बोधिसत्त्वावदानकल्पलता · अध्याय 93
श्लाघ्या जयन्ति जिनभक्तिविशेषभाजां श्रद्धासुधाप्रसरनिर्झरशीकरास् ते ।
निश्चेतनो ऽप्य् उचितचेतनताम् इवैति यः पूज्यपूजनविधौ कुसुमादिवर्गः
श्रावस्त्यां विजनासीनं जिनं जेतवने पुरा ।
अनाथपिण्डदो ऽभ्येत्य भगवन्तम् अभाषत
त्वद्भक्तिर् इव सर्वत्र महार्हगुणविश्रुता ।
भगवन् प्रौढिम् आयाता कन्या मम सुमागधा
श्रीमतः सार्थनाथस्य नगरे पुण्ड्रवर्धने ।
सूनुर् वृषभदत्ताख्यस् तत्पाणिग्रहम् इष्यते
कन्यां ददामि तां तस्मै भगवन् यदि मन्यसे ।
त्वदधीनधनप्राणस् त्वदाज्ञाशरणो ह्य् अहम्
इत्य् उक्ते तेन भगवान् वात्सल्यविमलाशयः ।
को दोषस् तनया तस्मै दीयताम् इत्य् अभाषत
शास्तुः शासनम् आदाय सादरं प्रनिपत्य तम् ।
अनाथपिण्डदः श्रीमान् प्रययौ निजमन्दिरम्
ततः सुमागधां कन्यां विभवेन महीयसा ।
अर्हायं स ददौ तस्मै भूरिरत्नाम्बरप्रदः
दत्ता दूरतरं देशम् अथ यान्ती सुमागधा ।
भगवच्चरणस्मृत्या सबाष्पनयनाभवत्
चिरेण सा समासाद्य नगरं पुण्ड्रवर्धनम् ।
शुश्रूषाभिरता पत्युः सदा भर्तृगृहे ऽवसत्
कदाचिद् अथ तां श्वश्रूर् भोज्यसंभारकारिणी ।
उवाच धनवत्याख्या संख्यातीतव्ययोद्यता
पूज्योपकरणं सज्जं कुरु सर्वं सुमागधे ।
गृहान् नः प्रातर् आगन्ता जगत्पूज्यगुणो जिनः
गुरवो गौरवपदं पूज्याः सर्वजनस्य ते ।
समेष्यन्ति क्षपणकाः संमोहक्षपणोद्यताः ॥ कव्क्_93.ल्3 ॥
इत्य् उक्ता सा तया तत्र बभूवारम्भतत्परा ।
ज्ञात्वा भिक्षुगणायेव तां पूजां परिकल्पिताम्
अथापरे ऽह्नि विविशुर् नग्नाः क्षपणका गृहम् ।
उल्लुञ्चितकचश्मश्रुसंक्लेशनिशितव्रताः
तान् अलज्जान् अवसनान् अवलोक्य सुमागधा ।
माषशष्पाशनाभ्यासपीवरान् महिषान् इव
लज्जिता वाससाच्छाद्य वदनं गुरुसंनिधौ ।
खेदनिर्वेदविनता श्वश्रूजनम् अभाषत
अहो वतायम् आचारः सुचिराद् अवलोकितः ।
दिगम्बराणाम् अप्य् अग्रे यद् इहास्ते वधूजनः
एते भवद्गृहे ऽदान्ता भुञ्जन्ते शृङ्गवर्जिताः ।
अमानुषत्वान् नैतेषां लज्जन्ते नूनम् अङ्गनाः
अस्थाने भवतां भक्तिः को ऽयम् उच्छृङ्खलः क्रमः ।
न त्यक्तम् अशनं येन स कथं वस्त्रम् उज्झति
केशोन्मूलनकर्मणैव निशितं नैर्घृण्यम् आवेदितं
कौपीनांशुकवर्जनेन सुजने शीलस्य वार्तैव का ।
दम्भारम्भभयंकरे च वदने क्रोधः स्वयं लक्ष्यते
नग्नानाम् अशनैषिणां नियमिनाम् एषां पशूनाम् इव
यत्रैते पशवः पूज्यास् तत्रोत्सार्या भवन्ति के ।
अथवा देशदोषो ऽयं गतानुगतिका स्थितिः
इति ब्रुवाणां तां श्वश्रूर् विषण्णा प्रत्यभाषत ।
पितुस् ते भवने भद्रे पूज्यते वद कीदृशः
सावदन् मत्पितुर् गेहे पूज्यते भगवान् जिनः ।
कारुण्यात् सर्वजगतां कुशलातिशयोद्यतः
ध्यानाधीनः स्तिमितनयनः पूर्णलावणसिन्धुर्
नासावंशं विपुलसरलं सेतुभूतं दधानः ।
भूषाशून्यप्रसृतरुचिमत्कर्णपाशाभिरामः
कान्त्यैवासौ किम् अपि विदुषां शान्तिम् अन्तस् तनोति
शिरसि सहजप्राज्यालोकप्रसेकमयं मणिं
करिपतिकराकारौ बाहूकवत् कनकद्युतिः ।
करतलगताम् लेखां शङ्खध्वजाम्बुजमालिकां
शममयमहासांराज्यार्हं बिभर्ति स लक्षणम्
तस्याभिलाषजनकस्य महामुनीनां सर्वाभिलाषकलनारहितः स्वभावः ।
निःशेषितस्मृतिभुवः प्रमदाश्रयस्य रागोज्झितस्य सुतराम् अधरः सरागः
मूर्तिर् निर्भरसंगमप्रणयिनी मैत्री मनःशायिनी
क्षान्तिस् तन्मयकारिणी हृदि दया गाढं समाश्लेषिणी ।
सर्वाशाभरणस्य भूरिदयितासक्तस्य संलक्ष्यते
तस्यापूर्वमणेर् अनन्यमहिमा वैराग्यगर्भः शमः
पूज्यः स भवने ऽस्माकं यस्य प्रव्रज्यया सताम् ।
धत्ते शीलदुकूलानाम् निरावरणतां मनः
विश्वरक्षामणेर् यस्य स्मृत्यापि भवभोगिना ।
रागद्वेषोग्रदंष्ट्रेण बाध्यते न पुनर् जनः
इति तस्या वचः श्वश्रूः श्रुत्वा श्रोत्ररसायनम् ।
सद्यः प्रसादविशदा तां जगाद प्रमोदिनी
अपि तद्दर्शनोपायः कश्चिद् अस्ति वरानने ।
अपि त्वत्पुण्यसंबन्धाद् वयम् अप्य् अमृतास्पदम्
इति सानुनयं श्वश्र्वा सा सादरधियार्थिता ।
तं वः संदर्शयामीति बभाषे भक्तिमानिनी
महाप्रतिज्ञासंभारभरनिर्वहणैषिणी ।
सा संशयतुलारुढा क्षणं ध्यानपराभवत्
ततः प्रासादम् आरुह्य भगवत्सेवितां दिशम् ।
प्रणिपत्यासृजत् पूज्यपूजार्हकुसुमाञ्जलिम्
पुष्पधूपोदकैर् अर्चां सा कृत्वा तत्पदोन्मुखी ।
आनन्दबाष्पसंरुद्धविस्तीर्णनयनावदत्
अनुकम्प्यैव भगवन् रत्नत्रयविवर्जिता ।
तवाश्रममृगीवाहं दूरं देशम् इमम् गता
त्वत्पादपद्मयुगलं शरणम् प्रपन्नां दूरस्थिताम् अपि दृशा स्पृश मां दयालो ।
वात्सल्यपेशलधियां महतां प्रवासदुरीकृतेषु करुणा न तनुत्वम् एति
भगवन् दाससुतया त्वं मयाद्य निमन्त्रितः ।
प्रातर् आगमनेनैव मानं वितर मे विभो
इत्य् उदीर्य तयोत्स्र्ष्टा विचित्रकुसुमावली ।
सजीवितेव प्रययौ नभसा भक्तिदूतिका
सा श्वेतरक्तहरितासितपुष्पपाली खे धूपधूमशबला शनकैः प्रयान्ती ।
बालाम्बुदप्रणयिनी सुचिरं चकाशे संचालिचापलतिकेव शचीधवस्य
अथ जेतवनं प्राप्य क्षणेन कुसुमावली ।
सा भक्तिशालिनी शास्तुः पपात चरणाब्जयोः
भगवान् अपि सर्वज्ञः सर्वं ज्ञात्वा समीहितम् ।
सुमागधायाः कारुण्याद् आनन्दम् अवदत् पुरः
प्रातर् गन्तव्यम् अस्माभिर् नगरं पुण्ड्रवर्धनम् ।
सुमागधा प्रार्थयते ससंघस्य ममार्चनम्
शतषष्ट्यधिकं तत्र योजनानाम् इतः परम् ।
एकेनाह्ना च गन्तव्यं न विलम्बो ऽत्र युज्यते
व्योम्ना महर्द्ध्या शक्नोति गन्तुं यो यः प्रभाववान् ।
निमन्त्रणशलाकां त्वं तस्मै तस्मै समर्पय
प्रेरितः सुगतेनेति स भिक्षुभ्यो न्यवेदयत् ।
एकाहगमनप्राप्यं शलाकाभिर् निमन्त्रणम्
शलाकासु गृहीतासु तत्र सर्वैर् महर्द्धिभिः ।
पूर्णः कुम्भोपधानीयः स्थविरो ऽप्य् अग्रहीत् क्रमात्
तेन प्राप्तप्रभावेन शलाकायां प्रसारिते ।
पाणौ प्राह तम् आनन्दः किंचित् स्मितसिताननः
अनाथपिण्डदगृहं न गन्तव्यं पदद्वयम् ।
सषष्टियोजनशतं दिनार्धेनैव लङ्घ्यते
इत्य् उक्तः स्थविरस् तेन वैलक्ष्यविनताननः ।
अचिन्तयत् स्ववर्गाग्रे न्यूनभावो हि दुःसहः
अनादिकालोपचिताः क्लेशजन्मजरादयः ।
हन्तुं सपत्नैः शक्यन्ते प्राप्तुम् ऋद्धिपदं कियत्
इति चिन्तयतस् तस्य तीव्रसंवेगया धिया ।
प्रादुर् आसीत् क्षणेनैव महर्द्धिः शुद्धचेतसः
अथ रात्र्यां व्यतीतायां प्रभाते सर्वभिक्षवः ।
नानात्रिदशवेशेण विमानैर् नभसा ययुः
अत्रान्तरे महारम्भसम्भारपरिपूरिते ।
सुमागधा भर्तृगृहे भगवद्दर्शनोत्सुका
सह प्रासादम् आरुह्य श्वश्रूश्वशुरभर्तृभिः ।
तस्थौ कुसुमधूपार्ध्यारचनासंग्रहोन्मुखी
भिक्षुर् आज्ञातकौण्डिन्यस् ततो ऽश्वरथम् आस्थितः ।
दिव्यर्द्धिविविधाश्चर्यः प्रथमं प्रत्यदृश्यत
तं दृष्ट्वा सूर्यसंकाशं विस्मिताः श्वशुरादयः ।
ऊचुः सुमागधां प्रीत्या किम् एष भगवान् इति
सावदद् भगवान् नायं दृश्यते तरणिप्रभः ।
अयम् आज्ञातकौण्डिन्यो भिक्षुर् अक्षुण्णदीधितिः
आपतत्सु क्रमेणाथ रथेषु श्वशुरादयः ।
किम् अयं किम् अयं भद्रे भगवान् इति तां जगुः
साब्रवीन् नैव शास्तायम् एते तच्छासनोचिताः ।
भिक्षवः प्रशमश्लाघ्यास् तपोदीप्ततरत्विषः
यः कान्तहेमद्रुमरम्यशैलश्र्ङ्गाधिरूढः परतो ऽभ्युपैति ।
आश्चर्यकृन् मूर्त इव प्रभावः श्रीमान् महाकाश्यप एष भिक्षुः
पञ्चाननस्यन्दनम् आस्थितो यः सतोयजीमूतगभीरघोषम् ।
व्योम्ना समभ्येति गुनैः प्रगीतः स एष भिक्षुर् भुवि शारिपुत्रः
आरुह्य कैलासम् इवातिशुभ्रं द्विपम् चतुर्दन्तम् अनन्तकान्तिः ।
आयाति यः पुण्यवतां जगत्सु मौद्गल्यनामा च स एष भिक्षुः
वैदूर्यनालं कनकारविन्दम् आरुह्य रत्नाङ्कुरकेशराढ्यम् ।
उपैति यः सौरभपूरिताशः स एष भिक्षुः प्रथितो ऽनिरुद्धः
यश् चाम्बराग्रं गरुडाधिरूढः पक्षानिलोत्सारितवारिवाहः ।
विगाहते स्फितवनेन भिक्षुर् मैत्रायणीसूनुर् अयं स पूर्णः
अनन्तम् आस्थाय नितान्तशान्तम् ईर्ष्यापथं सत्त्वमहोदधिर् यः ।
प्रभामृतैः सर्पति तर्पिताशः प्रभाववान् एष्यजिद् एष भिक्षुः
विलोलवल्लीवलयाभिरामं विशालम् आरुह्य सुवर्णतालम् ।
यः पुण्यपूर्णद्युतिर् अभ्युपैति स एष भिक्षुर् मतिमान् उपाली
आरुह्य वैडूर्यविमानशृङ्गं सुवर्णरत्नोज्ज्वलपत्रलेखम् ।
लिम्पन्न् इवागच्छति यः प्रभाभिः कात्यायनो नाम स एष भिक्षुः
शरीरिणं धर्मम् इवाधिरुह्य विगाहते खं वृषवाहनो यः ।
पृष्ठः प्रतिष्ठापरिनिष्ठितानां गरिष्ठधीः कौष्ठिल एष भिक्षुः
विमानहंसद्युतिभिर् मुहूर्तं स्मितोर्मिरम्यं मुहुर् अन्तरीक्षम् ।
कुर्वन् समभ्येति तपोनिधिर् यः पिलिन्दवत्साह्वय एष भिक्षुः
यो ऽयं समुत्फुल्ललतावितानवनान्तराले विहरन्न् उपैति ।
स श्रोणकोटिः श्रुत एष भिक्षुर् अक्षुण्णलक्ष्मीर् गृहनिर्व्यपेक्षः
यश् चक्रवर्ती दिवि भाति सो ऽयं शास्तुः सुतो राहुलकाभिधानः ।
हेमप्रभाभूषितदिग्विभागः संलक्ष्यते मेरुर् इवान्यरूपः
एते गिरिभ्यो ऽथ दिगन्तरेभ्यः क्ष्मामण्डलाद् व्योमतटान्तराच् च ।
आयान्त्य् असंख्याद्भुतभिक्षुसंघा विचित्ररत्नासनवाहनस्थाः
तया क्रमेणेति निवेद्यमानं ते भिक्षुसंघं विमुखं विलोक्य ।
ययुः प्रहर्षाद्भुतसंभ्रमाणां विधेयतां तुल्यम् अनन्यलक्ष्म्याः
अथ ज्वलत्काञ्चनचूर्णवर्णं जगद् बभूवार्कशतप्रकाशम् ।
अशेषसंतापविशेषशान्त्या शीतांशुमालाशतशीतलं च
अथ धनपतिशक्रब्रह्ममुख्यैर् अमर्त्यैर् विपुलगगनयात्रादत्तसेवानुयात्रः ।
अमरपुरपुरस्त्रीकीर्णपुष्पप्रभावान् नयनपथम् अयासीत् पुण्यभाजां जिनेन्द्रः
अष्टादशद्वारपथा पुरं तत् स तुल्यम् अष्टादशमूर्तिर् एव ।
प्रविश्य चक्रे शशिकान्तरत्नशिखामयं वेश्म सुमागधायाः
अभ्यर्चितस् तत्र बहुप्रकारैः पूर्णोपचारैः प्रणिपत्य सर्वैः ।
अपूजयत् पौरजनः समन्ताद् बहिश् च भित्तिप्रतिबिम्बितं तम्
सुमागधाया दयया दयालुः पूजां गृहीत्वा भगवान् ससंघः ।
अनुग्रहालोकनसंविभागैः सर्वान्ववाया विदधे प्रसादम्
सुमागधा सश्वशुरादिवर्गा सहापरैः पौरजनैश् च सर्वाः ।
शास्तुस् तया देशनया बभूवुः शुद्धाशयास् तत्क्षणदृष्टसत्याः
सुमागधायाः कुशलानुबन्धं पुण्यं प्रभावं विपुलं विलोक्य ।
ते भिक्षवस् तत्र कुतूहलेन पप्रच्छू रम्यं जिनम् आदिवृत्तम्
पृष्टः स तैः संसदि सर्वदर्शी सुमागधायाः कुशलस्य हेतुम् ।
दन्तप्रभाभिः ककुभां मुखेषु दिशन् प्रकाशम् भगवान् बभाषे
वाराणस्याम् अभूत् पूर्वं कृकेः कन्तस्य भूपतेः ।
सुता काञ्चनमालाख्या कुचकाञ्चनमालिका
काश्यपाख्यस्य शास्तुः सा सततं भक्तिशालिनी ।
परिचर्यां व्यधात् सार्धं सखीनां पञ्चभिः शतैः
स कदाचिन् नरपतिर् विकृतस्वप्नदर्शनात् ।
भयसंशयसंभ्रान्तः पप्रच्छ फलकोविदान्
ते तं राजसुताद्वेषान् निमित्तज्ञा बभाषिरे ।
अतिप्रियस्य हृदयं हुत्वाग्नौ लभ्यते शिवम्
इति तेषाम् अनादृत्य वचः क्रूरतरं नृपः ।
भगवन्तं ययौ द्रष्टुं काश्यपं दुहितुर् गिरा
स तम् एत्यावदत् स्वप्नः सविकारः परं मया ।
दृष्टो ऽद्य सर्वं सर्वज्ञ तत्फलं वक्तुम् अर्हसि
वातायनेन निर्गच्छन् रुद्धपुच्छो मया गजः ।
तृषितस्य तथा पश्चात् कुपो धावन् विलोकितः
तृप्तश् च शक्तुप्रस्थेन मौक्तिप्रस्थविक्रयः ।
समीकृतानि दृष्टानि कुदारूणि च चन्दनैः
कलभेन महाहस्ती समाहूतस् तथाहवे ।
परान् अशुचिलिप्ताङ्गः प्रलिम्पन् विप्लुतः कपिः
स्फीतराज्याम् अभिषिक्तश् च कुचापलनिधिः कपिः ।
पटो ऽष्टादशभिः कृष्टः पुरुषैर् अप्य् असंक्षयः
रम्यपुष्पफलारामश् चौरैर् अपि विलुण्ठितः ।
द्वेषोपहासकलहासक्तश् च विपुलो जनः
स्वप्नाद्भुतानाम् एतेषां मन्ये घोरतरं फलम् ।
इति पृष्टः क्षितिभुजा भगवान् काश्यपो ऽब्रवीत्
शतायुषि जने शास्ता शान्तः शाक्यमुनिर् जिनः ।
भविष्यत्य् अमृताम्भोधिः स द्र्ष्टः कुञ्जरस् त्वया
तस्यापि पश्चिमे काले श्रावकाः कलिसंश्रयात् ।
त्यक्तशीलगुणाचारा भविष्यन्ति सविप्लवाः
अपक्वाल्पविवेकानां बलात् ते गृहवासिनाम् ।
स्वयं सेवां समालम्ब्य करिष्यन्त्य् एव देशनाम्
अर्थनीयो ऽर्थिभावेन यस्मात् सेवासु धावति ।
तृषितस्य व्रजन् पश्चात् कूपस् तस्माद् विलोकितः
ते करिष्यन्ति लोभान्धः संमोहोपहताः परम् ।
बोध्यङ्गमुक्ताप्रस्थस्य शक्तुप्रस्थेन विक्रयम् ॥ कव्क्_93.लोओ ॥
तीर्थवाक्यकुदारूणि बुद्धभाषितचन्दनैः ।
साम्यम् आपादयिष्यन्ति ते मौग्ध्याद् अविशेषिणः
क्वचिद् भद्रं समासाद्य विनीतं भिक्षुकुञ्जरम् ।
दुःशीलकलभो भिक्षुः स्पर्धया धिक् करिष्यति
चापलाशुचिलिप्ताङ्गः सुशीलान् भिक्षुमर्कटः ।
अनुलिम्पन् स्वदोषेण करिष्यत्य् आत्मसन्निभान्
षण्डकस्याभिषेकश् च भविष्यति कपेर् इव ।
संबुद्धशासनपटं कृष्यमाणं न नंक्ष्यति
संघद्रव्यफलारामेष्व् अपि यास्यन्ति चौरताम् ।
मिथः कलहशीलाश् च भविष्यन्त्य् अपवादिनः
तव स्वप्नविपाकान्ते फलान्य् एतानि भूतले ।
इति शास्तुर् वचः श्रुत्वा विस्मितो ऽभून् महीपतिः
सानुगस्याथ नृपतेः स शास्ता धर्मदेशनाम् ।
कृत्वा काञ्चनमालाया दिदेश कुशलार्हताम् ॥ कव्क्_93.ल्07 ॥
जन्मान्तले चकारार्चां स्तूपे नारङ्गमालया ।
सा तेन सुकृतेनैव जाता हेमस्रजाङ्किता
सेयं सुमागधा पुण्यप्रभावेण महीयसा ।
प्राप्ताद्य जनकायस्य सम्यक् कुशलसेतुताम्
अधिधायेति भगवान् नभसा भिक्षुभिः सह ।
रुचा संपूरयन्न् आशां ययौ जेतवनं जिनः ॥ कव्क्_93.ल्ल्0 ॥
पुंसां सत्कुलभूतये बलवती मिथ्यैव पुत्रस्पृहा
सूनुश् चेद् अगुणस् तद् एव विफलं तत् किं न सर्वं कुलम् ।
सा कन्या किल जायते गुणवती पुण्यप्रभावाद् यया
संसारोरुसरित्पतौ कुलयुगम् नाव् एव संतार्यते
मूल पाठ: Bodhisattvāvadānakalpalatā 93, Sumāgadhāvadāna · Edition: P.L. Vaidya, Ksemendra's Avadanakalpalata, vol. II. Darbhanga: Mithila Institute 1959 (Buddhist Sanskrit Texts, 23), pp. 526-534 (Avadāna 93) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0