भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 91

91.1

ततो गोवर्धनं तीर्थं सर्वपापप्रणाशनम्
पितॄणां पुण्यजननं स्मरणाद् अपि पापनुत् ॥

91.2

तस्य प्रभाव एष स्यान् मया दृष्टस् तु नारद
ब्राह्मणः कर्षकः कश्चिज् जाबालिर् इति विश्रुतः ॥

91.3

न विमुञ्चत्य् अनड्वाहौ मध्यं याते ऽपि भास्करे
प्रतोदेन प्रतुदति पृष्ठतो ऽपि च पार्श्वयोः ॥

91.4

तौ गावाव् अश्रुपूर्णाक्षौ दृष्ट्वा गौः कामदोहिनी
सुरभिर् जगतां माता नन्दिने सर्वम् अब्रवीत् ॥

91.5

स चापि व्यथितो भूत्वा शंभवे तन् न्यवेदयत्
शंभुश् च वृषभं प्राह सर्वं सिध्यतु ते वचः ॥

91.6

शिवाज्ञासहितो नन्दी गोजातं सर्वम् आहरत्
नष्टेषु गोषु सर्वेषु स्वर्गे मर्त्ये ततस् त्वरा ॥

91.7

माम् अवोचन् सुरगणा विना गोभिर् न जीव्यते
तान् अवोचं सुरान् सर्वाञ् शंकरं यात याचत ॥

91.8

तथैवेशं तु ते सर्वे स्तुत्वा कार्यं न्यवेदयन्
ईशो ऽपि विबुधान् आह जानाति वृषभो मम ॥

91.9

ते वृषं प्रोचुर् अमरा देहि गा उपकारिणः
वृषो ऽपि विबुधान् आह गोसवः क्रियतां क्रतुः ॥

91.10

ततः प्राप्स्यथ गाः सर्वा या दिव्या याश् च मानुषाः
ततः प्रवर्तते यज्ञो गोसवो देवनिर्मितः ॥

91.11

गौतम्याश् च शुभे पार्श्वे गावो ववृधिरे ततः
गोवर्धनं तु तत् तीर्थं देवानां प्रीतिवर्धनम् ॥

91.12

तत्र स्नानं मुनिश्रेष्ठ गोसहस्रफलप्रदम्
किंचिद् दानादिना यत् स्यात् फलं तत् तु न विद्महे ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc