भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मबिन्दूपनिषद् · श्लोक 1-20

1

ओं
मनो हि द्विविधं प्रोक्तं शुद्धं चाशुद्धम् एव च ।
अशुद्धं कामसंकल्पं शुद्धं कामविवर्जितम्

2

मन एव मनुष्याणां कारणं बन्धमोक्षयोः ।
बन्धाय विषयासक्तं मुक्त्यै निर्विषयं स्मृतम्

3

यतो निर्विषयस्यास्य मनसो मुक्तिर् इष्यते ।
तस्मान् निर्विषयं नित्यं मनः कार्यं मुमुक्षुणा

4

निरस्तविषयासङ्गं संनिरुद्धं मनो हृदि ।
यदा यात्य् उन्मनीभावं तदा तत् परममदम्

5

तावद् एव निरोद्धव्यं यावद्धृदि गतं क्षयम् ।
एतज् ज्ञानं च मोक्षं च अतो ऽन्यो ग्रन्थविस्तरः

6

नैव चिन्त्यं न चाचिन्त्यम् अचिन्त्यं चिन्त्यम् एव च ।
पक्षपातविनिर्मुक्तं ब्रह्म सम्पद्यते तदा

7

स्वरेण संधयेद् योगम् अस्वरं भावयेत् परम् ।
अस्वरेण हि भावेन भावो नाभाव इष्यते

8

तद् एव निष्कलं ब्रह्म निर्विकल्पं निरञ्जनम् ।
तद् ब्रह्माहम् इति ज्ञात्वा ब्रह्म सम्पद्यते ध्रुवम्

9

निर्विकल्पम् अनन्तं च हेतुदृष्टान्तवर्जितम् ।
अप्रमेयम् अनाद्यं च ज्ञात्वा च परमं शिवम्

10

न निरोधो न चोत्पत्तिर् न वन्द्यो न च शासनम् ।
न मुमुक्षा न मुक्तिश् च इत्य् एषा परमार्थता

11

एक एवात्मा मन्तव्यो जाग्रत्स्वप्नसुषुप्तिषु ।
स्थानत्रयाद् व्यतीतस्य पुनर्जन्म न विद्यते

12

एक एव हि भूतात्मा भूते भूते व्यवस्थितः ।
एकधा बहुधा चैव दृश्यते जलचन्द्रवत्

13

घटसंभृतम् आकाशं लीयमाने घटे यथा ।
घटो लीयेत नाकाशं तद्वज् जीवो घटोपमः

14

घटवद् विविधाकारं भिद्यमानं पुनः पुनः ।
तद्भग्नं न च जानाति स जानाति च नित्यशः

15

शब्दमायावृतो यावत् तावत् तिष्ठति पुष्करे ।
भिन्ने तमसि चैकत्वम् एकम् एवानुपश्यति

16

शब्दाक्षरं परं ब्रह्म यस्मिन् क्षीणे यद् अक्षरम् ।
तद् विद्वान् अक्षरं ध्यायेद् यदीच्छेच्छान्तिम् आत्मनः

17

द्वे विद्ये वेदितव्ये तु शब्दब्रह्म परं च यत् ।
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति

18

ग्रन्थम् अभ्यस्य मेधावी ज्ञानविज्ञानतत्त्वतः ।
पलालम् इव धान्यार्थी त्यजेद् ग्रन्थम् अशेषतः

19

गवाम् अनेकवर्णानां क्षीरस्याप्य् एकवर्णता ।
क्षीरवत् पश्यते ज्ञानं लिङ्गिनस् तु गवां यथा

20

घृतम् इव पयसि निगूढं भूते भूते च वसति विज्ञानम् ।
सततं मन्थयितव्यं मनसा मन्थानभूतेन

मूल पाठ: Brahmabindūpaniṣad · Edition: Ramamaya Tarkaratna In: The Atharvana-Upanishads. Calcutta: Ganesha Press, 1872 (Bibliotheca Indica ; 76) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc