भाषा

ENहिગુ
ग्रंथ पाठ

बोधसार · अध्याय 16.14

16.14.1

[प्. 364-]
अथ सहोमाङ्गहोमनिर्णयः ।
एवं समाप्य विधिना प्रातः संध्याविधिं मुनिः ।
होमस्यावसरं ज्ञात्वा यज्ञशालां ततो विशेत्

16.14.2

यज्ञशाला भूमिका स्यात्तृतीया तनुमानसा ।
सव्यार्हान्सव्यतः कुर्यादसव्यार्हानसव्यतः ।
संचरेत तथा नैव प्रायश्चित्तीयते यथा

16.14.3

अथ कर्मातिपातः स्याद्दुर्गत्वाद्ब्रह्मकर्मणः ।
प्रायश्चित्तविधिं ज्ञात्वा तच्च सद्यः समाचरेत्

16.14.4

कर्मातिपाते प्रायश्चितं
तत्कालमिति वचनात्प्रायश्चित्तानि

16.14.5

अथ प्रायश्चित्तानि ।
क्षमयैव जयेत्क्रोधं सत्येनैवानृतं जयेत् ।
अश्रद्धां श्रद्धया जित्त्वा दानैः कृपणतां जयेत्

16.14.6

इतीमे सेतुसामोक्ताश्चत्वारः सेतवो दृढाः ।
उपलक्षणमेवैतदन्यानपि तथा जयेत्

16.14.7

उत्थानेन जयेन्निद्रां कामं सङ्कल्पवर्जनात् ।
सन्तोषेण जयेल्लोभं मोहं बोधदृशा जयेत्

16.14.8

मदमत्सरमुख्यांश्च सर्वभूतात्मभावनात् ।
अन्यानपि जयेद्दोषान्नित्यानित्यविचारणात्

16.14.9

लये सम्बोधयेच्चित्तं विक्षिप्तं शमयेत्पुनः ।
सकषायं विजानीयात्समप्राप्तं न चालयेत्

16.14.10

नास्वादयेद्रसं तत्र निःसङ्गः प्रज्ञया भवेत् ।
विशेदेकाग्रया बुद्ध्या सिद्धिमेवमवाप्नुयात्

16.14.11

उद्धृते गार्हपत्याग्नौ तत्तत्संस्कारसंस्कृते ।
सत्यरूपः स्वयं यज्वा श्रद्धा पत्नी पतिव्रता

16.14.12

गृहं देहः पतिर्जीवश्छादितो मोहभस्मना ।
जीवस्य गार्हपत्याग्नेस्तदुद्धरणमुत्तमम्

16.14.13

द्वे आहुती जुहोत्येते अग्निहोत्रविधानतः ।
ममतां प्रथमं हुत्वाऽहन्तां च जुहुयात्ततः

16.14.14

हुते चेदाहुती एते सर्वमेतद्धुतं भवेत् ।
श्रद्धापत्नीसमेतानां मुमुक्षागृहवासिनाम्

मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc