ब्रह्म पुराण · अध्याय 111
नागतीर्थम् इति ख्यातं सर्वकामप्रदं शुभम्
यत्र नागेश्वरो देवः शृणु तस्यापि विस्तरम् ॥
प्रतिष्ठानपुरे राजा शूरसेन इति श्रुतः
सोमवंशभवः श्रीमान् मतिमान् गुणसागरः ॥
पुत्रार्थं स महायत्नम् अकरोत् प्रियया सह
तस्य पुत्रश् चिराद् आसीत् सर्पो वै भीषणाकृतिः ॥
पुत्रं तं गोपयाम् आस शूरसेनो महीपतिः
राज्ञः पुत्रः सर्प इति न कश्चिद् विन्दते जनः ॥
अन्तर्वर्ती परो वापि मातरं पितरं विना
धात्रेय्य् अपि न जानाति नामात्यो न पुरोहितः ॥
तं दृष्ट्वा भीषणं सर्पं सभार्यो नृपसत्तमः
संतापं नित्यम् आप्नोति सर्पाद् वरम् अपुत्रता ॥
एतद् अस्ति महासर्पो वक्ति नित्यं मनुष्यवत्
स सर्पः पितरं प्राह कुरु चूडाम् अपि क्रियाम् ॥
तथोपनयनं चापि वेदाध्ययनम् एव च
यावद् वेदं न चाधीते तावच् छूद्रसमो द्विजः ॥
एतच् छ्रुत्वा पुत्रवचः शूरसेनो ऽतिदुःखितः
ब्राह्मणं कंचनानीय संस्कारादि तदाकरोत्
अधीतवेदः सर्पो ऽपि पितरं चाब्रवीद् इदम् ॥
विवाहं कुरु मे राजन् स्त्रीकामो ऽहं नृपोत्तम
अन्यथापि च कृत्यं ते न सिध्येद् इति मे मतिः ॥
जनयित्वात्मजान् वेद विधिनाखिलसंस्कृतीः
न कुर्याद् यः पिता तस्य नरकान् नास्ति निष्कृतिः ॥
विस्मितः स पिता प्राह सुतं तम् उरगाकृतिम् ॥
यस्य शब्दाद् अपि त्रासं यान्ति शूराश् च पूरुषाः
तस्मै कन्यां तु को दद्याद् वद पुत्र करोमि किम् ॥
तत् पितुर् वचनं श्रुत्वा सर्पः प्राह विचक्षणः ॥
विवाहा बहवो राजन् राज्ञां सन्ति जनेश्वर
प्रसह्याहरणं चापि शस्त्रैर् वैवाह एव च ॥
जाते विवाहे पुत्रस्य पितासौ कृतकृद् भवेत्
नो चेद् अत्रैव गङ्गायां मरिष्ये नात्र संशयः ॥
तत् पुत्रनिश्चयं ज्ञात्वा अपुत्रो नृपसत्तमः
विवाहार्थम् अमात्यांस् तान् आहूयेदं वचो ऽब्रवीत् ॥
नागेश्वरो मम सुतो युवराजो गुणाकरः
गुणवान् मतिमाञ् शूरो दुर्जयः शत्रुतापनः ॥
रथे नागे स धनुषि पृथिव्यां नोपमीयते
विवाहस् तस्य कर्तव्यो ह्य् अहं वृद्धस् तथैव च ॥
राज्यभारं सुते न्यस्य निश्चिन्तो ऽहं भवाम्य् अतः
न दारसंग्रहो यावत् तावत् पुत्रो मम प्रियः ॥
बालभावं नो जहाति तस्मात् सर्वे ऽनुमन्य च
विवाहायाथ कुर्वन्तु यत्नं मम हिते रताः ॥
न मे काचित् तदा चिन्ता कृतोद्वाहो यदात्मजः
सुते न्यस्तभरा यान्ति कृतिनस् तपसे वनम् ॥
अमात्या राजवचनं श्रुत्वा सर्वे विनीतवत्
ऊचुः प्राञ्जलयो हर्षाद् राजानं भूरितेजसम् ॥
तव पुत्रो गुणज्येष्ठस् त्वं च सर्वत्र विश्रुतः
विवाहे तव पुत्रस्य किं मन्त्र्यं किं तु चिन्त्यते ॥
अमात्येषु तथोक्तेषु गम्भीरो नृपसत्तमः
पुत्रं सर्पं त्व् अमात्यानां न चाख्याति न ते विदुः ॥
राजा पुनस् तान् उवाच का स्यात् कन्या गुणाधिका
महावंशभवः श्रीमान् को राजा स्याद् गुणाश्रयः ॥
संबन्धयोग्यः शूरश् च यत्संबन्धः प्रशस्यते
तद् राजवचनं श्रुत्वा अमात्यानां महामतिः ॥
कुलीनः साधुर् अत्यन्तं राजकार्यहिते रतः
राज्ञो मतिं विदित्वा तु इङ्गितज्ञो ऽब्रवीद् इदम् ॥
पूर्वदेशे महाराज विजयो नाम भूपतिः
वाजिवारणरत्नानां यस्य संख्या न विद्यते ॥
अष्टौ पुत्रा महेष्वासा महाराजस्य धीमतः
तेषां स्वसा भोगवती साक्षाल् लक्ष्मीर् इवापरा
तव पुत्रस्य योग्या सा भार्या राजन् मयोदिता ॥
वृद्धामात्यवचः श्रुत्वा राजा तं प्रत्यभाषत ॥
सुता तस्य कथं मे ऽस्य सुतस्य स्याद् वदस्व तत् ॥
लक्षितो ऽसि महाराज यत् ते मनसि वर्तते
यच् छूरसेन कृत्यं स्याद् अनुजानीहि मां ततः ॥
वृद्धामात्यवचः श्रुत्वा भूषणाच्छादनोक्तिभिः
संपूज्य प्रेषयाम् आस महत्या सेनया सह ॥
स पूर्वदेशम् आगत्य महाराजं समेत्य च
संपूज्य विविधैर् वाक्यैर् उपायैर् नीतिसंभवैः ॥
महाराजसुतायाश् च भोगवत्या महामतिः
शूरसेनस्य नृपतेः सूनोर् नागस्य धीमतः ॥
विवाहायाकरोत् संधिं मिथ्यामिथ्यावचोउक्तिभिः
पूजयाम् आस नृपतिं भूषणाच्छादनादिभिः ॥
अवाप्य पूजां नृपतिर् ददामीत्य् अवदत् तदा
तत आगत्य राज्ञे ऽसौ वृद्धामात्यो महामतिः ॥
शूरसेनाय तद् वृत्तं वैवाहिकम् अवेदयत्
ततो बहुतिथे काले वृद्धामात्यो महामतिः ॥
पुनर् बलेन महता वस्त्रालंकारभूषितः
जगाम तरसा सर्वैर् अन्यैश् च सचिवैर् वृतः ॥
विवाहाय महामात्यो महाराजाय बुद्धिमान्
सर्वं प्रोवाच वृद्धो ऽसाव् अमात्यः सचिवैर् वृतः ॥
अत्रागन्तुं न चायाति शूरसेनस्य भूपतेः
पुत्रो नाग इति ख्यातो बुद्धिमान् गुणसागरः ॥
क्षत्रियाणां विवाहाश् च भवेयुर् बहुधा नृप
तस्माच् छस्त्रैर् अलंकारैर् विवाहः स्यान् महामते ॥
क्षत्रिया ब्राह्मणाश् चैव सत्यां वाचं वदन्ति हि
तस्माच् छस्त्रैर् अलंकारैर् विवाहस् त्व् अनुमन्यताम् ॥
वृद्धामात्यवचः श्रुत्वा विजयो राजसत्तमः
मेने वाक्यं तथा सत्यम् अमात्यं भूपतिं तदा ॥
विवाहम् अकरोद् राजा भोगवत्याः सविस्तरम्
शस्त्रेण च यथाशास्त्रं प्रेषयाम् आस तां पुनः ॥
स्वान् अमात्यांस् तथा गाश् च हिरण्यतुरगादिकम्
बहु दत्त्वाथ विजयो हर्षेण महता युतः ॥
ताम् आदायाथ सचिवा वृद्धामात्यपुरोगमाः
प्रतिष्ठानम् अथाभ्येत्य शूरसेनाय तां स्नुषाम् ॥
न्यवेदयंस् तथोचुस् ते विजयस्य वचो बहु
भूषणानि विचित्राणि दास्यो वस्त्रादिकं च यत् ॥
निवेद्य शूरसेनाय कृतकृत्या बभूविरे
विजयस्य तु ये ऽमात्या भोगवत्या सहागताः ॥
तान् पूजयित्वा राजासौ बहुमानपुरःसरम्
विजयाय यथा प्रीतिस् तथा कृत्वा व्यसर्जयत् ॥
विजयस्य सुता बाला रूपयौवनशालिनी
श्वश्रूश्वशुरयोर् नित्यं शुश्रूषन्ती सुमध्यमा ॥
भोगवत्याश् च यो भर्ता महासर्पो ऽतिभीषणः
एकान्तदेशे विजने गृहे रत्नसुशोभिते ॥
सुगन्धकुसुमाकीर्णे तत्रास्ते सुखशीतले
स सर्पो मातरं प्राह पितरं च पुनः पुनः ॥
मम भार्या राजपुत्री किं मां नैवोपसर्पति
तत् पुत्रवचनं श्रुत्वा सर्पमातेदम् अब्रवीत् ॥
धात्रिके गच्छ सुभगे शीघ्रं भोगवतीं वद
तव भर्ता सर्प इति ततः सा किं वदिष्यति ॥
धात्रिका च तथेत्य् उक्त्वा गत्वा भोगवतीं तदा
रहोगता उवाचेदं विनीतवद् अपूर्ववत् ॥
जाने ऽहं सुभगे भद्रे भर्तारं तव दैवतम्
न चाख्येयं त्वया क्वापि सर्पो न पुरुषो ध्रुवम् ॥
तस्यास् तद् वचनं श्रुत्वा भोगवत्य् अब्रवीद् इदम् ॥
मानुषीणां मनुष्यो हि भर्ता सामान्यतो भवेत्
किं पुनर् देवजातिस् तु भर्ता पुण्येन लभ्यते ॥
भोगवत्यास् तु तद् वाक्यं सा च सर्वं न्यवेदयत्
सर्पाय सर्पमात्रे च राज्ञे चैव यथाक्रमम् ॥
रुरोद राजा तद्वाक्यात् स्मृत्वा तां कर्मणो गतिम्
भोगवत्य् अपि तां प्राह उक्तपूर्वां पुनः सखीम् ॥
कान्तं दर्शय भद्रं ते वृथा याति वयो मम ॥
ततः सा दर्शयाम् आस सर्पं तम् अतिभीषणम्
सुगन्धकुसुमाकीर्णे शयने सा रहोगता ॥
तं दृष्ट्वा भीषणं सर्पं भर्तारं रत्नभूषितम्
कृताञ्जलिपुटा वाक्यम् अवदत् कान्तम् अञ्जसा ॥
धन्यास्म्य् अनुगृहीतास्मि यस्या मे दैवतं पतिः ॥
इत्य् उक्त्वा शयने स्थित्वा तं सर्पं सर्पभावनैः
खेलयाम् आस तन्वङ्गी गीतैश् चैवाङ्गसंगमैः ॥
सुगन्धकुसुमैः पानैस् तोषयाम् आस तं पतिम्
तस्याश् चैव प्रसादेन सर्पस्याभूत् स्मृतिर् मुने
स्मृत्वा सर्वं दैवकृतं रात्रौ सर्पो ऽब्रवीत् प्रियाम् ॥
राजकन्यापि मां दृष्ट्वा न भीतासि कथं प्रिये
सोवाच दैवविहितं को ऽतिक्रमितुम् ईश्वरः
पतिर् एव गतिः स्त्रीणां सर्वदैव विशेषतः ॥
श्रुत्वेति हृष्टस् ताम् आह नागः प्रहसिताननः ॥
तुष्टो ऽस्मि तव भक्त्याहं किं ददामि तवेप्सितम्
तव प्रसादाच् चार्वङ्गि सर्वस्मृतिर् अभूद् इयम् ॥
शप्तो ऽहं देवदेवेन कुपितेन पिनाकिना
महेश्वरकरे नागः शेषपुत्रो महाबलः ॥
सो ऽहं पतिस् त्वं च भार्या नाम्ना भोगवती पुरा
उमावाक्याज् जहासोच्चैः शंभुः प्रीतो रहोगतः ॥
ममापि चागतं भद्रे हास्यं तद्देवसंनिधौ
ततस् तु कुपितः शंभुः प्रादाच् छापं ममेदृशम् ॥
मनुष्ययोनौ त्वं सर्पो भविता ज्ञानवान् इति ॥
ततः प्रसादितः शंभुस् त्वया भद्रे मया सह
ततश् चोक्तं तेन भद्रे गौतम्यां मम पूजनम् ॥
कुर्वतो ज्ञानम् आधास्ये यदा सर्पाकृतेस् तव
तदा विशापो भविता भोगवत्याः प्रसादतः ॥
तस्माद् इदं ममापन्नं तव चापि शुभानने
तस्मान् नीत्वा गौतमीं मां पूजां कुरु मया सह ॥
ततो विशापो भविता आवां यावः शिवं पुनः
सर्वेषां सर्वदार्तानां शिव एव परा गतिः ॥
तच् छ्रुत्वा भर्तृवचनं सा भर्त्रा गौतमीं ययौ
ततः स्नात्वा तु गौतम्यां पूजां चक्रे शिवस्य तु ॥
ततः प्रसन्नो भगवान् दिव्यरूपं ददौ मुने
आपृच्छ्य पितरौ सर्पो भार्यया गन्तुम् उद्यतः
शिवलोकं ततो ज्ञात्वा पिता प्राह महामतिः ॥
युवराज्यधरो ज्येष्ठः पुत्र एको भवान् इति
तस्माद् राज्यम् अशेषेण कृत्वोत्पाद्य सुतान् बहून्
याते मयि परं धाम ततो याहि शिवं पुरम् ॥
एतच् छ्रुत्वा पितृवचस् तथेत्य् आह स नागराट्
कामरूपम् अवाप्याथ भार्यया सह सुव्रतः ॥
पित्रा मात्रा तथा पुत्रै राज्यं कृत्वा सुविस्तरम्
याते पितरि स्वर्लोकं पुत्रान् स्थाप्य स्वके पदे ॥
भार्यामात्यादिसहितस् ततः शिवपुरं ययौ
ततः प्रभृति तत् तीर्थं नागतीर्थम् इति श्रुतम् ॥
यत्र नागेश्वरो देवो भोगवत्या प्रतिष्ठितः
तत्र स्नानं च दानं च सर्वक्रतुफलप्रदम् ॥
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0