भाषा

ENहिગુ
ग्रंथ पाठ

भविष्य पुराण · अध्याय 7

7.1

॥ श्रीकृष्ण उवाच ॥ ॥
यदेतत्ते समाख्यातं गंभीरं नरकार्णवम॥
व्रतोपवासनियमप्लवेनोत्तीर्यते सुखम्

7.2

दुर्ल्लभं प्राप्य मानुष्यं विद्युत्पतनचञ्चलम् ॥
तथात्मानं समादध्याद्भ्रश्यते न पुनर्यथा

7.3

दान व्रतमयी कीर्तिर्यस्य स्यादिह देहिनः ॥
परलोकेऽपि स तया ज्ञायते ज्ञातिवर्द्धनः

7.4

ज्ञायते नेह नामुत्र व्रतस्वाध्यायवर्जितः ॥
पुरुषः पुरुषव्याघ्र तस्माद्व्रतपरो भवेत्

7.5

अत्र ते कथयिष्यामि इतिहासं पुरातनम् ॥
सिद्धेन सह संवादमवंत्यां ब्राह्मणस्य हि

7.6

योगर्द्धिसिद्ध्या संसिद्धः कश्चित्सिद्धो महीतलम् ॥
चचार विकृतं कृत्वा वपुः परमभीषणम्

7.7

निगीर्णदंतो लंबोष्ठः पिंगाक्षस्तनुमूर्द्धजः ॥
त्रुटितैक कर्णो दुर्वणः शीर्णवस्त्रो महोदरः

7.8

चिपिटाक्षः स्फुटितपाज्जंघाढ्यः कृशकूर्परः ॥
दिशः पश्यति संहृष्टो बभ्रामोद्भ्रांतचित्तवत्

7.9

मूलजालिकविप्रेण दृष्टः पृष्टश्च को भवान् ॥
कदा स्वर्गात्समायातः केन कार्येण मे वद

7.4.7.10

कच्चिद्दृष्टा त्वया रंभा भाभासितदिगंतरा ॥
चित्तसंमोहनकरी देवानामेकसुन्दरी

7.11

गत्वा मद्वचनाद्वाच्या निर्वाच्या दोषदर्शिभिः ॥
आवंत्यस्त्वां कुशलिनीं पृच्छति स्म द्विजो त्तमः

7.12

सिद्धः प्रसिद्धं तं विप्रं प्राहेदं विस्मयान्वितः ॥
कथं त्वयाहं विज्ञातः स्वर्गादभ्यागतः स्फुटम्

7.13

ब्राह्मणस्तमथोवाच विज्ञातोऽसि मया यथा ॥
तथा तेऽहं प्रवक्ष्यामि क्षीणाघौघावधारय

7.14

गात्रत्रयं विरूपं स्याद्द्वितीयं वा स्वरूपतः॥
दृष्ट्वा सर्वांग वैरूप्यं विज्ञातोऽसि ततो मया

7.15

दुर्ल्लंघ्या प्रकृतिः साक्षादनुभूतकरी भवेत् ॥
प्रकृतेरन्यथाभावः सर्वथा लक्ष्यते जनैः

7.16

विप्रस्यैवं वचः श्रुत्वा जगामादर्शनं शनैः ॥
पुनः कैश्चिदहोरात्रैराजगाम स तां पुरीम्

7.17

मूलजालकविप्रेण पृष्टः प्राहामरावतीम् ॥
गतोऽहं पृष्टवां स्तत्र रंभां विभ्रमकारिणीम्

7.18

शक्रस्यावसरे वृत्ते व्रजन्त्याः स्वगृहं मया ॥
त्वत्संदेशः समाख्यातः सावदत्को न वेद्मि तम्

7.19

विद्यया कलया चापि पौरुषेण व्रतेन च ॥
तपसा वा पुमामर्त्यो दिवि विज्ञायते चिरम्

7.4.7.20

ब्राह्मणस्तमथोवाच मुग्धा दग्धाग्निसंभवा ॥
न भक्षयामि शकटं व्रतेनैतेन वेत्ति माम्

7.21

तस्यैतद्वचनं श्रुत्वा स सिद्धः सुविशुद्धधीः ॥
प्रहस्यामंत्र्य तं विप्रं जगामादर्शनं पुनः

7.22

कदाचिच्च रता तेन स्वर्गमार्गं यदृच्छया ॥
दृष्ट्वा रंभां द्विजप्रोक्तं सर्वमेव निवेदितम्

7.23

॥ रंभोवाच ॥ ॥
को न जानामि तं विप्रं शकटव्रतचारिणम् ॥
मूलजालैर्वर्तयंतं महाकालवनाश्रयम्

7.24

दर्शनादथ संभाषादुपकारात्सहासनात् ॥
चतुर्धा स्नेहनिर्बंधो नृणां संजायतेऽधिकः

7.25

न दर्शनं न संभाषा कदाचित्सह तेन मे ॥
नामश्रवणमात्रेण स्नेहः संदर्शितो महान्

7.26

इत्येवमुक्त्वा रंभोरू रंभा जंभारिणोंतिकम् ॥
विस्मयोत्फुल्लनयना जगाम गजगामिनी

7.27

गत्वा निवेदयामास स्नेहव्रतविचेष्टितम् ॥
पुरतो रुद्धहृदया ब्राह्मणस्य च धीमतः

7.28

शक्रः प्रोवाच चार्वंगीं गीर्वाणहृदयंगमाम् ॥
किमानयामि तं विप्रं समीपं तव सुव्रतम्

7.29

दिव्यमाल्यांबरधरं दिव्यस्रगुनुलेपनम् ॥
विमानवरमारोप्य दर्शयामास तं पुनः

7.4.7.30

तत्रस्थः स द्विजो भोगीविभुनक्ति सह रंभया ॥
शकटव्रतमाहात्म्यमित्येतत्ते मयोदितम्

7.31

राज्यश्रियं जगति सर्वजनोपभोग्यामाप्नोति शक्रशिवकेशवयोर्निवासम्॥
नाप्राप्यभस्ति भुवने सुदृढव्रतानां तस्मात्सदा व्रतपरेण नरेण भाव्यम्

7.7

इति श्रीभ विष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे शकटव्रतमाहात्म्यकथनंनाम सप्तमोऽध्यायः

मूल पाठ: bhaviṣyapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc