भृगुसंहिता · अध्याय 37
गुह्याद्गुह्यतमो गोप्यस्सर्वदा गुरुभिः सदा इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां सिहितायां प्रकीर्णाधिकारे षट्त्रिंशो ऽध्यायः.
अथ सप्तत्रिंशो ऽध्यायः.
त्रियुगधर्म प्रपञ्चः.
अथ वक्ष्ये लघूक्तेन युगधर्मांस्ततः परम् ।
कृतं त्रेता द्वापरश्च कलिश्चेति चतुर्युगम्
कृतमेव च कर्तव्यं तस्मिन् काले यदीप्सितम् ।
न तत्रधर्माःसीदन्ति न च क्षीयन्तिवै प्रजाः
ततः कृतयुगं प्रोक्तमन्वर्थेन गुणेन वै ।
न तस्मिन् युगसंसर्गेव्यवायो नेन्द्रियक्षयः
नानूया नापि रुदितं न दर्पो न च पैशुनम् ।
न विग्रहो न विद्वेषोन मिथ्या नापि वञ्चनम्
न भयं न च सन्तापो न लोभो न च मानिता ।
तदा ज्योतिःपरं ब्रह्म वैखानसमनामयम्
या गतिर् योगिनामेका ह्यपुनर्भवकाङ्क्षिणाम् ।
विष्णुस्सर्वात्मको देवः शुक्लो नारायणः स्मृतः
अन्तर्यामिणि तस्मिंस्तु सर्वलोकमये हरौ ।
स्वयं शुक्लत्वमापन्ने सर्वमच्छं भविष्यति
ब्राह्मणाः क्षत्रिया वैश्याश्शूद्राश्च भगवत्पराः ।
स्वकर्मनिरतास्सर्वेभवन्ति मनुजाः कृते
समाश्रमं समाचारं सत्यभूतं तपोरतम् ।
विज्ञानभरितं सर्वं जगद्भवति सन्ततम्
एक वेदसमायुक्ता एकधर्मविधिक्रियाः ।
पृथग्धर्मास्त्वेक वेदा धर्ममेकमनुव्रताः
चतुराश्रमयुस्तेन कर्मणा कालयोगिना ।
अकामभलसंयोगाः प्राप्नुवन्ति परां गतिम्
कृते युगे चतुष्पादश्चातुर्वर्ण्यस्य शाश्वतः ।
एतत्कृतयुगं नाम त्रैगुण्यगुणवर्जितम्
ततस्त्रेतायुगं नाम यत्र धर्मस्त्री पाद्भवेत् ।
रक्ततां तु समभ्येति हरिर्नारायणः प्रभुः
सत्यप्रवृत्ताश्च नराः दानधर्मपरायणाः ।
यजन्ते विविधैर्यज्ञैर्नारायणमनामयम्
ब्राह्मणाद्यास्स्वधर्मेषु प्रवर्तन्ते निरन्तरम् ।
यतो धर्मपदे वृद्धा द्वापरं प्रतिपेदरे
युगं संशीनधर्मत्वाद्द्वापरं परिचक्षते ।
विष्णुः पीतत्वमभ्येति वेदश्चापि विभज्यते
द्विपाद्भवति वैधर्मो द्वापरे समुपस्थिते ।
द्विवेदाश्चैकवेदाश्च निर्वेदाश्च तथा परे
विभिन्नशास्त्रनिष्ठाश्च भवन्ति विविधक्रियाः ।
प्रजा दानपरा भूत्वा दानं शंसन्ति सन्ततम्
राजसं भावमाश्रित्य राजसी भवति प्रजा ।
सत्त्वात्प्रच्यवमानानां व्याधयो भृशदारुणाः
अत्याहितानि चान्यानि भवेष्यन्त्यधरोत्तरम् ।
कालस्य ह्रस्वतायोगाच्चतुर्थं स्याद्युगं कलिः
प्रत्यक्षरूपधृग्देवो न कलौ दृश्यते यतः ।
कृतादिष्विव तेनैव त्रियुगः कलिरुच्यते
पदेनैकेन वै धर्मः प्रवर्तेत कलौ युगे ।
तस्मिंस्तु समनुप्राप्ते न धर्मस्संप्रवर्तते
तामसं युगमासाद्य हरिः कृष्णत्वमेति च ।
यः कश्चिदत्र धर्मात्मा क्रियोयोगरतो भवेत्
नरं धर्मपरं दृष्ट्वा सर्वे ऽसूयां प्रकुर्वते ।
वर्णाश्रमाश्रिताचाराः प्रणश्यन्तिन संशयः
व्रताचाराः प्रणश्यन्ति ध्यानयज्ञादयस्तथा ।
उपद्रवा जनिष्यन्ति ह्यधर्मस्य प्रवर्तनात्
असूयानिरतास्सर्वे दंभाचारपरायणाः ।
प्रजाश्चाल्पायुषस्सर्वे भविष्यन्तिकलौ युगे
सर्वेधर्माः प्रणश्यन्ति कृष्णे कृष्मत्वमागते ।
यस्मात्कलिर्महाघोरस्सर्वपापस्य साधकः
ब्राह्मणाः क्षत्रिया वैश्याश्शूद्रा धर्मपराङ्मुखाः ।
घोरे कलियुगे प्राप्ते द्विजा वेदपराङ्मुखाः
व्याजधर्मपरास्सर्वे वृधाहङ्कार दूषिताः ।
सर्वमाक्षिप्यते नित्यं नरैः पण्डितमानिभिः
अहमेवाधिक इति सर्वो विवदते जनः ।
अधर्मलोलुपास्सर्वे तथा चैव द्विजातयः
अतस्त्वल्पायुषस्सर्वे भविष्यन्ति कलौ युगे ।
अल्पायुष्ट्वान्मनुष्याणां न विद्याग्रहणं भवेत्
विद्याग्रहणशून्यत्वादधर्मस्संप्रवर्तते ।
व्युत्क्रमेण प्रजास्सर्वा म्रियन्ते पापतर्पराः
ब्राह्मणाद्यास्तथा वर्णास्संकीर्यन्ते परस्बरम् ।
कामक्रोधपरा मूढा वृधाहं कारपूरिताः
बद्धवैरा भविष्यन्ति परस्परवधेप्सवः ।
जनास्सर्वे दयाहीना दाक्षिण्य परिवर्जिता
शूद्रतुल्या भविष्यन्ति तपस्सत्यविवर्जिताः ।
उत्तमा नीचतां यान्ति नीचाश्चोत्तमतां तथा
राजानो द्रव्यनिरता लोभमोहपरायणाः ।
धर्मकञ्चुकसंवीता धर्मविध्वंसकारिणः
यो यो ऽश्वरथनागाढ्यस्स स राजा भविष्यति ।
किङ्कराश्च भविष्यन्ति शूद्राणां चद्विजातयः
म्लेच्छाश्च युनाद्याश्च पालयन्ति वसुंधराम् ।
अनावृष्टिभयात्प्रायो गगनादत्तचक्षुषः
भविष्यन्ति नरास्सर्वे सदा क्षुद्भयकातराः ।
कलौ नराभविष्यन्ति स्वल्पभाग्या बहुप्रजाः
पतिवाक्यमनादृत्य सदान्यगृहतत्पराः ।
दुश्शीला दुष्टशीलेषु करिष्यन्ति स्पृहां स्त्रियः
परुषानृतभाषिण्यो देहसंस्कार वर्जिताः ।
वाचालाश्च भविष्यन्तिकलौ प्राप्ते सदा स्त्रियः
नगरेषु च ग्रामेषु प्राकाराट्टादिकान् जनाः ।
चोरादिभयभीताश्च काष्ठयन्त्राणि कुर्वते
दुर्भिक्षकरपीडाभिरतीवोपद्रुता जनाः ।
गोधूमान्नयवान्नाढ्यान् देशान् प्राप्स्यन्ति दुःखिताः
स्वकार्यसिद्धिपर्यन्तं स्निह्यन्त्यन्येषु मानवाः ।
भिक्षवश्चापि मित्रादिस्नेहसंबन्धयन्त्रिताः
अन्नोपाधिनिमित्तेन शिष्यान् गृह्णन्ति सर्वतः ।
उभाभ्यामपि हस्ताभ्यां शिरःकण्डूयनं स्त्रियः
कुर्वन्त्यो भर्तृमुख्यानामाज्ञां भेत्स्यन्त्यानादृताः ।
पाषण्डालापनिरताः पाषण्डिजनसंगिनः
भविष्यन्ति यदा विप्रा स्तदा वृद्धिमियात्कलिः ।
अल्पोदकास्तथा मेघा अल्पसस्या वसुंधरा
अल्पक्षीरास्तथा गावः क्षीरात्सर्पिर्न जायते ।
एकवर्णा भविष्यन्ति वर्णाश्चत्वार एव च
नास्ति वर्णान्तरं तत्रलयं यास्यन्ति मानवाः ।
सन्तस्सीदन्त्यसन्तश्च विलसन्तिसमन्ततः
मैत्री परजने भूयाद्वैरं च स्वजने भवेत् ।
पुत्राः पितृषु जीवत्सु म्रियन्ते च तदग्रतः
कलौ काकिणिके ऽप्यर्थे विगृह्य त्यक्तसौहृदाः ।
त्यक्ष्यन्तिहि प्रियान् प्राणान् हनिष्यन्ति स्वबान्धवान्
पाषण्डप्रचुरेधर्मे दस्युप्रायेषु राजसु ।
चौर्यानृतवृधाहिंसानानावृत्तिषु वै नृषु
शूद्रप्रायेषु वर्णेषु छागप्रायेषु गोषु च ।
करिष्यन्ति तथा शूद्राः प्रव्रज्यालिङ्गिनौऽधमाः
काषायपरिनीताश्च जटिला भक्मधूसराः ।
अशौचावक्रमतयः परपाकान्नजीविनः
देवद्विजनिवासेषु पूजामिच्छन्ति पापिनः ।
भविष्यन्ति दुरात्मानः शूद्राः प्रव्रजितास् तथा
उत्कोच जीविनस्तत्र महापापरतास्तथा ।
भविष्यन्त्यथ पाषण्डाः कापाला भिक्षवोधमाः
धर्मविध्वंसशीलानां द्विजनां राजवल्लभाः ।
शूद्रा धर्मान् प्रवक्ष्यन्ति प्रव्रज्यालिङ्गिनो ऽधमाः
गीतवाद्यपरा विप्रा वेदवादपराङ्मुखाः ।
भविष्यन्ति कलौ प्राप्ते शूद्रमार्ग प्रवर्तिनः
हर्तारो न च दातारोभविष्यन्ति कलौ युगे ।
विश्वासहीनाः पिशुना वेददेवद्विजातिषु
असंस्कृतो क्तिवक्तारो रागद्वेषपरास्तथा ।
परमायुश्चतेषां स्यात्तदा वर्षाणि षोडश
पञ्चमे वाथःवष्ठे वा वर्षेकन्या प्रसूयते ।
सर्त्पवर्षाष्टवर्षाश्च प्रसूयन्ते तथा नराः
स्वकर्मत्यागिनस्सर्वे कृतघ्ना भिन्नवृत्तयः ।
याचकाः पिशुनाश्चैव भविष्यन्ति कलौ युगे
परावमाननिरता आत्मस्तुतिपरायणाः ।
परस्वहरणोपायचिन्तकाः सर्वदा नराः
निन्दां कुर्वन्ति सततं पितृमातृकुलेषु तु ।
वदन्ति वाचा धर्मांश्च चेतसा पापलोलुपाः
छादयन्ति प्रयत्नेन स्वदोषं पापकर्मजम् ।
अपापे दुष्कृतं सम्यग्विवृण्वन्ति नराधमाः
धर्ममार्गप्रवक्तारं तिरस्कुर्वन्ति पापिनः ।
भविष्यन्ति कलौ प्राप्ति राजानो म्लेच्छजातयः
द्विजाश्च क्षत्रिया वैश्याः शूद्राश्चान्याश्च जातयः ।
अत्यन्तकामिनस्सर्वे संकीर्यन्ते परस्परम्
न शिष्यो न गुरुः कश्चिन्न पुत्रो न तथा पिता ।
न भार्या न पतिस्तत्र भविता सर्वसंकरः
कलौ च ते भविष्यन्ति धनाढ्या अपि याचकाः ।
रसविक्रयिणश्चापि भविष्यन्ति कलौ युगे
धर्मपत्नीषु यच्छन्ति पतयो जारलक्षणम् ।
द्विष्यन्ति पितरं पुत्रा गुरुं शिष्याद्विषन्ति च
पतिं च वनिता द्वेष्टि कलौ प्राप्तेन संशयः ।
लोभाभिभूतमनसस्सर्वे दुष्कर्मशालिनः
परान्नलोलुपा नित्यं भविष्यन्ति द्विजातयः ।
परस्त्रीनिरतास्सर्वे परद्रव्यपरायणाः
मर्त्यामिषेण जीवन्ति दुहन्तश्चाप्यजाविकान् ।
सरित्तीरेषु कुद्दालैरोपयिष्यन्ति चौषधीः
अत्यल्पानि फलान्यासां भविष्यन्ति कलौ युगे ।
वेश्यालावण्यशीलेषु स्पृहां कुर्वन्ति योषितः
धर्मविघ्ना भविष्यन्ति स्त्रियश्च पुरुषेषु च ।
न कन्यां याचते कश्चिन्न च कन्याप्रदो नरः
कन्या वरांश्च छन्देन ग्रहीष्टन्ति परस्परम् ।
प्रायशः कृपणानां च बन्धूनां च तधा द्विजाः
साधूनां विविधानां च वित्तान्यपहरन्ति च ।
न यक्ष्यन्ति न होष्यन्तिन तपस्यन्ति वै जनाः
नैव दास्यन्ति दानादि नार्ऽचयिष्यन्ति वा हरिम् ।
न धर्मे निविशिष्यन्ति हेतुवादकथाश्रयाः
अपात्रेष्वेव दानानि कुर्वन्ति च तथा नराः ।
क्षीरोपाधिनिमित्तेन गोषु प्रीतिं प्रकुर्वते
न कुर्वन्ति तथा विप्राः स्नानशौचादिकाः क्रियाः ।
अकालकर्मनिरताः कूटयुक्तिविशारदाः
देवनिन्दापराश्चैव विप्रनिन्दापरास्तथा ।
त्यक्तपुण्ड्रशिखासूत्राश्चरिष्यन्तिद्विजातयः
विष्णुभक्तिपरं न स्यान्मनः कस्यापि जातु चित् ।
देवपूजापरं दृष्ट्वा सर्वे परिहसन्ति च
शास्त्रोदिताश्च ये देवाःपरिवारा मधुद्विषः ।
तान् परित्यज्य मोहेन नराः कालबलात्कृताः
हेतुवादपरान् देवान् करिष्यन्त्यपरां स्तदा ।
निर्बध्नन्ति द्विजानेव करार्थं राजकिङ्कराः
नाद्रियन्ते द्विजानन्ये कलौ पापसमाकुले ।
दानयज्ञ जपादीनां विक्रीणन्ते फलं द्विजाः
प्रतिग्रहं च कुर्वन्ते चण्डालादेरपि द्विजाः ।
शूद्रस्त्रीमङ्गनिरता विधवासंगलोलुपाः
रजस्स्वलानां वोढारो भविष्यन्ति कलौ युगे ।
शूद्रान्न पाननिरताः शूद्रप्राया भवन्ति च
अट्टशूलाजनपदाः शिवशूलाश्चतुष्पथाः ।
प्रमदाः केशशूलिन्यो भविष्यन्ति कलौ युगे
कुहकाश्च जनास्तत्र हेतुवादविशारदाः ।
पाषण्डिनो भविष्यन्ति तिष्टन्त्याश्रमनिन्दकाः
न च द्विजातिशुश्रूषां सर्वधर्मनिवर्तिनीम् ।
गृहप्रायेष्वाश्रमेषु योगिप्रायेषु बन्धुषु
ततश्छानुदिनं धर्मस्सत्यं शौचं दया क्षमा ।
कालेन बलिना सर्वं नश्यत्यायुर्बलं स्मृतिः
वीत्तमेव कलौ नॄणां जन्माचारगुणोदयम् ।
दांपत्ये ऽभिरुचिर्हेतुर्मायैव व्यवहारके
धर्मन्यायव्यवस्थानां कारणं बलमेव हि ।
स्त्रीत्वमेवोपभोगे स्वाद्विप्रत्वे सूत्रमेव हि
लिङ्गमेवाश्रमख्यातावन्यायो वृत्तिकारणम् ।
अवृत्तौ चापि दौर्बल्यं पाण्डित्ये चाफलं वचः
स्वीकार एव चोद्वाहे स्नानमेवाशुचौ स्मृतम् ।
उदरंभरिता स्वार्थेसत्यत्वे धार्ष्ट्यमेव हि
दाक्ष्ये कुटुंबभरणे यशोर्थे धर्मसेवनम् ।
इत्थं कलियुगे प्राप्ते धर्मस्सर्वो ऽपि जीर्यते
यदा मायानृतं तन्द्रा निद्रा हिंसा विषायनम् ।
शोको मोहो भयं दैन्यं स कलिस्तामसःस्मृतः
यदायदा सतां हानिर्वैदिकानां द्विजन्मनाम् ।
तदा तदा कलिंप्राप्तमवबुद्ध्येत पण्डितः
अहो दुःखमहोदुःखमहोदुःखमहो महत् ।
स्वरूपमतिभीमस्य संसारस्य सुदुर्भरम्
विण्मूत्रपूयकलिते गर्भवासे निपीडनात् ।
अशुचावतिभीभत्से दुःखमत्यन्तदुस्सहम्
दुःखं च जायमानानां गात्रभङ्गादिपीडने ।
वातेन प्रेर्यमाणानां मूर्छनायातिभीतिदम्
बालके निर्विवेकानां भूतदैवात्मसंभवम् ।
यौवने वार्धके चैव मरणे चाति दारुणे
एकौत्तरं मृत्युशतं देहे ज्ञेयं प्रतिष्ठितम् ।
तत्रैकः कालसंज्ञः स्याच्छेषास्त्वागन्तुकाःस्मृताः
ये चात्रागन्तुकाः प्रोक्तास्ते तु शाम्यन्ति भेषजैः ।
जपहोमप्रदानैश्च कालमृत्युर्न शाम्यति
विविधा व्याधयश्शस्त्रं सर्पाद्याः प्राणिनस् तथा ।
विषाणि चाभिचाराश्च मृत्योर्द्वाराणि देहिनाम्
नौषधं न तपो दानं न मन्त्रान च बान्धवाः ।
शक्नुवन्ति नरं त्रातुं कालमृत्युप्रपीडितम्
रसायनतपोजप्ययोगसिद्धैर्महात्मभिः ।
कालमृत्युरपि प्राप्तो जीयते ऽनलसैर्नरैः
नास्ति मृत्युसमं दुःखं नास्ति मृत्युसमं भयम् ।
सद्भार्यां पुत्रमित्राणि राज्यैश्वर्यसुखानि च
आबद्धानि च वैराणि मृत्युस्सर्वं विनाशयेत् ।
यद्दुःखं मरणे जन्तोर्न तस्येह समं क्वचित्
मण्डूक इव सर्पेण ग्रस्यते मृत्युना जगत् ।
बान्धवैश्च परिष्वक्तः प्रियैश्च परिवारितः
निश्श्वपन् दीर्घमुष्णं च मुखेन परिशुष्यता ।
चतुर्ष्वन्तेषु खट्वायाः परिवृत्य मूहुर्मुहुः
सम्मूढः क्षिपते ऽत्यर्धं हस्तपादमितस्ततः ।
खट्वाया वाञ्छते भूमिं भूमेः खट्वां ततो महीम्
विवस्त्रस्त्यक्तलज्जश्च मूत्रविष्ठापरिप्लुतः ।
याचमानश्च सलिलं शुष्ककण्ठास्यतालुकः
चिन्तयानश्चवित्तानि कस्यैतानिमृतेमयि ।
नखाग्रैश्च स्पृशन् भूमिं कालपाशेन कर्षितः
म्रियते पश्यतामेव गले खुरखुरायते ।
जीवस्तृणजलूकावद्देहाद्देहं विशेदसौ
संप्राप्योत्तरवंशे च तनुं त्यजति पौर्विकीम् ।
देहभेदेन यः पुंसां वियोगः कर्मसंक्षयात्
मरणं तद्विनिर्दिष्टं न नाशः परमार्थतः ।
जायते म्रियते चैवं कर्मभिः स्वयमार्जितैः
शीतोष्णतृष्णाक्षुद्रोग्रज्वरादिपरिवारितः ।
सर्वदैवपुमानास्ते यावज्जन्मान्त संस्थितिः
दुःखातिशयभूतं हि यदन्ते नासुखं नृणाम् ।
तस्योपमानं नैवास्ति कार्येणैवानु मीयते
कृष्यमाणस्य पुरुषैर्यद्यमस्यातिदुस्सहम् ।
दुःखं तत्संस्मृतिं प्राप्तं करोति मम वेपथुम्
ततश्चैव पुनस्तस्य योनिसंक्रमणे च यत् ।
गर्भस्थस्य च यद्दुःखमतिदुस्सहमुल्बणम्
पुनश्च जायमानस्य बाल्ययौवनजं च यत् ।
दुःखान्येतान्यनन्तानि संसारान्तरवर्तिभिः
पुरुषैरनुभूयन्ते सुखभ्रान्तिविमोहितैः ।
न वै सुखकला काचिदत्रास्त्यत्यन्तदुःखदे
संसारसंकटे संगमुपेतानां कदा चन ।
विषयासक्तमनसस्सततं पामरा जनाः
न मतिं कुर्वते विष्णौ सर्वलोकेश्वरेश्वरे ।
अथापि नात्र बिभ्यन्ति वैष्णवा भगवत्प्रियाः
विष्णुध्यानपरास्सन्तो विष्वर्चनपरायणाः ।
ते विष्णुसदृशा ज्ञेया न हि तान् बाधते कलिः
मायेयं वैष्णवी भूयः पातयेत्प्राणिनस्तदा ।
दुस्तरापि भवेत्साध्या यैर्न्यस्तं माधवेमनः
असंत्यज्य च गार्हस्थ्यमतप्त्वा चतथा तपः ।
छिनत्ति वैष्णवीं मायां केशवाराधने रतः
विषयानविरोधेन सेवमानो ऽपि माधवम् ।
अर्चयानस्तरन्त्येनां विष्णुमायां दुरत्ययाम्
यत एवमतो लब्ध्वाशरीरं कर्मसाधनम् ।
शुभं कर्मैव कर्तद्यं तत्प्रसादाय मानवैः,
प्रसादिते ऽस्मिन् सर्वेषां स्ववर्णाश्रमकर्मभिः ।
सर्वेहस्तगताः कामा मुक्तिश्चान्ते करस्थिता
कार्यार्था मूर्तयस्तस्य लोककल्याणकारकाः ।
अतस्साकारमेवेष्ट्वा भक्त्येमं सिद्धिमाप्नुयात्
इदं च शास्त्रमालंब्य पूजयेद्विष्णुमव्ययम् ।
यद्ध्यानं केवलं प्रोक्तं शास्त्रे क्वचिदनाश्रयम्
न तत्रेन्द्रियदौर्बल्यात्कर्मस्थस्याधिकारिता ।
यथा गिरितटाग्रस्थवनस्पतिफलेच्छया
उपाये वर्तते ऽश्रान्तस्तथासौ यत्नमाचरेत् ।
सर्वत्र क्रमवान् यत्नःकार्यो नैच्छैव केवला
तत्कायवाङ्मनोयोगैःक्रमादिच्छेत्परां गतिम् ।
निराकारेतु या भक्त्या पूजेष्टा ध्यानमेव वा
रमणीयमिवाभाति तदनर्थस्य कारणम् ।
स्थूलभावप्रसंदीनि जन्मनास्येन्द्रियाणि तु
सूक्ष्माच्छ न प्रपद्यन्ते चिराच्च किमुताचिरात् ।
न च रूपं विना दोवो ध्यातुं केनापि शक्यते
सर्वरूपनिवृत्ता हि बुद्धिः कुत्रास्य तिष्ठति ।
निवृत्ताग्लायते बुद्धिर्निद्रयाहि परीयते
तस्माद्विद्वानुपासीत बुद्ध्या साकालमेव तम् ।
अस्तितस्य परोक्षं तदिति किञ्चिदनुस्मरेत्
सर्वधाकारमुद्दिष्टं न परित्यज्य पण्डितः ।
परं देवमुपासीत मुक्तये वा फलायवा
भक्त्याकृतेनार्चनेन तुष्टोदेवः प्रजापतेः ।
पूजाद्यनुग्रहाया ऽदावाविर्भूतश्चतुर्भुजः
तस्मात्तेनैव रूपेण ह्रिया लक्ष्म्या समायुतः ।
ध्येयस्सेव्योर्ऽचनियश्च सदा नारायणो बुधैः
साकारे ऽस्मिन् कृता पूजा स्तुतिर्वा ध्यानमेव वा ।
विधिना शास्त्रदृष्टेन तस्मिन्नेव कृता भवेत्
तदेवाराधनं विष्णोरवज्ञातं विशेषतः ।
ख्यापनार्थं कलौ कश्चिद्भविष्यति महामतिः
धर्मग्लानिरधर्मस्य वृद्धिर्यावद्भविष्यति ।
तावव्भर्ता महाविष्णुः सृजत्यात्मानमात्मना
श्रीनिवासे जनावाने श्रीनिवासः स्वयं हरिः ।
श्रीनिवासस्समाख्यातो भूमाववतरिष्यति
उत्पत्स्यमान एवासौ भ्राजमानस्स्वतेजसा ।
जगदावरणं क्रूरं तमः पुञ्जं हनिष्यति
पञ्चहायन एवाथ प्राप्तसर्वकलाकुलः ।
संस्कृतो ऽखिलसंस्कारैर् ब्रह्मवर्चससेवितः
सर्वलोकेश्वरं देवं श्रीनिवाकं श्रियः पतिम् ।
चतुर्भुजमुदाराङ्गं दिव्याभरणभूषितम्
श्रीवत्सांकं महाबाहुं शङ्खचक्रगदाधरम् ।
किरीटमुकुटोपेतं वरदाभयचिह्नितम्
हैमोर्ध्वपुण्ड्रलावण्यलसद्वदनपङ्कजम् ।
वैखानसैर्महाभागैरर्च्यमानं निरन्तरम्
कृतास्पदं कलियुगे तदीयं कुलदैवतम् ।
"अरायि काणऽऽ इत्याद्यैश्श्रुतिवाक्यैरभिष्टुतम्
"रयिः ककुद्माऽऽनित्याद्यैर्मन्त्रैर्वैखानसैः परैः ।
इज्यमानं विशेषेण विविधैः पारमात्मिकैः
कल्याणगुणसंपूर्णं दिव्यमङ्गलविग्रहम् ।
स्वयंव्यक्तं परञ्ज्योतिः परं ब्रह्म परात्परम्
विधिना शास्त्रदृष्टेन देवमाराधयिष्यति ।
प्रसादसुमुखो देवस्स्वात्मभूते शिशौ स्वयम्
अवनम्य च मूर्धानं गृहीष्यति गले स्रजम् ।
दिव्यैःप्रसन्नैर्ग्रथितां कुसुमैस्तुलसीदलैः
स्वयं सार्धं कुमारेण हवींषि च भुजिष्यति ।
संतुष्टेन कुमारेण प्रार्थितः करुणानिधिः
वैखानसैर्महाभागैरुपेतैः सह मन्दिरे ।
हवींष्यशिष्यत्यध्यक्षं कुमारं सान्त्वयिष्यति
अर्चावतारमहात्म्यं लोकेभ्यःख्यापयिष्यति ।
देवोर्ऽचकपराधीनः सर्वं तेभ्यः करिष्यति
तथा सम्मानितः प्रेम्णा श्रीनिवासेन सादरम् ।
यज्ञैर्बहुविधैर् अन्यैर्यज्ञेशं संयजिष्यति
विशाले बहुसंस्कारसंकुले वसुधातले ।
स्थापयिष्यति विष्ण्वर्चां ग्रामे ग्रामे गृहे गृहे
पुराणि च जनावासा गृहाणि गृहिणां तथा ।
मन्दिरैरिन्दिरेशस्य सुन्दरैर्नतिभन्धुरैः
मण्डितानि भविष्यन्ति जगत्तत्त्वं भजिष्यति ।
इत आचार्य निर्देश इतश्शिष्योपसर्पणम्
इहैव गृहिणां भूयः प्रसंग इह मन्त्रणम् ।
अचार्यवरणं चेह शिल्पिनामिह मार्गणम्
इह प्रस्तरसंग्राह इह दारुग्रहस्तथा ।
इह दिक्साथनं चैह वसुधासंपरीक्षणम्
इतो मङ्गलघोषश्च इतःपुण्याहवाचनम् ।
इत आद्येष्टकान्यास इतो मूर्धेष्टकाविधिः
इतश्शूलग्रहश्चेत इतो वैरज्जुबन्धनम् ।
इतश्च मृत्स्नासंस्कार इतो वर्णविलेखनम्
इतो मधूच्छिष्टविधिरितो ऽलङ्कारकल्पनम् ।
इतो ध्वजस्य निर्माणमितो भक्तसमागमः
इतःप्रतिष्ठासंकल्प नातो नयनमोक्षणम् ।
इतो ऽधिवासनं चेतो प्रभूतबलिदापनम्
इतो ऽग्निमन्थनं चेतो होम आनन्दवर्धनः ।
इह गीतं नृत्तमिह वाद्यं श्रुतिमनोहरम्
इह प्रतिष्ठा देवस्य इह च द्विजभोजनम् ।
इह कालोत्सवश्चेह धनुषि प्रातरुत्सवः
मुद्गान्नस्य गुडान्नस्य प्रसादस्य निवेदनम् ।
अद्योत्तिष्ठति वैकुण्ठः शयितः क्षीरसागरे?
अद्य व्रतस्यापवर्गो संशितस्स भुवो हरेः ।
अद्य वैवाहिकं देव्याव्रतान्ते लोकमङ्गलम्
अद्य पौषी पूर्णिमाहोचाद्य चैकादशी शुभा ।
अद्य देवस्य कुर्यन्ति स्नपनं कलशैश्शतैः
अद्य दाशरथिर्जातो द्वादशी माघसंभवा ।
अद्य चाता जगन्माता फाल्गुने रेवती तिथौ
अद्यकुर्वन्ति देवस्य दमनोत्सवमीश्वराः ।
चैत्रमासस्त देवस्य महाप्रीतिकरः किल
कुर्वन्ति मनुजाधीशा वसन्ते दिव्यमुत्सवम् ।
जलक्रीडोत्सवो ह्यद्य चैत्रयात्रा हरेःक्वचित्
केतकीमालतीजातीमल्लिकादोलिकोत्सवः ।
गन्धोत्सवो ऽद्य क्रियते पौर्णमासी कदा दिनम्
कदा चैकादशी पुण्या कदा वा द्वादशीतिधिः ।
कदा नृसिंहस्संजातः स्मृतमद्यत्रयोदशी
वैशाखे शुक्लपक्षे तु क्रियते वार्षिकोत्सवः ।
कदा भवेत्पौर्णमासी क्रियते चन्द्रिकोत्सवः
कदा ज्येष्ठोत्सवो भूयात्कदा वा पूर्णिमा शुभा ।
प्रपोत्सवः कदा भूयादाषाढी च भविष्यति
कदा च श्रवणं भूयान्नक्षत्रं यत्र मारुतिः ।
रामसेवाधुरं धृत्वा जातस्साक्षान्महामतिः
कदा च श्रावणी भूयाद्यत्र नारायणो हरिः ।
स्वात्मानं जनयामास लोककल्याणहेतवे
वैखानसं विखनसं विरिञ्चमिति यं विदुः ।
कदा भाद्रपदो मासस्तत्र चैकादशी भवेत्
कदा वा द्वादशी भूयात्सर्वपाप प्रणाशिनी ।
तिलधेनुं प्रदास्यन्ति यत्र देवस्य सन्निधौ
कदाश्विनो भवेन्मासस्तत्रापि दशमी शुभा ।
अश्वयात्रा हरेर्भूयादनुयास्यामहे हरिम्
कदा भवेदमावास्या यस्यां स नरकोहतः ।
कदा वा कार्तिकोमासो भविष्यति हरिप्रियः
दीपारोपो भवेत्तत्र कदा वा कार्तिकी शुभा ।
कदायुगादय स्तद्वत्पुण्यकाला विशेषतः
कदा भविष्यति हरे रथयात्रा महात्मनः ।
कदा वा गजयात्रा स्यात्कदा वीशाधिरोहणम्
कदा भ्रमति देवेशो ग्रामवीथिषु सुन्दरम् ।
कदा लभिष्टति हरेस्तीर्थं परमपावनम्
कदा प्रसादं देवस्य कणस्यापि लभिष्यति ।
कदा शङ्खरथाङ्गादिदिव्यलाञ्छनलाञ्छिता
पादुका देवदेवस्य संस्करिष्यति मे शिरः ।
कदा वा तुलसीं पुण्यामर्पितां तस्य पादयोः
अश्नामि शिरसा चैव धारयिष्यामि वैष्णवीम् ।
कदा वा पुण्यपुष्पाणामेकं देवसमर्पितम्
शिरसा धारयिष्यामि जिघ्रामि भहुगन्धवत् ।
देवदेवस्य द्रक्ष्यामि कदा सर्वाङ्गसुंदरम्
आपादमौलिपर्यन्तं लावण्यमधुरं वपुः ।
इत्यादिकाः कथास्तत्र भविष्यन्ति प्रजासु च
सर्वे धर्मपरास्सर्वे नारायण परायणाः ।
अर्चने वासुदेवस्य भविष्यन्ति रता नराः
इत्येव कालं कालेयं गुरुरुज्जीवयिष्यति ।
श्रीनिवासं श्रियोवासमर्चिष्यति चिरं भुवि
पाषण्डोपप्लुतं धर्ममुद्धरिष्यति वैष्णवम् ।
इदं च भगवच्छास्त्रं चिरस्थायि करिष्यति
सर्वतन्त्रस्वतन्त्रो ऽसौ बहून् ग्रन्धान् प्रणेष्यति ।
असंख्येभ्यश्च शिष्येभ्यस्तत्तार्थमुपदेक्ष्यति
धर्मव्यवस्थां कृत्वैवं कलावतिभयङ्करे ।
समेष्यति परं स्थानं तद्विष्णोः परमं पदम्
युगान्ते च पुनर्नामहरेर्नैको गृहीष्यति ।
तदा हरिर्महावीरः कल्की नाम भविष्यति
अधर्मनिधनं कृत्वा धर्मं संस्थापयिष्यति ।
हरेर्दिव्यावताराणामवतारकथामिमाम्
यः पठेच् छ्रुणुयाद्वापि सो ऽपि यास्यति सद्गतिम् ।
धन्यास्ते पुरुषश्रेष्ठा दुरन्ते भवसागरे
ये नामापि कलौ विष्णोस्स्मरिष्यिन्त्यव्ययात्मवः ।
ध्यायन् कृतयुगे विष्णुं त्रेतायां दापरे यजन्
यत्तत्फलमवाप्नोति कलौ स्मरणमात्रतः ।
हरेर्हरति पापानि नामसंकीर्तितं सकृत्
पाषण्डबहुले लोके कलावतिभयङ्करे ।
तन्नामकीर्तयेद्यस्तु तं विद्यात्कृतिनां वरम्
तस्मात्सर्वप्रयत्नेन भक्त्या परमया युतः ।
समूर्ताराधनं कुर्यान्नान्यथा मुक्तिमाप्नुयात्
नाथमाद्यैस्तु नवभिरध्यायैरीड्यते क्रमात् ।
भूपरीक्षादिकर्माणि विमानानां च कल्पनम्
विविधानां च बेराणां निर्माणविधिविस्तरः ।
दशमे नांकुरारोपः पश्चाद्द्वाभ्यामुदीरितः
प्रतिष्ठा विधिरत्यन्त फलदो जगतः पतेः ।
पश्चाद्दशावताराणां चतुर्भिः प्रोच्यते विधिः
तथा सप्तदशे चोक्त आदिमूर्ति विधिस्ततः ।
अष्टादशेर्ऽचनं सांगमुक्तं मधुविदारिणः
द्वाभ्यामुक्तस्ततो पूजाद्रव्य संग्रहण क्रमः ।
एकविंशे विशेषार्चाविधिस्सम्यगुदीरितः
द्वाविंशेस्नपनं चोक्तं त्रयोविंशे विशेषतः ।
विधिरुत्सवचक्रस्य प्रोक्तो द्वाभ्यामथोत्सवः
ततश्च षड्भिरध्यायैः प्रायश्चित्तस्य विस्तरः ।
प्रोक्तस्ततश्च द्वात्रिंशे संकीर्णंशा उदीरिताः
अर्चावतारमहिमा त्रयस्त्रिंशे प्रकीर्तितः ।
स्वयंव्यक्तादिभेदश्च चतुस्त्रिंशे प्रकाशितः
पञ्चत्रिंशे तु संप्रोक्तं क्रियायोगाश्रितं फलम् ।
षट्त्रिंशेत्वपचाराश्च कथिता देवकोपनाः
कलिधर्माश्च संप्रोक्तास्सप्तत्रिंशे विशेषतः ।
सप्तत्रिंशद्भिरध्यायैरेवं गुरुकृपाबलात्
षड्भिः सहस्रैः श्लोकैस्तु क्रियाङ्गमुपवर्णितम्
मूल पाठ: Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0