भाषा

ENहिગુ
ग्रंथ पाठ

बोधिसत्त्वयोगाचारचतुःशतकटीका · अध्याय 4

4.1

अहं ममेति वा दर्पः सतः कस्य भवेद् भवे ।
यस्मात् सर्वे ऽपि सामान्या विषयाः सर्वदेहिनाम् ॥

4.2

गणदासस्य ते दर्पः सड्भागेन भृतस्य कः ।
जायते ऽधिकृते कार्यम् आयत्तं यत्र तत्र वा ॥

4.14

ऋषीणां चेष्टितं सर्वं कुर्वी त न विचक्षणः ।
हीनमध्यविशिष्टत्वं यस्मात् तेष्व् अपि विद्यते ॥

4.15

पुत्रवत् पालितो लोकः पुरतः पार्थिवैः शुभैः ।
मृगारण्यीकृतः सो ऽद्य कलिधर्मसमाश्रितैः ॥

4.16

छिद्रप्रहारिणः पापं यदि राज्ञो न विद्यते ।
अन्येषाम् अपि चौराणां तत् प्राग् एव न विद्यते ॥

4.17

सर्वस्वस्य परित्यागो म द्यादिषु न पूजितः ।
आत्मनो ऽपि परित्यागः किं मन्ये पूजितो रणे ॥

4.23

क र्मणा ।
विप्रो ऽपि कर्मणा शूद्रः केन मन्ये न जायते ॥

4.24

पापस्यैश्वर्यवद् राजन् संविभागो न विद्यते ।
विद्वान् नाम परस्यार्थे कः कुर्याद् आयतीवधम् ॥

4.25

दृष्ट्वा समान् विशिष्टांश् च पराञ् छक्तिसमन्वितान् ।
ऐश्वर्यजनितो मानः सताम् हृदि न तिष्ठति ॥

मूल पाठ: Bodhisattvayogācāracatuḥśatakaṭīkā · Edition: Kōshin Suzuki Sanskrit Fragments and Tibetan Translation of Candrakīrti's Bodhisattvayogācāracatuḥśatakaṭīkā Tokyo The Sankibo Press Manuscript edited by Suzuki . · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc