बोधसार · अध्याय 16.15
अग्निहोत्रमिदं नित्यम् अकृत्य प्रत्यवैति यत् ।
[प्. 374-]
अथ ब्रह्मयज्ञनिर्णयः ।
अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ ।
इति पञ्चाङ्गुलिमयो यमनामा तु सत्करः
शौचं संतोषः स्वाध्यायस्तप ईश्वरधारणा ।
इति पञ्चाङ्गुलिमयो नियमो नाम सत्करः
संपुटीकृत्य हस्तो द्वौ मुनिर्नियमसंयमौ ।
ब्रह्मस्तुतिमयं साक्षाद्ब्रह्मयज्ञं समाचरेत्
तदुक्तं पातंजले ।
स्वाध्यायाद्योगमासीत योगात्स्वाध्यायमामनेत् ।
योगस्वाध्यायसंपत्त्या परमात्मा प्रकाशत इति
वेदशास्त्रपुराणेषु यद्यत्पुण्यफलं स्मृतम् ।
सर्वस्मादपि संप्रोक्तं ब्रह्मयज्ञफलं महत्
मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0