भाषा

ENहिગુ
ग्रंथ पाठ

भृगुसंहिता · अध्याय 33

33.1

इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे. द्वात्रिंशो ऽध्यायः.
अथत्रयस्त्रिंशो ऽध्यायः.
अर्चावतारमहत्त्वम्.
अथ वक्ष्ये विशेषेण देवदेवस्य शार्ङ्गिणः ।
पञ्चधावस्थितं रूपं परव्यूहादिभेदतः

33.2

अनुग्रहाय लोकानां भक्तानामनुकंपया ।
परव्यूहादिभेदेन देवदेवः प्रवर्तते

33.3

आद्येन पररूपेण व्यूहाख्येनेतरेण तु ।
तथाविभवरूपेण नानाभावमुपेयुषा

33.4

अन्तर्यामिस्वरूपेण चतुर्थेन तथा पुनः ।
अर्चावताररूपेण पञ्चधावस्थितो हरिः

33.5

अनौपम मनिर्देस्यं पुनस्स भजते परम् ।
विश्वाप्यायनकं कान्त्या पूर्णेन्द्वयुतुल्यया

33.6

परन्धाम परञ्ज्योतिस्सर्वशक्तिमयो ऽमलः ।
निर्द्वन्द्वो निर्विकल्पो ऽच्छोनित्यो ऽचिन्त्यस्सनातनः

33.7

अप्रमेयो निराद्यन्तो दृश्यो ऽदृश्यो ह्यतीन्द्रियः ।
सुसूक्ष्मत्वादनिर्देश्यस्सर्वज्ञस्सदसद्विभुः

33.8

आनादिमत्परं ब्रह्म सर्वहेयविवर्जितम् ।
व्यापि यत्सर्वभूतेषु स्थितं सदसतोः परम्

33.9

शङ्खचक्रगदापद्मदिव्यायुधपरिष्कृतः ।
सहस्रादित्यसंकाशे पकमे व्योम्नि संस्थितः

33.10

नित्यमुक्तैकसंभाव्यश्चतुर्भुजधरोहरिः ।
अन्यूनानतरिग्तैस्स्वैर्गुणैष्षड्भिरलङ्कृतः

33.11

समस्समविभक्ताङ्गस्सर्वावयवसुन्दरः ।
दिव्यैराभरणैर्युक्तस्सुधाकल्लोलसंकुलैः

33.12

श्रिया नित्यानपायिन्या सेव्यमानो जगत्पतिः

33.13

पञ्चधातु पुनर्व्यूहः प्रोच्यते श्रुतिसम्मतः ।
देवो विष्ण्वादिभेदेव पञ्चधा व्यवतिष्ठते

33.14

स वा एष पुरुषः पञ्चधा पञ्चात्मेति च श्रुतिः ।
तथा पोपूयमानः पञ्चभिस्स्वगुणैरिति

33.15

आदिमूर्तिस्तु पञ्चानां विष्णुर्भेदाश्च तस्यतु ।
चतस्रः पुरुषाद्यास्स्युर्मूर्तयो भिन्नलक्षणाः

33.16

तद्विष्णोश्श्रमापनुदाय चतुर्गुणाऽऽयेति चश्रुतिः ।
तस्माद्ब्रह्म चतुष्पादित्युच्यते वेदवेदिभिः

33.17

पादादर्धात्त्रिपादाच्च केवलाच्छक्तिभेदतः ।
क्रमेण धर्मज्ञानैश्वर्यवैराग्याख्यैर्गुणैर्युताः

33.18

भवन्तिमूर्तयस्तस्माच्चतस्रो विषयैर्निजैः ।
चातुरात्म्यादादिमूर्तेश्चतस्रस्तत्रमूर्तयः

33.19

विष्णुश्चैव महाविष्णुस्सदाविष्णुरिति क्रमात् ।
व्यापी नारायण इति तन्नामानि ततःक्रमात्

33.20

विष्णोरंशस्तु पुरुषो महाविष्णोस्तु सत्यकः ।
सदाविष्णोरच्युतस्स्याद्य्यापिनो ऽंशो ऽनिरुद्धकः

33.21

धर्मादिभिर्ब्रह्मगुणैश्चतुर्धाभेद ईरितः ।
तृतीयं विभवाख्यन्तं विश्वमन्तरमध्यमम्?

33.22

नानाकारक्रियाकर्तृ रूपं वक्ष्ये महात्मनः ।
विभवा मत्स्यकूर्माद्या हयग्रीवादयो मताः

33.23

अन्तर्यामिस्वरूपं तु तुरीयमिदमुच्यते ।
नीवारशूकवत्तन्वी पीताभा स्यात्तनूपमा

33.24

तस्याश्शिखाया मध्ये परमात्मा व्यवस्थितः ।
इत्युक्तश्श्रुत्यभिहितो हृदयांबुजमध्यमे

33.25

ज्वलन्महाग्नौ विश्वार्चिर्ज्वालान्ते विश्वतो मुखे ।
आपादतलचूडाग्रं सन्तापयति सन्ततम्

33.26

शिखा तत्र च पीताभा तन्वी नीवारशूकवत् ।
मध्ये शिखायास्तस्याश्च ज्योतिः प्रज्वलितं महत्

33.27

स्वसंकल्पविशेषेण तप्तजांबूनदप्रभः ।
पीतांबरधरस्सौम्यस्सुप्रसन्नश्शुचिस्मितः

33.28

पद्माक्षो रक्तनेत्रास्यपाणिपादश्चतुर्भुजः ।
चक्रशङ्खाभयधरः कटिन्यस्तान्यहस्तकः

33.29

श्रीवत्सांको महाबाहुस्सर्वाभरणभूषितः ।
हृदि तिष्ठति सर्वात्मा श्रीभूमिभ्यां च पार्षदैः

33.30

भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ।
अन्तर्यामीति विज्ञेयस्सर्वकारणकारणः

33.31

अन्यदर्चास्वरूपं तु सर्वोत्तरफलप्रदम् ।
नित्यमुक्तोपभोग्यत्वात्परव्यूहात्मनोहरेः

33.32

तत्कालसन्निकृष्टैकलक्ष्यत्वाद्विभवात्मनः ।
विशुद्धैर्योगसंसिद्धैश्चिन्त्यत्वादन्तरात्मनः

33.33

अर्चात्मन्येव सर्वेषामधिकारो निरङ्कुशः ।
विशेषभक्तिहेतुत्वात्प्रतिमाराधनं परम्

33.34

अर्चावतारस्सर्वेषां बान्धवो भक्तवत्सलः ।
अर्चावतारविषये मयाप्युद्देशतस्तथा

33.35

उक्ता गुणा न शक्यन्ते वक्तुं वर्षशतैरपि ।
विचित्रा देहसंपत्तिरीश्वराय निवेदितुम्

33.36

कल्पिता ब्रह्मणा पूर्वं हस्तपादादिसंयुता ।
मुधैव जिह्वा कृष्णेति केशवेति न वक्ष्यति

33.37

मुधा चित्तं नतद्गामि यदन्यत्किमितो ऽधिकम् ।
सा जिह्वा या हरिं स्तौति तच्चित्तं केशवार्पितम्

33.38

तत्कर्मचार्चनं तस्य तदन्यत्तु निरर्थकम् ।
सत्तामात्रं परं ब्रह्म विष्ण्वाख्यमविशेषणम्

33.39

दुर्विचिन्त्यं यतःपूर्वं तत्प्राप्त्यर्थमिहोच्यते ।
वातोर्मिचञ्चलं चित्तमनालंबनमस्थिरम्

33.40

सूक्ष्मत्वाद्ब्रह्मणो ऽजस्य निग्राह्यं ग्राह्मधर्मणः ।
सम्यगभ्यस्यतो ऽजस्रमुपबृंहितशक्तिमत्

33.41

जन्मान्तरशतस्यापि ब्रह्मग्राह्येव जायते ।
यद्यस्तरायदोषेण नापकर्षो विचिन्त्यते

33.42

योगिनो योगरूढस्य तालाग्रात्पतनं यथा ।
तदाप्नोति परं ब्रह्मक्लेशेन महतापि च

33.43

जन्मान्तराभ्यासोद्धेन विज्ञानेन समाधिना ।
विष्ण्वाख्यं ब्रह्मदुष्प्रापं विषयाक्रान्तचेतसा

33.44

मनुष्येणाल्पसारेण तत्प्राप्तौ साधनं त्विदम् ।
सुरूपां प्रतिमां विष्णोः प्रसन्नवदनेक्षणाम्

33.45

कृत्वात्मनः प्रीतिकरीं सुवर्णरजतादिभिः ।
तामर्चयेत्तां व्रणमेत्तां नमेत्तां विचिन्तयेत्

33.46

विशत्यपास्तदोषस्तु तामेव ब्रह्मरूपिणीम्

मूल पाठ: Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc