भाषा

ENहिગુ
ग्रंथ पाठ

भृगुसंहिता · अध्याय 10

10.1

इति श्रीवैखानसे फगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे नवमो ऽध्यायः.
अथ दशमो ऽध्यायः.
अथ दशमो ऽध्यायः.
अङ्कुरार्पणम्
अतःपरं प्रवक्ष्यामि भूपरीक्षादिकर्मणाम् ।
देवदेवस्य विष्णोर्तु विधिना चांकुरार्पणम्

10.2

नवमे सप्तमेवापि पञ्चमे वात्षहे ऽथ वा ।
आलयाभिमुखे वापि ऐशान्ये चोत्तरे ऽपि वा

10.3

रुद्रहस्तं द्विजातीनां नृपाणां नवहस्तकम् ।
वैश्यानां मुनिहस्तन्तु शूद्राणां पञ्चहस्तकम्

10.4

षोडशस्तंभ संयुक्तं चतुर्द्वारसमायुतम् ।
मण्डपं वात कूटं वा प्रपां वा विधिना चरेत्

10.5

गोमयालेपनं कृत्वा "शाम्यऽन्त्विति च? मन्त्रतः ।
श्वेततन्त्तुलचूर्णं वा सुधाचूर्ण मथापि वा

10.6

सूक्ष्मचूर्णं च कृत्वा तु वालुकैर्मिश्रितं तथा ।
प्राग्रगं चोत्तराग्रं च "सोमंराऽजेति मन्त्रतः

10.7

युग्मं च स्रायित्वातु दर्शनीयं च सुन्दरम् ।
चक्रवालाद्यलङ्कृत्य पालिकांकुरशोभितैः?

10.8

मध्येचक्रं च कृत्वातु दर्शनीयं च कारयेत् ।
वितानैस् स्तंभवेष्टैश्च दर्भमालाद्यलङ्कृतम्

10.9

धर्मं ज्ञानं च वैराग्य मैश्वर्यं च चतुष्टयम् ।
अन्तस्त्संभ चतुष्कोशे स्थापयेदधिदेवताः

10.10

बाह्यानां द्वादशादित्या द्वादशानान्तु देवताः ।
अर्चयित्वा यधान्याय्यं तत्तद्विधिमधाचरेत्

10.11

पञ्चहस्तं त्रिहस्तं वा एकहस्त मथापिवा ।
पञ्चविंशत्पदं कृत्वा मध्ये ब्रह्मासनं चरेत्

10.12

संचारार्थं फवन्त्यष्ट परितश्च पदानि वै ।
प्रागादिमध्यमाः प्रोक्ता द्वारा श्चत्वार एवच

10.13

शेषितार्कपदे धीमान् पालिकानां स्थितिं चरेत् ।
व्रीहिभि स्तण्डुलैर्वापि पङ्क्तिं कुर्या द्विधानतः

10.14

षोडशांगुल मायामं यथालाभसमुन्नतम् ।
त्रिवेदिसहितं कुर्या द्वेदाश्रं ब्राह्म मासनम्

10.15

पूर्वद्वारोत्तरे शेषं दक्षिणद्वारपूर्वके ।
वक्रतुण्डस्य पीठं स्यात् पश्चिमद्वारदक्षिणे

10.16

पङ्क्तीश मुत्तरद्वार पश्चिमे सोमपीठकम् ।
कुंभे वाथ समभ्यर्च्येत् तत्पूर्वेशान्त मर्चयेत्

10.17

षण्णां पीठं प्रकल्प्यैव ब्रह्मण श्चोक्तवच्चरेत् ।
ऐन्द्रादिच तथैशान्तं जयाद्यप्सरसोर्ऽचयेत्

10.18

आढकं वा तदर्धं वा पादं वा तण्डुरैः पृथक् ।
बाह्ये ऽष्टांगुलिविस्तारे पीठे वा स्थण्डिले ऽपिवा

10.19

चतुरश्रं सुवृत्तं चत्रिकोणं धनुराकृति ।
दण्डाकारं च पद्माभं वस्वश्रं समवृत्तकम्

10.20

जयादीनां क्रमात्पीठं पालिकाबाह्यत श्छरेत् ।
दिक्पालानान्तुशक्तश्चे न्मण्डलानि तु कारयेत्

10.21

भूम्यां वा पूजयेत् तद्वत्कुशकूर्चेषु सत्वरः ।
चतुरश्रं त्रिकाणं च सुवृत्तं वज्रमेव च

10.22

अर्धचन्द्रं च षट्कोणं वृत्तं नूपुरमेव च ।
दिगीशमण्डलाकार मन्येषां चतुरश्रकम्

10.23

अश्वद्थपल्लवं दूर्वां कुशं चाबद्ध्य मध्यमे ।
पालिकादीन् क्रमेणैव मृदा वापूरयेच् छुचिः

10.24

गायत्रीमन्त्रमुच्चार्य प्रणवेनादायमन्त्रवित् ।
मेदिनीमन्त्र मुच्चार्य चैशान्यादिषु पालिकाः

10.25

सन्न्यस्यैव ततः कुंभान् द्वारवामे च सन्न्यसेत् ।
"राकामहंऽ समुच्चार्य द्वारदक्षिणतः पुनः

10.26

"सिनीवाऽलीति मन्त्रेण आचार्यः सन्न्यसेत्क्रमात् ।
जातिक्रमेण चैशास्तं पालिकानां पदे पदे

10.27

ब्रह्मणो दक्षिणे पार्श्व आचार्य श्चोत्तरामुघः ।
ब्राह्ममासन मास्थाय देवदेव मनुस्मरन्

10.28

ब्रह्माद्यान् हृदयात्पूर्वं प्रणिध्यां सन्निवेशयेत् ।
स्थण्डिलोपरि कूर्चेषु पात्रा दावाहयेत्क्रमात्

10.29

चतुर्मुखं चतुर्बाहुं सर्वाभरण बूषितम् ।
अभयं दक्षिणं हस्तं वाममूरुप्रतिष्ठितम्

10.30

कुण्डिका मक्षमालाञ्च वहन्तं दक्षवामयोः ।
पद्मासनस्थं हेमाभं श्यामवस्त्रञ्च पद्मजम्

10.31

मूर्तिमन्त्रैस्समावाह्य ब्रह्माणं प्राङ्मुखं यजेत् ।
प्राग्द्वारे प्राङ्मुखं चैव दक्षिणद्वारके तथा

10.32

प्रत्यग्द्वारविमाने ऽपि चोत्तरद्वारके तधा ।
अब्जजं प्राङ्मुखञ्चान्यान् यथाविधि च संस्मरेत्

10.33

भवनं प्राङ्मुखादीनां प्राङ्मुखश्च प्रजापतिः ।
पङ्क्तिमध्ये समभ्यर्च्ये द्ब्राह्ममन्त्रं समुच्चरन्

10.34

हेमाङ्गं पीतवस्त्रं च द्विभुजं पद्मधारिणम् ।
स्धितं करण्डिकामौलिं शेषं तत्पश्चिमामुखम्

10.35

अनन्तं सर्वनागाना मधिपं वारुणीपतिम् ।
फणसप्तकसंयुक्तं सिताभं प्राञ्जलिं स्मरेत्

10.36

प्रवालाभं गजमुख मासीनं चोत्तरामुखम् ।
कदलीचूतपनसपाशांकुशधरं प्रभुम्

10.37

एकदंष्ट्रं चतुर्बाहुं वग्रतुण्डं स्मरेद्बुधः ।
पीतांबरे तं श्यामाभं खड्गखेटकधारिणम्

10.38

द्विभुजं
करण्डिकामौलिं पङ्क्तीशं प्राङ्मुखं स्मरेत् ।
सितं श्यामांबरं सौन्युं द्विभुजं दण्डधारिणम्

10.39

करण्डमकुटसंयुक्तं सुस्थितं दक्षिणामुघम् ।
अभ्राभांरक्तवस्त्रान्तां द्विहस्तांबुजधारिणीम्

10.40

सर्वभूषाभूषिताङ्गां जयामैन्द्रपदेर्ऽचयेत् ।
नीलाभां पीतवस्त्रां तां द्विकरांबुजधारिणीम्

10.41

भूषाभूषितसर्वाङ्गां विजया मनलेर्ऽचयेत् ।
कुमुदाभां हरिद्वस्त्रां द्विकरांपङ्कजाङ्किताम्

10.42

नानाभूषाभूषिताङ्गां विन्दां याम्यपदेर्ऽचयेत् ।
धातकीपत्र संकाशां नीलनीलांबरावृताम्

10.43

द्विकरामंबुजधरां नन्दांनैरृतिपदेर्ऽचयेत् ।
धौताभां पीतवस्त्रां तां द्विहस्तांबुजधारिणीम्

10.44

पुष्पाभरणसंयुक्तां पुष्टिकां वारुणेर्ऽचयेत् ।
स्वर्णाभां रक्तवस्त्रां तां द्विहस्तांबुजधारिणीम्

10.45

कुमुद्वतीं भूषिताङ्गां वायव्ये चार्चयेत्क्रमात् ।
रक्ताभा मभ्रसंकाशवसनां भूषणैर्वृताम्

10.46

द्विकरा मंबुजधरां सौम्ये चोत्बलकां यजेत् ।
हाटकाभां हरिद्वस्त्रां पद्मसंयुतबाहुकाम्

10.47

सर्वालङ्कार संयुक्तां विशोगा मर्चयेत्ततः) ।
रक्ताभां हाटकाभां च हरिणीं नीलवर्णकाम्

10.48

धातकीपद्र संताशां कुमुदोत्पलसन्निभाम् ।
अशोकाभां क्रमादेता द्विभुजाः पद्मधारिणीः

10.49

विपरीतांबरधराः सुखासीना स्तदासनाः ।
जयाद्यास्सर्वभूषांगा ध्यायेदत्रेति केचन

10.50

मेदिनीं चैव राकां च सिनीवालीं स्मरेद्बुधः ।
मेदिनीं पीदवस्त्रान्तां श्यामाङ्गीं द्विभुजां स्थिताम्

10.51

हस्तयोः पालिकां धृत्वा सुकेशीं तद्दिगाननाम् ।
पूर्णचन्द्रप्रियां देवीं पूर्णचन्द्रनिभाननाम्

10.52

हेमाङ्गीं रक्तवस्त्रान्तां राकां कुंभधरां स्थिताम् ।
शेषं तद्वच्छिनीवालीं सितांगीं श्यामलांबराम्

10.53

शरावं दधतीं मन्ये मेदिनीसदृशां तथा ।
ध्यात्वातत्तत्पदे सम्यगासीनां वाथ चार्ऽचयेत्

10.54

बीजेसोमं तथा ध्यात्वा हस्ताभ्यां बीजधारिणम् ।
स्थानकं वाथचासीवं चोत्तरे दक्षिणामुखम्

10.55

एवं ध्यात्वा ततोदेव मासनादिभिरर्चयेत् ।
हविः सम्यङ्मि वेद्यैव बलिं वा दापये द्बुधः

10.56

जयादीनां क्रमाद्वर्णः प्रादक्षिण्यक्रमेणतु ।
वितस्तिः पालिकोत्सेधं तदर्धं विपुलं मुखम्

10.57

अधोविपुलनाहेन मध्यनाहं दशांगुलम् ।
कुंभोदयं तु तत्तुल्यं रसमात्रं मुखायतम्

10.58

कुंभोष्ठमिव वक्तव्यं कुंभकुक्षिर्दशांगुलम् ।
आश्रमद्वार संयुक्तं शेषं तत्पालिकासमम्

10.59

तारोत्सेधं शरावं स्यान्मुखं तत्पालिकासमम् ।
आलयस्योत्तरे वापि ऐशान्ये वा विशेषतः

10.60

गोमयेनोपलिप्यैव मेदिनीं तु समर्चयेत् ।
चक्रं शान्तं समभ्यर्च्य हरेत्तज्जठरे मृदम्

10.61

कांस्यपात्रे नुसन्न्यस्य शिष्यस्य शिरसि न्यसेत् ।
ग्रामं प्रदक्षिणं कृत्वा आलयं वा प्रदक्षिणम्

10.62

पालिकादीन् प्रपूर्यैव गायत्रीमन्त्र मुच्चरन् ।
ऐशान्यादिषु कोणेषु स्थापयेत् ताश्च पालिकाः

10.63

द्वारवामे तु कुंभं स्याच्छरावं द्वारदक्षिणे ।
नववस्त्रैस्समावेष्ट्य पालिकादीन् समर्चयेत्

10.64

कङ्कुमुद्गयवाश्चापिनिष्पावाः सर्षपास्तथा ।
चणका स्तिलतिल्वाश्च पात्रेधान्यानिचाहरेत्

10.65

हविःपात्रं तु संगृह्य वायव्ये सोम मर्चयेत् ।
पुण्याहं वाच्य तत्काले तूर्यघोषण माचरेत्

10.66

"इमेबीऽजेति मन्त्रेण वापयेदङ्कुरां स्ततः ।
विष्णुसूक्तं समुच्चार्य यजमानयुतो गुरुः

10.67

"सोमं राऽ जेति मन्त्रेण वापयेदङ्कुरां स्ततः ।
वारुणं मन्त्रमुच्चार्य जलनेकं तु कारयेत्

10.68

शूद्रस्तु यजमानश्चेन् नपपस्त्रैर्गुरुं पुनः ।
संपूज्य दक्षिणां दत्वाततस्तेनैव वापयेत्

10.69

प्रणवेनार् कपत्रैर्वातथा चैरण्डपत्रकैः ।
आच्छादये द्यावदन्तं त्रिकालाभ्यर्चनं मतम्

10.70

अत्र देवान् विसृज्यैव गुप्तेदेशे निधापयेत् ।
वस्त्रैर्नवैः समाच्छाद्य पालिकादीन् समर्चयेत्

10.71

अमावास्याव्यवहिते कुर्यात् सद्या एंकुरार्पणम् ।
संक्रमव्यवधाने ऽपि सद्य एवेति के च न

10.72

सद्या एंकुरश्चेद्रात्रौ वा दिवावापि च कारयेत् ।
तथा सर्वक्रियां कृत्वा पुष्पैर्वा तण्डुरैस् तथा

10.73

वापयेत्कर्मण स्तस्यसद्य एवतु कारयेत् ।
पात्रालाभेशरावेवा यथालाभं च कारयेत्

10.74

अर्चयेत्तण्डुलान् शुद्धान् सद्यःकालांकुरार्पणे ।
गृह्णीयात् पालिका एव नवपञ्चैककल्पने

10.75

ब्रह्मणो ऽभिमुखेचैकं शेषान्तु परितोदिशि ।
तत्तद्दिगीश मभ्यर्च्य तत्तन्मन्त्रेणचार्ऽचयेत्

10.76

एष एव विशेषस्स्या दन्यत्सर्वं खिलोक्तवत् ।
लक्षणं च तथैवोक्तं तत्रैव च गुणागुणाः

10.77

अजस्रदीपदानं तु सर्वत्र विधिना चरेत् ।
कर्मान्ते जलमध्येतु निक्षिपे द्विजयांकुरान्

मूल पाठ: Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc