भावचूडामणिः · अध्याय 1
प्. १अ)
श्रीगुरुगणपतये नमः ॥
यद्यपि नानाविधानि साधनोपायानि लिखितानि तथापि भावेन विना मंत्राअ
न सिद्ध्यन्तीति भावचूडामणिर्लिख्यते ॥
तंत्र चूडामणौ ॥
श्रीभैरव उवाच ॥
मातर्द्देवि महामाये बन्धमोक्ष प्रवर्त्तिनि ।
इदानीं श्रोतुमिच्छामि गुरुक्रममनूत्तमं ॥
श्रीदेव्युवाच ॥
गुरु क्रमस्तु वहुधा मंत्राविस्तर गौरवात् ।
कालानामप्यनादित्वात् कथं तत् कथयामिते ॥
नैव ज्ञात्वा गुरुकुलं नष्टमार्गो भविष्यति ।
नष्टमार्गात् महाविद्या न तादृक् फलगोचरा ॥
गुरूणां शिष्यभूतानां नास्ति चेत्संतति क्रमः ।
तंत्र मंत्राश्च विद्याश्च निःफलाः नात्र संशयः ॥
विंशति पुरुषान् वापि नव सप्तत्रयोपि वा ।
न ज्ञात्वा गुरुवंशानां शिष्यः स्यान्नष्ट संततिः ॥
स्ववंशादधिकं ज्ञेयं गुरुवंशंभुनाशुभं ।
जनकादधिकं ज्ञेयं मंत्रादस्य महेश्वर ॥
तस्मात् सर्वत्र देवेश संक्षेपा छृणुतान् गुरून् ।
आदौ सर्वत्र देवेश मंत्रदः परमो गुरुः ॥
परापर गुरुस्त्वं हि परमेष्ठिरहं ततः ।
सर्व तंत्रेषु विद्यास्तु स्वयं प्रख्यात रूपिणी ॥
ततः पुरुष रूपश्च तस्मात् स्वगुरुसंततिः ।
तेनैवाहं पदंशाश्च मद्भक्ताश्च विऽऽएषतः ॥
प्. १ब्)
सर्वमंत्रेष्ट प्रभवः सर्वत्र शुभदायकः ।
शिवः शैवाश्च ये विप्रास्तेपि सर्वत्र देशिकाः ॥
गणेशो गाणपत्याश्च गणदीक्षा प्रभुर्मतः ।
सूरः सौरास्तथा वत्स विष्णुर्विष्णुपरायणः ॥
दिव्यौघ गुरवोदेव सिद्धौघ गुरवस्तथा ।
मानवौघा समासेन कथयामि तवाग्रतः ॥
सर्वतन्त्रेषु मंत्रेषु प्रोक्ता मंत्र चतुष्टयी ।
तत्रादौ कालिका देवी तस्याः शृणु गुरुक्रमं ॥
महादेवि महाकालस्त्रिपुरश्चैव भैरवः ।
दिव्यौघ गुरवः प्रोक्ता सिद्धौघान् कथयामिते ॥
ब्रह्मानन्दः पूर्णदेवश्चल वित्तश्चलाचलः ।
कुमारः क्रोधनश्चैव वरदः स्मरदीपनः ॥
माया मायावती चैव मानवौघान् शृणु प्रियं ।
विमनः कृपणश्चैव भीमसेनः सुधाकरः ॥
मीनोगोरक्षकश्चैव भोजदेवः प्रजापतिः ।
मूलदेवौरन्तिदेवो विघ्नेश्वर हुताशनौ ॥
सोमपानन्द सहजौ कालिका गुरवः स्मृताः ।
अथ तारा गुरून् वक्ष्ये दृष्टादृष्ट फलप्रदान् ॥
प्. २अ)
ऊर्द्ध्वकेशो व्योमकेशो नीलकण्ठो वृषध्वजः ।
दिव्यौघाः सिद्धिदा वत्स शृणुष्वावहितात्मना ॥
वशिष्ठ कूर्मनाथश्च नीलनाथो महेश्वर ।
हरिनाथो मानवौघानथ वक्ष्यामि सद्गुरून् ॥
तारावती भानुमती जया विद्या महोदरी ।
मुखानन्दः परानन्दः पारिजातः कुलेश्वरः ॥
विरूपाक्षौ भैरवी च कथितं तारिणी कुलं ।
सिद्धौघे मानवौघे च दिव्यौघे परमेश्वर ॥
अक्षौभ्यः सर्वमूर्द्धन्यस्त्रिमूर्त्तिर्न्नाग रूपधृक् ।
अथ स्वप्नावती देवान् कथयामि तव प्रिये ॥
परानन्दश्च पूर्णेशो देवदेवो जनार्दनः ।
पूर्णेशी सुन्दरी चैव मोहिनी रतिकामिके ॥
पुलस्त्यो भावसंपन्नो वीराकर्षणकर्मिणः ।
सिद्धौघे च सती देवी भैरवश्चन्द्रशेखरः ॥
मानवौघे सती देवी क्षमापूर्णा कलावती ।
महेशो विष्णुनामा च गंगेशः स्मरनायकः ॥
प्. २ब्)
कलानन्दः कुमारी च सर्वाश्च संस्कृतस्त्रियः ।
विदग्धाः सर्वजातीनां सर्वावस्था गताश्च या ॥
वाला वा यौवनोन्मत्ता निःपतिर्वा स पुत्रिका ।
गुरुभावं परित्यज्य योषित्सु यदि साधकः ॥
स्वप्नावती जयेद्वार्चा मनसा वपुषापि वा ।
सर्वदोषसमायुक्तः त्याज्योसौ कुलपांशनः ॥
तस्मात् सर्वप्रयत्नेन विप्रियं परयोषिति ।
निजास्वपि च कामार्थं मदंशायोषितो यतः ॥
अथ वक्ष्यामि ते वत्स षोडशीनां गुरुक्रमं ।
आनन्दनाथ देवश्च परप्रकाशकस्तथा ॥
ततः परशिवो देवः परशक्तिस्ततः परं ।
कौलेश्वरः शक्तिदेवोऽकुलेशानश्च कामुकः ॥
सुद्धौघान् कथयिष्यामि भोगक्षिन्नश्च भैरव ।
समयो देव सहजौ मानवौघान् शृणु प्रिय ॥
गगनो विष्णु विमलौ सहजो भुवनस्तथा ।
नीलस्वादुप्रियः पश्चात् कथिता गुरुसत्तमाः ॥
श्रीभैरव उवाच ॥
विद्या चतुष्टयी प्रोक्ता दुर्गया सदृशी हुत ।
तां विहाय कथं तारा प्रोक्तां परम दुर्लभा ॥
प्. ३अ)
श्री भैरव उवाच ॥
साधुपृष्टं त्वया वत्स सर्वप्राणि सुखा वह ।
यथा तारा तथा दुर्गा विस्मयो नास्ति यद्यपि ॥
तथापि तत्प्रकाशाय भयं जातं पदे पदे ।
शृणु वत्स महादेवं गुरून् दुर्गा मनूद्भवान् ॥
परमात्मा परानंदः परमेष्ठी शोभोदयः ।
कृष्णः कालो कलानाथो दिव्यौघा भैरवादिकाः ॥
नारदः कश्यपः शंभुर्भार्गवः कुलकौलिकः ।
एते पंचमहादेव सिद्धौघा परिकीर्तिताः ॥
रुद्राचार्यः क्षमाचार्यः पवनाशन संज्ञकः ।
कुमारीशः शक्तिधरो घनानंदः प्रकाशकः ॥
हरिशर्मा विष्णुशर्मा दत्तात्रेयः प्रियंवदः ।
वहुला शाकिनी देवी चर्यानाथः प्रकीर्तितः ॥
लोपामुद्रा गुरून् वक्ष्ये प्रसंगा छृणु भैरव ।
आदौ परेश्वरो देवः परमेशी ततः परं ॥
मित्रीशश्चैव सज्जीशो उड्डीशो दिव्यसाधकाः ।
चर्यानाथो लोपामुद्रा अगस्त्यः कालदीपनः ॥
मानवौघास्ततो वक्ष्ये धर्माचार्यास्ततः परं ।
मुक्तकेशीश्वरो देव दीपकोनाथ एव च ॥
विष्णुः प्रभाकरश्चैव मनोज्ञस्तदनंतरं ।
प्. ३ब्)
कल्याण देवरत्न देवौ श्रीरामानंद देवकः ॥
आनन्दनाथशब्दान्ता गुरवः सर्वसिद्धिदाः ।
अथ वा सर्वशास्त्रेषु गुरवः सर्वसूचिताः ॥
कुलचूडामणौ देव शृणु देव महेश्वरा ।
येषु येषु च मंत्रेषु ये ये ऋषिगणः स्मृताः ॥
ते ते पूज्याः स पूज्यादौ संक्षेपाद्गदितं मया ।
अज्ञानाद्गुरु नाम्नां वै गुरु त्रितयमर्च्चयेत् ॥
चतुष्टयं वा सप्तो वा न कार्यश्च ततः परं ।
गुरून्परमगुरुंश्चैव परापर गुरूंस्ततः ॥
परमेष्ठि गुरूंश्चैव कथिता गुरवस्तथा ।
गुरूपूजां विना वत्स यदि पूजां समाचरेत् ॥
तद्दोष शमने वत्स कुलपूजां समाचरेत् ।
त्रिगुणं यत्र यद् वा स्यात् स गुणं कुलपूजनात् ॥
कुलावलोकनं वेत्स्यात् कुतः प्रोक्षणमार्जनं ।
क्वस्तनिं क्व च वा छुद्धिः क्ववन्यास विशोधनं ॥
दीक्षा प्रभुकुलीनश्चेत् कुलं वा वटुकेश्वर ।
तत् देहे गुरुमानीय त्वत् पादे स्मरणं चरेत् ॥
न जानामि गुरोर्नाम न च शुद्धिं महेश्वर ।
त्वत् पादाम्वुजरेणूनां कृपया देहि दासतां ॥
प्. ४अ)
इति स्तवेन संस्तुत्य निजं कुलं गुरूं यदि ।
तन्नाम्ना पूजयेद् वत्स तेन पूजा गुरोर्भवेत् ॥
स्वप्नावत्यास्तु पूजायां कुलरूपं गुरूं स्मरेत् ।
कुलं यथा गुरुस्तत्र न तथा कुलसाधकः ॥
गुरुक्रमं च कथितं न ज्ञात्वा कुलपुष्करः ।
न देयं यत्र कुत्रापि यो पि चेष्टे च चुंवके ॥
पशोरग्नेन चैवैषां नाम ग्राह्य कुलेश्वर ।
वैष्णवे शक्ति तंत्रे वा गाणपत्येथ वा पुनः ॥
निजं गुरुं तदा ध्यात्वा ततो गुरु चतुष्टयं ।
पूजयित्वा जपेद् देवं न च संकोचमाचरेत् ॥
श्रीभैरव उवाच ॥
समयाचार संकेत भाव संकेतकं तथा ।
सूचितं तु महादेवि कथयस्वानुकंपया ॥
सर्वमंत्रेषु विद्यासु भावसंकेतमेव च ।
तथापि शक्ति तंत्रेषु विशेषात् सर्वसिद्धिदं ॥
श्रीदेव्युवाच ॥
भावस्तु त्रिविधा देव दिव्यवीरपशु क्रमात् ।
गुरवस्तु त्रिधा चात्र तथैव मंत्र देवता ॥
आद्य भावो महादेव श्रेयात् सर्व समृद्धिदः ।
द्वितीयो मध्यमश्चैव तृतीयः सर्वनिन्दितः ॥
वहुजपात् तथा क्षेमात् कायक्लेशादि विस्तरैः ।
न भावेन विना देव तंत्र मंत्राः फलप्रदाः ॥
किं वीर साधनैर्द्देव किं वा कृष्टि कुलाकुलैः ।
प्. ४ब्)
किं पीठपूजने नैव किं कन्या भोजनादिभिः ॥
स्वयोषित्प्रीतिदानेन किं परेषां तथैव च ।
किं जितेंद्रिय भावेन किं कृत्वाचार कर्मणा ॥
यदि भावे विशुद्धात्मा न स्याद् भाव परायणः ।
भावेन लभते मुक्तिं भावेन कुलवर्द्धनं ॥
भावेन कुलवृद्धिः स्याद् भावेन कायशोधनं ।
किं न्यास विस्तरेणैव किं भूतशुद्धि विस्तरैः ॥
किं तथा पूजने नैव यदि भावो न जायते ।
केन ना पूज्यते विद्या न च केन च पूज्यते ॥
फलाभावस्तु देवेश भावाभावात्प्रजायते ।
एतद् रहस्य कथने संकिते मन मानसं ॥
त्रिलोकीमत्सरी प्रायः सर्वत्र तत्समागमः ।
नो वीक्ष्य निर्जनं देव कथं तत्कथयामिते ॥
श्रीभैरव उवाच ।
त्वत्प्रसादान्मयादेवि विद्या स्वप्नविरोधिनी ।
सर्वमाया प्रपन्नानां दीक्षा दक्षाममाग्रणी ॥
विद्यते देवि सर्वेषां भूतानां स्वापकारणं ।
करोमि कथयत्वं मा यदि पुत्रत्व भावता ॥
श्रीदेव्युवाच ॥
प्रथमं दिव्यभावस्तु कथ्यते शृणु सादरं ।
यद्वर्णा देवता यत्र तत्तेजः पुंजसंयुतं ॥
तेजोमयं जगत्सर्वं विभाव्य मूर्तिकल्पितं ।
तत्तन्मूर्तिमयैर्मंत्रैः स्वेनास्वेनैव वा पुनः ॥
आत्मानं तन्मयं दृष्ट्वा सर्वं भावं तथैव च ।
तत्सर्वं योषिति ध्यात्वा चिंतयेद् यत मानसः ॥
प्. ५अ)
अशेष कुलसंपन्ना नाना ज्योति समुद्भवा ।
माना देशोद्भवा वापि गुणलावन्यसंयुता ॥
द्वितीय वत्सरा दूर्द्ध्वं यावत् स्याद् दशमाब्दकं ।
तावत् कुमारी विज्ञेया तंत्र मंत्र फलप्रदा ॥
कुमारी पूजनाद्दैव कुमारी भोजनादपि ।
एकद्वित्र्यादि वीजानां फलदा नात्र संशयः ॥
ताभ्यः पुष्पं फलं वापि अमुले पानुकं तथा ।
वालप्रियं च यद् द्रव्यं दत्वा नत्वा च पूजकः ॥
ध्यात्वा तदंगे स्वात्मानं वाल भावविचेष्टितः ।
ताभिः प्रियकथालाप क्रीडा कौतूहलादिकं ॥
यथा तथा तत्प्रिय कृत्कृत्वा सिद्धंश्वरो भवेत् ।
तस्मात् षोडशपर्यन्तं भवतीति प्रवक्ष्यते ॥
तत्र भावप्रकाशं चेत् स भावः परमो मतः ।
चरणाश्चूल पर्यन्तं पीत्वापि च पुनः पिवेत् ॥
तस्या नख मुखज्योत्स्ना खण्डितात् तस्तमो भवेत् ।
कामडी?खर्पराकारा प्रमदास्तन शोभया ॥
स्निग्धान्तः करणो वीरो निर्विकारः सदा भवेत् ।
सुवृत्त जानुना चारु जंघोरु जघनाश्रयैः ॥
नाभिरोमावलीं वक्ष स्थलैः पीनपयोधरैः ।
ग्रीवा नयन पर्यन्त केशाग्रैः प्रवरस्मितैः ॥
यावन्मधुमदापूर्णैर्त्तसीमैभावलौलितैः ।
स्निग्धेन्द्रियः सन्संतुष्टश्चतुवर्गः समाश्रयः ॥
प्. ५ब्)
निवृत्तिकाले पुनस्तस्या भावपूर्णामृतैर्न्निजं ।
मुखविन्दु वदाकारं तदधः कुचयुग्मकं ॥
सर्वविद्या मृता पूर्ण सर्ववाग्विभवप्रदं ।
सर्वार्थ साधकं देव सर्वरक्षणकारकं ॥
तदधः स परार्द्धं च सुपरीकृत्य मंडलं ।
सर्वदेवादि भूतं तत् सर्वदेव नमस्कृतं ॥
सर्व ह्ला *? संपूर्णं सर्वरक्षणकारकं ।
सर्वार्थसाधकं देव सर्ववश्य प्रवर्तकं ॥
एतत् कामकला ध्यान सुगोप्यं साधकोत्तमैः ।
ध्यात्वा स्मृताथ वा दृष्ट्वा ध्यात्वा कामकलान्वितः ॥
क्षणतत्व विमर्षेण जायते भाव संचय ।
कुलेषु तत्कलारूपं सकलं परिचिन्त्य च ॥
कुलीनो जायते यस्मात् कथं तत्कथयापिते ।
कुले साक्षाद्यतस्तत्वं स्वयं चिंतति तत्वतः ॥
तेन त्वत्कुलशास्त्रज्ञः पूजनीयः प्रयत्नतः ।
कुलदेवी वात्मदेवी निश्चला यस्य विद्यते ॥
स धन्यः पुरुषो लोके निश्चयोदय एव च ।
यत्कुले कुलदीक्षा तु तस्या पापां स एव हि ॥
अदीक्षित कुलाषंपात् सिद्धि हानिः प्रजायते ।
* * * * * * * * * * ?
गमनं यदि ॥
प्. ६अ)
सत्कुलीन कथं देव पूजयेत् परमेश्वरी ।
ग्रंथरूपा तु रूपेण * * * * * * * * ##?
* ? पितृ हृतं नाम वर्जनीयं प्रयत्नतः ।
परमोषाधि? ज्ञेयानि ज्ञापती प्रीति वर्द्धिनी ॥
*? तत्वा*?त कुर्याल्लीलाद्योगात्स्वलीलया ।
तस्मादुत्थाय हस्ताग्रे धृत्वा? सेवेतं स्वात्मवत् ॥
वामभागे समासीना स्ववर्णां कामरूपिणीं ।
ध्यात्वा कामकलां तत्र विन्द्वादि पूर्णविग्रहां ॥
केशविन्यास तिलकं हारकेयूरयावकां ।
सर्वाकलां विधायादौ कुलद्रव्या नियोजयेत् ॥
हेतु युक्तं सतां हूलं? दत्वा भुक्त्वान्न साधकः ।
पृछेत् कुल कथां तस्यां लौकिकाऽलौकिकादि किं ॥
न पंचोद्भवपुष्पानि कीर्तितानि कुलादिषु ।
न कलाति कुलाभिज्ञो ध्रुवं सिद्धोपि नश्यति ॥
दृष्ट्वा दोषादिकं तत्र स्नेहा विःकृत शिक्षया ।
भावयेन्न कटुर्युक्त्या विकृते निःफलं भवेत् ॥
कुलशास्त्र रहस्यं तु कुलमूलं यतः प्रभो ।
वरं कुलमतस्त्यागो वरं कुलगुरोरपि ॥
न त्यागयोग्यं स्वकुलं दृष्टदोषादपि प्रिय ।
कुलवृक्षे स्थिता साहं स्वकुलं पोषयाम्यहं ॥
प्. ६ब्)
तेन सर्वप्रयत्नेन रक्षणीयं प्रयत्नतः ।
सुकुले कुल वाहुल्यं यदि स्यात् भाग्ययोगतः ॥
सर्वरूपं विधातव्यं वैपरीत्य परित्यजेत् ।
पृथक् स्थानं पृथक् ध्यानं पृथक् पूजा पृथक् स्तुतिः ॥
न कर्तव्या प्रयत्नेन किमेभिर्वहु जल्पितैः ।
कुले तिष्ठानि देवेश नात्र कार्या विचारणा ॥
तासां विश्वास योगेन तद्देशाधिः प्रणश्यति ।
प्रमोदादमृतस्नानं ममस्यान्नात्र संशयः ॥
कुलजाहं महायुद्धे वीरास्फालननादिनी ।
न ज्ञेयमत्रयछामि पालयानियतो जगत् ॥
मौखर्यं पतिविद्वेषः कटूक्तिकलहादिकं ।
नीवादि गमनाच्चैव नाहमीषन्तरप्रिया ॥
ब्रह्माण्ड भाण्ड संभेदात् तेन जीवे स सिद्धियुक् ।
विनाकुले न मत्सिद्धिर्न्न कुत्र प्रतिपद्यते ॥
श्रीभैरव उवाच ।
चतुराश्र मिमां देवि मोक्षदात्वं सदा कथं ।
कुलभाव विवोधित्वात् संशयं मम पूरय ॥
श्री देव्युवाच ॥
मोक्षद्धारस्तु बहुधा * * * * * * * * ##?
केवलं कुलयोगेन प्रसीदामिन संशयः ॥
प्. ७अ)
चतुर्था श्रमिणा देव अवधूताश्रमो महान् ।
तत्राहं कुलयोगेन प्रसन्ना मोक्षदायिनी ॥
यदि न स्यात् तथा यत् तत् शृणु तत्कथयामि ते ।
ज्ञानभावे समुत्पन्ने संप्रार्थ्य निज कौलिकीं ॥
तस्मान्नयामि मुक्तिः स्यात् ताः संपूज्य कुलान्तरे ।
कुण्डली शक्ति विवरे तदा योगं समभ्यसेत् ॥
निर्द्वन्द्वो निरहंकारः शुद्धनाडी गणो व्रती ।
मृद्वासने समासीनः खगसंयमने रतः ॥
मेरुदण्डवहिः पार्श्वे चन्द्रसूर्यात्मिके शिव ।
मध्ये सुषुम्ना संदिष्टा तन्मध्ये चित्ररूपिणी ॥
तेनैव ग्रंथितं पद्मं मूलादि पथ पंचकं ।
कालिका कालरूपेण डाकिन्या द्यव लंवितं ॥
मूलद्वारं समासाद्य स्थिता सा नागरूपिणी ।
वायुनाभिद्यतयुक्तं दृढविद्रावयेत् ततः ॥
तच्छ्वासोज्ज्वलकामस्य शिक्खायानिशमुज्ज्वेरा ? ।
प्रति वक्त्रं प्रबुद्धासौ जीवात्मानं परे कुते ॥
नियोजयति तद्योगाद्यात्येव ममृतं परं ।
वेगात्प्रेद्भिद्य नासान्तं गतौचंद्रदिवाकरौ ॥
अधोचक्रं महापद्मं क्रोडी कृत्य सुषुम्नया ।
व्याघूद्यनासिका मध्यं गता चित्रांगसंगता ॥
प्. ७ब्)
ऊर्ध्वं भित्वात्तलिंगं वै इतरं पुष्करं ततः ।
वहीरत्नमनाकांक्षी साक्षिणी मोक्षदायिनी ॥
जीवेनादृष्टसंरुद्धा स्थिता सा पर संनिधौ ।
एतद्भेदं विजानाति भित्वा याति परं पदं ॥
अदृष्ट धातु जीवो सौ वहिर्याति दिने दिने ।
दिने शाङ्गुलिमानेन तदर्द्धश्चापरास्ततः ॥
द्विगुणं प्रीति काले स्यात् त्रिगुणं भोजनाद् वहिः ।
ऊर्ध्वं वहिर्देव दिनं त्रिदिनं यदि भैरव ॥
न्यूनं वा तदधः प्राणः शरीरं परिमुंचति ।
शरीरं समतां नीत्वा न्यूनं वा वटुकेश्वर ॥
कुंभयित्वा अधो वायुं कुण्डली मुखवर्त्मनि ।
योजयित्वा ततो जीवं नीत्वा नादावसानकं ॥
गमागमं कारयित्वा सिद्धो भवति मानवः ।
पीयते खाद्यते यत्तस्तत्सर्वं कुण्डली मुखे ॥
हुत्वा सिद्धि मवाप्नोति न स बंधेन बुध्यते ।
भित्वा कार्या न चत्वार्यं कुण्डलिन्या कृते पुनः ॥
हेमातर्द्देहिमे भिक्षां कुण्डली तर्पयाम्यहं ।
अवधूताम्र मे स्थित्वा भैरवानंद तत्परः ॥
भैरवोहं न चान्योस्मिन् न देवोमत्परः क्वचित् ।
मंत्र तत्रार्द्ध न सर्वमयिजातं न चान्यथा ॥
प्. ८अ)
शिवोहं भैरवोहं नादो मंत्रोह कुलनायकः ।
रक्तचन्दनदिग्धां परिक्तकौपीनभूषितः ॥
रक्तमाल्याम्वरधरोहेतु युक्तः सम्भवेत्(?) ।
एवं भिक्षां व्रजन् भिक्षुः भैरवाचार तत्परः ॥
लिप्यते न च पापेन वध्यते न तु जंतुना ।
यत्र द्वेषे त्वयं याति संदेशः क्षिति नायकः ॥
तंत्र निन्दा परा ये तु ते नश्यंति क्षणात् प्रभो ।
तस्माद्यत्रात् पूजितव्यो न तिरस्कार एव च ॥
यतेछा विद्यते तस्य तत्कार्यं प्रियमप्रियं ।
तदन्ये देवदेवेश विलोपाचारविस्तरं ॥
पूजयन्ति महादेवी कुलांग दृष्टिमात्रतः ।
पुष्पंगंधं च तांवूलं नैवेद्यं यत्र तद्भवेत् ॥
मनसा तत्समुत्सृज्य वाह्यतो कुलवारिणा ।
आत्मनै तत्समायोज्य देवी रूपं कुलेश्वर ॥
न पूजां नार्पितं न्यास न निष्ठा न व्रतादिकं ।
पूर्णोहं भैरवश्चाहं नित्यानंदोहमव्ययः ॥
निरंजन स्वरूपोहं निरंकारस्त्वहं प्रभुः ।
सर्वशास्त्रादि युक्तोहं सर्वमंत्रार्थ पारगः ॥
नात्मात्परतरो देवो न जातो न जनिष्यति ।
आनन्दरूपवान् भूत्वा सर्वेषां प्रियकारकः ॥
प्. ८ब्)
मुक्तदुर्गंध मत्स्यादि त्याज्यं दिव्यवलिं प्रिय ।
नानासुगंधसंयुक्तं मांसादि भोजनं चरेत् ॥
सुगंधामलतैलाद्यैर्नानागंधांगविस्तरैः ।
स्नानं कार्यं चाति मुद्धिं सूक्ष्मां वासोभिधापयेत् ॥
सुगंधि पुष्पमालाभिर्मुक्तालंकारभूषणैः ।
स्निग्धं सुमधुरं देहं कामरूपं मनोहरं ॥
कृत्वा तु मंगलं देहं मृदुभाषण तत्पर ।
कुलालापानु संधायीं कुलरूपं विचिन्त्य च ॥
विहरेद् दिवसे चैव रात्रा वा हृष्टि तत्परः ।
आनीय योषितः सर्वाजात्यष्टक समुद्भवाः ॥
गंधानुक्रमनाद्देव नाम कुर्यान्महेश्वर ।
या स्यात् प्रथम शक्तिस्तु शुद्धान्तः करणा द्विजा ॥
शुद्धापि मलमत्तांगी दिव्यगंधा मनोरमा ।
सा हि स्वप्नावती देवी तन्मंत्रं तत्र योजयेत् ॥
शुद्ध पुष्पैश्च नैवेद्यैर्ल्लवणैर्मधुसंयुतैः ।
पूजयित्वा यथा पूर्वं साधयेन्निज साधनं ॥
या कृष्णा नील कृष्णाभा मधु पिंगललोचना ।
साधकानां *? हृदयायुगला नित्यगंधिका ॥
तस्यां काली समायोन्या सा काली परिकीर्तिता ।
तत्पुष्पे नैव तां काली तत्रै वेद्यैश्च पूजयेत् ॥
प्. ९अ)
या स्यात् तृतीयगौरांगीषु सुगंधानु लोचना ।
त्रिपुरा नाम सा देवी रक्तपुष्पेण पूजयेत् ॥
मदगंधा तु या नारी मदस्फालनमन्धला ।
मुक्ता आमिषगंधेन महिषासुरमर्दिनी ॥
मद्य गंधा तु या नारी रक्त नेत्रा विनिस्थुला ।
सोग्रतारेति संप्रोक्ता पत्युः पापविनाशिनी ॥
अश्वगंधा तु या नारी दीर्घाजंघामनोहरा ।
सास्याच्चकित लोलाक्षी अश्वारूढावरप्रदा ॥
आमगंधा च वदने पूतिगंधा च संधिषु ।
नीलवर्वरकेशीं या विद्यादुर्गामहोत्सुखी ॥
सर्वलक्षणसंयुक्ता नानागंधसमागता ।
सुदती चारूकेशी या दीर्घनेत्रामनोहरा ॥
नानाविलास कुशला कुलशास्त्रविचारिणी ।
गुरुवक्षस्थलाक्रांत मध्याविरलदर्शिनी ॥
सुदती सा भवेद्गौरी सर्वकार्यप्रवर्द्धिनी ।
एतद् गणैः समायुक्ता नाना वा एकजातया ॥
रूपगंधसमायुक्ता नामतः परिकीर्तिता ।
रक्षितव्या प्रयत्नेन अक्षतास्ता यथा भवेत् ॥
स्वयं कामेश्वरो नाम्ना भूत्वा कामपरायणः ।
प्. ९ब्)
भाववृद्धिं विधायैव मूलयोगं समाचरेत् ।
मूलयोगे कृते तत्र सप्ताहात् मरणं भवेत् ॥
न विष्णुर्न हरिः शंभुर्न्न देवी न च षोडशी ।
न च मृत्युंजयो वापि न न्यासो नापि भावना ॥
तस्य मृत्युक्षयो देव प्रभवंति न देवताः ।
सा नारी मूलयोगेन नागदंष्टु विधेन वा ॥
वज्रेणाभिद्यगर्भे च महाव्याधि वशादपि ।
म्रियते तेन पापेन महादेव सुनिश्चितं ॥
देवकृत्या तु वहुधा दृष्टादृष्टविभेदतः ।
विशेषतोस्त्रादेवेश किमन्यद् वहुजल्पितैः ॥
माययाछाद्य चात्मानं निजस्त्री रूपधारिणी ।
आगत्य रमते नित्यं तेनैव नश्यते ध्रुवं ॥
तस्मात् स्वदेशे नैव तत्कर्तव्यं सिद्धिवांछया ।
किं वा कामविलोपार्थं यतितव्यं सुरेश्वरे ॥
कर्मदण्डं समादाय शिवसाम्यं निधाय च ।
तत्पात्रं चक्र सूत्रेण वेष्टनं सप्तधा कृतं ॥
पाशत्वं सर्वभूतानां रक्षणायस्वयंभुद्दा? ।
निर्जितोसि महाभाग उग्रवंधविधीयतां ॥
एव मा मंत्र्य तत्सूत्रं शिवाङ्गे सप्तवेष्ठितं ।
जाग्रद्दृशां समासाद्य स्वापमंत्रं ततो जपेत् ॥
प्. १०अ)
संहार स्वप्नतोधिन्या पुटितं प्रणव द्वयं ।
स्वप्नमंत्रसमाख्यातः स्वापदः सर्वजंतुषु ॥
एवं कृत्वा स्वयं देवो महेशादिक्य एव च ।
कुलं यदि स्याद् योगेश यश्च संस्मरलोलुप ॥
तदापेक्षा विधातव्या कार्याश्च कर्हिचिद्बुधैः ।
वराङ्ग शृणु मद्वाक्यमावय शुभहेतुकं ॥
एतत्कार्यसमासाद्य कर्तव्यं तववेष्ठितं ।
एवमुक्ता निजं कार्यं विधाय साधकोत्तमैः ॥
वक्तव्यं न च कर्तव्यं कुलयोगं महेश्वरः ।
वीरपत्नीवीरकन्या वीरांगजवरांगना ॥
नाहृष्यासाधकैः पूर्वं यावत् स्यात् मम संस्थितिः ।
मनः क्षोभे तत्र याते मूलयोगेन यत्फलं ॥
तत्फलं जायते देव सत्यं सत्यं न चान्यथा ।
वीरपत्नी तु परमास्वयमेव महेश्वरी ॥
तत्सुताकुल विद्यानामाद्यावैति पुरातनी ।
तद्वधू भुवनेशानी सर्वमंत्रप्रबोधनी ॥
न्यायतोऽन्यायतो वापि वीरपत्नी गुरूर्यदि ।
वीक्षणादेव सर्वार्थं * * * साधको भवेत् ॥
यदि भाग्यं वशाद्देव वीरपत्नी तु लभ्यते ।
प्. १०ब्)
फलपाकं तत्र कृत्वा किन्नसिद्ध्यंति भूतले ॥
फलपाकविधानं तु सर्वदेव नमस्कृतं ।
कथयामि महादेव न प्रकाश्यं कथंचन ॥
दृष्टादृष्ट कुलं देव देवगंधर्वकिंनराः ।
आयांति फलपाकार्थं तस्माद्यत्नविचिंतयेत् ॥
विसर्जनं विधातव्यं गोपनं भावशांतिकं ।
तत्तत्कार्यविधानेन कुलं कुर्यात् सुशिक्षितं ॥
मातः प्रतिदुना धर्मा धर्मो न हि जगत् त्रये ।
पतिः प्राणपरोनित्यं पतिरेव परागतिः ॥
पतिरेव परं ब्रह्मपतिः प्राणाधिकः प्रभुः ।
सर्वतीर्थमयः स्वामि सर्वदेवसमःपतिः ॥
सर्वदेव मयञ्चैव पतिरेव महागुरुः ।
आगत्योपि विशेत्पार्श्वं मुखं वीक्ष्यस्थिता भवेत् ॥
पतिभावेंगिते दक्षा कृष्णास्यात्पतिदर्शने ।
उत्तरेणोत्तरं दद्यात् पाहरेद्दूरकर्मणि ॥
सर्वदेवमयं हित्वा या नारीपरगोचरा ।
शूकरीगर्द्दभीकाकीशृगाली जायते ध्रुवं ॥
अहं तु पुत्रवद् देवि नमेभ्रीतिर्न चेत्रया ।
तव संगे यो हि याति पति रूपधरः क्वचित् ॥
प्. ११अ)
मूलमंत्र जपन्तोयं तद्गात्रे देयमीश्वरी ।
तया यदि वहिर्न स्यात् तदा स्वपतिरेव च ॥
इतोपि शिष्य या कार्या शिक्षिता कुलयोषिता ।
रक्षाकार्या विधानेन पूर्वोक्ते नैव चात्मना ॥
योगिनीनां महापूजां वटुकानां च भैरवं ।
कार्याविघ्नविनाशार्थ कुलवारर्क्षयोगतः ॥
यासां मूलतरोर्मूले मूलविद्या तु कामिका ।
लिखित्वानेक कालेषु ततो विघ्नैर्न्न लिप्यते ॥
वीरपत्न्यामूलदेशेन कालं मंत्रयोजनं ।
विसर्जनविधौ देव यदीछेत्फलपातनं ॥
यत्र ये प्रीति रेतस्य कुलस्य कुलवित्तम ।
तद्रूपं विग्रहं कृत्वा भैरवा वटुकादयः ॥
तत्र वीरार्पणं कृत्वा कुर्वंति फललक्षणं ।
लिङ्गैर्वाक्यैः पदैर्देव ज्ञात्वा फलसमुद्भवं ॥
देवैर्जातं नरैर्जातं यथार्थज्ञानशास्त्रतः ।
ज्ञात्वा फलविभागं तु पंचमात् परतः प्रभो ॥
सप्तमाष्टममासाद्वा वृक्षमध्ये सरोवरे ।
हस्तो दत्तं पादुकाभ्यां विद्यासंहारयोगतः ॥
जपेदष्ट सहस्रं वै स्वयं विक्षात्पतिष्पति ।
एवं कृते यत्पतति तत्फलं देवनिर्मितं ॥
प्. ११ब्)
अश्वामिकं च पतति वैपरीत्यगमागमात् ।
एतल्लिंगं फलं ज्ञात्वा आनीयक्षालयेत् ततः ॥
दोषभागं परित्यज्य फलवृक्षं प्रणम्य च ।
ताम्रपात्रे महारण्ये फलपाकं समाचरेत् ॥
रक्षादिकं विधायैव वदुन्नय समन्वितं ।
नानासुगंधि संमिश्रं सिद्धं ज्ञात्वा विचक्षणः ॥
संस्तुतानलमध्ये तु अघोरं होमयेत् ततः ।
हेतु मुद्रां मृती कृत्य होमं कुर्यादलक्षितः ॥
रात्रावेवं विधायैव यज्ञशेषं भजेत् ततः ।
भुक्तमात्रे तु तस्मिन् वै चिरंजीवीक्षितौ भवेत् ॥
सद्यो मधुमती सिद्धिः करस्थाः भोगदायिनी ।
दिव्यभावः साधकेंद्रमर्त्य शक्रसमो भवेत् ॥
देवानां प्रियकारित्वात् मोक्षं दत्वा महेश्वर ।
साधकानां कुलज्ञानां न दोषो कल्पपातने ॥
एतत्फलनिपातार्थ फलवत्पापदे पदे ।
विघ्नं करोति सर्वत्र निजसंकोच कारणात् ॥
फलवृक्षोपरि तथा विघ्नंमाचरति ध्रुवं ।
फलवृक्षस्य हानिश्चेत् कदाचिद्दैव योगतः ॥
साधकोपि तथा देव भवेन्नात्र विकल्पनं ।
प्. १२अ)
वाचाव्य? मनसा वापि कायाद्वा यदि वाध्यते ॥
फलवृक्षस्तदा देवो नश्यति स्मरसासनं ।
वाध्यते कुलवृक्षाश्चेत् साधकस्य कृते प्रभो ॥
तावन्न कुल पूजा स्याद् यावन्त निसृतिर्भवेत् ।
तावन्निजकुलालापो वर्जनीयः प्रयत्नतः ॥
एतत्कार्य विधाने तु योग्यं नास्ति महीतले ।
अतिदूरांतरे देशे नामवर्णविवर्जितः ॥
करोति यदि भद्रं स्याद् विघ्नं वा फलसाधनं ।
न दोषस्तत्र वाध्यन्ते साधकाः कुलदेवता ॥
विघ्नप्रधानमेतत् तु कदा चित्फलसाधनं ।
सफलं समनुप्राप्य क्रियते यदि पामरः ॥
फलं भवति देवेशि पापेन वध्यते ध्रुवं ।
निन्दा मधुमती तत्र जायते नात्र संशयः ॥
मधुमत्याफलं देव कथयामि शृणुष्वमे ।
सुधाधारधरावानी वक्त्रान्तस्य प्रजायते ॥
सर्वज्ञ सर्वशास्त्राणां मधिपः कुलनायकः ।
चन्द्रसूर्यावधिपृष्ट्यां विभूति वहुलं सुखं ॥
देवकन्याप्सरोभिस्तु दिव्यगंधर्वचारणैः ।
अमृतार्थे प्रीतिकरैर्देवभोग्यैः सुदुल्लभैः ॥
देवकन्या हस्तगतैः रथमारूह्य सोत्सुका ।
प्. १२ब्)
आयाति साधकाकांक्ष हृदया परमेश्वर ॥
यत्र कामेश्वरो देवश्चिंतावशमुपागतः ।
तत्रैव यांति सततं देवकन्याः सहस्रशः ॥
इन्द्रयोग्यपुरी कृत्वा रमते साधकैः समं ।
ततो पागतमुक्तात् स मुक्ता तु वहुधा सुखं ॥
चिरकालं भुवि स्थित्वा चांते मुक्ति मवाप्नुयात् ।
एषतो कथितो देव दिव्यं भावः सुखावहः ॥
न देवो यस्य कस्यापि पशौ गोप्यः प्रयत्नतः ।
वीरभावो महादेव कथ्यते गुरुभैरव ॥
निर्द्वन्द्व मानसो भूत्वा हृदि कामकलातनुः ।
निशापूजासु प्रवरोहे तु युक्तः सदैव हि ॥
निजकुलं समादाय स्वयं भैरव रूपधृक् ।
कुलं च भैरवी रूपं तद्गात्रे न्यास विस्तरं ॥
विन्यस्य सकलं न्यासं नवयोन्यात्मकं तथा ।
प्रसून तूलिका मध्ये पुष्पे प्रकरसंकुले ॥
नानागंध समाकीर्णे कुलद्रव्ये न यंत्रकं ।
लिखित्वा पूजयेछंखं घटस्थापनपूर्वहं ॥
स्ववामभागे षट्कोणं तन्मध्ये ब्रह्मरंध्रकं ।
लिखित्वा तत्र कुंभं वै सौवर्णे राजतं च * *? ॥
प्. १३अ)
ताम्रं भूमि मयं चापि यद्वा लोह विवर्जितं ।
स्थापयेत् कलया देव कुंभं गंधसुवासितं ॥
हेतु द्रव्यं ब्राह्मणादि * * ? भेदेन पूजयेत् ।
तत्र मंत्रं विलिख्यादौ यद्यत्कुल समुद्भवं ॥
ध्यात्जेष्ट (?) देवतां तत्र जपेदष्टोत्तरं शतं ।
धेनुमुद्रां प्रदर्श्याय अमृतं तद्विचिंतयन् ॥
दृष्ट्वार्घस्य च पात्रं वै लोलुपाः सर्वदेवताः ।
नृत्यंति भैरवाः सर्वे नृत्यंति मातरो गणाः ॥
इन्द्रादयः सुराः सर्वे नृत्यंति मधुलोलुपाः ।
ब्रह्माविष्णुमहेशाद्या नृत्यंति हर्षतत्परा ॥
अर्घभाण्डं द्विधा कृत्वा गुरवे चैकभागकं ।
एवं कुलापदत्वा वै एकेन देवतर्पणं ॥
पीत्वा कुल रसं देव नानालंकार भूषितः ।
साक्षायदि गुरूर्न स्यात् तदातोये विसर्जयेत् ॥
आनन्दरूपवान् भूत्वा पूजयेत् परमेश्वरीं ।
तत्तत्कल्पोक्त विधिना तत्तद्यंत्रे प्रपूज्य च ॥
विसर्जनं विधायाथ स्वकुले योजयेत् ततः ।
तद्विश्वर स पानेन अमृतं भुज्यते मया ॥
तच्चकोणरसास्वादैः सप्यतु ससजायते ।
तत्फलग्रहणादेव सुमेरू शृंगरोहणं ॥
प्. १३ब्)
लतालिंग न मात्रेण सुधाधौत कलेवरा ।
मूलयोगे कृते तत्र जपेदष्ट सहसुकं ॥
जपपूतं हवि द्रव्यं गृहीत्वा तर्पयेत् ततः ।
विधाय तर्पणं देव प्रदक्षिण मनुव्रजन् ॥
प्रणम्य स्तुत्वा कल्पोक्तस्तवेन तोयं येत्ततः ।
इदं वीर कुलं देव सुंदरं सुमनोहरं ॥
यद्देशे विद्यते वीरस्तत्कुलं वापि भैरव ।
वनमाली भयं तत्र न च राजभयादिकं ॥
सुमंगलं सदा तत्र धन पुत्र विवर्द्धनं ।
लक्ष्मीस्तत्र महादेव सुस्थिरा सर्वदा भवेत् ॥
मंत्रं स्वप्न प्रवोधिन्या अवश्यं वृक्षमूलके ।
योजनीयं प्रयत्नेन न च विघ्नं प्रजायते ॥
नान्यवीरेण तद्योगाद्ग्रहणे दैविकैरपि ।
योगिनीभिस्तु युक्तं तु न च पापैर्न्न युज्यते ॥
यत्र तत्र कुजेवारे श्मशाने गमने कृते ।
पूजाफलं भवेत् तत्र सप्तवासरसंमितं ॥
चतुर्दश्या गते तत्र पक्षपूजाफलं लभेत् ।
नागतेनार्चिते स्थाने पशुरेव न संशयः ॥
नान्यस्यादधिको देव इति चिंतापरायण ।
साधको क्षोभमापन्नेमपि क्षोभ? प्रजायते ॥
प्. १४अ)
तस्याद्यत्नाद्भोग्रयुतो भवेद्वीरवरः सुखी ।
भोगेन मोक्षमाप्नोति भोगेन कुलसाधनं ॥
विना हेतु समासाद्य क्षोभयुक्त महेश्वर ।
न पूजा मम संकुर्यान्न च ध्यन न चिंतनं ॥
तस्माद् भुक्त्वा च पीत्वा च पूजयेत् परमेश्वरं ।
न क्रमद्युति दोषोस्ति नाचारादविदूषणं ॥
यद्यद्गदति निद्राति यत्करोति यदर्घति ।
तत्सर्वं कुलरूपं तु ध्यात्वा च विहरेत् सुखी ॥
एकाकी निर्जने देशे श्मशाने पर्वते वने ।
शून्यागारे नदीतीरे निःसंगे विहरेत् सदा ॥
वीराणां जपकारस्तु सर्वकाल प्रशस्यते ।
सर्वदेशे सर्वपीठे कर्तव्यं न च संशयः ॥
यदि विप्रो भवेद् भ्रष्टः कुलद्रव्यं परायणः ।
तदानेन विधानेन कर्तव्यं कुलतोषणं ॥
अपरापुष्पगर्भे तु कुलस्थानं मनोहरं ।
सर्वदेव मुखं तत्र महाकामकलात्मकं ॥
हयाऽरि कुसुमे देव स्वयमस्ति सदाशिव ।
तन्मध्ये न घुमादाय पुष्पमध्ये तु चंदनं ॥
रक्तं युक्तमरागं वा दत्वा तत्र शिवात्मकं ।
योजयेत् शिव शक्त्या तु ऐक्यं संभावयन्धिया ॥
प्. १४ब्)
क्षणं तत्रैव संपूज्य निश्चित्य परमेश्वरी ।
जप्त्वा तदेव कुण्डोस्थं द्रव्यं परमदुर्लभं ॥
अमृतादधिकं ज्ञेयमेतद्रव्यं सुदुर्लभं ।
यत्रा पराजिता पुष्पं जवा पुष्पं च भैरव ॥
करवीरे रक्त मुक्तै द्रोणं वा तत्र तिष्ठति ।
तत्र देवी वसेन्नित्यं तदन्ते पूजनं मम ॥
दत्तैकैकज वा पुष्पं पट्टवस्त्रफलं लभेत् ।
ब्रह्महत्यादिकं पापं क्षणान्नश्यति निश्चितं ॥
अपरा या तु माहात्म्यं च वक्तुं न हि महेश्वर ।
वीर साधन कार्ये तु कर्तव्यं वीर पुरुषैः ॥
दिव्यैरपि च कर्तव्यं पशुभिर्न्न च पानरैः ।
वरं पामर कार्यं तु न पशौ चेति निश्चयः ॥
यद्यद्यदा पुराप्रोक्तं शक्तेन मंत्रसाधनं ।
अंजनं गुटिकादींश्च कुर्याद् वीरो महाबलः ॥
दिव्ये वीरेण भेदो स्त्रियो भेदः स च कथ्यते ।
सन्तो विन्प्रतो(?) मधुरः कलालावन्य संस्थितः ॥
दिव्यस्तु देववत्प्रायो वीरश्चोर्द्धत मानसः ।
विभूति भूषणं वापि चन्दनैर्वा विलेपितं ॥
आकारगोपनं वापि व्यक्तो वा कुलभैरव ।
रक्तचंदनदिग्धो वा वैष्णवो वाप्य वैष्णवः ॥
प्. १५अ)
असंस्कृते संस्कृतो वा नित्ययुक्त कुलेश्वर ।
अपमाने च पूजायां हृष्टः पुष्टः सदा भवेत् ॥
देवनिन्दा परो वापि तत्पूजादि परोपि वा ।
पूजारतस्तद्रहितः कुलीनमतते स्थिताः ॥
निजभावसमायुक्तो देववद्विहरत्क्षितो ।
स्वकुलान्तं पुरश्चर्या कार्य रात्रौ चान्यथा ॥
वेदहीने द्विजे देव यथा न श्रुति संस्क्रिया ।
विष्णु भक्तिनिवादेव भक्तिर्न प्रभवेद् यथा ॥
शाक्तज्ञानं विना मुक्ति यथा हास्याय कल्प्यते ।
गुरुं विनायथा तंत्रे नाधिकारः कथंचन ॥
पतिहीना च या नारी सर्वकर्मविवर्जिता ।
कुलं विना तथा देवो वीरो वा मम साधकः ॥
नाधिकारीति कौलेय तस्माद् भाव परोभवा ।
अविनीतं कुलं यस्य स कथं मम पूजक ॥
तस्माद् यत्नात् तथा कार्यं यथा स्याद् विनयान्वितं ।
भावाभाव कुले शास्त्रे नाधिकारः कथंचन ॥
तेन भाव विशुद्धस्तु साधकः कौलिको भवेत् ।
मूल पाठ: bhāvacūḍāmaṇiḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0