बोधिचर्यावतारपञ्जिका · अध्याय 10
कदा कस्मिन् काले उपलम्भदृष्टिभ्यो भावग्राहाभिनिविष्टेभ्यो देशयिष्यामि प्रकाशयिष्यामि । शून्यतां सर्वधर्मनिःस्वभावताम् । कथम्? संवृत्या व्यवहारेण । अन्यथा विकल्पाविषयतया परमार्थशून्यस्य शून्यताया देशयितुमशक्यत्वात् । एवं निःश्रेयसहेतुज्ञानसंभारनिमित्तमुपदर्शितम् । तत्कारणं पुण्यसंभारनिदानमुपदर्शयन्नाह- पुण्येत्यादि । पुण्यस्य ज्ञानादेः संभारं कदा उपलम्भदृष्टिभ्यो देशयिष्यामीति संबन्धः । आदरादिति महता गौरवेण । सत्कृत्य न यदृच्छया । केन प्रकारेण? अनुपलम्भेन, देयदायकप्रतिग्राहकादित्रितयानुपलम्भयोगेन । त्रिकोटिपरिशुद्ध्येति यावत् । एवमुपचितः पुण्यसंभारो बुद्धताधिगमाय जायते । तदेवमनेन सर्वेण अशेषसंक्लेशहेतुसर्वसमारोपविकल्पप्रतिपक्षतया सर्वावरणप्रहाणोपायत्वात् समस्ततथागताधिगमहेतुत्वाच्च सर्वदुःखोपशमोपायप्रज्ञा उपजायते इत्युपदर्शितं भवतीति ॥
ये गम्भीरनयावगाहनपटुप्रज्ञानिरस्तभ्रमाः
संक्लेशव्यवदानपक्षविमलज्ञानोच्छ्रिताः सूरयः ।
ते सन्तो गुणदोषयोरपि च तैः सारं विमिश्रादतो
ग्राह्यं सर्वमकल्मषं विषमिव त्याज्यं दुरुक्तं यदि ॥
न युक्तमुक्तं किमपीह यन्मया परं प्रजातं स्खलितं तदेव मे ।
ननु ग्रहीष्यन्ति ममात्र साधवो मतिं मयानेन कृतेन सांप्रतम् ॥
अपि च-
यः संवृत्या व्रजति मनसो गोचरत्वं कथंचित्
तादृश्यर्थे स्खलति न मतिः कस्य वै मादृशस्य ।
तत्सूक्तार्थप्रविचयवतां मध्यमानीतिभाजां
दृष्ट्वा किंचिद्गुणलवमिह स्यादुपादेयबुद्धिः ॥
प्रज्ञाया विवृतिं विधाय विशदव्याख्यापदैः संवृतां
सम्यग्ज्ञानविपक्षदृष्टिनिबिडव्यामोहशान्त्या मया ।
यत्पुण्यं समुपार्जितं हितफलं तेनाशु सर्वो जनो
मञ्जुश्रीरिव सद्गुणैकवसतिः प्रज्ञाकरो जायताम् ॥
इति प्रज्ञाकरमतिविरचितायां बोधिचर्यावतारपञ्जिकायां
प्रज्ञापारमितापरिच्छेदो नवमः ॥
कृतिरियं पण्डितभिक्षुप्रज्ञाकर[मति]पादानाम् ॥
* * * *
[लेखकविरचिता प्रशस्तिः]
टीकेयं परमा सुयन्त्रितपदा शुद्धा मनोह्लादिनी
संसारार्णवपारगामिनि जने नौयानपात्रोपमा ।
आशु प्राप्तिकरी जिनस्य पदवीं साद्य लिखित्वा मया
प्राप्तं यत्कुशलं सुसंपदि पदं तेनास्तु बुद्धो जनः ॥
अष्टानवतिसंयुक्ते शते सरति वत्सरे ।
कृष्णे श्रावणपञ्चभ्यां वासरे कुजसाह्वयेः ॥
श्रीमच्छंकरदेवस्य राज्ये विजयशालिनः ।
बोधिचर्यावताराख्यटीके लिख्य(?)मिदं शुभम् ॥
श्रीललितपुरे रम्ये श्रीमानीश्वलसंज्ञके ।
यच्छ्रीराघवनाम्नस्य(?) विहारे सुगतालये ॥
धन्यः स्थविरभिक्षोस्य(?) बुद्धचन्द्रस्य पुस्तकम् ।
तत्पुण्याद्बोधिसत्त्वत्वं लभते परमं पदम् ॥
सृजतु शलिलं घना यथेष्टं
भवतु मही बहुशस्यसंप्रयुक्तम् (?) ।
अवतु नरपतिः प्रजा विनाम्राः (?) भवतु रयनपतेः सुखातिवृद्धिः ॥
इति ॥
। कायस्थः भुवनाकर[व]र्मण[णा]लिखितमिति ॥
10. परिणामनापरिच्छेदो दशमः ।
बोधिचर्यावतारं मे यद्विचिन्तयतः शुभम् ।
तेन सर्वे जनाः सन्तु बोधिचर्याविभूषणाः
सर्वासु दिक्शु यावन्तः कायचित्तव्यथातुराः ।
ते प्राप्नुवन्तु मत्पुण्यैः सुखप्रमोद्यसागरान्
आसंसारं सुखज्यानिर्मा भूत्तेषां कदाचन ।
बोधिसत्त्वसुखं प्राप्तं भवत्वविरतं जगत्
यावन्तो नरकाः केचिद्विद्यन्ते लोकधातुषु ।
सुखावतीसुखामोद्यैर्मोदन्तां तेषु देहिनः
शीतार्ताः प्राप्नुवन्तूष्णमुष्णार्ताः सन्तु शीतलाः ।
बोधिसत्त्वमहामेघसंभवैर्जलसागरैः
असिपत्रवनं तेषां स्यान्नन्दनवनद्युति ।
कूटशाल्मलिवृक्षाश्च जायन्तां कल्पपादपाः
कादम्बकारण्डवचक्रवाकहंसादिकोलाहलरम्यशोभैः ।
सरोभिरुद्दामसरोजगन्धैर्भवन्तु हृद्या नरकप्रदेशाः
सो ऽङ्गारराशिर्मणिराशिरस्तु तप्ता च भूः स्फाटिककुट्टिमं स्यात् ।
भवन्तु संघातमहीधराश्च पूजाविमानाः सुगतप्रपूर्णाः
अङ्गारतप्तोपलशस्त्रवृष्टिरद्यप्रभृत्यस्तु च पुष्पवृष्टिः ।
तच्छस्त्रयुद्धं च परस्परेण क्रीडार्थमद्यास्तु च पुआपयुद्धम्
पतितसकलमांसाः कुन्दवर्णास्थिदेहा
दहनसमजलायां वैतरण्यां निमग्नाः ।
मम कुशलबलेन प्राप्तदिव्यात्मभावाः
सह सुरवनिताभिः सन्तु मन्दाकिनीस्थाः
त्रस्ताः पश्यन्त्वकस्मादिह यमपुरुषाः काकगृध्राश्च घोरा
ध्वान्तं ध्वस्तं समन्तात्सुखरतिजननी कस्य सौम्या प्रभेयम् ।
इत्यूर्ध्व प्रेक्षमाणा गगनतलगतं वज्रपाणिं ज्वलन्तं
दृष्ट्वा प्रामोद्यवेगाद्वयपगतदुरिता यान्तु तेनैव सार्धम्
पतति कमलवृष्टिर्गन्धपानीयमिश्रा-
च्छमिति (?)नरकवह्निं दृश्यते नाशयन्ती ।
किमिदमिति सुखेनाह्वादितानामकस्माद्
भवतु कमलपाणेर्दर्शनं नारकाणाम्
आयातायात शीघ्रं भयमपनयत भ्रातरो जीविताः स्मः
संप्राप्तो ऽस्माकमेष ज्वलदभयकरः को ऽपि चीरीकुमारः ।
सर्व यस्यानुभावाद्वयसनमपगतं प्रीतिवेगाः प्रवृत्ताः
जातं संबोधिचित्तं सकलजनपरित्राणमाता दया च
पश्यन्त्वेनं भवन्तः सुरशतमुकुटैरर्च्यमानाङ्घ्रिपद्मं
कारुण्यादार्द्रदृष्टिं शिरसि निपतितानेकपुष्पौघवृष्टिम् ।
कूटागारैर्मनोज्ञैः स्तुतिमुखरसुरस्त्रीसहस्त्रोपगीतैर्
दृष्ट्वाग्रे मञ्जुघोषं भवतु कलकलः सांप्रतं नारकाणाम्
इति मत्कुशलैः समन्तभद्रप्रमुखानावृतबोधिसत्त्वमेघान् ।
सुखशीतसुगन्धवातवृष्टीनभिनन्दन्तु विलोक्य नारकास्ते
शाम्यन्तु वेदनास्तीव्रा नारकाणां भयानि च ।
दुर्गतिभ्यो विमुच्यन्तां सर्वदुर्गतिवासिनः
अन्योन्यभक्षणभयं तिरश्चामपगच्छतु ।
भवन्तु सुखिनः प्रेता यथोत्तरकुरौ नराः
संतर्प्यन्तां प्रेताः स्त्राप्यन्तां शीतला भवन्तु सदा ।
आर्यावलोकितेश्वरकरगलितक्षीरधाराभिः
अन्धाः पश्यन्तु रूपाणि शृण्वन्तु बधिराः सदा ।
गर्भिण्यश्च प्रसूयन्तां मायादेवीव निर्व्यथाः
वस्त्रभोजनपानीयं स्त्रक्चन्दनविभूषणम् ।
मनोभिलषितं सर्वं लभन्तां हितसंहितम्
मीताश्च निर्भयाः सन्तु शोकार्ताः प्रीतिलाभिनः ।
उद्विग्राश्च निरुद्वेगा धृतिमन्तो भवन्तु च
आरोग्यं रोगिणामस्तु मुच्यन्तां सर्वबन्धनात् ।
दुर्बला बलिनः सन्तु स्त्रिग्धचित्ताः परस्परम्
सर्वा दिशः शिवाः सन्तु सर्वेषां पथिवर्तिनाम् ।
येन कार्येण गच्छन्ति तदुपायेन सिध्यतु
नौयानयात्रारूढाश्च सन्तु सिद्धमनोरथाः ।
क्षेमेण कूलमासाद्य रमन्तां सह बन्धुभिः
कान्तारोन्मार्गपतिता लभन्तां सार्थसंगतिम् ।
अश्रमेण च गच्छन्तु चौरव्याघ्रादिनिर्भयाः
सुप्तमत्तप्रमत्तानां व्याध्यारण्यादिसंकटे ।
अनाथबालवृद्धानां रक्षां कुर्वन्तु देवताः
सर्वाक्षणविनिर्मुक्ताः श्रद्धाप्रज्ञाकृपान्विताः ।
आकाराचारसंपन्नाः सन्तु जातिस्मराः सदा
भवन्त्वक्षयकोशाश्च यावद्गगनगञ्जवत् ।
निर्द्वन्द्वा निरुपायासाः सन्तु स्वाधीनवृत्तयः
अल्पौजसश्च ये सत्त्वास्ते भवन्तु महौजसः ।
भवन्तु रूपसंपन्ना ये विरूपास्तपस्विनः
याः काश्चन स्त्रियो लोके पुरुषत्वं व्रजन्तु ताः ।
प्राप्नुवन्तूच्चतां नीचा हतमाना भवन्तु च
अनेन मम पुण्येन सर्वसत्त्वा अशेषतः ।
विरम्य सर्वपापेभ्यः कुर्वन्तु कुशलं सदा
बोधिचित्ताविरहिता बोधिचर्यापरायणाः ।
बुद्धैः परिगृहीताश्च मारकर्मविवर्जिताः
अप्रमेयायुषश्चैव सर्वसत्त्वा भवन्तु ते ।
नित्यं जीवन्तु सुखिता मृत्युशब्दो ऽपि नश्यतु
रम्याः कल्पद्रुमोद्यानैर्दिशः सर्वा भवन्तु च ।
बुद्धबुद्धात्मजाकीर्णा धर्मध्वनिमनोहरैः
शर्करादिव्यपेता च समा पाणितलोपमा ।
मृद्वी च वैडूर्यमयी भूमिः सर्वत्र तिष्ठतु
बोधिसत्त्वमहापर्षन्मण्डलानि समन्ततः ।
निषीदन्तु स्वशोभाभिर्मण्डयन्तु महीतलम्
पक्षिभ्यः सर्ववृक्षेभ्यो रश्मिभ्यो गगनादपि ।
धर्मध्वनिरविश्रामं श्रूयतां सर्वदेहिभिः
बुद्धबुद्धसुतैर्नित्यं लभन्तां ते समागमम् ।
पूजामेघैरनन्तैश्च पूजयन्तु जगद्गुरुम्
देवो वर्षतु कालेन सस्यसंपत्तिरस्तु च ।
स्फीतो भवतु लोकश्च राजा भवतु धार्मिकः
शक्ता भवन्तु चौषध्यो मन्त्राः सिध्यन्तु जापिनाम् ।
भवन्तु करुणाविष्टा डाकिनीराक्षसादयः
मा कश्चिद्दुःखितः सत्त्वो मा पापी मा च रोगितः ।
मा हीनः परिभूतो वा मा भूत्कश्चिच्च दुर्मनाः
पाठस्वाध्यायकलिला विहाराः सन्तु सुस्थिताः ।
नित्यं स्यात्संघसामग्री संघकार्यं च सिध्यतु
विवेकलाभिनः सन्तु शिक्षाकामाश्च भिक्षवः ।
कर्मण्यचित्ता ध्यायन्तु सर्वविक्षेपवर्जिताः
लाभिन्यः सन्तु भिक्षुण्यः कलहायासवर्जिताः ।
भवन्त्यखण्डशीलाश्च सर्वे प्रव्रजितास्तथा
दुःशीलाः सन्तु संविग्नाः पापक्षयरताः सदा ।
सुगतेर्लाभिनः सन्तु तत्र चाखण्डितव्रताः
पण्डिताः संस्कृताः सन्तु लाभिनः पैण्डपातिकाः ।
भवन्तु शुद्धसंतानाः सर्वदिक्ख्यातकीर्तयः
अभुक्त्वापायिकं दुःखं विना दुष्करचर्यया ।
दिव्येनैकेन कायेन जगद्धुद्धत्वमाप्नुयात्
पूज्यन्तां सर्वसंबुद्धाः सर्वसत्त्वैरनेकधा ।
अचिन्त्यबौद्धसौख्येन सुखिनः सन्तु भूयसा
सिध्यन्तु बोधिसत्त्वानां जगदर्थं मनोरथाः ।
यच्चिन्तयन्ति ते नाथास्तत्सत्त्वानां समृध्यतु
प्रत्येकबुद्धाः सुखिनो भवन्तु श्रावकास्तथा ।
देवासुरनरैर्नित्यं पूज्यमानाः सगौरवैः
जातिस्मरत्वं प्रव्रज्यामहं च प्राप्नुयां सदा ।
यावत्प्रमुदिताभूमिं मञ्जुघोषपरिग्रहात्
येन तेनासनेनाहं यापयेयं बलान्वितः ।
विवेकवाससामग्रीं प्राप्नुयां सर्वजातिषु
यदा च द्रष्टुकामः स्यां प्रष्टुकामश्च किंचन ।
तमेव नाथं पश्येयं मञ्जुनाथमविघ्नतः
दशदिग्व्योमपर्यन्तसर्वसत्त्वार्थसाधने ।
यथा चरति मञ्जुश्रीः सैव चर्या भवेन्मम
आकाशस्य स्थितिर्यावद्यावच्च जगतः स्थितिः ।
तावन्मम स्थितिर्भूयाज्जगद्दुःखानि निघ्नतः
यत्किंचिज्जगतो दुःखं तत्सर्वं मयि पच्यताम् ।
बोधिसत्त्वशुभैः सर्वैर्जगत्सुखितमस्तु च
जगद्दुःखैकभैषज्यं सर्वसंपत्सुखाकरम् ।
लाभसत्कारसहितं चिरं तिष्ठतु शासनम्
मञ्जुघोषं नमस्यामि यत्प्रसादान्मतिः शुभे ।
कल्याणमित्रं वन्दे ऽहं यत्प्रसादाच्च वर्धते
मूल पाठ: Bodhicaryāvatārapañjikā · Edition: P.L. Vaidya: Bodhicaryāvatāra of Śāntideva with the Commentary Pañjika of Prajñākaramati. Darbhanga : Mithila Institute, 1960. (Buddhist Sanskrit Texts, 12). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0