भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 139

139.1

खड्गतीर्थम् इति ख्यातं गौतम्या उत्तरे तटे
तत्र स्नानेन दानेन मुक्तिभागी भवेन् नरः ॥

139.2

तत्र वृत्तं प्रवक्ष्यामि शृणु नारद यत्नतः
पैलूष इति विख्यातः कवषस्य सुतो द्विजः ॥

139.3

कुटुम्बभारात् परितो ह्य् अर्थार्थी परिधावति
न किमप्य् आससादासौ ततो वैराग्यम् आस्थितः ॥

139.4

अत्यन्तविमुखे दैवे व्यर्थीभूते तु पौरुषे
न वैराग्याद् अन्यद् अस्ति पण्डितस्यावलम्बनम् ॥

139.5

इति संचिन्तयाम् आस तदासौ निःश्वसन् मुहुः
क्रमागतं धनं नास्ति पोष्याश् च बहवो मम ॥

139.6

मानी चात्मा न कष्टार्हो हा धिग् दुर्दैवचेष्टितम्
स कदाचिद् वृत्तियुतो वृत्तिभिः परिवर्तयन् ॥

139.7

न लेभे तद् धनं वृत्तेर् विरागम् अगमत् तदा
सेवा निषिद्धा या काचिद् गहना दुष्करं तपः ॥

139.8

बलाद् आकर्षतीयं मां तृष्णा सर्वत्र दुष्कृते
त्वयापकृतम् अज्ञानात् तस्मात् तृष्णे नमो ऽस्तु ते ॥

139.9

एवं विचिन्त्य मेधावी तृष्णाछेदाय किं भवेत्
इत्य् आलोच्य स पैलूषः पितरं वाक्यम् अब्रवीत् ॥

139.10

ज्ञानासिना क्रोधलोभौ संसृतिं चातिदुस्तराम्
छेद्मीमां केन हे तात तम् उपायं वद प्रभो ॥

139.11

ईश्वराज् ज्ञानम् अन्विच्छेद् इत्य् एषा वैदिकी श्रुतिः
तस्माद् आराधयेशानं ततो ज्ञानम् अवाप्स्यसि ॥

139.12

तथेत्य् उक्त्वा स पैलूषो ज्ञानायेश्वरम् आर्चयत्
ततस् तुष्टो महेशानो ज्ञानं प्रादाद् द्विजातये
प्राप्तज्ञानो महाबुद्धिर् गाथाः प्रोवाच मुक्तिदाः ॥

139.13

क्रोधस् तु प्रथमं शत्रुर् निष्फलो देहनाशनः
ज्ञानखड्गेन तं छित्त्वा परमं सुखम् आप्नुयात् ॥

139.14

तृष्णा बहुविधा माया बन्धनी पापकारिणी
छित्त्वैतां ज्ञानखड्गेन सुखं तिष्ठति मानवः ॥

139.15

सङ्गस् तु परमो ऽधर्मो देवादीनाम् इति श्रुतिः
असङ्गस्यात्मनो ह्य् अस्य सङ्गो ऽयं परमो रिपुः ॥

139.16

छित्त्वैनं ज्ञानखड्गेन शिवैकत्वम् अवाप्नुयात्
संशयः परमो नाशो धर्मार्थानां विनाशकृत् ॥

139.17

छित्त्वैनं संशयं जन्तुः परमेप्सितम् आप्नुयात्
पिशाचीव विशत्य् आशा निर्दहत्य् अखिलं सुखम्
पूर्णाहन्तासिना छित्त्वा जीवन् मुक्तिम् अवाप्नुयात् ॥

139.18

ततो ज्ञानम् अवाप्यासौ गङ्गातीरं समाश्रितः
ज्ञानखड्गेन निर्मोहस् ततो मुक्तिम् अवाप सः ॥

139.19

ततः प्रभृति तत् तीर्थं खड्गतीर्थम् इति स्मृतम्
ज्ञानतीर्थं च कवषं पैलूषं सर्वकामदम् ॥

139.20

इत्यादिषट्सहस्राणि तीर्थान्य् आहुर् महर्षयः
अशेषपापतापौघ हराणीष्टप्रदानि च ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc