भृगुसंहिता · अध्याय 12
इति
श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां
संहितायां प्रकीर्णाधिकारे एकादशो ऽध्यायः.
अथ द्वादशो ऽध्यायः.
भगवत्प्रतिष्ठाविधिः
अथप्रदोषे धर्मात्मा जलस्थं देवमुद्धरेत् ।
स्नानद्रव्याणि चाहृत्य देवं संस्नाप्य मन्त्रवित्
क्षौमपट्टादिना छाद्य मणिहेमादिकैः पुनः ।
विविधैः पुष्पमालाद्यैर् अलङ्कृत्य मनोहरम्
यान मारोप्य देवेशं स्वक्तिसूक्तं समुच्चरन् ।
तोयधारां पुरस्कृत्य नीत्वा ग्रामं प्रदक्षिणम्
श्वभ्रस्य पश्चिमे भागे स्थापयित्वा विशेषतः ।
उत्तरे यागशालायां वास्तु होमं समाचरेत्
मथित्वाग्निं प्रगृह्णीया द्वास्तु होमाग्निमेव वा ।
संस्कृत्य विधिनादाय प्रणये द्गार्हपत्यके
त्रिस्संस्कृतो लौकिकाग्निर् मथिताग्निसमो भवेत् ।
आघारं विधिवत्कृत्वा वैष्णवान्तं समाचरेत्
ततो ऽन्वाहार्यकुण्डे च पश्चादाहवनीयके ।
आवसथ्येततस्सभ्ये ततःपद्मानलेक्रमात्
सूत्रोक्तेन विधानेन सर्वत्राघारमाचरेत् ।
द्वात्रिंशत्प्रस्थसंपूर्णं घटमादायचात्वरः
"इषे त्वोर्जेऽत्वादि जपन् तन्तुना परिवेष्ट्य च ।
"शुची वो हव्यऽ इत्युक्त्वा कुंभप्रक्षालनं चरेत्
नदीतोयं समादाय समुत्पूय च पूरयेत् ।
वस्त्रयुग्मेन चावेष्ट्य अलङ्कुर्यात् प्रयत्नतः
एलातक्कोलकर्पूरैर् गन्धोशीराक्षतैःक्रमात् ।
अन्यैर्गन्धयुतैः पुष्पैर्वासयित्वा विधानतः
सुवर्णरत्नधातूंश्च न्यसित्वा मन्त्रवित्तमः ।
गोवालकुशदर्भैश्च कृतं कूर्चं तु निक्षिपेत्
अथ वा निक्षिपेत् कूर्चं कृतं दर्भैस्तु केवलैः ।
अस्थि रत्नं सिरा स्तन्तुर् मांसो मृत्स्ना प्रकीर्तिता
शोणितं रक्तमृद्भिन्तु जलं मेदस्तथैव च ।
शुक्रन्तु कूर्चमित्युक्तं वस्त्रं स्याच्चर्म वैष्टितम्
सप्त धातव इत्येते कुंभेषु करकेषु च ।
एतेष्वेकं विनाकुर्यान्नास्ति तत्रास्य सन्निधिः
देवस्य दक्षिणे पार्श्वे कुंभं तत्र निवेश्य च ।
अलङ्कृतस्तथाचार्यो वस्त्राभरणकुण्डलैः
स्रग्गन्धैर्वेष्टितो धृत्मा मुखस्योष्णीषबन्धनम् ।
कुंभस्य दक्षिणे भागे प्राङ्मुखोदङ्मुखो ऽपिवा
स्वस्तिकासन मास्थाय ऋजुकायः समाहितः ।
ललाटादिषु स्थानेषु केशवादीन् प्रणम्यच
अकाराद्यक्षरं सर्वं न्यसित्वा सर्वसन्धिषु ।
पश्चात्कुंभं सुसंत्पृश्य क्रमात्सूक्तादिकं जपेत्
आत्मसूक्तन्ततो जप्त्वा पौरुषं सूक्तमेव च ।
सूक्तमेकाक्षरं जप्त्वा विष्णुसूक्त मतः परम्
श्रीभूसूक्तं ततो जप्त्वा "सहस्रशीर्षंऽसमुच्चरन् ।
वैष्णवं तु ततोजप्त्वा ध्यायेत् सम्यक्समाहितः
प्राणायामं ततः कुर्यात् रेचपूरककुंभकैः ।
एतत्फलं क्रमाद्वक्ष्ये त्रिविधं तत्पृथग्विधम्
तत्रैव रेचकं पूर्वं सर्वपापस्यदाहकम् ।
पश्चात्तु पूरकं कुर्या दमृताप्यायनं ततः
तृतीयं कुंभकं कुर्या दमृतत्वं च संस्मरेत् ।
तस्मात्सर्वप्रयत्नेन रेचकादीनि कारयेत्
कुंभगन्तु जलं स्मृत्वा वारुणं मण्डलं बुधः ।
अर्धचन्द्राकृतिं स्मृत्वा तस्य बीजाक्षरं न्यसेत्
तमोङ्कारेण संवेष्ट्य बन्धयुक्तं? तु निश्मलम् ।
आदित्यमण्डलान्तस्थं देवं तत्रैव चाह्वयेत्
आदिबीजं सुवर्णाभं प्रणवैः परिवेष्टितम् ।
पश्चाद्देवं समभ्यर्च्य कुर्या दर्घ्यान्त मर्चनम्
बिंबं कुंभं च संगृह्य स्नानश्वभ्रे निवेशयेत् ।
श्वभ्रस्य पूर्वभागे तु दण्डपङ्क्तिं च कारयेत्
कलशैः स्नापयेत्सम्य क्चतुर्दशभिरेवतु ।
देवं सर्वत्र संस्नाप्य दीपान्तं च समर्चयेत्
नैरृते विष्टरे न्यस्य नमेद्देवां त्समाहितः ।
एवं देव्यौ समादाय स्नापये दत्वरं बुधः-
पाद्यमाचमनं दत्वा देवदेवं प्रणम्य च ।
पात्रं तु तण्डुलैः पूर्णं गृहीत्वात्र विशेषतः
सौवर्णं राजतं वापि कौतुकं तत्र निक्षिपेत् ।
अथ वा तन्तु माहृत्य न्यसित्वा तण्डुलोपरि
तांबूलसहिते पात्रे? देवस्याग्रे निधायच ।
पुण्याहं वाच्य तत्कालेस्वस्तिसूक्तं समुच्चरन्
देवस्य दक्षिणेहस्ते देव्योर्यै वामहस्तयोः ।
"स्वस्तिदाऽ वीतिमन्त्रेण कौतुकं बन्धयेत्क्रमात्
वेदमन्त्रज्ञ आचार्यो रक्षामन्त्रं समुच्चरन् ।
षड्द्रोणं धान्यमर्धं वा वेदिकोपरि चास्तरेत्
तदर्धं तण्डुलांश्चैव तदग्धं तु तिलानपि ।
तदग्धं यवमादाय तदर्धं तिल्वमेव च
अण्डजं मुण्डजं चैवरोमजं वामजं तथा ।
चर्मजं चास्तरेत्पञ्च शयनं वेदिकोपरि
अलाभे तु तथैतैषां पञ्चवस्त्राणि वास्तरेत् ।
मूर्धोपधानं कर्तव्यमूर्ध्वे ऽनस्तं समर्चयेत्
देवं देव्यौ समादाय यद्दिग्द्वारं तथा शिरः ।
शाययेच्छयने विद्वान् "यद्वैष्णवऽमिति ब्रुवन्
देव्योश्चापि तथा कुर्यात्तत्तत्सूक्तं जपेत्क्रमात् ।
उत्तराच्छादनं कुर्याद्गलान्तं तत्र निक्षिपेत्?
शय्यावेद्यास्तुपरितस्सर्वान् देवान्त्समर्चयेर्त् ।
इशानादिक्रमाद्देवान् बल्यन्तन्तु समर्चयेत्
शङ्करं बलिरक्षं च वाग्देवीं बलिश्रक्रकौ ।
अग्निं पवित्रं शैलूषं प्राच्यां प्रत्यङ्मुखान् क्रमात्
भौमं गुहं च दुर्गां च यमं मन्दं च नैरृतिम् ।
रोहिणीं सप्तमातॄश्च दक्षिणे चोत्तरामुखान्
पश्चिमे नैरृताद्यादीनर्चयेत्तदनुक्रमात् ।
वैष्णवीं पुरुषं चैव बुधं ज्येष्ठां तथैव च
पुष्परक्षकवायू च प्राङ्मुखांश्च समर्चयेत् ।
वायव्यादीशपर्यस्तं दक्षिणाभिमूखान् क्रमात्
शुक्रं चैव भृगुं शान्तं तथा सप्त ऋषीनपि ।
भागीरथीं कुबेरं च चन्द्रं भूतानि चार्ऽचयेत्
द्वारे द्वारे च धात्रादीन् द्वारदेवान्त्समर्चयेत् ।
विमानं परितो भ्यर्च्य न्यक्षादीनर्चयेत्क्रमात्
देवस्याग्रे प्रसन्नात्मा पूजयेदनपायिनः ।
भूतद्वयं तथा तार्क्ष्यं तथा चैवामितं बुधः
चक्रशङ्खारविन्दानि देवस्याग्रेर्ऽचयेद्बुधः ।
वेदानध्यापयेद्दिक्षु "ऋचां प्राऽचीरिति श्रुतिः
संभारवेद्यामास्तीर्य धान्यं वस्त्रोवरिक्रमात् ।
हेमादिपात्रे रत्नादीं त्सन्न्यस्यैवाधिदैवतम्
विष्णुमभ्यर्च्य विधिना कारयित्वाधिवासनम् ।
विष्णुसूक्तं समुच्चार्य वस्त्रेणाच्छादयेद्बुधः
पश्चाद्धोतारमाहूय यथोक्तगुणसंयुतम् ।
पादौप्रक्षाल्य चाचम्य कूर्चयुक्तं समाहितम्
अलङ्कुर्याच्च पुष्पाद्यैः पञ्चाङ्गोचितभूषणैः ।
सभ्यस्य पूर्वभागे तु पश्चिमाभिमुखःस्थितः
सभ्याध्वर्युं समीक्ष्यैव होता प्रणवमुच्चरेत् ।
"होतरेहिऽ पदे उक्तेततो होता समुच्चरेत्
"अध्वर्यो देवऽतेत्युक्त्वा पादौ प्रक्षाल्य चाचमेत् ।
पूर्ववत्तत्र चस्थित्वा "ओं नमः प्रवक्त्रेऽ ब्रुवन्
होता च नाम शर्मान्तं संयोज्यैव समुच्चरेत् ।
"भूते भविष्यऽतीत्युक्त्वा ब्रूयाद् "धिंऽकारपूर्वकम्
"भूर्भुवस्सुवऽ रित्येव प्राङ्मुखश्च प्रदक्षिणम् ।
अदध्यात्समिधो ऽध्वर्युः प्रत्योङ्कारं ततो ऽनले
होत्रा"ग्ने महाऽमित्युक्तेप्रभौः प्रवर इष्यते ।
राज्ञो वा राजपत्म्या वा तथामात्यस्य वा भवेत्
ग्रामश्चेद्यजमानस्तु वसिष्ठप्रवरं वदेत् ।
अथ वा कारयेद्विद्वान् काश्यप्रवरं वदन्
वैश्यादन्यत्र जातीयो यजमानो भवेद्यदि ।
तस्य तु प्रवरं हित्वा काश्यपप्रवरं वदेत्
तत "आयातु भगवाऽनुक्त्वा पश्चिमदिङ्मुखः ।
विष्ण्वादि भूत पर्यन्तं सर्वमूर्ती स्तदाह्वयेत्
ननधोक्तेन मार्गेण पार्षदानाह्वयेद्बुधः ।
आवाहन क्रमेणैव निरुप्याऽज्याहुतीर्यजेत्
सभ्याग्निं च परिस्तीर्य प्राणायामादिपूर्वकम् ।
"स्वस्तिचैऽवेति हुत्वातु तथा चैव "प्रजापतेःऽ
"अग्निर्धीमतऽयेत्युक्त्वा "आदित्येभ्यऽस्तथैव च ।
"विश्वेभ्यो देवेभ्यऽश्चैव "मरुद्गणेभ्यऽएव च
"भूरग्नयेऽचैवमाद्याश्चतस्रो व्याहृतीर्यजेत् ।
दशभिश्सतशस्त्वेतैस्सहस्राहुतिरुच्यते
स्रुवेण स्रावयन् विद्वानविच्छिन्नं समाचरेत् ।
विष्णुसूक्तं समुच्चार्य सूक्तं पौरुषमेव च
श्रीसूक्तं भूमिदैवत्य मतोदेवादि वैष्णवम् ।
एकाक्षरादिसूक्तं तु विष्णुगायत्रिया युतम्
एतैन्तु सप्तभिस्सूक्तैश्चतुरावर्त्य हूयताम् ।
एतत्कर्तुमशक्तश्चेत्सकृद्वात्र समाचरेत्
अष्टाक्षरेण मन्त्रेण द्वादशाक्षरकेण वा ।
वैष्णवं विष्णुगायत्रीं जुहुयादिति के चन
ततश्चाहावनीयाग्निकुण्डे सम्यग्यथाक्रमम् ।
यजेत्पुरुषसूक्तं तु षोडशावर्त्य यत्नतः
अन्वाहार्वाग्निकुण्डे तु विष्णुसूक्तं सुहूयताम् ।
ब्राह्मञ्च व्याहृतीश्चैव जयादीन् जुहुयात्क्रमात्
श्रीसूक्तं वैष्णवं चैव जुहुयाद्गार्हपत्यके ।
आवसद्थ्ये विशेषेण वैष्णवं रुद्रसूक्तकम्
महीसूक्तं च जुहुयत्सूक्तमेकाक्षरादिकम् ।
पैण्डरीके तु जुहुयात्पारमात्मिकसंयुतम्
रक्ताब्जं बिल्वपत्रं च श्वेताब्जानामसंभवे ।
घृतेनाप्लुत्य जुहुयाद्विष्णुगायत्रिया बुधः
समिदाज्यं चरुर् लाजाः सर्षपाश्च यवास्तथा ।
तिलं तिल्वं तथा मुद्गा माषास्सक्तुर्गुडं तथा
मध्वपूपा दधि क्षीरं होमद्रव्यमितीरितम् ।
एतैस्सप्तदशद्रव्यैर् वैष्णवं जुहुयाद्बुधः
जुह्वाचैवोपजुह्वा च विष्णुसूक्तं सुहूयताम् ।
सभ्ये च वैण्डरीके च स्विष्टाकारं विना चरेत्
अग्निष्वाहवनीयादिष्वन्तहोमं समाचरेत् ।
ऋगादींश्च चतुर्दिक्षु वेदानध्यापयेत्क्रमात्
एवमध्ययनं प्रोक्त"मृचां प्राचीऽरिति श्रुतिः ।
नृत्तैगेन्यैश्च वाद्यैश्च रात्रिशेषं नयत्क्रमात्
ततःप्रभाते धर्मात्मा स्नात्वास्नानविधानतः ।
ब्रह्मयज्ञं च कृत्वा तु जपेत्सूक्तानि द्वादश
पादौ प्रक्ष्याल्य चाचम्य देवानुद्धाप्य मन्त्रवत् ।
पूर्ववस्त्रं विसृज्यैव पुनरन्यद्विभूष्य च
ब्रह्मस्थाने विशेषेण पीठं सम्यक् प्रकल्पयेत् ।
तदूर्ध्वे कल्पयेद्विद्वान् नवभागं विभज्य च
पूर्वोक्तेन क्रमेणैव रत्नन्यासे समाचरेत् ।
सुधया परिपूर्यैव क्षौमेनाच्छादयेद्बुधः
यजमानस्तु तत्काले आचार्यादीन् प्रणम्यच ।
सपादनवनिष्कं च गुरवे दक्षिणां ददेत्
प्रत्येकं स्थापकादीनां पञ्चनिष्कं ददेत्तदा ।
सभ्याध्वर्योर्विशेषेण होतुश्चापि तथैव च
पैण्डरीकस्य चाध्वर्योः प्रत्येकं पञ्चनिष्ककम् ।
अन्येष्वाहवनीयादिष्वध्वर्यूणां चतुभन्वेत्
पषन्द्धामसु चाध्वर्योरन्येषां च पृथक् पृथक् ।
निष्कं पादाधिकं दद्यात्संपूर्णमिति पठ्यते
आचार्यस्य नियोगेन दक्षिणादानमीरितम् ।
यजमानस्स्वतन्त्रेण न कुर्यादिति शासनम्
हन्त्यल्पदक्षिणो यज्ञो यजमानं विशेषतः ।
अदक्षिणं तु यजनं निष्फलं त्विति शासनम्
मुहूर्ते समनुप्राप्ते वाद्यघोषसमन्वितम् ।
तोयधारासमायुक्तं स्वस्तिसूक्तं समुच्चरन्
आचार्यः कुंभमादाय व्रजेत्पूर्वं ततःक्रमात् ।
नयेयुस्थ्सापकाः पश्चाद्देवं देप्यादिसंयुतम्
प्रदक्षिणं शनैगन्त्वा देवागारं प्रविश्य च ।
पीठस्य दक्षिणे भागे धान्यपीठे प्रकल्पिते
आचार्यस्सन्न्यसेत्कुंभं देवं चादायचात्वरः ।
कौतुकं ब्रह्मस्थाने तु स्थापयित्वा विचक्षणः
"भूरसि भूंऽ इत्युक्त्वा पीठे देवं सुयोजयेत् ।
तस्य दक्षिणपाशेन्व् तु श्रीदेवीं स्थापयेद्बुधः
तथैव वामपाशेन्व् तु भूमिं कुर्यात्प्रतिष्ठिताम् ।
देवस्य वामभागे तु स्थापयेद्बिंबमोत्सवम्
स्नापनं बलिबेरं च दक्षिणे स्थापयेद्बुधः ।
विष्णुसूक्तं च जप्त्यैव पुरुषसूक्तयुतं तथा
ध्रुवसूक्तं वैष्णवं च देवीभ्यां च पृथक् पृथक् ।
श्रीभूसूक्तं पृथक् जप्त्वा पश्चान्न्यासं समाचरेत्
"सुवभुन्वभून्ऽरित्युक्त्वा चाक्षराणि विशेषतः ।
पादयोरन्तरे विद्वान् यकारं विन्यसेत्ततः
बिंबस्य हृदये सम्यङ्न्यसेद्बीजाक्षरं परम् ।
रुक्माभं परमं बीजं सर्वकारणकारणम्
तरुणार्क सहस्राभं ब्रह्मेशाभ्यां नमस्कृतम् ।
पद्मासनस्थं देवेशं श्रीवत्कालङ्कृतोरसम्
शङ्खचक्रधरं सौम्यं सर्वाभरण भूषितम् ।
"ओऽमित्येकाक्षरं ब्रह्म प्रणवः परिपठ्यते
"श्रीऽकारं श्रिय इत्युक्त्वा "लऽकारं भुव इत्यपि ।
कूर्चेनादाय तत्तोयं कुंभस्थं शक्तिसंयुतम्
"इदं विष्णुऽस्समुच्चार्य समादाय समाहितः ।
"आयातु भगवाऽनुक्त्वाध्रुवबेरस्य मूर्धवि
विष्णुं च पुरुषं सत्यमच्युतं चानिरुद्धकम् ।
अचले देवदेवेशो व्याप्य तिष्ठतीति श्रुतिः
"श्रिये जाऽतेति मन्त्रेण श्रियमावाहयेद्बुधः ।
"मेदिऽनीति च मन्त्रेण हरिणीं सम्यगाह्वयेत्
कौतुकेचौत्सवेचैव स्नापने बलिबेरके ।
प्रणिधिमुद्धृत्य तत्काले दीपाद्दीपमिव क्रमात्
ध्रुवबेरात्समावाह्य कूर्चेनावाहयेत्क्रमात् ।
नवधा मार्गमालोक्य यथेष्टं कर्तुरिच्छया
अविच्छिन्नार्ऽचनं नित्यं विधिनैव प्रकल्पयेत् ।
अशक्तश्चेत्तथाकर्तुं प्रतिष्ठां नैव कारयेत्
आढ्यस्सर्वसमस्त्यागी चिकीर्षुर्विष्णुमन्दिरम् ।
स्वार्थं कृत्वा त्रिधैकांशं कुटुंबार्थे विधाय च
अंशाभ्यामवशिष्टाभ्यां विमानार्चनमारभेत् ।
आपद्यपि च कष्टायां न द्रुह्येदात्मने बुधः
अविच्छिन्ना यथा पूजा विधिना संप्रवर्तते ।
तथा प्रकल्पयेद्विद्वान् भूमिभोगेन वै स्थितिम्
अर्चकस्यार्ऽचनार्ऽथं च कुटुंबार्थं च यत्नतः ।
अत्यन्तपुष्कलां भूमिं बहुसस्योचितां तथा
करग्रहादि रहितामर्चकाय समर्पयेत् ।
ततश्च ताम्रपट्टादौ लेख्य सीमाविनिश्चयम्
देवनाम्नैव तां भूमिं दद्यादर्चकजीविकाम् ।
इदमग्रे प्रकुर्वीति तदधीना स्थितिर्हरेः
पिता हरिस्तु भगवानर्चकः पुत्र उच्यते ।
पुत्रस्यन लिखेन्नाम सन्निधाने पितुःक्रमात्
अर्चकस्सुप्रसन्नात्मा हरिदेव हि केवलम् ।
अथ वा विलिखेद्विद्वान् नाम्ना वा पूजक स्य च
तथार्ऽचकस्य चावासमालयस्य समीपतः ।
शिलाभिस्सुदृढं कृत्वा वासायास्य प्रशस्यते
अक्लेशेन यथा जीवेदर्चकस्सुसमाहितः ।
यावच्चन्द्रदिवानाथं तथा कुर्यात्प्रयत्नतः
अर्चके क्लेशयुक्तेतु क्लिश्यते भगवान् हरिः ।
अर्चके तु सुसंतुष्टे तदा तुष्टो जनार्दनः
रूपद्वयं हरेः प्रोक्तं बिंबमर्चक एवच ।
बिंबे त्वावाहनादर्वाक्सदा सन्निहितोर्ऽचके
पुनर्विचिन्त्य धर्मात्मा यजमानो मुदान्वितः ।
शक्तिलोभमकृत्वैव करोति विभवान्तरम्
पञ्चपर्वसु संक्रान्तौ पुण्याहेष्वितरेषु च ।
विशेष पूजनार्थञ्च हविरर्थं च यत्नतः
स्नपनार्थं चोत्सवार्थं प्रायश्चित्तार्थमेव च ।
नटनर्तकदासीनाङ्गायकानां चशक्तितः
विद्यार्थिनां च भक्तानामन्यस्य विभवस्य च ।
वृत्तिं तुपरिकल्प्यैव भूरूपां पुरतो हरेः
ददात्याचार्यहस्ते तु मन्त्रोदकपुरस्सरम् ।
अन्येषां विभवानां चतथैवान्यपदार्थिनाम्
तत्तन्नाम्नैव भूम्यादिं दापयेद्देशिकोत्तमः ।
आचार्यस्यापि तन्नाम्ना कल्पयेद्वृत्तिमुत्तमाम्
एवं यः कुरुते भक्त्या ऐहिकामुष्मिकं फलम् ।
पशुभृत्यादिभोगांश्च वाहनादीन् विशेषतः
सुवर्णरत्नधान्यादीनत्यन्तं समवाप्नुयात् ।
तस्य कायकृतं पापं तत्क्षणादेव नश्यति
यं यं कामयते सर्वन्तं तमाप्नोत्यसंशयम् ।
पूर्वजातिगतास्तस्य पितरः पितुरन्वये
मातृपक्षे च येजातास्तस्य मातामहादयः ।
सर्वेपि त्रिदिवं यान्ति मोदन्ते त्रिदिवे चिरम्
ततो यास्यन्ति वैकुण्ठं निस्समाभ्यधिकं महः ।
यस्सम्यक्पालयेदेतदधिकं यश्च वर्धयेत्
आद्येष्टकादि निर्माणफलमेव प्रपद्यते ।
सर्वाशुभविनाशं च लब्ध्वाचेष्टमवाप्य च
अन्ते विमानमारुह्य विष्णोर्याति परं पदम् ।
किं बहूक्तेन विधिना न दैवं केशवात्परम्
तं विष्णुं पूजयेन्नित्यं सर्वसाधनसाधनम् ।
सर्वमुक्तिप्रदं नित्यं सर्वकामफलप्रदम्
ग्रामाग्रहारयोस्सम्यगर्चनं तत्र वासिनाम् ।
सर्वसिद्धिप्रदं नित्यं पुत्रपौत्रप्रवर्धनम्
सामान्यमग्नि होत्रं स्यादनग्नीनां तपोधनाः ।
साग्नीनामप्यविज्ञातप्रायश्चित्ताय कल्पते
तस्मात्कुर्यादविच्छिन्नमर्चनं सर्वयत्नतः
मूल पाठ: Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0