भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्माण्ड पुराण · अध्याय 2.45

2.45.1

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे
सगरोपाख्याने भार्गवचरिते चतुश्चत्वारिंशत्तमो ऽध्यायः ॥ 44॥
वसिष्ठ उवाच
ततः कदाचिद्विपिने चतुरङ्गबलान्वितः ।
मृगयामगमच्छूरः शूरसेनादिभिः सह

2.45.2

ते प्रविश्य महारण्यं हत्वा बहुविधान्मृगान् ।
जग्मुस्तृषार्त्ता मध्याह्ने सरितं नर्मदामनु

2.45.3

तत्र स्नात्वा च पीत्वा च वारि नद्या गतश्रमाः ।
गच्छन्तो ददृशुर्मार्गो जमदग्नेरथाश्रमम्

2.45.4

द्दष्ट्वाश्रमपदं रम्यं मुनीनागच्छतः पथि ।
कस्येदमिति पप्रच्छुर्भाविकर्मप्रचोदिताः

2.45.5

ते प्रोचुरतिशान्तात्मा जमदग्नेर्महातपाः ।
वसत्यस्मिन्सुतो यस्य रामः शस्त्रभृतां वरः

2.45.6

तछ्रुत्वा भीरभूत्तेषां रामनामानुकीर्त्तनात् ।
क्रोधं प्रसङ्यानृशंस्यं पूर्ववैरमनुस्मरन्

2.45.7

अथ ते प्रोचुरन्योन्यं पितृहन्तुर्वधात्पितुः ।
वैर निर्यातनं किं तु करिष्यामो दिशाधुना

2.45.8

इत्यक्त्वा खड्गहस्तास्ते संप्रविश्य तदाश्रमम् ।
प्रजाघ्निरे प्रयातेषु मुनिवीरेषु सर्वतः

2.45.9

तं हत्वास्य शिरो हृत्वा निषादा इव निर्दयाः ।
प्रययुस्ते दुरात्मानः सबलाः स्वपुरीं प्रति

2.45.10

पुत्रास्तस्य महात्मानौ दृष्ट्वा स्वपितरं हतम् ।
परिवार्य महाराज रुरुदुः शोककर्शिताः

2.45.11

भर्त्तारं निहतं भूमौ पतितं वीक्ष्य रेणुका ।
पपात मूर्च्छिता सद्यो लतेवाशनिताडिता

2.45.12

सा स्वचेतसि संमूच्छ्य शोकपावकदीपिताः ।
दूरप्रनष्टसंज्ञेव सद्यः प्राणैर्व्ययुज्यत

2.45.13

अनालपन्त्यां तस्यां तु संज्ञां याता हि ते पुनः ।
न्यपतन्मूर्च्छिता भूमौ निमग्नाः शोकसागरे

2.45.14

ततस्तपोधना ये ऽन्ये तत्त पोवनवासिनः ।
समेत्याश्वासयामासुस्तुल्यदुःखाः सुतान्मुने

2.45.15

सांत्व्यमाना मुनिगणैर्जामदग्न्या यथाविधि ।
आधक्षुर्वचसा तेषामग्नौ पित्रोः कलेवरे

2.45.16

चक्रुरेव तदूर्द्ध्वं वै यत्कर्त्तव्यमनन्तरम् ।
पित्रोर्मरणदुःखेन पीड्यमाना दिवानिशम्

2.45.17

ततः काले गते रामः समानां द्वादशावधौ ।
निवृत्तस्तपसः सख्या सहागादाश्रमं पितुः

मूल पाठ: Brahmāṇḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc