बोधिसत्त्वभूमि · भाग 2122
ये च ते दशधर्मा विहारपटले निर्दिष्टा । श्रद्धादयो विहारपरिशोधनाः त इहापि भूमिविशोधना वेदितव्याः । तेषां विपक्षप्रतिपक्षतो व्यवस्थानं वेदितव्यम् । समासार्थो ऽनुक्रमश्च वेदितव्यः । तत्र दशेमे । एषां दशानां भूमिविशोधनानां धर्माणां विपक्षभूता धर्माः । येषां प्रतिपक्षेणैषां व्यवस्थानं भवति । कतमे दश । सर्वेण सर्वमनारम्भचित्तोत्पादना बोधिसत्त्वशिक्षापदासमादानम् अयं श्रद्धाविपक्षो धर्मः । यस्य प्रतिपक्षेण श्रद्धा । सत्त्वेषु विहिंसाचित्तं करुणाविपक्षः । यस्य प्रतिपक्षेण करुणा । सत्त्वेषु व्यापादो मैत्रीविपक्षः । यस्य प्रतिपक्षेण मैत्री । भोगजीविकापेक्षा दानविपक्षः । यस्य प्रतिपक्षेण त्यागः । सत्त्वेभ्यो ऽपकार-विप्रतिपत्तिलाभो बहुकर्तव्यता चाखेदविपक्षः । यस्य प्रतिपक्षेणाखेदता । अनुपायप्रयोगः शास्त्रज्ञता-विपक्षः । यस्य प्रतिपक्षेण शास्त्रज्ञता । असौरत्यापरचित्तानुवर्तनता लोकज्ञता-विपक्षः । यस्य प्रतिपक्षेण लोकज्ञता । कुशलधर्मभावनायां प्रमादकौसीद्यं ह्रीव्यपत्राप्य-विपक्षः । यस्य प्रतिपक्षेण ह्रीव्यपत्राप्यता । दीर्घकालिकैश्चित्रैस्तीव्रैर्निरन्तरैः संसारदुःखैर्व्यवदीरणता धृतिबलाधानता-विपक्षः । तस्य प्रतिपक्षेण धृतिबलाधानता । शास्तरि कांक्षा विमतिर्विचिकित्सा तथागतपूजोप स्थानतायाः विपक्षः । यस्य प्रतिपक्षेण तथागतपूजोपस्थानता । एवं तावदेषां विपक्षप्रतिपक्षतो व्यवस्थानं भवति ।
कः पुनरेषां समासार्थः । समासेन दशभिरेभिर्धर्मैराशयशुद्धिः प्रयोगशुद्धिश्च परिदीपिता । तत्र त्रिभिः पूर्वकैराशयशुद्धिः । अवशिष्टैः प्रयोगशुद्धिर्वेदितव्या । बोधिमभिश्रद्धद्बोधिसत्त्वः सत्त्वान् दुःखितान् करुणायते । करुणायमानो मयैते परित्रातव्या इति मैत्रायते । तथा मैत्रचित्तस्य सर्वपरित्यागी भवत्येषु भोगजीवितनिरपेक्षः । निरपेक्षश्चैषामर्थे प्रयुज्यमानो न परिखिद्यते । अपरिखिन्नश्च शास्त्रज्ञो भवति । शास्त्रज्ञश्च यथा लोके ( दुत्त् 255 ) प्रवर्तितव्यमनेन तथा जानाति । एवं लोकज्ञो भवति । स्वयञ्च क्लेशसमुदाचारेण जेह्रीयते व्यपत्रपते । ह्रीमानपत्रापी च क्लेशावशगो धृतिबलधानप्राप्तो भवति । धृतिबलाधानप्राप्तश्च सम्यक् प्रयोगादपरिहीयमानः कुशलैश्च धर्मैर्विवर्धमानः प्रतिपत्तिपूजया लाभसत्कारपूजया च तथागतपूजोपस्थानं करोति । इत्ययमेषां दशानां धर्माणामनुक्रमसमुदागमो वेदितव्यः । एभिर्दशभिर्धर्मैः सर्वभूमिविशोधना भवति ।
इति बोधिसत्त्वभूमावाधारे निष्ठे योगस्थाने तृतीयं भूमिपटलम् ।
चर्यापटलम् (छप्तेर् 3.4)
अधिमुक्तिचर्याभूमिमुपादाय सर्वासु बोधिसत्त्वभूमिषु बोधिसत्त्वानां समासतश्चतस्रश्चर्या वेदितव्याः । [कतमाश्चतस्रः ।] पारमिताचर्या बोधिपक्ष्याचर्या [अभिज्ञाचर्या] सत्त्वपरिपाकचर्या च । तत्र षट् च पूर्वनिर्दिष्टाः पारमिताः । उपायकौशल्यपारमिता च प्रणिधानपारमिता च बलपारमिता च ज्ञानपारमिता च । इतीमा दशपारमिता अभिसमस्य पारमिताचर्येत्यु च्यते । तत्र द्वादशाकारं पूर्वनिर्दिष्टमुपायकौशल्य[मुपायकौशल्य-]पारमिता । पञ्च पूर्वनिर्दिष्टानि प्रणिधानानि प्रणिधानपारमिता । दशबलप्रयोगविशुद्धिर्बलपारमिता । सर्वधर्मेषु यथावद् व्यवस्थानज्ञानं ज्ञानपारमिता । तत्र परमार्थग्रहणप्रवृत्ता प्रज्ञा प्रज्ञापारमिता । संवृतिग्रहणप्रवृत्ता पुनर्ज्ञानपारमिता । इत्ययमनयोर्विशेषः । अपरः पर्यायः । अप्रमाणज्ञानता उपायकौशल्यपारमिता । उत्तरोत्तरज्ञानवैशेषिकता-प्रार्थना प्रणिधानपारमिता । सर्वमारैर्मार्गानाच्छेद्यता बलापारमिता । यथावज् ज्ञैयावबोधता ज्ञानपारमिता । स्मृत्युपस्थानान्युपादाय सर्वे सप्तत्रिंशद्बोधिपक्ष्या धर्माश्चतस्रश्च पर्येषणाश्चत्वारि च यथाभूतपरिज्ञानानि यथापूर्वनिर्दिष्टान्यभिसमस्य बोधिसत्त्वानां बोधिपक्ष्यचर्येत्युच्यते । यथा संवर्णिताश्च षड्भिज्ञाः प्रभावपटले बोधिसत्त्वानामभिज्ञाचर्येत्युच्यते । द्वौ च पूर्वनिर्दिष्टावप्रमेयौ विनेयाप्रमेयश्च विनयोपायाप्रमेयश्च [सर्वसत्त्वपरिपाको यथानिर्दिष्टः] सत्त्वपरिपाकपटले बोधिसत्त्वस्याभिसमस्य सत्त्वपरिपाकचर्येत्युच्यते ।
आभिश्चतसृभिर्बोधिसत्त्वचर्याभिः सर्वबोधिसत्त्वचर्यांसंग्रहो वेदितव्यः । तत्रासंख्येयत्रय-दीर्घकालसमुदागमात्स्वभावविशुद्धिविशेषात्तदन्येभ्यः सर्वलौकिकश्रावकप्रत्येकबुद्धकुशलमूलेभ्यः परमबोधिफलपरिग्रहाच्चैते दश ( दुत्त् 257 ) दानादयो धर्माः परमेण कालेन समुदागताः परमया स्वभावविशुद्ध्या विशुद्धाः परमञ्च फलमनुप्रयच्छन्ति । इति तस्मात्पारमिता इत्युच्यन्ते ।
त्रिभिश्च कारणैः पारमितानामनुक्रमव्यवस्थानं वेदितव्यम् । कतमैस्त्रिभिः । प्रतिपक्षतः उपपत्तितो विपाकफलतश्च ।
तत्र मात्सर्यं दुश्चरितं सत्त्वेषु वैरोत्पीडनता कौसीद्यं विक्षेपो मन्दमोमुहता च । अमी षड्धर्मा बोधेरावरणस्थानीयाः । एषां [षण्णां] धर्माणां प्रतिपक्षेण षट् पारमिता यथायोगं वेदितव्याः । तदन्याश्च पारमिता आभिरेव संगृहीताः । एवं प्रतिपक्षतो व्यवस्थानं भवति ।
कथमुपपत्तितः । इहादित एव भोगनिरपेक्षो बोधिसत्त्वः त्यक्त्वा आगारिकान् कामान् शीलसमादानं करोति । शीलगौरवाच्च परविहेठं क्षमते । नो तु परं विहेठयति । समादानतश्च क्षान्तितश्च विशुद्धिशीलो निश्चलेन निरन्तरेण कुशलपक्षप्रयोगेण प्रयुज्यते । स तथा वीर्येणाप्रमत्तः स्पृशति कुशलाञ्चित्तस्यैकाग्रताम् । स तथा समाहितचित्तो यथाभूतं ज्ञेयं जानाति दृश्यं पश्यति । एवमेषामेवानुक्रमेणोपपत्तितो व्यवस्थानं वेदितव्यम् ।
कथं फलविपाकतः । इह बोधिसत्त्वस्य दृष्टे धर्मे एतान् दानादीन् कुशलान्धर्मान् समादाय वर्तमानस्य तन्निदानमायत्यां बाह्यतश्च भोगसम्पत्प्रतिलम्भो भवति दानकृतः । अध्यात्मिकश्च पञ्चाकार आत्मभावसम्पत्प्रतिलम्भो भवति तदन्यशीलादि-पारमिताकृतः ।
पञ्चाकारा आत्मभावसम्पत्कतमा । सुगतिपर्यापन्नो दिव्यमानुष्यकस्तदन्यसत्त्वायुरादिविशेषवान् । इयं प्रथमा सम्पत् । सहजा चकुशलमूलप्रयोगे अखेदता परव्यतिक्रमसहिष्णुता च परोपतापप्रियता । इयं द्वितीया सम्पत् । सहजा सर्वारम्भेषु दृढव्यवसायता । इयं तृतीया सम्पत् । सहजा च मन्दरजस्कस्य स्वचित्तवशिता चित्तकर्मण्यता सर्वार्थेषु क्षिप्राभिज्ञतायै । इयं चतुर्थी सम्पत् । सहजञ्च मतिवैपुल्यं पाण्डित्यं ( दुत्त् 258 ) विचक्षणता च सर्वार्थेषु । इयं पञ्चमी सम्पत् इतीदं फलविपाककृतमन्यदनुक्रमव्यवस्थानं षण्णां पारमितानां वेदितव्यम् ।
तत्र चतसृभिः पारमिताभिः [सह]सम्भारेण स्वभावेन परिवारेण रक्षया च परिपूर्णा बोधिसत्त्वानामधिशीलं शिक्षा वेदितव्या । ध्यानपारमितया अधिचित्तं शिक्षा । प्रज्ञापारमितया अधि[प्रज्ञं] शिक्षा । न च बोधिसत्त्वस्योत्तरि शिक्षामार्ग उपलभ्यते । त्रिभिः अतः सर्वबोधिसत्त्वशिक्षामार्गंसंग्रहात्षडेव पारमिता [व्यवस्थापिता] । नात उत्तरि नातो भूयः ।
चत्वारि चेमानि बोधिसत्त्वानां समासतः कृत्यानि । यैरेषां सर्वकृत्यसंग्रहो भवति । बोधाय कुशलाभ्यासः । तत्पूर्वकश्च तत्त्वार्थप्रतिवेधः प्रभावसमुदागमः । सत्त्वपरिपाचनता च । एतानि च चत्वारि कृत्यानि बोधिसत्त्वाः आभिश्चतसृभिश्चर्याभिर्यथाक्रमं कुर्वन्त्यनुतिष्ठन्ति । तस्मादपि तदुत्तरा चर्या न व्यवस्थाप्यते ।
इति बोधिसत्त्वभूमावाधारे निष्ठे योगस्थाने चतुर्थं चर्यापटलम् ।
लक्ष्मणानुव्यञ्जनपटलम् (छप्तेर् 3.5)
तत्र तथागतविहारमारभ्य ताथागतीञ्च निष्ठागमनभूमिं भगवतां चत्वारिंशदुत्तरमावेणिकं बुद्धधर्मशतं भवति । द्वात्रिंशन्महापुरुषलक्षणानि अशीत्युनुव्यञ्जनानि चतस्रः सर्वाकाराः परिशुद्धयः दश तथागतबलानि चत्वारि वैशारद्यानि त्रीणि स्मृत्युपस्थानानि त्रीण्यरक्षाणि महांकरुणा ऽसम्मोषधर्मता वासना-समुद्धातः सर्वाकार-वरज्ञानञ्च ।
द्वात्रिंशन्महापुरुषलक्षणानि कतमानि । सुप्रतिष्ठितपादो महापुरुषः सममाक्रमति महीम् । इदं महापुरुषस्य महापुरुषलक्षणम् । अधस्थात्पादतलयोश्चक्रे जाते सहस्रारे सनाभिके सनेमिके सर्वाकारपरिपूर्णे । दीर्घाङ्गुलिमंहापुरुषः । आयतपादपार्ष्णिः । मृदुतरुणपाणिपादः । जालपाणिपादः । उच्छङ्गचरणः । एणेयजङ्घः । अनवनतकायः । कोशगतवस्तिगुह्यः । न्योग्रधपरिमण्डलः । व्यामप्रभः । ऊर्ध्वाङ्गरोमा । एकैकरोमा । एकैकमस्य रोमकूपे जातं नीलं कुण्डलकजातं प्रदक्षिणावर्तम् । काञ्चनसन्निभत्वक् । श्लक्ष्णवत्क् । श्लक्ष्णत्वात् त्वचे रजो मलस्य काये नावतिष्ठते । सप्तोत्सदकायः । सप्तास्योत्सदाः । काये जाताः-द्वौ हस्तयोर्द्वौ पादयोर्द्वावसंयोरेको ग्रीवायाम् । सिंहपूर्वार्धकायः । सुसंवृत्तस्कन्धः । चितान्तरांशः । बहदृजुगात्रः । चत्वारिंशत्समदन्तः । अविरलदन्तः । सुशुक्लदन्तः । सिंहहनुः । प्रभूत-तनुजिह्वः । प्रभूतत्वाज् जिह्वायाः मुखाज्जिहवां निर्णाम्य सर्वमुखमण्डलमवच्छादयति यावन्तकं क्लेशपर्यन्तम् । रसरसाग्रप्राप्तः । ब्रह्मस्वरः । कलविङ्क-मनोज्ञभाणी । दुन्दुभिस्वरनिर्घोषः । अभिनीलनेत्रः । गोपक्ष्मा । ( दुत्त् 260 ) उष्णीषशीर्षा । ऊर्णा चास्य भ्रूवोर्मध्ये जाता श्वेता शंखनिभा प्रदक्षिणावर्ता । इदं महापुरुषस्य महापुरुषलक्षणम् ।
अशीतिरनुव्यञ्जनानि कतमानि । हस्तपादयोर्विशतिरङ्गुल्यः सपर्वाणः सनखाः । विंशतिरनुव्यञ्जनानि । हस्तपादयोरेवाष्टौ तलानि । द्वयोर्हस्तयोश्चत्वारि द्वयोः पादयोश्चत्वार्यष्टावनुव्यञ्जनानि । षड्विधो गुल्फजानूरुसंघातः । षडनुव्यञ्जनानि । षड्विधो बाह-संघातः षडनुव्यञ्जनानि । जघनम् । सीवनी च । वृष्णे ऽनुव्यञ्जनद्वयं । उपस्थम् । द्वे स्फिचौ अनुव्यञ्जनद्वयम् । त्रिकम् । उदरम् । नाभिः । द्वे पार्श्वे द्वे कक्षे द्वौ स्तनौअभिसमस्य षडनुव्यञ्जने भवन्ति । उरः हृदयं ग्रीवा पृष्ठम् । इत्येत्यानि अधः कायगतानि ग्रीवायाम ऊर्ध्वं स्थापयित्वा षष्टिरनुव्यञ्जनानि भवति । द्वे दन्तमाले द्वे अनुव्यञ्जने । तालुकम् । द्वौ सपरिवारौ चोष्टौ अनुव्यञ्जनद्वयम् । सुपरिपूर्णं कपोलम् । द्वे गण्डे परिपूर्णे सुसंस्कृते अनुव्यञ्जनद्व्यम् । द्वौ अक्षिपरिवारावनुव्यञ्जनद्वयम् । द्वे भ्रुवावनुव्यञ्जनद्वयम् । द्वे नासिकाविले अनुव्यञ्जनद्वयम् । ललाटम् । द्वे शङ्खे द्वौ च कर्णावनुव्यञ्जन-चतुष्टम् । सकेशञ्च शिरो ऽनुव्यञ्जनम् । इत्येतानि ग्रीवायाः ऊर्ध्वं काये विंशतिरनुव्यञ्जनानि भवन्ति । पूर्वकानि च षष्टिः पश्चिमकानि च विंशतिरेकध्यमभिसंक्षिप्य अशीतिरनुव्यञ्जनानि भवन्ति । इत्येतानि लक्षणानुव्यञ्जनानि [भद्राणि] शुद्धाशयभूमिप्रविष्टो बोधिसत्त्वो विपाकतः प्रतिलभते । ततस्तूर्ध्वमेषां शुद्धिरुत्तरोत्तरा यावद्बोधिमण्डनिषदनाद् वेदितव्या । परिशिष्टानावेणिकान् सर्वाकार-परिशुद्धादीन् सुविशुद्धान् परिपूर्णान् प्रतिलभते । हीनैस्तु तैः पूर्वमपि बोधिसत्त्वभूतः समन्वागतो भवति शुद्धाध्याशयभूमिमुपादाय । सर्वश्चाविशेषेण बोधिसम्भारः सर्वेषां लक्षणानुव्यञ्जनानां निर्वर्तको भवति ।
स पुनर्बोधिसम्भारो द्विविधः । बोधेर्दूरश्चासन्नश्च । तत्र दूरः । यः प्रतिलब्धेषु विपाकतो लक्षणानुव्यञ्जनेषु । आसन्नः । यः प्रतिलब्धेषु तत्प्रथमतो विपाकतो लक्षणानुव्यञ्जनेषु । ततो वा उत्तरोत्तरविशुद्धिविशेषगतेषु ।
विचित्रकर्माभिसंस्कारफलानि त्वेतानि लक्षणानुव्यञ्जनानि भगवता [अर्थि-]विनेयवशेन निर्देशितानि । तत्कस्य हेतोः । सत्त्वा विचित्रे पापकर्मसमुदाचारे ऽभिरताः । अप्येव ते तस्य पापकस्य कर्मणो विपक्षभूतस्य विचित्रस्य यत्प्रातिपक्षिकं विचित्रं कुशलं लक्षणानुव्यञ्जननिर्वर्तकं कर्म तस्येदं विचित्रफलानुशंसं श्रुत्वा तस्य महतः फलानुशंसस्य स्पृह्यमानरूपारतस्माच्च पापाद्विरमेयुः । तच्च कुशलं समादाय वर्तेरन्निति । यथोक्तं लक्षणसूत्रे । शीलव्रतक्षान्तित्यागेषु प्रतिष्ठितत्वात्सुप्रतिष्ठितपादत्वं प्रतिलभते । मातापित्रोरुपस्थानेन विचित्रेण विचित्रया च सत्त्वोपद्रवारक्षया आगमन-गमनादिपरिस्पन्दमुपादाय चक्राङ्कपादतां प्रतिलभते । परविहिंसामदत्तादानञ्च प्रहाय गुरूणां चाभिवादनवन्दन-प्रत्युत्थानाञ्जलि-सामीची-कर्म कृत्वा परेषां मनस्तुष्टिप्रियभोगाह्रस्वीकरणान् निहतमानत्वाच्च दीर्घाङ्गुलित्वं महापुरुषलक्षणं प्रतिलभते । यैश्च त्रिभिः कर्मभिरेतानि त्रीणि महापुरुषलक्षणानि निर्दिष्टानि तैरेव सर्वैः समस्तैरायतपादपार्ष्णित्वं प्रतिलभते । तत्र त्रयाणामपि लक्षणानां संनिश्रयत्वात् चतुर्भिः संग्रहवस्तुभिर्गुरून् संगृह्य जालपाणिपादतां प्रतिलभते । गुरूणामेव चाभ्यङ्गोद्वर्तन-स्नानाच्छादनानि दत्त्वा मृदुतरुणपाणिपादतां प्रतिलभते । कुशलधर्मासंतुष्ट्या उत्तरोत्तरान् कुशलान्धर्मान्वर्ध यित्वा उच्छङ्गचरणतां प्रतिलभते । यथावद्धर्मानुद्गृह्य पर्यवाप्य परेषां च देशयित्वा दौत्यञ्च सम्यक् परेषां कृत्वा ऐणेयजङ्घतां प्रतिलभते । अनुपूर्वेण धर्मसमादानेन नेत्रीवर्तमानत्वात्पापकं कायवाङ्गमनःकर्म संयमय्य । तत्रानवनतः ग्लानेषु च ग्लानोपस्थानं कृत्वा भैषज्यञ्च दत्त्वा व्याध्यनवनतोच्छ्रयणान् मात्राशी च कामेष्वनवनतः अनवनतकायतां प्रतिलभते । परैर्निर्वासितान् सत्त्वान् धर्मेण समेन संहृत्य ह्रीमानपत्रापी वस्त्रप्रदश्च कोषगतवस्तिगुह्यतां प्रतिलभते । कायवाङ्मनोभिः संवृतात्मा प्रतिग्रह-भोजने च मात्रज्ञः ग्लानेषु भैषज्यप्रदः विषमे कर्मणि प्रतिग्रह-परिभोगवैषम्ये चाप्रवृत्तत्वात् ( दुत्त् 262 ) [धातुवैषम्यानु]लोमनाच्च न्यग्रोधपरिमण्डलत्वं प्रतिलभते । येनैव च कर्मणा उत्सङ्गचरणतां प्रतिलभते तेनैवोर्ध्वङ्गरोमताम् । स्वयं कुशलमीमांसकः पण्डितविज्ञ-सेवी सूक्ष्मार्थचिन्तकः गुरूणां स्थानशोधकः उत्सादकः स्नापकश्च एकविहारित्वादेकमित्र-संश्रयत्वात्सूक्ष्मार्थप्रवेशात् तृणपर्णाद्याविलापकर्षणादागन्तुकमलापकर्षणाच्च एकैकरोमतां प्रतिलभते । मनोज्ञप्रीतिकरभोजनपानयानवस्त्रालङ्कारादि-कायपरिष्कारं दत्त्वा अक्रोधनः काञ्चनसन्निभत्वचतां व्यामप्रभताञ्च प्रतिलभते । येनैव च कर्मणा एकैकरोमतोक्ता तेनैव सूक्ष्मश्लक्ष्णत्वचता वेदितव्या । प्रभूतेनोत्सदेन विशदेनान्नपानेन महाजनकायं संतर्पयित्वा सप्तोत्सदकायतां प्रतिलभते । सत्त्वानामुत्पन्नोत्पन्नेषु धर्मेषु करणीयेषु प्रामुख्येनावस्थितः । नाहं मानी न च निष्ठुरः । अहिताञ्च सत्त्वाना निवारयिता ताडिता हिताहिते च सन्नियोजयिता सिंहपूर्वार्धकायतां प्रतिलभते सिंहवत्सत्त्वार्थेषु पराक्रमशीलत्वात् । अनेनैव च कर्मणा सुसंवृत्तस्कन्धता चितान्तरांशता च वेदितव्या । येनैव च कर्मणा दीर्घाङ्गुलित्वं प्रतिलभते तेनैव बृहदृजुगात्रतां प्रतिलभते । मित्रभेदकरीं पिशुनां वाचं प्रहाय भिन्नानाञ्च सत्त्वानां सामग्रीं कृत्वा चत्वारिंशद् दन्ततां समाविरलदन्तताञ्च प्रतिलभते । कामावचरीं मैत्रीं भावयित्वा धर्मार्थचिन्तकः सुशुक्लदन्ततां प्रतिलभते । अर्थिम्यः सत्त्वेभ्यो यथाभिप्रेतं धनं सम्यग्विसृज्य सिंहहनुतां प्रतिलभते । स्वसुतवत्-सत्त्वान्संरक्ष्य श्राद्धश्चानुकम्पकश्च भैषज्यप्रदश्च [प्रसन्नश्च] रसरसाग्रतां प्रतिलभते धर्मरसानुप्रदानाद्धर्मरसास्वादनात् प्रनष्टरसविशोधनाच्च । पञ्च शिक्षापदानि प्राणातिपातविरत्यादीनि स्वयञ्च समादाय संरक्ष्य परांश्च तेष्वेव समादापयित्वा करुणाचित्ततामुपादाय महती धर्मसमादाने प्रतिपन्नत्वादुष्णीषशिरस्कताञ्च प्रभूत-तनुजिह्वतां च प्रतिलभते । सत्यवादितया प्रियवादितया कालधर्मवादितया च ब्रह्मस्वरतां प्रतिलभते । कृत्स्नं जगन्मैत्रेण चेतसा ऽनुकम्प्य मातृवत्पितृवदभिनीलनेत्रतां गोपक्ष्मनेत्रताञ्च प्रतिलभते । गुणवतां तु भूतस्य वर्णस्य हर्तां वर्णवादी भ्रुवोर्मध्ये ऊर्णां प्रतिलभते श्वेतां शंखनिभां प्रदक्षिणावर्ताम् । ( दुत्त् 263 ) सर्वेषु च द्वात्रिंशत्सु महापुरुषलक्षणेष्वविशेषेण शीलं कारणं प्रतिलम्भाय वेदितव्यम् । तत्कस्य हेतोः । न हि शीलविपन्नो बोधिसत्त्वो मनुष्यत्वमेव तावदासादयेत् कुतः पुनर्महापुरुषलक्षणम् । तत्रोष्णीषशिरस्कता अनव लोकितमूर्धता चैकं महापुरुषक्षणं वेदितव्ये तद्व्यतिरेकेणानुपलम्भात् । इदं तावद्विस्तरेण लक्षणाभिनिवृत्त्यानुरूप्येण विचित्रकर्मव्यवस्थानम् ।
समासतः पुनश्चतुराकारया पक्षद्वयगतया सुकृतकर्मान्ततया सर्वलक्षणाभिनिर्वृत्तिर्वेदितव्या । तत्र नियतकारितया सुप्रतिष्ठितपादया निर्वर्तते । निपुणकारितया चक्रचरणता उच्छङ्गचरणता जालपाणिपादता सूक्ष्मत्वचता चितान्तरांशता सुसंवृत्तस्कन्धता वृहदृजुगात्रता प्रभूततनुजिह्वता च निर्वर्तते । नित्यकारितया दीर्घाङ्ग लित्वं आयतपादपार्ष्णिता अनवनतकायता न्यग्रोधपरिमण्डलता अविरलदन्तता च निर्वर्तते । अनवद्यकारितया परिशिष्टानां लक्षणानामभिनिर्वृत्तिः । तत्र सत्त्वेष्वव्याबाध्यप्रयोगान्मृदुतरुणपाणिपादता श्लक्ष्ण-सूक्ष्म-त्वचता च निर्वर्तते । क्रमप्रयोगाच्च कालप्रयोगाच्च कुशले ऐणेयजङ्घता निर्वर्तते । प्रामोद्यप्रीतिप्रभास्वरेण चित्तेन कुशलसमाचाराद् व्याम-प्रभता च काञ्चनसन्निभत्वचता शुक्लदन्तता ऊर्णा च श्वेता निर्वर्तते । कीर्तिशब्दश्लोके ऽसन्निश्रयात् प्रतिच्छन्न-कल्याणत्वाच्च कोशगतवस्तिगुह्यता निर्वर्तते । बोधाय कुशलमूलपरिणमनादूर्ध्वाङ्ग-रोमता चत्वारिंशत्समदन्तता रसरसाग्रता उष्णीषशिरस्कता च निर्वर्तते । कुशले अतृप्तालीनप्रयोगात् सिंहपूर्वार्धकायता सिंहहनुता च निर्वर्तंते । सत्त्वेषु हितचित्ततया समदर्शनात् समदन्तता अभिनीलनेत्रता गोपक्ष्ममा च निर्वर्तते । हीनेनासन्तुष्टिप्रयोगाच्च ब्रह्मस्वरता च निर्वर्तंते । एवमनया चतुराकारया सुकृतकर्मान्ततया बोधिसत्त्वानामेषां द्वात्रिंशतां-महापुरुष लक्षणानां प्रतिलम्भो विशुद्धिश्च भवति ।
तत्र गोत्रभूमौ बोधिसत्त्वानामेतल्लक्षणबीजमात्रे ऽवस्थानं वेदितव्यम् । अधिमुक्तिचर्याभूमौ प्राप्त्युपाये वृत्तिरेषां वेदितव्या । अध्याशयशुद्धि भूमौ प्राप्तिरेषां वेदितव्या । तदन्यासु तदुत्तरोत्तरासु बोधिसत्त्वभूमिषु विशुद्धिरेषां ( दुत्त् 264 ) वेदितव्या ताथागत्यां निष्ठागमनभूमौ सुविशुद्धतैषां निरुत्तरता च वेदितव्या । तत्र रूपित्वादेषां लक्षणानां हीनमध्योत्तमैश्च सत्त्वैः सूपलक्ष्यत्वात् सत्सु सर्वेष्वेव बुद्धधर्मेषु महापुरुषलक्षणेष्वेतान्येव महापुरुषलक्षणानि व्यवस्थापितानि । एतान्येव च द्वात्रिंशन्महापुरुषलक्षणान्याश्रयभावेन धारयन्त्यानुरूप्याच्च शोभयन्ते तस्मादनुव्यञ्जनानीत्युच्यन्ते ।
तत्र समासतः सर्वसत्त्वेषु पुण्यसदृशेन पुण्यस्कन्धेन तथागतस्यैकैको रोमकूपो निर्वर्तते । यावत्सर्वरोमकूपप्रविष्टः पुण्यस्कन्धः । इयता पुण्यस्कन्धेनैकैकमनुव्यञ्जनगति निर्वर्तते । यावत्सर्वानुव्यञ्जनप्रविष्टः पुण्यस्कन्धः । ततः शतगुणेन पुण्यस्कन्धेन तथागतस्यैकं लक्षणं निर्वर्तते । यावत्सर्वलक्षणप्रविष्टः पुण्यस्कन्धः स्थापयित्वा ऊर्णामुष्णीषञ्च । ततः सहस्रगुणेन पुण्यस्कन्धेनोर्णा निर्वर्तते । यावानूर्णा-प्रविष्टः पुण्यस्कन्धः ततः शतसहस्रगुणेन पुण्यस्कन्धेन उष्णीषशिरस्कता अनवलोकितमूर्धता च निर्वर्तते । यावानुष्णीषप्रविष्टः पुण्यस्कन्धः । ततः कोटीशतसहस्रगुणेन पुण्यस्कन्धेन तथागतस्य लक्षणानुव्यञ्जनासंगृहीतो ऽन्यो धर्मशंख्यो नाम निर्वर्तते । येन तथागत आकांक्षमाणः अनन्तापर्यन्तान् लोकधातून् स्वरेण विज्ञापयति । एवमप्रमेयः पुण्यसम्भार-समुदागतस्तथागतः । तथागतानामचिन्त्यो निरुत्तरः सर्वाकारसम्पत्तिपरिगृहीत आत्मभावो निर्वर्तते ।
तेषां पुनर्लक्षणानुव्यञ्जननिर्वर्तकानां कुशलानां कर्मणां समासतस्त्रिभिः कारणेप्रमेयता वेदितव्या । कल्पासंख्येयतया ऽभ्याससमुदागमात् कालाप्रमेयतयाअप्रमेयसत्त्वहितसुखाशयाधिपतेयत्वादाशया ऽप्रमेयतया अप्रमेयकुशलकर्मवैचित्र्याकाराप्रमेयतया च । तस्मादप्रमेयपुण्यसम्भारसमुदागतस्तथागतानां लक्षणानुव्यञ्जनादय इत्युच्यते ।
इति बोधिसत्त्वभूमावाधारे निष्ठे योगस्थाने पञ्चमं लक्षणानुव्यञ्जनपटलम् ।
प्रतिष्ठापटलम् (छप्तेर् 3.6)
चतस्रः सर्वाकाराः परिशुद्धयः कतमाः । आश्रयशुद्धिः । आलम्बनशुद्धिः । चित्तशुद्धिः ज्ञानशुद्धिश्च ।
तत्राश्रयविशुद्धिः कतमा । सवासनानां सर्वक्लेशपक्ष्याणां दौष्ठुल्यानामाश्रयान् निरवशेषतो ऽत्यन्तपरमः स्वे चात्मभावे यथाकामादानस्थानच्युतिवशवर्तिता सर्वाकारा आश्रयशुद्धिस्त्युच्यते ।
तत्रालम्बनविशुद्धिः कतमा । निर्वाणे परिणामे संप्रख्याने च सर्वालम्बनेषु या वशवर्तिता । इयमुच्यते सर्वाकारा आलम्बनविशुद्धिः ।
तत्र चित्तविशुद्धिः कतमा । पूर्ववत्सर्वचित्तदौष्ठुल्यापगमाच्चित्ते च सर्वाकार-कुशलमूलोपचयात्सर्वाकारा चित्तविशुद्धिरित्युच्यते ।
तत्र कतमा ज्ञानविशुद्धिः । पूर्ववत्सर्वाविद्यापक्ष्यदौष्ठुल्यापगमात्सर्वत्र च ज्ञेये ज्ञानस्यानावरणात् ज्ञानवशवर्तिता सर्वाकारा ज्ञानविशुद्धिरित्युच्यते ।
तत्र दश तथागतबलानि कतमानि । स्थानास्थानज्ञानबलं कर्मस्वकज्ञानबलं ध्यानविमोक्षसमाधिसमापत्तिज्ञानबलम् इन्द्रियपरापरज्ञानबलं नाना धातुज्ञानबलं नानाधिमुक्तिज्ञानबलं सर्वत्रगामिनीप्रतिपज्ज्ञानबलं पूर्वनिवासानुस्मृतिज्ञानबलं च्युत्युपपत्तिज्ञानबलम् आस्रवक्षयज्ञानबलञ्च । इत्येतानि दश तथागतबलानि युथा दशबलसूत्रे निर्देशतो विस्तरेण वेदितव्यानि ।
[तत्र] यत्किञ्चिदनेन भाषितं लपितमुदाहृतं सर्वं तत्तथा अवितथेति तस्मात्तथागत इत्युच्यते । तत्र फलस्य शुभाशभस्य यो भूतप्रवृत्तः अविषमो हेतुः तदस्य स्थानं प्रतिष्ठा निश्रयो ऽभिनिर्वर्तकं इत्युच्यते । शुभाशुभस्यैव फलस्य विषमहेतुरेतद्विपर्ययेणास्थानमित्युच्यते । निरभिमानं ज्ञानं यथाभूतमित्युच्यते । ( दुत्त् 266 ) सर्वज्ञानमसक्तज्ञानं शुद्धञ्च तन्निरभिमानं [ज्ञानं] वेदितव्यम् । एषाञ्च सर्वज्ञानादीनां पदानां पूर्ववद्व्याकरणं वेदितव्यं तद्यथा परमबोधिपटले । अनुपूर्वं गणनया प्रथमम् । निरुत्तरत्वात्सर्वाकार-सर्वसत्त्वार्थक्रियाशक्तियुक्तत्वात् सर्वमारबलात्यन्ताभिभवाच्च बलमित्युच्यते । यथावद्धेतुसमुदागमपरिग्रहाद्यथाकामसमुदाचारवशवर्तिता समन्वागत इत्युच्यते । निरुत्तरत्वान्निर्वाणमुदारमित्युच्यते । आर्याष्टाङ्गेण मार्गेण लभ्यत्वात्सर्वोपद्रवभयापगतत्वाच्चार्षभमित्युच्यते । आत्मनस्तदधिगमेन प्रतिज्ञानात्प्रतिजानातीत्युच्यते । स्वयमधिगम्य परेषामप्यनुकम्पया विस्तरेण प्रकाशनाद् ब्राह्मचक्रं प्रवर्तयतीत्युच्यते । तत्कस्य हेतोः । तथागतस्यैतदधिवचनं यदुत ब्रह्मा इत्यपि शान्तः शीतीभूत इत्यपि । तेन तत्प्रवर्तितं तत्प्रथमतः तदन्यैः पुनस्तदन्येषाम् । एवं पारंपर्येण ब्रह्मा प्रेरितं सर्वसत्त्वनिकाये भ्रमति । तस्माद् ब्राह्मञ्चक्रमितुच्यते । अग्रप्रज्ञप्तिपतितस्य निरुत्तरशास्तृसंपत्परिगृहीतस्य चात्मनो विख्यापनात् तन्मार्गदेशनया च सर्वतदन्यपाषण्डप्रतिक्षेपणात् तन्मार्गविप्रत्यनीकवादिषु च प्रत्युपस्थितेषु असंकोचात्सर्वपरवादाभिभवाय चोदारनिरुत्तरवागभ्युदोरणात्परिषदि सम्यक् सिंहनादं नदतीत्युच्यते । समासतस्त्वात्महित-प्रतिपत्तिसम्पत्-परहित-[प्रतिपत्ति-]स्व परहितप्रतिपत्तिसम्पदश्चासाधारणम् । तेषाम् उत्ताना विवृता प्रज्ञप्ता प्रकाशिता भवति । अपरः समासार्थपर्यायः । प्राप्तव्यन्तप्राप्त्यभ्युपायः । तस्य चाभ्युपायस्य सर्वजन्यतायो [यः] कश्चिदाकांक्षति देवभूतो वा [मनुष्यभूतो वा] सर्वेण तेन ममैवान्तिकाल्लभ्य एषो ऽभ्युपाय इति । तत्र व्याधिप्रशमनवदुदारमार्षभं स्थानं द्रष्टव्यम् । व्याधिप्रशमनोपायवद् ब्राह्मचक्रप्रवर्तना द्रष्टव्या । सर्व[कु]वैद्यप्रतिज्ञा प्रतिक्षेपणवत् स्वयं च नियतं व्याधिप्रशमनप्रतिज्ञानवत्परिषदि सम्यक् सिंहनादं नदितं द्रष्टव्यम् ।
यानि कर्माणि कृतान्युपचितानि निरुद्धानि तान्यतीतानीत्युच्यन्ते । यानि नैव कृतानि न निरुद्धानि नापि करोति अपि तु करिष्यत्यायत्यां । ( दुत्त् 267 ) तान्यनगतानीत्युच्यन्ते । यानि पुनः कर्माणि नैव कृतानि न निरुद्धान्यपि तु कर्तुमेव प्रणिहितो व्यवसितः तानि प्रत्युत्पन्नानीत्युच्यन्ते । तानि पुनःप्रकारभेदेन त्रीणि कायकर्म वाक्कर्म मनस्कर्म । धर्मसमादानानि चत्वारि यथापूर्वमेव निर्दिष्टानि । अस्ति धर्मसमादानं प्रत्युत्पन्नसुखमायत्यां दुःखविपाकमिति विस्तरेण । तानि पुनरेतानि दृष्टधर्मसम्परायहिताहितप्रयोगतो यथायोगं वेदितव्यानि । यस्मिन् देशे क्रियन्ते तत्तेषां स्थानमित्युच्यते । यच्च सत्त्वसंख्यातमसत्त्वसंख्यातं वा वस्त्वाधिष्ठाय क्रियन्ते तत्तेषां वस्तु इत्युच्यते । येनाकुशलमूलेन [कुशलमूलेन] वा निदानेन क्रियन्ते । तत्तेषां हेतुरित्युच्यते । यदिष्टानिष्टमादीनवानुशंसंयुक्तं फलमभिनिवर्तयन्ति तत्तेषां विपाक इत्युच्यते । तदेतदभिसमस्य सर्वकालं सर्वप्रकारं सर्वावस्थाप्रयोगं सर्वदेशं सर्वाधिष्ठानं सर्वनिदानं सर्वादीनवानुशंसञ्च सर्वाकारं तथागतानां कर्मज्ञानं भवति । नास्ति वात उत्तरि नातो भूयः ।
चत्वारि ध्यानानि । अष्टौ विमोक्षाः । ध्यानविमोक्षैः कर्मण्यचेतसश्चेतोवशिप्राप्तस्य यथेप्सितस्यार्थस्य समृद्धये या तस्य तदनुरूपस्य समाधेः समापद्यनता ता समाधिसमापत्तिरित्युच्यते । [यथोच्यते च ।] भगवांस्तद्रूपं समाधि समापन्नं । यथा समाहिते चित्ते सर्वो ब्रह्मलोकौदारेणावभासेन स्फुटो बभूव । भाषितस्य चास्य शब्दः श्रूयते । न चैनं कश्चित्पश्चतीति विस्तरः । एवं हि तथागतो यं यमेवार्थं प्रसाधयितुकामो लोकसाधारणं [असाधारणं वा] स तद्रूपं समाधिं समापद्य लघुलध्वेव प्रसाधयति । तत्रध्यानविमोक्षाभ्यां चित्तवशितया च चित्ताधीन-सर्वेप्सितार्थसमृद्धिः एतावच्च सर्वध्यायीनां करणीयम् । नात उत्तरि नातो भूयः । तच्चैतद् ध्यायिकरणीयं [सर्वाकारं] तथागतानां तस्माद् ध्यानविमोक्षसमाधिसमापत्तय एवोच्यन्ते । एषां पुनर्ध्यानादीनां समासतो द्वौ संक्लेशौ । अप्राप्तेषु चैषु प्राप्तये बिबन्धसंक्लेशः । तद्यथा ऽनुपायप्रयोगो निवरणान्यतमसमुदाचारश्च । प्राप्तेषु चैषु तद्भूमिकं क्लेशपर्यवस्थानमनुशयो वा । व्यवदानं पुनर्विविधमेवैतद्विपर्ययेण ( दुत्त् 268 ) वेदितव्यम् । तेषामेव च ध्यानादीनां विचित्राणामभिनिर्हृतानां नामसंकेतेन अनुरूपेण यथायोगं व्यवस्थितिर्व्यवस्थानामित्युच्यते । एषामेव च ध्यानादीनां प्रतिलब्धानामुत्तरि या भावना-परिपूरिर्निकामलाभिता ऽकृच्छ्रेणानवरकलाभिता सैषां विशुद्धिरित्युच्यते । तत्र यथा चैषामप्राप्तिर्यथा च प्राप्तिः तेषु च या च हीनता या च प्रणीतता यच्चैषां नाम या चोत्कर्षपर्यन्तता तत् सर्वं प्रजानाति । तस्मादेवं निरुत्तरं तथागतानां ध्यानविमोक्षसमाधिसमापत्तिज्ञानबलमित्युच्यन्ते ।
यथा परिपाकसमुदागमतः श्रद्धादीनां पञ्चानामिन्द्रियाणां मृदुमध्याधिमात्रता इन्द्रिय-परापरतेत्युच्यते ।
परश्रद्धापूर्वा धर्मविचारणा-पूर्वा च मृदुमध्याधिमात्रा रुचिः प्रत्यवगमः नानाधिमुक्तिकतेत्युच्यते । नानागोत्रव्यवस्थानम् । श्रावकप्रत्येकबुद्ध-तथागतगोत्राणां रागादिचरितप्रभेदनयेन च यावदशीति सत्त्वचरितसहस्राणि नानाधातुकतेत्युच्यते ।
तेषामेवावतार-मुखानुरूपा प्रतिपत् तद्यथा रागचरितानामशुभा विस्तरेण तद्यथा श्रावकभूमौ सर्वत्रगामिनी प्रतिपदित्युच्यते । अपरः पर्यायः । सर्वा पञ्चगतिगामिनी प्रतिपत्सर्वत्रगामिनीत्युच्यते । अपरः पर्याय । परस्परविरुद्धेषु नानापक्षाश्रितेष्वन्योन्यरुचिदृष्टिविप्रत्यनीकवादिषु पृथगितो बाह्यकेषु श्रमणब्राह्मणेषु या प्रतिपत्सर्वप्रकारैरिहामुत्रानवद्यगामिनीत्युच्यते । तद्यथा कामसूत्रादिषु ।
विचित्रेषु सत्त्वनिकायेषु तद्यथा पूर्वेषु दक्षिणेषु उत्तरेषु पश्चिमेषु नाना नामसंकेतव्यवस्थानभिन्नेषु अष्टासु व्यवहारपदेष्वनुगतं पूर्वकेष्वभ्यतीतेवात्मभावेषु षड्विधं समासतश्चरितमनुस्मरत्यनेकविधं पूर्वेनिवासे समनुस्मरन् । अष्टौ व्यवहारपदानि कतमानि । एवं नामा । एवं जात्यः । एवं गोत्रः । एवमाहारः । एवं सुखदुःखप्रतिसंवेदी । एवं दीर्घायुः । एवं चिरस्थितिकः । एवमायुः पर्यन्त इति ।
षड्व्यवहारपदव्यरितानि कतमानि । आह्वानाय संकेतः क्षत्रियादयो वर्णा मातापितरं भोजनपानविधिः सम्पत्तिविपत्तिः आर्युर्वैचित्र्यञ्च । तथा हि लोके एतान्यष्टौ व्यवहारपदानि उपनिश्रित्य षट् चरितानि परेषामात्मनो व्यपदिशन्तो व्यपदिशन्ति । इदं मे नामास्येदं नामेति । क्षत्रियो ऽहमयं वा । ब्राह्मणो वैश्यः शूद्रो ऽहमयं वा अयं मे पिता ऽस्य व । यथा पिता एवं माता । एवं रूपमहमाहारमाहरामि । मन्थान् वा अपूपान् वा ओदानकुल्माषान् वा परे वा । एवं रूपे ऽहं व्यसने सम्पदि वा वर्ते ऽयं वा । एवंरूपे ऽहं वयसि व्यवस्थितो नवे वा मध्ये वा वृद्धे वा । अयं वा । इत्येतानि षड्[अष्ट]व्यवहार पदानुगतानि चरितानि भवन्ति । नास्ति चात उत्तरि व्यवहारपदं तच्चरितञ्च । तस्मादेतावदेवानुस्मरति । नातो भूयः । तत्र व्यवहारचरितानि आकारो व्यवहारपदान्युद्देशः । तस्य चानुस्मरणात् साकारं सोद्देशमनुस्मरतीत्युच्यते । तत्र दिव्यो विहारो ध्यानानीत्युच्यन्ते । तदाश्रितत्वात्तस्य चक्षुषस्तत्फलत्वात्तत्परिगृहीतत्वाद्दिव्यञ्चक्षुरित्युच्यते । सुपरिपूर्ण-परिशुद्धध्यानफलत्वात्सुविशुद्धमित्युच्यते । मनुष्याणामन्ततो [नाम]वैधर्म्यादतिक्रान्तमानुष्यकर्मित्युच्यते । अस्ति च कामावचराणां देवानामुपपत्ति-प्रतिलम्भिकमपि तावद्दिव्यञ्चक्षुस्तन्नामसादृश्यानुर्ति । मनुष्याणां पुनस्तदपि नास्ति ।
म्रियमाणाः सत्त्वाः व्ययमाना इत्युच्यन्ते । अन्तराभवस्था उपपद्यमाना इत्युच्यन्ते । द्वाभ्यामाकाराभ्यां तमःपरायणानामयमेवंरूपो मनोमयो ऽन्तराभवो निर्वर्तते । तद्यथा कृष्णस्यकुतपस्य निर्भासः अन्धकारतमिस्राया वा रात्र्याः । तस्माद् दुर्वर्णा इत्युच्यन्ते । ये पुनर्द्वाभ्यामाकाराभ्यां ज्योतिः परायणास्तेषामयमेवंरूपो मनोमयो ऽन्तराभवो निर्वर्तते । तद्यथा ज्योत्स्नया रात्र्या वाराणसेयकस्य वा सम्पन्नस्य वस्त्रस्य । तस्मात्सुवर्णा इत्युच्यन्ते । तत्र ये दुर्वर्णास्ते हीनाः । ये सुर्वर्णास्ते प्रणीताः । ये हीनास्ते दुर्गतिगामिनः । ये प्रणीतास्ते सुगतिगामिनः । स समुत्थानया शीलविपत्त्या कायवाङ्म नोदुश्चरितेन समन्वागता इत्युच्यन्ते । द्विविधया मिथ्यादर्शनदृष्टिविपत्त्या समन्वागमात् ( दुत्त् 270 ) सर्वापवादिकया तन्मतविपक्षावस्थितार्यपवादिकया च मिथ्यादृष्टयः आर्याणामपवादका इत्युच्यन्ते । तया मिथ्यादृष्ट्या मिथ्याहेतुञ्च फलञ्चाभिनिवेशते । ततस्तत्प्रत्ययं मिथ्याकर्माभिसंस्करोति । मिथ्याकर्माभिसंस्कुर्वन् यदिदं धर्मसमादानं प्रत्युत्पन्नसुखमायत्यां दुःखविपाकम् । यत् वा प्रत्युत्पन्नदुःखमायत्यामपि दुःखविपाकंतत्समादत्ते । तस्मान्मिथ्यादृष्टिकर्मधर्मसमादानहेतोरित्युच्यते । समन्वागतस्यापि तदन्यैरनेकविधैः कुशलैर्धर्मैस्तेनैव दुर्गतिगमनात्तद्धेतोस्तत्प्रत्ययमित्युच्यते । नामरुपान्योन्यविश्लेषात् कायस्य भेद इत्युच्यते । सर्वमरणानां निहीनपरमत्वात् अस्य परम्मरणादित्युच्यते । नरकाणां सङ्कुचितावनतया ऽपायदुर्गतिविनिपाता इत्युच्यन्ते । स्वभावशरीरवस्तुविभावनतया नरका इत्युच्यन्ते । तत्रापयानमित्युच्यन्ते । अधर्मचर्या विषमचर्या च तया तत्र यानं भवति । तस्मादपाया इत्युच्यन्ते । दुःखसंस्पर्शत्वाद्दीर्घकालिक विचित्र तीव्रनिरन्तरदुःखोपभोगसमुद्गतत्वाद् दुर्गतय इत्युच्यन्ते । अधोभागावस्थितत्वान्महाप्रपातभूतत्वात् कृच्छकरुणदीनमहाविप्रलापप्रलापित्वाद्विनिपाता इत्युच्यन्ते । अधिमात्रसंवेजकत्वान्नरका एवोच्यन्ते । इति येन चोपपद्यन्ते उपपन्नाश्च यदुपभुञ्जते तदुपभोगाच्च पुनर्यदन्यत् स्वयंकृतं दुःखान्तरमभिनिर्वर्तयन्ति तदेतदाभिः संज्ञाभिः परिदीपितम् । एतद्विपर्ययेण यथायोगं सर्वशुक्लपक्षो वेदितव्यः । तत्रायं विशेषः । सुचरितपूर्वा गतिः सुगतिरित्युच्यते । सुखोपभोगपरत्वात् स्वर्गलोक इत्युच्यते । सर्वास्रवाणामशेषानुशयप्रहाणाद्यत्तत् प्रातिपक्षिकमनास्रवं चित्तमनाश्रवा प्रज्ञापरमाधिप्रज्ञसंगृहीता आस्रवाणां क्षयादनास्रवा चेतोविमुक्तिः प्रज्ञाविमुक्तिरित्युच्यते । तां पुनश्चेतोविमुक्तिं [प्रज्ञाविमुक्ति] तस्मिन्नेव चरमे भवे प्रत्यात्मं षष्ठाभिज्ञया दर्शनमार्गसन्निश्रयेण भावनामार्ग-सन्निश्रयेण चाधिगम्य स्वञ्चाधिगमं यथावत्प्रजानन्ति । परेषां चाकांक्षमाणानामारोचयन्ति । तस्माद् दृष्ट एव धर्मे स्वयमभिज्ञया साक्षात्कृत्वोपसंपद्य ( दुत्त् 271 ) प्रवेदयन्तीत्युच्यन्ते । क्षीणां मे जातिरित्येवमादीनां पदानां नानाकरणं वेदितव्यम् । तद्यथा पर्यायसंग्रहन्याम् ।
उद्दानम् ।
स्वभावश्च प्रभेदश्च कैवल्यं समता तथा ।
कर्मक्रियानुक्रमश्च विशेषः पश्चिमो भवेत् ॥
एषां पुनर्दशानां तथागतबलानां स्वभावो वेदितव्यः । प्रभेदो वेदितव्यः । कैवल्यं वेदितव्यम् । समता वेदितव्या । कर्मक्रिया वेदितव्या । अनुक्रमो वेदितव्यः । विशेषो वेदितव्यः । इत्येभिः सप्तभिराकारैः समासतो दश तथागतबलानि वेदितव्यानि ।
तत्र [कतम] एषां स्वभावः । पञ्चेन्द्रियस्वभावान्येनाति । अपि तु प्रज्ञायाः प्राधान्यात्प्रज्ञास्वभावानीत्युच्यन्ते । तथा ह्युच्यते । स्थानास्थानज्ञानबलं न तु श्रद्धाबलं वा तदन्यद्वा बलमित्युच्यते । यथा स्थानास्थानज्ञानबलमेवमवशिष्टानि द्रष्टव्यानि । तत्र क एषां प्रभेदः । समासतस्रिविधेन प्रभेदेनैषामप्रमाणता वेदितव्या । कालप्रभेदेनातीतानागतवर्तमानाध्वपतितसर्वज्ञेयप्रवेशात् । प्रकारप्रभेदेनैकैकस्य संस्कृतस्य वस्तुनः स्वलक्षणसामान्यलक्षणसर्वाकारप्रवेशात् । सन्तानप्रभेदेन दशसु दिक्षु सर्वसत्त्वधातुप्रत्येकसर्वसन्तानसर्वार्थानुप्रवेशात् । एवमेभिस्त्रिभिः प्रभेदैरेषां दशानां तथागतबलानामप्रमेयता वेदितव्या । अयमेषां प्रभेदः । तत्र कैवल्यमेषां कतमत् । तथागतस्यैव एतानि दशबलानि केवलान्यावेणिकानि । न तु सर्वश्रावकप्रत्येकबुद्धानाम् । इदमेषां कैवल्यमित्युच्यते । सर्वतथागतानां चैतानि बलानि समानि निर्विशिष्टानि । इयमेषां समता विहारविशेषस्तु तथागतानामन्योन्यं भवेदन्येन बलविहारेण अन्यस्तथागतस्तद्वहुलविहारी भवति । अन्येनान्यः ।
एषां दशानां बलानां तथागतः केन किं कर्मं करोति । स्थानास्थानज्ञानबलेन तथागतः हेतुञ्च हेतुतः फलञ्च फलतो यथाभूतं प्रजानाति । अहेतुविषमहेतुवादिनश्च ( दुत्त् 272 ) श्रमण-ब्राह्मणान् निगृह्णाति । कर्मस्वकताज्ञानबलेन तथागतः स्वयंकृत-फलोपभोगताञ्च कर्मणां यथाभूतं प्रजानाति । दानपुण्यक्रियासंक्रान्तिवादिनश्च श्रमणब्राह्मणान् निगृह्णाति । ध्यानविमोक्षसमाधिसमापत्तिज्ञानबलेन तथागतस्रिभिश्च प्रातिहार्यैर्विनेयान् सम्यगववदति । प्रतिविरोधविपक्षप्रत्यनीकवादावस्थितांश्च श्रमणब्राह्मणान् निगृह्णाति । इन्द्रियपरापरज्ञानबलेन तथागतः सत्त्वानामिन्द्रियमृदुमध्याधिमात्रताञ्च विभज्य यथाभूतं प्रजानाति । तेषाञ्च यथार्हं यथायोगं धर्मदेशनां करोति । नानाधिमुक्तिज्ञानबलेन तथागतो मृदुमध्याधिमात्र-शुभाशुभाधिमुक्तितां यथाभूतं प्रजानाति । शुभाञ्चाधिमुक्तिमनुबृंहयति । अशुभाञ्च त्याजयति । नानाधातुज्ञानबलेन तथागतो हीनमध्येप्रणोतधातुकताश्च विभज्य यथाभूतं प्रजानाति । यथेन्द्रियान् यथाषयान् यथानुशयांश्च सत्त्वांस्तेषु तेष्ववतारमुखेष्वववादक्रियया सम्यग्यथायोगं संनियोजयति । तत्र यथा तथागताः श्रावकाणां तेषु तेष्ववतारमुखेष्वववादमनुप्रयच्छन्ति तथाश्रावकभूमौ सर्वेण सर्वं निरन्तरमाख्यातमुत्तानं विवृतं प्रज्ञप्तं प्रकाशितम् । कथञ्च पुनस्तथागता बोधिसत्त्वमादिकर्मिकं तत्प्रथमकर्मिकं समाधिसम्भारपरिग्रहे ऽवस्थितञ्चित्तस्थितिकामं चित्तस्थितये ऽववदन्ति । इह तथागतो बोधिसत्त्वासतं समाधिसम्भारगुरुकमादिकर्मिकं तत्प्रथमकर्मिकं तत्प्रथमतः एवमववदति । एहि त्वं कुलपुत्र प्रविविक्तशयनासनगत एकाकी अद्वितीयो यत्ते मातापितृभ्यां नाम व्यवस्थापितमाचार्योपाध्यायाभ्यां वा तदेव नामाध्यात्मं मनसिकुरु । एवञ्च पुनर्मनसिकुरु-अस्ति मे [स] कश्चित्षडायतनविनिर्मुक्तो धर्मः स्वभावेन परिनिष्पन्नः अध्यात्मं वा बहिर्धा वा उभयमन्तरेण वा विद्यते । यत्रेदं नाम ( दुत्त् 273 ) संज्ञा प्रज्ञप्तिः उपचारः प्रवर्तते स त्वमेवं योनिशो मनसिकुर्वंस्तं धर्मं नोपलप्स्यसे । नान्यत्र ते एवं भविष्यति । आगन्तुकेष्वेषु धर्मेष्वियमागन्तुकी संज्ञाप्रवृत्तेति । यदा च ते कुलपुत्र तस्मिन् स्वनाम्नि आगन्तुकसंज्ञा उत्पान्न भवति प्रतिलब्धा स त्वं या ते चक्षुषि चक्षुर्नाम चक्षुःसंज्ञा चक्षुः-प्रज्ञप्तिस्तामध्यात्मं योनिशोमनसिकुरु । एवञ्च पुनर्मनसिकुरु । अस्मिञ्चक्षुषि द्वयमुपलभ्यते । इदं च नाम संज्ञा प्रज्ञप्तिश्चक्षुरिति । एतच्च वस्तुमात्रम् । यत्रेदं नाम संज्ञा प्रज्ञप्तिः । नात उत्तरि नातो भूयः । तत्र यच्चक्षुषि नाम संज्ञा प्रज्ञप्तिस्तत्तावन्न चक्षुः । यदपि तद्वस्तु यत्र चक्षुःसंज्ञा तदपि स्वभावतो न चक्षुः । तत्कस्य हेतोः । न हि तत्र चक्षुर्नाम चक्षुःसंज्ञां चक्षुःप्रज्ञप्तिं विना कस्यचित् चक्षुर्बुद्धिः प्रवर्तते । स चेदेतद्वस्तु तेनात्मना परिनिष्पन्नं स्यात् । येन नाम्ना ऽभिलप्यते न तत्र पुनस्तदपेक्षा चक्षुरित्येवं बुद्धिः प्रवर्तते । नान्यत्र प्रकृत्यैवाश्रुतो ऽपरिकल्पित-नामकानामपि तस्मिन् वस्तुनि चक्षुरिति बुद्धिः प्रवर्तते । न च पुनः प्रवर्तमाना उपलभ्यते तस्मादिदमपि चक्षुर्नाम चक्षुःसंज्ञा चक्षुःप्रज्ञप्तिः आगन्तुके धर्मे संज्ञा आगन्तुकी । एवं ते ऽध्यात्ममेतच्चक्षुर्योनिशो मनसिकुर्वतश्चक्षुःसंज्ञायामप्यागन्तुकसंज्ञा उत्पन्ना भविष्यति प्रतिलब्धा । यथा चक्षुष्येवं श्रोत्रघ्राणजिह्वाकायेषु विस्तरेण यावद्दृष्टश्रुतमतविज्ञातेषु प्राप्तेषु पर्येषितेषु मनसा ऽनुवितर्कितेष्वनुविचारितेषु समासतः सर्वधर्मसंज्ञास्वागन्तुकसंज्ञा उत्पन्ना भविष्यति प्रतिलब्धा । एवं [ते] स्वात्मनि या संज्ञा [अवस्था] तस्या विभवाय प्रयोगमार्गः सम्यक् परिगृहीतो भविष्यति । विस्तरेण यावत्सर्वधर्मेषु या संज्ञा तस्या विभवाय प्रयोगमार्गः सम्यक् परिगृहीतो भविष्यति । स त्वमेवं सर्वज्ञेय-सुविचारितया बुद्ध्या एवं ते सर्वधर्मसंज्ञास्वागन्तुकसंज्ञया सर्वधर्मेषु सर्वप्रपञ्चसंज्ञामपनीयापनीय निर्विकारेण चेतसा निर्निमित्तेनार्थमात्रग्रहणप्रवृत्तेनास्मिन् वस्तुनि बहलं विहर । [एवं ते] तथागतज्ञान-विशुद्धिसमाधिगोत्राच्चित्तस्यैकाग्रता प्रतिलब्धा भविष्यति । स त्वं सचेदशुभां मनसिकरोषि एनं मनसिकारं मा रिञ्चिष्यसि । स चेन्मैत्री मिदंप्रत्ययता प्रतीत्यसमुत्पादं धातुप्रभेदमानापानस्मृतिं प्रथमं ध्यानं विस्तरेण यावन्नैवसंज्ञानासंज्ञायनमप्रमाण-बोधिसत्त्व ध्यानाभिज्ञा-समाधिसमापत्तीर्मनसिकरोषि । एतमेव मनसिकारं मा रिञ्चिष्यसि । एवं ते ऽयं बोधिसत्त्व मनस्कारो ऽनुपूर्वेण यावदनुत्तरायै सम्यक्सम्बोधये निर्यास्यतीति । इयं सर्वत्रगामिनी बोधिसत्त्वानां प्रतिपद्वेदितव्या । अतीते ऽप्यध्वनि तथागता ( दुत्त् 274 ) बोधिसत्त्वमादिकर्मकमेवमेवाववदितवन्तः । अनागते ऽप्यध्वन्येवमेववदिष्यन्ति । प्रत्युत्पन्ने ऽप्यध्वन्येवमेववदन्ति । श्रावको ऽपि चानेन मनस्कारेण प्रयुज्यमानः क्षिप्राभिज्ञतरः स्याद् धर्माभिसमयाय यदि शक्नुयादेतं मनसिकारं यथावत्प्रतिवेद्धुम् । सर्वत्रागमिनी प्रतिपत् ज्ञानबलेन तथागतः सर्वदुःख-नैर्याणिकीमनैर्याणिकीं च प्रतिपदं यथाभूतं प्रजानाति । अनैर्याणिकीं च प्रतिपदं वर्जयित्वा नैर्याणिकीमुपसंहरति । पूर्वे निवासानुस्मृतिज्ञानबलेन तथागतः पूर्वान्ते इतिवृत्तकांश्च जातकांश्च स्मृत्वा चित्तसंवेगाय चित्तप्रसादाय विनेयानां देशयति । शाश्वतवादिनश्च श्रमणब्राह्मणान् निगृह्णाति । च्युत्युपपादज्ञानबलेन तथागतः श्रावकं चाभ्यतीतकालगतमुपपत्तौ व्याकरोति । उच्छेदवादिनश्च श्रमणब्राह्मणान् निगृह्णाति । आस्रवक्षयज्ञानबलेन तथागतः स्वे च विमोक्षे निष्कांक्षो भवति निर्विचिकित्सः । अर्हत्त्वाभिमानिनश्च श्रमणब्राह्मणान् निगृह्णाति । इदं तावत्तथागतस्य दशानां [बलानां] कर्म वेदितव्यम् ।
तत्र क एषां दशानां तथागतबलानामनुक्रमः । सहाभिसंबोधादनुत्तरायाः सम्यक्संबोधेस्तथागतः सर्वाण्येव दश बलानि सकृत्प्रतिलभते । सकृत्प्रतिलब्धानां पुनरेषां क्रमेण सम्मुखीभावो भवति । अभिसंबुद्धमात्र एव तथागतो धर्माणां सम्यगेव हेतुफलव्यवस्थानं स्थानास्थानज्ञागबलेन व्यवलोकयति । व्यवलोक्य कामधातावेव सभागे धाताविष्टफल-विशेषार्थिकानां कर्मस्वकता-ज्ञानबलेनाकुशलकर्मपरिवर्जनां कुशलकर्मसमुदाचारताञ्च व्यपदिशति । लौकिक-वैराग्यकामानां पुनः सत्त्वानां ध्यानविमोक्षसमाधिसमापत्तिज्ञानबलेन लौकिकवैराग्यगमनाय यथावन्मार्गप्रतिलाभायाववादमनुप्रयच्छति । लोकोत्तरवैराग्यकामानां पुनस्तदन्यैः सप्तभिस्थागतबलैर्लोकोत्तरवैराग्योपगमाय मार्गं व्यपदिशति । तत्र पूर्वं तावल्लोत्तरवैराग्यकामानामिन्द्रियं व्यवलोकयतीन्द्रियपरापरज्ञानबलेन । तत इन्द्रियपूर्वमाशयं व्यवलोकयति नानाधिमुक्तिज्ञानबलेन । ततश्चाशयपूर्वमनुशयं व्यवलोकयति नानाधातुज्ञानबलेन । स एवमिन्द्रियाशयानुशयज्ञः यथायोगमालम्बनावतारमुखेष्ववतारयति सर्वत्रगामिनी प्रतिपज्-ज्ञानबलेन । ततश्चानुरूपेणालम्बनावतारमुखप्रयोगेन चित्तस्थितिञ्च ग्राहयित्वा ( दुत्त् 275 ) चरितानि च विशोधयित्वा सत्कायदृष्टिमूल-श्वाशतोच्छेदान्तग्राहविवर्जितां मध्यमां प्रतिपदं व्यपदिशति सर्वक्लेशप्रहाणाय पूर्वेनिवासानुस्मृतिज्ञानबलेन च्युत्युपपत्तिज्ञानबलेन च । तत एवं सम्यक् प्रयुक्तः शमथोपस्तब्धो अप्रहीणक्लेशसमुदाचारयोगाकृते कृताभिमानिनामभिमानं त्याजयति आस्रवक्षयज्ञानबलेन । अयं तावदेको बलानामनुक्रमपर्यायः ।
अपरः पर्यायः । इह तथागतो ऽनुत्तरां सम्यक्सम्बोधिभिसंबुध्य तत्प्रथमतः स्थानास्थानज्ञानबलं सम्मुखीकृत्य प्रतीत्यसमुत्पन्नेषु धर्मेषु परमं धर्मस्थितिज्ञानं व्यवचारयति । तच्च धर्मस्थितिज्ञानं निःश्रित्य कर्मस्वकताज्ञानबलेन गृहिपक्षं व्यवलोकयति येन येन कर्मणा विचित्रेण तेषां गृहिपक्षाश्रितानां समुदागमो ऽभूद्भविष्यति विद्यते [च] । गृहिपक्षं व्यवलोक्य ध्यानविमोक्ष-समाधिसमापत्तिज्ञानबलेन प्रव्रजितपक्षं व्यवलोकयति । किमस्त्यस्मिन् कश्चिद् प्रव्रजितपक्षे दुःखान्निःसृतो दुःखान् निःसरणाय च मार्गस्य देशयिता । आहोश्वित् नास्तीति । स नास्तीति अवगम्य निस्राणमशरणं सर्वं लोकमवेक्ष्य महाकरुणामुपादाय बुद्धचक्षुषा लोकं व्यवलोकयति । स व्यवलोकयन्निन्द्रियपरापरज्ञानं सम्मुखीकृत्य प्रजानाति । सन्ति सत्त्वा लोके जाता [लोके] वृद्धा मृद्विन्द्रिया अपि मध्येन्द्रिया अपि तीक्ष्णेन्द्रिया अपीति । [इति] विदित्वास्य धर्मदेशनायां चित्तं क्रामति । ततः पूर्ववत्सर्वानुक्रमो नानाधिमुक्त्यादिकानां तदन्येषां बलानां वेदितव्यः । अयं द्वितीयो बलानामनुक्रमपर्यायः ।
अपरः पर्यायः । पूर्वं तावत्तथागतो ऽभिसंबुध्यमात्र एव स्थानास्थानज्ञानबलेन प्रतीत्यसमुत्पन्नं धर्मधातुं विचारयति । ततः कर्मस्वकज्ञानबलेन येषु प्रतीतत्यसमुत्पन्नेषु धर्मेषु सत्त्वसंज्ञातं सत्त्वधातुं विचारयति । अमी सत्त्वा एवं रूपस्य स्वयंकृतस्य कर्मण एवं रूपं फलं प्रत्यनुभवन्तीति । धर्मधातुं [सत्त्वधातुं] च यथावद्व्यवचारयित्वा ध्यानविमोक्षसमाधिसमापत्तिज्ञानबलेन तानेव सत्त्वान् दुःखविमोक्षाय सम्यक् त्रिभिः प्रातिहार्यैरववदति । अववदन् पूर्वंवदननुक्रमेणावशिष्टैर्वलैरिन्द्रियादीनि ज्ञात्वा मार्गे चावतारयित्वा तान् सत्त्वान् दुःखाद्विमोचयति । अयं तृतीयो बलानाम नुक्रमपर्यायः ।
तत्र स्थानास्थानज्ञानवलस्य कर्मस्वकज्ञानबलस्य च को विशेषः । यत्कुशलाकुशलस्य कर्मण इष्टानिष्टफलं निर्वर्तते इदं स्थानास्थानज्ञानबलात् । यत्पुनर्य एव कुशलाकुशलं कर्म करोति स एव तदिष्टानिष्टफलं प्रत्यनुभवति । इदं कर्मस्वकज्ञानबलात् । यत्तावद्य एव ध्यानविमोक्षादीनां समापत्त्या तस्यैव ते भवन्ति । नान्यस्य । इदं कर्मस्वकज्ञानबलात् । यत्पुनस्तानेव ध्यानादीनाश्रित्य विनेयांस्रिभिः प्रातिहार्यैरववदति । इदं ध्यानविमोक्ष[समाधि]समापत्तिज्ञानबलात् । यत् तावच्छ्रद्धा-दिसहजेन संप्रयुक्तं चित्तं प्रगृह्णाति । इदं ध्यानविमोक्षसमाधिसमापत्तिज्ञानबलात् । यत्पुनस्तान्येवेन्द्रियाणि मृदुमध्याधिमात्रादिप्रभेदेन विभजति । इदमिन्द्रियपरापरज्ञानबलात् । यत्तावदिन्द्रियपूर्व तेषु तेषु धर्मेष्वाशयं गृह्णाति । इदमिन्द्रियपरापरज्ञानबलात् । यत्पुनस्तमेवाशयं नाना विभजति इदं नानाधिमुक्तिज्ञानबलात् ।
तस्य पुनराशयस्य समासतः षड्भिराकारैर्विभागो वेदितव्यः । अनैर्याणिक आशयः । तद्यथा पृथङ् महेश्वर-नारायण-ब्रह्मलोकाद्यधिमुक्तानाम् । नैर्याणिक आशयः तद्यथा त्रिषु यानेष्वधिमुक्तानाम् । शुद्धिदूर आशयः । तद्यथा मृदुमध्यपरिपाकव्यवस्थितानाम् । विशुद्धिसमासन्न आशयः । तद्यथा ऽधिमात्रपरिपाकव्यवस्थितानाम् । दृष्टे एव धर्मे निर्वाणप्राप्त्याशयः । तद्यथा श्रावकयानेन निर्वाणप्राप्त्यधिमुक्तानाम् । आयत्यां निर्वाणप्राप्त्याशयः । तद्यथा महायानेन निर्वाणप्राप्त्यधिमुक्तानाम् । यत्तावदधिमुक्तिसमुत्थापितं तदुपमं बीजं गृह्णाति । इदं नानाधिमुक्तिज्ञानबलात् । यत्पुनस्तदेव बीजं बिभज्यानेकप्रकारं गृह्णाति । इदं नानाधातुज्ञानबलात् । स पुनर्धातुप्रविभागः समासतश्चतुष्प्रकारो वेदितव्यः । प्रकृतिस्थं बीजं पूर्वाभ्याससमुत्थितं बीजं विशोध्यं बीजम् । तद्यथा परिनिर्वाणधर्मकाणाम् । अविशोध्यञ्च बीजम् । तद्यथा परिनिर्वाणधर्मकाणाम् । यत्तावद्यथा धात्वनुरूपं प्रतिपदमवतारं प्रजानाति । इदं नानाधातुज्ञानबलात् । यत्पुनस्तामेव प्रतिपदं सर्वैः प्रकारैः प्रविभजति । इयं प्रतिपत्संक्लेशायेयं व्यवदानायेयमत्यन्तव्यवदानायेयं नात्यन्तव्यवदानायेति । ( दुत्त् 277 ) इदं सर्वत्रगामिनी प्रतिपज्ज्ञानबलात् । यत्तावत्पूर्वान्तमनुस्मरन् सर्वगतिहेतुं पूर्वान्तसहगतां यथाभूतं प्रजानाति । इदं सर्वत्रगामिनी प्रतिपज्ज्ञानबलात् । यत्पुनः प्रविभज्य व्यवहारपदानुगतं पूर्ववत् षड्विधं चरितं प्रजानाति । इदं पूर्वे निवासानुस्मृतिज्ञानबलात् । यत्तावत्पूर्वान्तमारभ्य सत्त्वानां च्युत्युपपादं प्रजानाति । इदं पूर्वे निवासानुस्मृतिज्ञानबलात् । यत्पुनपरान्तिकं सत्त्वानां च्युत्युपपादं पश्यति । इदं च्युत्युपपत्तिज्ञानबलात् । यत्तावदपरिनिष्ठित-स्वकार्थानां सत्त्वानामपरान्ते उपपत्तिं प्रतिसन्धिं प्रजानाति । इदं च्युत्युपपत्तिज्ञानबलात् । यत्पुनः परिनिष्ठितस्वकार्थानां सुविमुक्तचित्तानां दृष्टधर्मनिर्वाणप्राप्तिं प्रजानाति । इदमास्रवक्षयज्ञानबलात् । अयमेषां दशानां तथागतबलानामन्योन्यं विशेषश्चाविशेषश्च वेदितव्यः ।
चत्वारि वैशारद्यानि ग्रन्थतो यथासूत्रमेव वेदितव्यानि । तत्र चत्वार्येतानि स्थानानि तथागतैः परिषदि प्रतिज्ञातव्यानि भवन्ति । श्रावकासाधारणो ज्ञेयावरणविमोक्षात्सर्वाकारसर्वधर्माभिसंबोधः । इदं प्रथमं स्थानम् । श्रावकसाधारणश्च क्लेशावरणविमोक्षः । इदं द्वितीयं स्थानम् । विमोक्षकामानां च सत्त्वानां दुःखसमतिक्रमाय नैर्याणिको मार्गः । इदं तृतीयं स्थानम् । तस्यैव च मार्गस्य प्राप्तिविबन्धभूता ये आन्तरायिका धर्माः परिवर्जयितव्याः । इदं चतुर्थं स्थानम् । यथार्थप्रतिज्ञश्च तथागतः एषु चतुर्षु स्थानेषु । अतः प्रतिज्ञाविगुणां द्वयोः पूर्वयोः स्थानयोः कायवाङ्मनश्चेष्टां प्रतिज्ञाविगुणां च द्वयोः पश्चिमयोः स्थानयोः पूर्वापरविरोधतामयुक्तिपतिताञ्चापरेषां दिव्यदृशां चादिव्यदृशाञ्च परचित्तविदामपरिचित्तविदां च प्रतिज्ञानस्थानप्रतिपक्षेण संचोदनायां निमित्तभूतामसमनुपश्यन् येनैतानि स्थानानि विशारदो ऽलीनचित्तो निराशङ्को निर्भीः प्रतिजानाति । एतावच्च शास्त्रा प्रतिज्ञातव्यम् यदुत परिपूर्णा स्वहितप्रतिपत्तिः परहितप्रतिपत्तिश्च । तत्र पूर्वकाभ्यां द्वाभ्यां स्थानाभ्यां परिपूर्णा स्वहितप्रतिपत्तिः प्रतिज्ञाता भवति । पश्चिमकाभ्यां [स्थानाभ्यां] परिपूर्णा परिहितप्रतिपत्तिः प्रतिज्ञाता भवति । तत्रात्मनः सर्वधर्माभिसंबोधात्सम्यक्संबुद्धत्वं तथागतो महायानसंप्रस्थितान् बोधिसत्त्वानधिकृत्य प्रतिजानीते । सर्वास्त्रवक्षयं पुनः ( दुत्त् 278 ) श्रावकप्रत्येकबुद्धयानसंप्रस्थितान् सत्त्वानधिकृत्य प्रतिजानीते । मार्गं नैर्याणिकं धर्मानान्तरायिकांस्तदुभयानधिकृत्य प्रतिजानीते । एवमेतत्सूत्रपदं तथागतेन देशितम् । यो वा मे बोधिसत्त्वानां श्रावकाणाञ्च नैर्याणिको मार्गो देशित इति विस्तरः । स च बोधिसत्त्वापदेशः संगीतिकारैः श्रावकपिटकाधिकारादपनीतः । बोधिसत्त्वपिटके पुनर्बोधिसत्त्वोपदेश एव केवलः पठ्यते ।
त्रीणि स्मृत्युपस्थानानि ग्रन्थतो यथासूत्रमेव वेदितव्यानि । दीर्घरात्रं तथागत एवं कामः कच्चिन्मया सुदेशिते धर्मे विनेयाः प्रतिपत्तौ यथावदवतिष्टेरन्निति । तस्य च दीर्घरात्रं तत्कामस्य धर्मस्वामिनो गणपरिकर्षकस्य तस्याः प्रार्थितायाः सम्पत्तिभ्यामसंक्लेशस्रिभिः स्मृत्युपस्थानैः समासतः प्रभाव्यते ।
तानि पुनरेतानि परिषत्त्रयप्रभेदात् त्रीणि व्यवस्थाप्यन्ते । तिस्रः परिषदा कतमाः । एकान्तेन सम्यक् प्रतिपद्यन्ते सर्व एव । इयमेका परिषत् । एकान्तेन मिथ्या प्रतिपद्यन्ते सर्व एव । इयं द्वितीया परिषत् । तृतीया पुनः परिषद्यास्यां तदेकत्याः सम्यक् प्रतिपद्यन्ते तदेकत्या मिथ्या प्रतिपद्यन्ते ।
त्रीण्यरक्ष्याणि यथासूत्रमेव ग्रन्थतो वेदितव्यानि । समासतः सर्वाकारकुकृतप्रतिच्छादनता-प्रहाणम् । एतत्तथागतस्य त्रिभिररक्ष्यैः परिदीपितम् यदपि तदर्थतो ऽपि किञ्चिदव्याकृतं कुकृतमात्रकं भवति कदाचित्कर्हिचित्स्मृतिप्रमोषात् । तदपि तथागतस्य सर्वेण सर्व नास्ति । अतस्तथागतो यथा प्रतिज्ञातस्तथा स्वभावः । श्रावकान् निगृह्य निगृह्य ब्रवीति । प्रसह्य प्रसह्य तदेकत्यानवसादयति । तदेकत्यान् प्रवासयति । अपि तु निष्ठुरं प्रतिपद्यते नास्य तेष्वनुरक्षा उत्पद्यते । मा हैव मे श्रावकाः संवासान्वयादपरिशुद्धकायवाङ्मनः-समुदाचारतां विदित्वा तेन वस्तुना ऽनात्तमनस्का अनभिराद्ध्याश्चोदयिष्यन्ति । परेषां वा आख्यास्यन्तीति ।
तत्र तथागतानां महाकरुणा सर्वाकारा यथा पूर्वनिर्दिष्टा पूजासेवाप्रमाणपटले वेदितव्या । सा पुनरप्रमाणा निरुत्तरा ताथागती वेदितव्या । तत्र तथागतस्यानुष्टेयं यच्च भवति [यत्र च भवति] यथा च भवति यदा च भवति तत्र तस्य तथा तदा सम्यगनुष्ठानादियं तथागतस्यासम्मोषधर्मतेत्युच्यते । इति या च तत्र तथागतस्य सर्वकृत्येषु सर्वदेशेषु सर्वकृत्योपायेषु सर्वकालेषु स्मृत्यसंप्रमोषता सदोपस्थितस्मृतिता । इयमत्रासम्मोष-धर्मता द्रष्टव्या ।
तत्र या तथागतस्य स्पन्दिते वा प्रेक्षिते वा कथिते वा विहारे वा क्लेशसद्भावसदृशं चेष्टा ऽसमुदाचार-प्रचारता । अयं तथागतस्य वासनासमुद्घात इत्युच्यते । अर्हतां पुनः प्रहीणक्लेशानामपि क्लेशसद्भावसदृशी चेष्टा स्पन्दित-प्रेक्षित-कथित-विहृतेषु भवत्येव ।
समासतस्तथागतेन धर्माणां त्रयो राशयो ऽभिसंबुद्धाः । कतमे त्रयः । अर्थोपसंहिता धर्मा अनर्थोपसंहिता नैवार्थोपसंहिताः नानर्थोपसंहिताः । तत्र यत्तथागतस्यानर्थोपसंहितेषु नैवार्थोपसंहित-नानर्थोपसंहितेषु सर्वधर्मेषु ज्ञानम् । इदं तथागतस्य सर्वाकारज्ञानमित्युच्यते । तत्र यत्तथागतस्यार्थोपसंहितेषु सर्वधर्मेषु ज्ञानम् । इदं तथागतस्य वरज्ञानमित्युच्यते । तत्र यच्च सर्वाकारं ज्ञानं यच्च वरज्ञानं तदैकध्यमभिसंक्षिप्य सर्वाकारवरज्ञानमित्युच्यते ।
तदेतदभिसमस्य सर्वञ्चत्वारिंशदुत्तरमावेणिकं बुद्धधर्मशतं भवति । तत्र लक्षणानुव्यञ्जनान्यनेन बोधिसत्त्वभूतेन चरमे भवे सुपरिशुद्धानि प्रतिलब्धानि भवन्ति । यदा तु बोधिमण्डे निषीदति सुपरिपूर्ण-बोधिसंभारमार्गो बोधिसत्त्वः पश्चिमे भवे तदासावनाचार्यकं सप्तत्रिंशतं बोधिपक्ष्यान् धर्मान् भावयन्नेकक्षणानावरणज्ञानदं नाम समाधिं प्रतिलभते शैक्ष्यभूतस्य बोधिसत्त्वस्य वज्रोपमसमाधि-संगृहीतम् । तस्यानन्तरं द्वितीये क्षणे परिशिष्टानां दशबलादीनां बुद्धधर्माणां सर्वाकार-वरज्ञान-पर्यवसानानां सुविशुद्धतां निरुत्तरतां सकृत्प्रतिलभते । तेषाञ्च लाभात् सर्वस्मिन् ज्ञेये ऽसक्तमनावरणं सुविशुद्धं निर्मलं ज्ञानं प्रवर्तते आभोगमात्र-प्रतिबद्धम् । परिपूर्णसंकल्पश्च भवति । तथा परिपूर्णमनोरथः समतिक्रान्तो बोधिसत्त्वचर्या बोधिसत्त्वभूमिम् । तथागतचर्यां तथागतभूमिमवक्रान्तो ( दुत्त् 280 ) भवति । सारगतस्य च ज्ञेयावरणपक्ष्यस्य दौष्ठुल्यस्य निरवशेषं प्रहाणादस्याश्रयः परिवृत्तो भवति । सा चास्य निरुत्तरा आश्रयपरिवृत्तिः । अन्याः सर्वाः परमविहारावसाना बोधिसत्त्वानामाश्रयपरिवृत्तयः सोत्तरा एव वेदितव्याः ।
तत्र निष्ठागमन-भूमिस्थितस्य च बोधिसत्त्वस्य [तथागतस्य च कथं ज्ञानविशेषो ऽवगन्तव्यो ज्ञानान्तरम् । इह निष्ठागमन-भूमिस्थितस्य बोधिसत्त्वस्य] पेलवपटान्तरितं यथाचक्षुष्मतो रूपदर्शनम् । एवं तस्य सर्वस्मिन् ज्ञेये ज्ञानं वेदितव्यम् । यथा पुनर्न केनचिदन्तरितम् । एवं तथागतस्य ज्ञानं द्रष्टव्यम् । तद्यथा सर्वाकाररंग-परिपूर्णं चित्रकर्म पश्चिमया सुविशुद्धया रंगलेखया ऽपरिशोधितम् । एवं तस्य बोधिसत्त्वस्य ज्ञानं द्रष्टव्यम् । यथा सुविशोधितमेवं तथागतस्य ज्ञानं द्रष्टव्यम् । तद्यथा चक्षुष्मतः पुरुषस्य मन्दतमस्कं रूपदर्शनम् । एवं बोधिसत्त्वस्य पूर्ववत् । यथा सर्वाकारापगततमस्कमेवं तथागतस्य ज्ञानं द्रष्टव्यम् । तद्यथा चक्षुष्मत आराद्रूपदर्शनम् एवं एवं बोधिसत्त्वस्य पूर्ववत् यथा आसन्ने एवं तथागतस्य पूर्ववत् । यथा मृदुतैमिरिकस्य रूपदर्शनम् एवं बोधिसत्त्वस्य पूर्ववत् यथा सुविशुद्ध-चक्षुषः एवं तथागतस्य पूर्ववत् । यथा गर्भगतस्यात्मभाव एवं निष्ठागमनभूमिस्थितो बोधिसत्त्वो द्रष्टव्यः । यथोपपत्तिभवे जातस्यात्मभाव एवं तथागतो द्रष्टव्यः । यथार्हतः स्वप्नान्तरगतस्य चित्तप्रचारस्तथा निष्ठागमन-भूमिस्थितस्य बोधिसत्त्वस्य द्रष्टव्यः । यथा तस्यैव प्रतिविबुद्धस्य चित्तप्रचार एवं तथागतस्य द्रष्टव्यः । तद्यथा प्रदीपस्याविशुद्धस्य स्वभावः तथा निष्ठागमन-भूमिस्थितस्य बोधिसत्त्वस्य ज्ञानस्वभावो द्रष्टव्यः । यथा सुविशुद्धस्य प्रदीपस्य स्वभावः एवं तथागतस्य ज्ञानस्वभावो द्रष्टव्यः । अतो महज्ज्ञानान्तरमात्मभावान्तरं चिन्तान्तरं तथागतनिष्ठागमनभूमिस्थित-बोधिसत्त्वयोर्वेदितव्यम् ।
एवमभिसंबुद्धो बोधिस्तथागतो दशसु दिक्षु सर्वबुद्धक्षेत्रे सर्वबुद्धकार्यं करोति । तत्र बुद्धकार्यं कतमत् । समासतो दशेमानि तथागतस्य तथागतकृत्यानि तथागतकरणीयानि । एकैकञ्च तथागतकृत्यमप्रमाणानां सत्त्वानामर्थकारकं भवति । नास्त्यत उत्तरि नास्त्यतो भूयः । कतमानि दश । स्वे महापुरुषभावे ( दुत्त् 281 ) आदित एव चित्तप्रसादकारकमहापुरुष[भाव]संप्रत्ययजनना प्रथमं तथा[गत]कृत्यं तच्च लक्षणानुव्यञ्जनैः सम्पादयति । सर्वसत्त्वानां सर्वाकाराववादप्रयोगतथागतकृत्यं [यत्] चतस्रभिः सर्वाकारपरिशुद्धिभिः सम्पादयति । [इदं] द्वितीयं तथागतकृत्यम् । सर्वसत्त्वकार्यकरणसामर्थ्यं सर्वसंशयच्छेदनसामर्थ्यञ्च तृतीयं तथागतकृत्यम् । यत्तथागतो दशभिर्ताथागतबलैः सम्पादयति तथा हि तथागतो दशभिः पूर्वनिर्दिष्टैर्वलैः सर्वसत्त्वानां सर्वार्थसम्पादनं प्रति समर्थो भवति । ये चैनं तथागतबलान्यारभ्य प्रश्नं पृच्छन्ति यथा यानि तथागतेन ज्ञातानि दृष्टानि विदितानि विज्ञातानि तथा तानि तथागतस्तेषां प्रश्नं पृष्टो व्याकरोति । सर्वपरप्रववादनिग्रहः स्ववादव्यवस्थापना तथागतस्य चतुर्थं कृत्यम् । यत्तथागतो वैशारद्यैः सम्पादयति तथागताज्ञायां स्थितेष्वस्यितेषु च विनेयेष्वसंक्लिष्टचित्तता पञ्चमं तथागतकृत्यम् । यत्तथागतः स्मृत्युपस्थानैः सम्पादयति यथावादि तथाकारिता षष्ठं तथागतकृत्यम् । यत्तथागतः अरक्ष्यैः सम्पादयति बुद्धचक्षुषा रात्रिन्दिवं सर्वलोकव्यवलोकना सप्तमं तथागतकृत्यम् । यत्तथागतो महाकरुणया सम्पादयति । सर्वसत्त्वसर्वकृत्याविहाराणि अष्टमं तथागतकृत्यम् । यत्तथागतो ऽसम्मोषधर्मतया सम्पादयति तथागतस्याचारविहारस्य यथावदनुवर्तना अधितिष्ठना नवमं तथागतकृत्यम् । यत्तथागतो वासनासमुद्धातेन सम्पादयति ये धर्मा अनर्थोपसंहिता ये च नैवार्थोपसंहितानानार्थोपसंहितास्तानभिनिर्वर्ज्य ये च धर्मा अर्थोपसंहितास्तेषां समाख्यानं विवरणा उत्तानीकर्मे दशमं तथागतकृत्यम् । यत्तथागतः सर्वाकारवरज्ञानेन सम्पादयति एवं हि तथागतो ऽनेनावेणिकेन चत्वारिंशदुत्तरेण बुद्धधर्मशतेन दशतथागत कृत्यानि कुर्वन् सर्वबुद्धकार्यं करोति । विस्तरविभागतः पुनरस्यैव बुद्धकार्यस्य न सुकरासंख्यां कर्तुं यावत्कल्पकोटीनियुतशतसहस्रैरपि ।
अयं स तथागतो विहारस्तथागती भूमिः प्रतिष्ठेत्युच्यते । तत्कस्य हेतोः । एतामाश्रित्यैतां प्रतिष्ठाय यस्याः स्पृहयमाणरूपा बोधिसत्त्वा बोधिसत्त्वशिक्षासु शिक्षन्ते अधिगम्यापि च तां प्रतिष्ठामेतामेवाश्रित्यैतां प्रतिष्ठाय सर्वसत्त्वानां सर्वार्थान् साम्पादयति । तस्मात्प्रतिष्ठेत्युच्यते ।
सर्वे चैते बुद्धधर्मा अत्यर्थं परार्थक्रियानुकूलाः परार्थक्रियाप्रभाविताश्च तथागतानाम् । [न] तथा श्रावकप्रत्येकबुद्धानाम् । तस्मात्तस्यैव ते आवेणिका इत्युच्यन्ते । सन्ति च ते बुद्धधर्मा ये सर्वेण सर्वं श्रावकप्रत्येकबुद्धेषु नोपलभ्यन्ते । तद्यथा महाकरुणा ऽसम्मोषधर्मता वासनासमुद्धातः सर्वाकारवरज्ञानम् । ये ऽपि चोपलभ्यन्ते ते ऽपि न सर्वाकारपरिपूर्णाः । तथागतस्य तु सर्वे चोपलभ्यन्ते सर्वाकारपरिपूर्णाश्चातिक्रान्ततराश्च प्रणीततराश्च । तस्मात्ते तस्यावेणिका इत्युच्यन्ते । कैवल्यार्थश्चावेणिकार्थो वेदितव्यः ।
इत्ययं परिपूर्णो बोधिसत्त्वानां शिक्षामार्गः । शिक्षामार्गफलञ्च प्रकाशितम् । सर्वबोधिसत्त्व-शिक्षामार्गस्य शिक्षामार्गफलस्य च तर्वाकारस्य निर्देशाय अधिष्ठानभूतम् सा खल्वियं बोधिसत्त्वभूमिर्बोधिसत्त्वपिटकमातृकेत्यप्युच्यते । महायानसंग्रह इत्यप्युच्यते । [प्रणाशा-]प्रणाशपथविवरणमित्युच्यते । अनावरणज्ञानविशुद्धि मूलमित्यप्युच्यते । यः कश्चित् सदेवमानुषा[सुरा]ल्लोकाद्देवभूतो वा [मनुष्यभूतो वा] श्रमणो वा ब्राह्मणो वास्यां बोधिसत्त्वभूमौ दृढामधिमुक्तिमुत्पाद्येमां श्रोष्यत्युद्ग्रहीष्यति धारयिष्यति भावनाकारेण वा प्रयोक्ष्यते परेषां वा विस्तरेण प्रकाशयिष्यत्यन्ततो लेखयित्वा धारयिष्यति पूजासत्कारञ्च प्रयोक्ष्यते । तस्य समासतो यावान् पुण्यस्कन्धो भगवता सर्वबोधिसत्त्वपिटके संगृहीतस्य सूत्रान्तस्य श्रवणादिकर्मण आख्यात उत्तानो विवृतः प्रज्ञप्तः प्रकाशितः तावानस्य पुण्यस्कन्धः प्रत्याशंसितव्यः । तत्कस्य हेतोः । तथा ह्यस्यां बोधिसत्त्वभूमौ सर्वस्य बोधिसत्त्वपिटकस्योद्देशनिर्देशमुखानि संगृहीतान्याख्यातानि । यावच्चास्यां [बोधिसत्त्व]भूमौ यो धर्मविनयो विस्तरेण प्रकाशितः स बहुलमुद्देशस्वाध्याय-धर्मानुधर्मप्रतिपत्तितः स्थास्यति पृथुवृद्धिवैपुल्यताञ्च गमिष्यति न तावत्सद्धर्मप्रतिरूपकाः प्रचुरा भविष्यन्ति सद्धर्मान्तर्द्धानाय । यतश्च पुनः सद्धर्मप्रतिरूपकाः प्रचुरा भविष्यन्ति ततश्चायं सद्धर्मो भूतार्थोपसंहितो तस्य तदन्तर्धानं भविष्यति ।
इति बोधिसत्त्वभूमावाधारे निष्ठे योगस्थाने षष्ठं प्रतिष्ठापटलम् ।
॥ समाप्ता च बोधिसत्त्वभूमिः ॥
॥ कृतिरियमाचार्यार्यासङ्गपादानाम् ॥
ये धर्मा हेतुप्रभवा हेतुं तेषान्तथागतो ह्यवदत् ।
तेषाञ्च यो निरोध एवं वादी महाश्रमणः ॥
मूल पाठ: Bodhisattvabhūmi · Edition: Nalinaksha Dutt: Bodhisattvabhumi. Patna : K.P. Jayaswal Research Institute, 1966 (Tibetan Sanskrit Works Series, 7) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0