भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 99

99.1

ऋणप्रमोचनं नाम तीर्थं वेदविदो विदुः
तस्य स्वरूपं वक्ष्यामि शृणु नारद तन्मनाः ॥

99.2

आसीत् पृथुश्रवा नाम प्रियः कक्षीवतः सुतः
न दारसंग्रहं लेभे वैराग्यान् नाग्निपूजनम् ॥

99.3

कनीयांस् तु समर्थो ऽपि परिवित्तिभयान् मुने
नाकरोद् दारकर्मादि नैवाग्नीनाम् उपासनम् ॥

99.4

ततः प्रोचुः पितृगणाः पुत्रं कक्षीवतः शुभम्
ज्येष्ठं चैव कनिष्ठं च पृथक् पृथग् इदं वचः ॥

99.5

ऋणत्रयापनोदाय क्रियतां दारसंग्रहः ॥

99.6

नेत्य् उवाच ततो ज्येष्ठः किम् ऋणं केन युज्यते
कनीयांस् तु पितॄन् प्राह न योग्यो दारसंग्रहः ॥

99.7

ज्येष्ठे सति महाप्राज्ञः परिवित्तिभयाद् इति
ताव् उभौ पुनर् अप्य् एवम् ऊचुस् ते वै पितामहाः ॥

99.8

याताम् उभौ गौतमीं तु पुण्यां कक्षीवतः सुतौ
कुरुतां गौतमीस्नानं सर्वाभीष्टप्रदायकम् ॥

99.9

गच्छतां गौतमीं गङ्गां लोकत्रितयपावनीम्
स्नानं च तर्पणं तस्यां कुरुतां श्रद्धयान्वितौ ॥

99.10

दृष्टावनामिता ध्याता गौतमी सर्वकामदा
न देशकालजात्यादि नियमो ऽत्रावगाहने
ज्येष्ठो ऽनृणस् ततो भूयात् परिवित्तिर् न चेतरः ॥

99.11

ततः पृथुश्रवा ज्येष्ठः कृत्वा स्नानं सतर्पणम्
त्रयाणाम् अपि लोकानां काक्षीवतो ऽनृणो ऽभवत् ॥

99.12

ततः प्रभृति तत् तीर्थम् ऋणमोचनम् उच्यते
श्रौतस्मार्त-ऋणेभ्यश् च इतरेभ्यश् च नारद
तत्र स्नानेन दानेन ऋणी मुक्तः सुखी भवेत् ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc