भाषा

ENहिગુ
ग्रंथ पाठ

भृगुसंहिता · अध्याय 14

14.1

इति श्रीवैखानसे
भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
प्रकीर्णाधिकारे त्रयोदशो ऽध्यायः.
अथ चतुर्दशो ऽध्यायः.
अथ चतुर्दशो ऽध्यायः.
दशावतारकल्पः (वामनः)
अथातस्संप्रवक्ष्यामि वामनस्य क्रमं यथा ।
वैरोचनसुतोह्युग्रो बली च बलिनां वरः

14.2

तद्बलस्यापहारार्थं काश्यपाज्जायते हरिः ।
हरिर्वामनरूपो ऽभूच्छत्री दण्डी च वेदवित्

14.3

वटबीजेन सदृशः केवलं सूत्रदण्डभृत् ।
वर्तमाने महायज्ञे बलेर्वैरोचनेः पुरा

14.4

तद्यज्ञशालां संप्राप्य वटुरूपो महाहरिः ।
त्वं देहि त्रिपदीं मह्यं गामित्यूचे स्वमायया

14.5

बलिश्च त्रिपदं तस्मैप्रादात्तोयसमन्वितम् ।
हस्तेजले पतत्याशु भद्रं रूपमवाप्य च

14.6

देवस्त्रैविक्रमं रूपं सर्वं लोकं तदाग्रहीत् ।
त्रिविक्रमप्रतिष्ठायां विशेषस्संप्रवक्ष्यते

14.7

वसन्त्विमाने वा भद्रके हस्तिभद्रके (?) ।
दीर्घशारे महाकूटे स्थापनं सर्वसिद्धिदम्

14.8

दशतालेन मानेन देवदेवं प्रकल्पयेत् ।
सव्यं पादं स्थितं कुर्याद्दक्षिणं चोद्थितं भवेत्

14.9

चतुर्भुजं प्रकुर्वीत संयुतं वाष्टभिर्भुजैः ।
दक्षिणे शार्ङ्गमालंब्य भूम्यां चैव प्रस्र्य च

14.10

शरं च दक्षिणे हस्ते खड्गं चैव तथा भवेत् ।
गदा वामकरे प्रोक्ता तथा खेटकमेव च

14.11

चक्रशङ्खेतथा कुर्यादूर्ध्वबाहोर्विचक्षणः ।
एवमेव प्रकुर्वीत वसुहस्तं प्रकल्पयन्

14.12

सस्यश्यामनिभं कुर्याद्धर्ष वेगसमन्वितम् ।
सर्वाभरण संयुक्तं कीरीटादिविभूषितम्

14.13

इन्द्रं सस्यनिभं कुर्याद्वामपार्श्वे च सुस्थितम् ।
दक्षिणे धर्मराजं च पुष्पमालाधरं पुनः

14.14

दक्षिणे भित्तिपोर्श्वे तु ब्रह्माणं च प्रकल्बयेत् ।
हस्ताभ्यां कुंभयोश्चैव पादप्रक्षालनं चरेत्

14.15

तस्यपादांबुजे चैव जातां गङ्गां च सुन्दरीम् ।
प्राञ्जलीकृत्य हस्ताभ्यां नाभेरूल्रावं शरीरगौ

14.16

पार्श्वयोरुभयोश्चापि चन्द्रादित्यौ च पूर्ववत् ।
जांबवन्तं तथा भेरीं ताडयस्तं नराकृतिम्

14.17

इन्द्रं श्यामनिभं कुर्याद्यममञ्जनसन्निभम् ।
आदित्यं चाग्नि वर्णं च चन्द्रं श्तेतं तथा चरेत्

14.18

पीतवर्णं बलिं कुर्यान्नीलाभं जांबवन्तकम् ।
ब्रह्माणं पीतवर्णं च श्यामवर्णां च जाह्नवीम्

14.19

एवं वर्णक्रमेणैव चित्राभासं च कारयेत् ।
पूजकौ तु प्रकुर्वीत तथा शक्रबृहस्पती

14.20

शङ्खं दक्षिणतः कुर्याच्चक्रं वामे समर्चयेत् ।
अमूर्तं वा समूर्तं वा कल्पयित्वा यथाक्रमम्

14.21

शुक्रं शुक्लनिभं कुर्यात्पीतवर्णं बृहस्पतिम् ।
महीं दक्षिणतः पार्श्वेस्थितामेवं प्रकल्पयेत्

14.22

उदङ्मुखीं च कुर्दीत पद्महस्तां च दक्षिणे ।
वामे प्रसारितां चैव सर्वरत्न विभूषिताम्

14.23

तस्याःपूर्वे तथा कुर्यात्प्रह्लादं चोत्तरामुखम् ।
जटामुकुटसंयुक्तं सर्वाभरणभूषितम्

14.24

हृदयेंजलिसंयुक्तं शुकवत्रनिभांबरम् ।
तस्यचोत्तरपार्श्वे तु ब्रह्मासूत्रस्य दक्षिणे

14.25

असुरेन्द्रं तथासीनं विनतं पश्चिमामुखम् ।
ब्रह्माञ्जलि समायुक्तं कीरीटादिविभूषितम्

14.26

एवं वैरोचनिं कुर्यात्पुष्पांबरधरंपरम् ।
नमुचिं च समासीनं पादपीठावलंबिनम्

14.27

वामपार्श्वे समासीनं पूर्वभित्तिसमाश्रयम् ।
कल्पयित्वा यथामार्गं शुक्रं चैव समागतम्

14.28

वामपादं समासीनं दक्षिणं कुञ्चितं तथा ।
अभयं दक्षिणं हस्तं वामं कट्यवलंबितम्

14.29

सर्वाभरण संयुक्तं पश्चिमामुखमेव च ।
तस्य चोत्तरपार्श्वेतु पक्षिराजं प्रकल्पयेत्

14.30

दक्षिणामुखसंयुक्तं शुक्रेमुष्टिप्रहारिणम् ।
एवं गर्भगृहे प्रोक्तं विधिना कारयेद्बुधः

14.31

मण्डपे निम्नितस्थाने अनन्तं चोत्तरामुखम् ।
हृदयेंजलिसंयुक्तं स्थितमेवं प्रकल्पयेत्

14.32

फणैस्तु पञ्चभिर्युक्तं सर्वाभरणभूषितम् ।
उत्तरे भित्तिपार्श्वेतु वासुकीं च प्रकल्पयेत्

14.33

अन न्तवत्तथा कुर्याद्धर्ष वेगसमन्वितम् ।
एवमेव विधानेन कल्पयित्वा यथाक्रमम्

14.34

श्यामवर्णां तथा देवीं प्रह्गादं पीतमेव च ।
कनकाभं बलिञ्चैव नमुचिं च तथै व च

14.35

शक्रं तु पूर्ववत्कुर्यात्पञ्चवर्णं खगाधिपम् ।
अनन्तं पीतवर्णं च वासुकिं श्याममेव च

14.36

एवं स्थानक्रमेणैव कूटयुक्तेन कारयेत् ।
अथ वा भित्तिपार्श्वे तु चित्राभासे ऽधमाधमम्

14.37

त्रिविक्रमं प्रवक्ष्यामि यथा कुर्याज्जगत्त्रये ।
एकं जानुसमं कुर्याद्द्वितीयं नाभितस्समम्

14.38

तृतीयं तु ललाटान्तं त्रिविधं स्यात्त्रिविक्रमम् ।
महीं देवीं तथा चैव प्रह्लादं तु बलिं तथा

14.39

नमुचिं च तथा शुक्रं गरुडं च तथा चरेत् ।
अनन्तं वासुकीं चैव मष्टांगस्थापनं चरेत्

14.40

विष्णुं त्रिविक्रमं चेति त्रिलोकेशमतः परम् ।
विश्वेश्वरं त्रिमूर्ति च सर्पाधारऽ मितीरयेत्

14.41

"पीतवर्णं गुरुं चैव तैष्यं चैव बृहस्पतिम्ऽ ।
"समुचिं कनकाभं च पीतवाससमित्यपि

14.42

श्यामलाङ्गमिति प्रोक्तंऽ मूर्तिमन्त्रं यथाक्रमम् ।
"हरिणीं च तथा पौष्णीं क्षौणीञ्चैव तथा महीम्.ऽ

14.43

"प्रह्लादं वीर्यवित्तं च विष्णु भक्तं महाबलम्ऽ ।
"असुरेन्द्रं बलिं चेति वदान्यं वीरऽमेव च

14.44

शुक्रस्य पूर्वमेवोक्तं गरुडस्य विधानतः ।
"काश्यपं गरुडं चैव वैनतेयं खगाधिपम्

14.45

"सहस्रशीर्षं शेषं च नागराजमितीर्य च ।
अनस्तंऽ च समुच्चार्य शेषस्यावाहनं चरेत्

14.46

"वासुकीं नागराजं च काद्रवेयं मनोरमम् ।
एवं मूर्तिक्रमश्चैव मष्टांगस्थापने चरेत्

14.47

प्रतिष्ठोक्तक्रमेणैव सर्वं पूर्ववदाचरेत् ।
त्रिविक्रमप्रतिष्ठायामन्वाहार्ये विशेषतः

14.48

तथा हौत्रं प्रशंस्यैव मूर्त्यावाहनमाचरेत् ।
जुष्टाकारं च कृत्वैव पूर्ववत्सर्वमाचरेत्

14.49

"यो वा त्रिमूर्तिऽरित्येवं शतमष्टाधिकं यजेत् ।
कर्षणादिप्रतिष्ठान्तं पूर्ववत्सम्यगाचरेत्

मूल पाठ: Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc