भाषा

ENहिગુ
ग्रंथ पाठ

बोधिचर्यावतार (अन्य संस्करण) · अध्याय 7

7.1

इति प्रज्ञाकरमतिविरचितायां बोधिचर्यावतारपञ्जिकायां क्षान्तिपारमिता नाम षष्ठः परिच्छेदः ॥
7 वीर्यपारमिता नाम सप्तमः परिच्छेदः ।
एवं क्षमो भजेद्वीर्यं वीर्ये बोधिर्यतः स्थिता ।
न हि वीर्यं विना पुण्यं यथा वायुं विनागतिः

7.2

किं वीर्यं कुशलोत्साहस्तद्विपक्षः क उच्यते ।
आलस्यं कुत्सितासक्तिर्विषादात्मावमन्यना

7.3

अव्यापारसुखास्वादनिद्रापाश्रयतृष्णया ।
संसारदुःखानुद्वेगादालस्यमुपजायते

7.4

क्लेशवागुरिकाघ्रातः प्रविष्टो जन्मवागुराम् ।
किमद्यापि न जानासि मृत्योर्वदनमागतः

7.5

स्वयूथ्यान्मार्यमाणांस्त्वं क्रमेणैव न पश्यसि ।
तथापि निद्रां यास्येव चण्डालमहिषो यथा

7.6

यमेनोद्वीक्ष्यमाणस्य बद्धमार्गस्य सर्वतः ।
कथं ते रोचते भोक्तुं कथं निद्रा कथं रतिः

7.7

यावत्संभृतसंभारं मरणं शीघ्रमेष्यति ।
संत्यज्यापि तदालस्यमकाले किं करिष्यसि

7.8

इदं न प्राप्तमारब्धमिदमर्धकृतं स्थितम् ।
अकस्मान्मृत्युरायातो हा हतो ऽस्मीति चिन्तयन्

7.9

शोकवेगसमुच्छूनसाश्रुरक्तेक्षणाननान् ।
बन्धून्निराशान् संपश्यन् यमदूतमुखानि च

7.10

स्वपापस्मृतिसंतप्तः शृण्वन्नादांश्च नारकान् ।
त्रासोच्चारविलिप्ताङ्गो विह्वलः किं करिष्यसि

7.11

जीवमत्स्य इवास्मीति युक्तं भयमिहैव ते ।
किं पुनः कृतपापस्य तीव्रान्नरकदुःखतः

7.12

स्पृष्ट उष्णोदकेनापि सुकुमार प्रतप्यसे ।
कृत्वा च नारकं कर्म किमेवं स्वस्थमास्यते

7.13

निरुद्यम फलाकाङ्क्षिन् सुकुमार बहुव्यथ ।
मृत्युग्रस्तो ऽमराकार हा दुःखित विहन्यसे

7.14

मानुष्यं नावमासाद्य तर दुःखमहानदीम् ।
मूढ कालो न निद्राया इयं नौर्दुर्लभा पुनः

7.15

मुक्त्वा धर्मरतिं श्रेष्ठामनन्तरतिसंततिम् ।
रतिरौद्धत्यहास्यादौ दुःखहेतौ कथं तव

7.16

अविषादबलव्यूहतात्पर्यात्मविधेयता ।
परात्मसमता चैव परात्मपरिवर्तनम्

7.17

नैवावसादः कर्तव्यः कुतो मे बोधिरित्यतः ।
यस्मात्तथागतः सत्यं सत्यवादीदमुक्तवान्

7.18

ते ऽप्यासन् दंशमशका मक्षिकाः कृमयस्तथा ।
यैरुत्साहवशात् प्राप्ता दुरापा बोधिरुत्तमा

7.19

किमुताहं नरो जात्या शक्तो ज्ञातुं हिताहितम् ।
सर्वज्ञनीत्यनुत्सर्गाद्बोधिं किं नाप्नुयामहम्

7.20

अथापि हस्तपादादि दातव्यमिति मे भयम् ।
गुरुलाघवमूढत्वं तन्मे स्यादविचारतः

7.21

छेत्तव्यश्चास्मि भेत्तव्यो दाह्यः पाट्यो ऽप्यनेकशः ।
कल्पकोटीरसंख्येया न च बोधिर्भविष्यति

7.22

इदं तु मे परिमितं दुःखं संबोधिसाधनम् ।
नष्टशल्यव्यथापोहे तदुत्पादनदुःखवत्

7.23

सर्वे ऽपि वैद्याः कुर्वन्ति क्रियादुःखैररोगताम् ।
तस्माद्बहूनि दुःखानि हन्तुं सोढव्यमल्पकम्

7.24

क्रियामिमामप्युचितां वरवैद्यो न दत्तवान् ।
मधुरेणोपचारेण चिकित्सति महातुरान्

7.25

आदौ शाकादिदाने ऽपि नियोजयति नायकः ।
तत्करोति क्रमात्पश्चाद्यत्स्वमांसान्यपि त्यजेत्

7.26

यदा शाकेष्विव प्रज्ञा स्वमांसे ऽप्युपजायते ।
मांसास्थि त्यजतस्तस्य तदा किं नाम दुष्करम्

7.27

न दुःखी त्यक्तपापत्वात्पण्डितत्वान्न दुर्मनाः ।
मिथ्याकल्पनया चित्ते पापात्काये यतो व्यथा

7.28

पुण्येन कायः सुखितः पाण्डित्येन मनः सुखि ।
तिष्ठन् परार्थं संसारे कृपालुः केन खिद्यते

7.29

क्षपयन् पूर्वपापानि प्रतीच्छन् पुण्यसागरान् ।
बोधिचित्तबलादेव श्रावकेभ्यो ऽपि शीघ्रगः

7.30

एवं सुखात्सुखं गच्छन् को विषीदेत्सचेतनः ।
बोधिचित्तरथं प्राप्य सर्वखेदश्रमापहम्

7.31

छन्दस्थामरतिमुक्तिबलं सत्त्वार्थसिद्धये ।
छन्दं दुःखभयात्कुर्यादनुशंसांश्च भावयन्

7.32

एवं विपक्षमुन्मूल्य यतेतोत्साहवृद्धये ।
छन्दमानरतित्यागतात्पर्यवशिताबलैः

7.33

अप्रमेया मया दोषा हन्तव्याः स्वपरात्मनोः ।
एकैकस्यापि दोषस्य यत्र कल्पार्णवैः क्षयः

7.34

तत्र दोषक्षयारम्भे लेशो ऽपि मम नेक्ष्यते ।
अप्रमेयव्यथाभाज्ये नोरः स्फुटति मे कथम्

7.35

गुणा मयार्जनीयाश्च बहवः स्वपरात्मनोः ।
तत्रैकैकगुणाभ्यासो भवेत्कल्पार्णवैर्न वा

7.36

गुणलेशे ऽपि नाभ्यासो मम जातः कदाचन ।
वृथा नीतं मया जन्म कथंचिल्लब्धमद्भुतम्

7.37

न प्राप्तं भगवत्पूजामहोत्सवसुखं मया ।
न कृता शासने कारा दरिद्राशा न पूरिता

7.38

भीतेभ्यो नाभयं दत्तमार्ता न सुखिनः कृताः ।
दुःखाय केवलं मातुर्गतो ऽस्मि गर्भशल्यताम्

7.39

धर्मच्छन्दवियोगेन पौर्विकेण ममाधुना ।
विपत्तिरीदृशी जाता को धर्मे छन्दमुत्सृजेत्

7.40

कुशलानां च सर्वेषां छन्दं मूलं मुनिर्जगौ ।
तस्यापि मूलं सततं विपाकफलभावना

7.41

दुःखानि दौर्मनस्यानि भयानि विविधानि च ।
अभिलाषविघाताश्च जायन्ते पापकारिणाम्

7.42

मनोरथः शुभकृतां यत्र यत्रैव गच्छति ।
तत्र तत्रैव तत्पुण्यैः फलार्घेणाभिपूज्यते

7.43

पापकारिसुखेच्छा तु यत्र यत्रैव गच्छति ।
तत्र तत्रैव तत्पापैर्दुःखशस्त्रैर्विहन्यते

7.44

विपुलसुगन्धिशीतलसरोरुहगर्भगता
मधुरजिनस्वराशनकृतोपचितद्युतयः ।
मुनिकरबोधिताम्बुजविनिर्गतसद्वपुषः
सुगतसुता भवन्ति सुगतस्य पुरः कुशलैः

7.45

यमपुरुषापनीतसकलच्छविरार्तरवो
हुतवहतापविद्रुतकताम्रनिषिक्ततनुः ।
ज्वलदसिशक्तिघातशतशातितमांसदलः
पतति सुतप्तलोहधरणीष्वशुभैर्बहुशः

7.46

तस्मात्कार्यः शुभच्छन्दो भावयित्वैवमादरात् ।
वज्रध्वजस्थविधिना मानं त्वारभ्य भावयेत्

7.47

पूर्वं निरूप्य सामग्रीमारभेन्नारभेत वा ।
अनारम्भो वरं नाम न त्वारभ्य निवर्तनम्

7.48

जन्मान्तरे ऽपि सो ऽभ्यासः पापाद्दुःखं च वर्धते ।
अन्यच्च कार्यकालं च हीनं तच्च न साधितम्

7.49

त्रिषु मानो विधातव्यः कर्मोपक्लेशशक्तिषु ।
मयैवैकेन कर्तव्यमित्येषा कर्ममानिता

7.50

क्लेशस्वतन्त्रो लोको ऽयं न क्षमः स्वार्थसाधने ।
तस्मान्मयैषां कर्तव्यं नाशक्तो ऽहं यथा जनः

7.51

नीचं कर्म करोत्यन्यः कथं मय्यपि तिष्ठति ।
मानाच्चेन्न करोम्येतन्मानो नश्यतु मे वरम्

7.52

मृतं दुण्डुभमासाद्य काको ऽपि गरुडायते ।
आपदाबाधते ऽल्पापि मनो मे यदि दुर्बलम्

7.53

विषादकृतनिश्चेष्टे आपदः सुकरा ननु ।
व्युत्थितश्चेष्टमानस्तु महतामपि दुर्जयः

7.54

तस्माद्दृढेन चित्तेन करोम्यापदमापदः ।
त्रैलोक्यविजिगीषुत्वं हास्यमापज्जितस्य मे

7.55

मया हि सर्वं जेतव्यमहं जेयो न केनचित् ।
मयैष मानो वोढव्यो जिनसिंहसुतो ह्यहम्

7.56

ये सत्त्वा मानविजिता वरकास्ते न मानिनः ।
मानी शत्रुवशं नैति मानशत्रुवशाश्च ते

7.57

मानेन दुर्गतिं नीता मानुष्ये ऽपि हतोत्सवाः ।
परपिण्डाशिनो दासा मूर्खा दुर्दर्शनाः कृशा

7.58

सर्वतः परिभूताश्च मानस्तब्धास्तपस्विनः ।
ते ऽपि चेन्मानिनां मध्ये दीनास्तु वद कीदृशाः

7.59

ते मानिनो विजयिनश्च त एव शूरा ये मानशत्रुविजयाय वहन्ति मानम् ।
ये तं स्फुरन्तमपि मानरिपुं निहत्य कामं जने जयफलं प्रतिपादयन्ति

7.60

संक्लेशपक्षमध्यस्थो भवेद्दृप्तः सहस्रशः ।
दूर्योधनः क्लेशगणैः सिंहो मृगगणैरिव

7.61

महत्स्वपि हि कृच्छ्रेषु न रसं चक्षुरीक्षते ।
एवं कृच्छ्रमपि प्राप्य न क्लेशवशगो भवेत्

7.62

यदेवापद्यते कर्म तत्कर्मव्यसनी भवेत् ।
तत्कर्मशौण्डो ऽतृप्तात्मा क्रीडाफलसुखेप्सुवत्

7.63

सुखार्थं क्रियते कर्म तथापि स्यान्न वा सुखम् ।
कर्मैव तु सुखं यस्य निष्कर्मा स सुखी कथम्

7.64

कामैर्न तृप्तिः संसारे क्षुरधारामधूपमैः ।
पुण्यामृतैः कथं तृप्तिर्विपाकमधुरैः शिवैः

7.65

तस्मात्कर्मावसाने ऽपि निमज्जेत्तत्र कर्मणि ।
यथा मध्याह्नसंतप्त आदौ प्राप्तसराः करी

7.66

बलनाशानुबन्धे तु पुनः कर्तुं परित्यजेत् ।
सुसमाप्तं च तन्मुञ्चेदुत्तरोत्तरतृष्णया

7.67

क्लेशप्रहारान् संरक्षेत् क्लेशांश्च प्रहरेद्दृढम् ।
खड्गयुद्धमिवापन्नः शिक्षितेनारिणा सह

7.68

तत्र खड्गं यथा भ्रष्टं गृह्णीयात्सभयस्त्वरन् ।
स्मृतिखड्गं तथा भ्रष्टं गृह्णीयान्नरकान् स्मरन्

7.69

विषं रूधिरमासाद्य प्रसर्पति यथा तनौ ।
तथैव च्छिद्रमासाद्य दोषश्चित्ते प्रसर्पति

7.70

तैलपात्रधरो यद्वदसिहस्तैरधिष्ठितः ।
स्खलिते मरणत्रासात्तत्परः स्यात्तथा व्रती

7.71

तस्मादुत्सङ्गगे सर्पे यथोत्तिष्ठति सत्वरम् ।
निद्रालस्यागमे तद्वत् प्रतिकुर्वीत सत्वरम्

7.72

एकैकस्मिंश्छले सुष्ठु परितप्य विचिन्तयेत् ।
कथं करोमि येनेदं पुनर्मे न भवेदिति

7.73

संसर्गं कर्म वा प्राप्तमिच्छेदेतेन हेतुना ।
कथं नामास्ववस्थासु स्मृत्युभ्यासो भवेदिति

7.74

लघुं कुर्यात्तथात्मानमप्रमादकथां स्मरन् ।
कर्मागमाद्यथा पूर्वं सज्जः सर्वत्र वर्तते

7.75

यथैव तूलकं वायोर्गमनागमने वशम् ।
तथोत्साहवशं यायादृद्धिश्चैवं समृध्यति

मूल पाठ: Bodhicaryāvatāra · Edition: P. L. Vaidya: Bodhicaryavatara of Santideva. Darbhanga: Mithila Institute, 1960. (Buddhist Sanskrit Texts, 12) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc