बोधसार · अध्याय 40
[प्. 644-]
जातसाक्षात्कारं शिष्यं प्रति श्रीगुरोः प्रश्नामृतम् ।
नित्यानुभूतमपि यन्नानुभूतत्वमागतम् ।
अनुभूतिरसस्पर्शैरनुभूतं परं पदम्
प्रत्यक्षलक्षणैरेव पराग्वृत्तिविलक्षणैः ।
साक्षात्कृतः शिवः साक्षात्सच्चिदानन्दलक्षणैः
यशोदागीतमधुरैर्मृदुवेदान्तभाषितैः ।
लालितः प्रापितो निद्रां मुकुन्द इव मोदसे
नवनीतरसग्रासैश्चमत्कारैः स्वसंविदाम् ।
अन्तराप्यायितो बालमुकुन्द इव खेलसि
स्वात्मनि प्रलयं नीत्वा दृश्यमेकाकितां गतः ।
किं नृत्यसि निजानन्दे महादेव इवात्मनि
सायङ्काले समाध्याख्ये स्निग्धां सर्वाङ्गसुन्दरीम् ।
निजशक्तिमुमां पश्यन्महेश इव नृत्यसि
दृश्यं निपीय गरलं पाचयित्वा तदात्मनि ।
मृत्त्युञ्जयपदं प्राप्तः किं हृष्यसि हरो यथा
यथा संमुखतां नीत्वा मुकुरे मुखमीक्षितम् ।
अखण्डवृत्तौ च तथा स्वरूपं किं विलोकितम्
बहिरन्तर्हरिं पश्यन्मायां पश्यञ्जगन्मयीम् ।
विस्मयं परमं यासि मार्कण्डेय इवात्मनि
मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0