बोधसार · अध्याय 39
[प्. 639-]
अद्भुतशिरश्छेदपञ्चकम्
तत्तद्विचारवैराग्याद्वरिष्ठा विश्वविस्मृतिः ।
छेद्यस्य शिरसश्छेदः प्रत्यङ्गच्छेदनाद्वरः
प्रत्यङ्गच्छेदनेऽप्यस्य च्छेद्यमेव शिरो यदि ।
प्रथमं तच्छिरश्छिन्धि वृथा किं चेष्टयाऽन्यया
दयाशीला हि मुनयो मुनेः साऽपि दयालुता ।
यच्छिनत्ति मनःशीर्षं विनाऽङ्गच्छेदवेदनाम्
सद्यो मम शिरश्छिन्धि मामित्याह मनो मम ।
मया सोढुं न शक्यन्ते प्रत्यङ्गच्छेददुर्दशाः
असङ्ख्याश्चित्तजा भावाः शक्याश्छेत्तुं क्रमात्कथम् ।
चित्तमेतत्समाच्छिन्नमत एव मया मुने
मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0