद्येषु चतुर्षु च नमो ऽस्तु ते
नामस्तोत्रे मया ह्यस्मिन्यदसद्व्याहृतं प्रभो ।
मद्भक्त इतिब्रह्मण्य सर्वं तत्क्षन्तुमर्हसि
मूल पाठ: Brahmāṇḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0