भिक्षुणीविनय · अध्याय 13
लभ्यं भिक्षुणीये भिक्षूणा प्रतिग्राहापयितुं स्थापयित्वा जातरूपं रजतं अग्निकल्पियञ् च ॥ ण्क ॥
भिक्षुणीप्रकीर्णक 46
290. त्रीणि भिक्षुस्य अभिक्षुकरणानि । कतमानि त्रीणि । त्यक्तमुक्तेन चित्तेन शिक्षां प्रत्याख्याति [1] । संघो वासति वस्तुस्मिन् नाशेति [2] । स्त्रीलिङ्गम् वा सा प्रादुर्भवति [3] । इमानि त्रीणि भिक्षुष्य अभिक्षुकरणानि । तेन भिक्षुणा भिक्षुणीविहारं गन्तव्यं । न क्षमति भिक्षुणीनाम् एकपिटके एके पि विचारे वस्तुं । अथ खु च्छिन्नोपविचारे वस्तव्यं । यदास्य भूयो भिक्षु लिङ्गं प्रादुर्भवति तदा भिक्षुविहारम् आगन्तव्यं । सा एवास्योपसम्पदा तद् एव वर्षाग्रं ॥ तृ ॥
भिक्षुणीप्रकीर्ंअक 47
त्रीणि भिक्षुणीये अभिक्षुणीकरणानि । कतमानि त्रीणि । त्यक्तमुक्तेन चित्तेन आचारं विकोपयति । [1] । संघो वासति वस्तुस्मिन् नाशेति । [2] । पुरुषलिङ्गं वास्य प्रादुर्भवति [3] । इमानि त्रीणि भिक्षुणीये अभिक्षुणीकरणानि । तथैव यथा भिक्षोः ॥ फु ॥
भिक्षुणीप्रकीर्णक 48,
नास्ति भिक्षुणीये अतिरिक्तकर्म ॥ ग्र ॥
भिक्षुणीप्रकीर्णक 49
रतनप्रतिसंयुक्तं
291. भगवान् श्रावस्तीयम् विहरति । अपरं दानि कुलं राजकुलेन उपहतं । राजभटाः परिवारि वारिय रक्षन्ति । स्थूलनन्दा नाम भिक्षुणी पिण्डचारम् अन्वण्टी तंहि प्रविष्टा । सा स्त्री ताम् आह ॥ आर्ये इदं कुलं राजकुलेनोपहतं उत्कचप्रकचो । इमम् आर्ये निष्क्रामेतु यदि जीवन्तीयो मुच्चिष्यामो अस्माकं भविष्यति आर्याये वृत्तिं दास्यामो आर्याये एतं भविष्यति । ताय तस्याः पात्रं उपनामितं इमंहि देहीति । नानाकाराणां रत्नानां पात्रं पूरयित्वा दिन्नं मुक्तायाः मणीनां स्फोटिकस्य मुसारगल्वस्य लोहिकायाः । सा दानि प्रतिच्छादयित्वा निष्क्रमति । भटेहि च दृष्टा ते दान् आहंसुः । आहर किम् इदं । सा संकुसायति न दर्शेति । थरथरापन्तीय भीतभीताय दर्शितं । भिक्षुणीहि श्रुतं । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद् छब्दापिता । तद् एव पृच्छीयति । आह । आम भगवन् । भगवान् आह । तेन हि न क्षमति रतनं प्रतिच्छादयितुं । रतनप्रतिसंयुक्तं । एतं दानि महान्तं कुलं राजकुले नोफतम् भवति यावन् न लेख्यं कृतम् भवति । न सारज्यं कृतम् भवति । यदि किञ्चिद् ददन्ति लभ्यं निष्कासयितुं । अथ दानि लेख्यं कृतम् भवति रक्षा वा कृता भवति भटेहि परिवारितम् भवति । आह । इमं गृहं राजकुलेनोपहतं यदि तावज् जीवन्तीयो मुच्यामः अस्माकं भविष्यति आर्याया एव भविष्यतीति न क्षमति निष्कासयितुं । वक्तव्यं । भगवता शिक्षापदं प्रज्ञप्तं न क्षमति निष्कासयितुं । अथ दान् आह । चैत्यस्य देमः संघस्य वा देमः आर्याये एव देमो ति गृह्णीतव्यं । गृह्णीत्वा न क्षमति प्रतिच्छादयित्वा निष्कासयितुं । प्राकटं कृत्वा निष्कास्यितव्यं । अथ पृच्छीयति कस्येदन् ति चैत्यस्य संघस्य ममेति । यदि मुच्यते नन्दं भद्रं । अथाछिद्यति दातव्यं । सा एषा भिक्षुणी रतनपूर्णपात्रं प्रतिच्छादेति विनयातिक्रमम् आसादयति । इदम् उच्यते रतनप्रतिसंयुक्तं ॥ ह्रा ॥
भिक्षुणीप्रकीर्णक 50
यथावृद्धिकाय
292. भगवान् श्रावस्तीयम् विहरति । नदीये अजिरावतीये पारे उभयतो सांघिकं भक्तं । तहिं भिक्षवो गच्छन्ति नावाय । भिक्षुणीयो न लभन्ति अभिरुहितुं । भिक्षू आहंसुः । मा भगिनीयो अभिरुहथ । भगवता शिक्षापदं प्रज्ञप्तम् । न क्षमति भिक्षुस्य भिक्षुणीय सह एकनावाम् अभिरुहितुं ति । ते दानि भिक्षू ओसरन्तिकाय उत्तरन्ति । एकभिक्षुणापि नावा पलिगुद्धा भवति द्विहि त्रिहि एवं पलिगुद्धा भवति । यदा ते भिक्षू उत्तरिताः तदा भिक्षुणीयो एकनावापरिपूरकेन तारिताः । तासां वर्षाग्रं परिग्राहन्तीनां अकालिभूतं । अथ खो महाप्रजापती गौतमी सायाह्नसमये परिकिलन्तेहि महाभूतेहि भगवतो पादवन्दीकां उपसंक्रान्ता । भगवान् जानन्तो येव पृच्छति । केन भे गौतमि परिकिलन्तानि महाभूतानि । अथ महाप्रजापती गौतमी भगवतो तद् एव सर्वम् आरोचेति । भगवान् आह । तेन हि अष्टाहि भिक्षुणीहि यथावृद्धिकाय उपवेष्टव्यं । शिष्टाहि यथागतिकाय । एते दानि भवन्ति भक्ता वा तर्पणा वा यवागुपाना वा परं वार्षिका वा महापञ्चवार्षिका वा अष्टानां भिक्षुणीनां आसनानि स्थापयितव्यानि यथावृद्धिकाय । अष्ट वा निर्मुष्टिका हस्ताः प्रतिकृत्य्ऽ एव गन्तव्यं । ता एता भिक्षुणीयो अष्टानाम् आसनानि स्थापयित्वा निषीदन्ति विनयातिक्रमम् आसादयन्ति । तेन भगवान् आह ।
अष्टाभिर् भिक्षुणीभिर् यथावृद्धिकाय उपवेष्टव्यम् उ शिष्टाभि यथागतिकाय
मूल पाठ: Bhikṣuṇīvinaya · Edition: Gustav Roth: Bhikṣuṇī Vinaya, Patna: K.P. Jayaswal Research Institute 1970 (Tibetan Sanskrit Works Series, 12) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0