भाषा

ENहिગુ
ग्रंथ पाठ

बोधसार · अध्याय 16.17

16.17.1

[प्. 379-]
अथ देवपूजानिर्णयः
मायाशक्तिविलासतो न गणितब्रह्माण्डभाण्डोदरे क्रीडाकौतुकसंभ्रमात्मकमपि प्रत्यक्प्रकाशात्मकम् ।
ध्यात्वा किंचिदचिन्त्यचिद्घनरसं स्वानन्दसत्ताद्वयं सिद्धांतस्वरसेन पूजनविधिं वक्ष्यामि विश्वात्मनः

16.17.2

सेव्यः श्रीगुरुवेदवाक्यजनितश्चिद्बोध आवाहनं सर्वव्यापकताविनिश्चयमतिः पूर्णं पवित्रासनम् ।
त्वत्तो नान्यदवैमि किंचिदिति तत्पुण्याम्बु पादोदकं त्वय्येवास्त्वचला ममेश मतिरित्यर्घोऽस्तु ते सुंदरः

16.17.3

शीतोष्णं कटुतिक्तमम्लमधुरं क्षारं विचित्रं रसैर् यत्तस्यास्य समत्वभावमधुना पर्कः कृतश्चेद्यदि ।
मुख्योयं मधुपर्क उत्तमरसस्तेनामुना सादरं पूज्यानामपि पूज्य एष परमो देवः सदा पूज्यताम्

16.17.4

सर्वाङ्गीणसुखावहं मुहुरहो यज्जन्मनो मज्जनं शुद्धे बोधसुधाम्बुधौ शुचितरे स्नानं विशुद्धिप्रदम् ।
आभानं स्फुरति द्वितीयमिव यत्तत्सर्वमाचम्यताम् इत्युक्तो गुरुभिस्तदेष विधृतश्चित्ते स एवाचमः

16.17.5

श्रद्धा निर्ममता विरागशुचिता निःसङ्गता पूर्णता भक्तिप्रेमरसप्रसादपरमानन्दादयो ये गुणाः ।
वस्त्रालङ्करणानि तत्र विदुषा देयानि विश्वम्भरे सोऽहं भावमनोहरेण विधिना यद्यद्यथा रोचते

16.17.6

अद्वैतप्रतिपत्तिरात्मविषया सा सामरस्याञ्चिता गात्रालेपनचारुचन्दनमिदं देवस्य देयं प्रियम् ।
शान्तिः क्षान्तिरलोलता सरलता निर्मत्सरत्वादयः शास्त्रार्था यदि न क्षताश्च वितुषाः शुद्धास्त एवाक्षताः

16.17.7

संफुल्लैर्निजभावशुद्धकुसुमैः सद्वासनासुन्दरैः संपूज्यो हि महेश्वरः सुमनसां सा धन्यता वर्णिता ।
कर्मज्ञानमयो यदिन्द्रियगणः क्षिप्तो विरागानले देवस्यास्य दशाङ्गदाहसुरभिर्धूपः सदा वल्लभः

16.17.8

यस्मिन्नुज्ज्वलिते न तिष्ठति तमो बाह्यं न चाभ्यन्तरं सोऽयं ज्ञानमयः प्रकाशपरमो दीपः समुज्ज्वाल्यताम् ।
यद्भक्ष्यं प्रियमस्य यस्य परमा तृप्तिर्भवेद्भक्षणे द्वैतं तत्तु निवेदनीयममितं नैवेद्यमत्युत्तमम्

16.17.9

पश्चादाचमनीयमत्र विहितं सद्यो विशुद्धिप्रदं सन्तोषामृतमेव पूजनविधौ पानीयमानीयताम् ।
यन्मैत्र्यादिचतुष्टयं मुनिमते पातञ्जले वर्णितं ताम्बूलं वदनप्रसादजनकं देवाग्रतः स्थाप्यताम्

16.17.10

निष्कामोत्तमधर्मसंभ्रमजुषां जन्मावलीनां फलं भक्तिः सा परमेश्वरस्य पदयोरावेदनीया मया ।
सर्वस्वं मम तत्किलेति स मया क्लृप्तस्य पूजाविधेः पूर्णत्वाय निवेदितो निजमनश्चिन्तामणिर्दक्षिणा

16.17.11

यावन्त्येव भुवां रजांस्यगणितब्रह्माण्डकोटिस्पृशां तावद्भी रजसां गणैर्गणयितुं शक्या गुणा यस्य न ।
त्वं तादृग्गुणवांस्तथापि मुनिभिर्यन्निर्गुणः स्तूयसे तत्किं स्तौमि महेश हे शिव भवद्रूपं विदूरं धियाम्

16.17.12

श्वेतं श्याममिति प्रकाशयति चेदर्कः स किं श्यामतां श्वेतत्वं च दधाति तद्वदितरो मुग्धेषु बुद्धेषु यः ।
द्वैताद्वैतविकल्पजालकलनातीताय शुद्धात्मने जाग्रत्स्वानुभवप्रकाशमहसे देवाय तस्मै नमः

16.17.13

संप्राप्यापि पदारविन्दपदवीमद्वैतविद्यावताम् एतावन्तमनेहसं न तु वयं लीनाः सदा ब्रह्मणि ।
मुक्तानामपि मोहतः समरसत्वद्भावपूर्णात्मनाम् अस्माकं ह्यपराध एव परमः क्षन्तव्य एवं प्रभो

16.17.14

आत्मैवायमनन्तचिद्घनरसो नित्यं विमुक्तः स्वयं को बन्धः किमु बन्धनं कथमसौ बद्धो विमुक्तः कथम् ।
सानन्दाश्रु सगद्गदं सपुलकं चिद्बोधपूजाविधौ देवस्यास्तु मदीयविस्मयमयः संपूर्णपुष्पाञ्जलिः

मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc