ब्रह्म पुराण · अध्याय 149
नारसिंहम् इति ख्यातं गङ्गाया उत्तरे तटे
तस्यानुभावं वक्ष्यामि सर्वरक्षाविधायकम् ॥
हिरण्यकशिपुः पूर्वम् अभवद् बलिनां वरः
तपसा विक्रमेणापि देवानाम् अपराजितः ॥
हरिभक्तात्मजद्वेष कलुषीकृतमानसः
आविर्भूय सभास्तम्भाद् विश्वात्मत्वं प्रदर्शयन् ॥
तं हत्वा नरसिंहस् तत् सैन्यम् अद्रावयत् तदा
सर्वान् हत्वा महादैत्यान् क्रमेणाजौ महामृगः ॥
रसातलस्थाञ् शत्रूंश् च जित्वा स्वर्लोकम् ईयिवान्
तत्र जित्वा भुवं गत्वा दैत्यान् हत्वा नगस्थितान् ॥
समुद्रस्थान् नदीसंस्थान् ग्रामस्थान् वनवासिनः
नानारूपधरान् दैत्यान् निजघान मृगाकृतिः ॥
आकाशगान् वायुसंस्थाञ् ज्योतिर्लोकम् उपागतान्
वज्रपाताधिकनखः समुद्धूतमहासटः ॥
दैत्यगर्भस्राविगर्जी निर्जिताशेषराक्षसः
महानादैर् वीक्षितैश् च प्रलयानलसंनिभैः ॥
चपेटैर् अङ्गविक्षेपैर् असुरान् पर्यचूर्णयत्
एवं हत्वा बहुविधान् गौतमीम् अगमद् धरिः ॥
स्वपदाम्बुजसंभूतां मनोनयननन्दिनीम्
तत्राम्बर्य इति ख्यातो दण्डकाधिपते रिपुः ॥
देवानां दुर्जयो योद्धा बलेन महतावृतः
तेनाभवन् महारौद्रं भीषणं लोमहर्षणम् ॥
शस्त्रास्त्रवर्षणं युद्धं हरिणा दैत्यसूनुना
निजघान हरिः श्रीमांस् तं रिपुं ह्य् उत्तरे तटे ॥
गङ्गायां नारसिंहं तु तीर्थं त्रैलोक्यविश्रुतम्
स्नानदानादिकं तत्र सर्वपापग्रहार्दनम् ॥
सर्वरक्षाकरं नित्यं जरामरणवारणम्
यथा सुराणां सर्वेषां न कोपि हरिणा समः ॥
तीर्थानाम् अप्य् अशेषाणां तथा तत् तीर्थम् उत्तमम्
तत्र तीर्थे नरः स्नात्वा कुर्यान् नृहरिपूजनम् ॥
स्वर्गे मर्त्ये तले वापि तस्य किंचिन् न दुर्लभम्
इत्याद्य् अष्टौ मुने तत्र महातीर्थानि नारद ॥
पृथक् पृथक् तीर्थकोटि फलम् आहुर् मनीषिणः
अश्रद्धयापि यन्नाम्नि स्मृते सर्वाघसंक्षयः ॥
भवेत् साक्षान् नृसिंहो ऽसौ सर्वदा यत्र संस्थितः
तत् तीर्थसेवासंजातं फलं कैर् इह वर्ण्यते ॥
यथा न देवो नृहरेर् अधिकः क्वापि वर्तते
तथा नृसिंहतीर्थेन समं तीर्थं न कुत्रचित् ॥
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0