भार्गवतन्त्रम् · अध्याय 14
॥ चतुर्दशोऽध्यायः ॥
[विवाहोत्सवनिरूपणाध्यायः]
[पाणिग्रहणोत्सवप्रयोजनं विधिं च वर्णयितुं अगस्त्यस्य प्रार्थना]
अगस्त्यः
कथं नु देवदेवीयं पाणिग्रहणमङ्गलम्।
तत्कारयित्वा किं भूयात् तन्मह्यं ब्रूहि भार्गव
[उद्वाहोत्सवस्य फलकीर्तनम्]
श्रीरामः
देवेन सह देवीनां शयने परिकल्पिते।
नोद्वाहकर्म कुर्वीत तत्कुर्यादन्यथा यदि
सर्वकल्याणसम्पत्तिरायुर्वृद्धिश्च जायते।
अभिप्रेतार्थसिद्धिः स्याद्देवीकल्याणकारिणाम्
नश्यन्ति सर्वदुःखानि पापैश्चापि न लिप्यते।
धनं धान्यं च लभते पाणिग्रहणकर्मकृत्
[विवाहोत्सवक्रमे अङ्कुरार्पणदिनम्]
उद्वाहदिवसात्पूर्वम् अङ्कुरार्पणमाचरेत्।
[देवस्य देव्याश्च कल्याणमण्डपे आनयनम्]
कल्याणेऽहनि कर्तव्यं पृथक्कौस्तुकमङ्गलम
देवं देवीं च भूषाद्यैरम्बरैः कुसुमादिभिः।
प्रसाधयित्वा शिबिकामारोप्य गृहधाम च
प्रदक्षिणीकृत्य देवौ नयेत्कल्याणमण्डपम्।
[अङ्कुरार्पणविधिनिरूपणम्]
विष्वक्सेनं समाराध्य कर्मविघ्नोशान्तये
अङ्कुराण्यर्पयेत् सद्यो यद्वोद्वाहे प्रसन्नधीः।
ब्रह्मादिदेवानाराध्य पालिकास्वपि पञ्चसु
बीजपात्रं समादाय नमस्यामि दिशां पतीन्।
इति प्रार्थ्य समासीनो `या जाताऽ इति विद्यया
इति बीजानि संजप्त्वा बीजावापं समाचरेत्।
मध्ये तु ब्रह्मजज्ञानं यत इन्द्रः पुरन्दरे
योऽस्य कोष्ठ्यं यमदिशि `इमं मे वरुणेऽभवेत्।
सोमो धेनुं तथा सोमे बीजावापस्सकृद्भवेत्
तूष्णीं द्विरन्यै ऋत्विग्भिस्तूष्णीं न्यसनमुच्यते।
`मूर्धानमिऽति मन्त्रेण मृद्भिराच्छाद्य देशिकः
`इमं मे वरुणेऽत्येव सेचयेच्छुद्धवारिभिः।
[देवस्य देव्याश्च हस्ते कौतुकबन्धप्रकारः]
पुण्याहपूर्वं कृत्वैवं कुर्यात्कौतुकबन्धनम्
सप्तवारं प्रतिसरऽमस्त्रमन्त्रेऽण मन्त्रितम्।
`त्र्यम्बकेनऽ ऋचालिप्य चन्दनक्षोदवारिणा
`विश्वेत्तातेऽति मन्त्रेण हस्ते देवस्य दक्षिणे।
बन्धयेत् स्व-स्वमन्त्रेण देवीनामितरे करे
[रक्षाविधिः]
स्पृष्ट्वा दक्षिणहस्तेन `यो ब्रह्मेऽत्यभिमन्त्रयेत्।
`बृहत्सामेऽति मन्त्रेण रक्षा स्याद्धूपभस्मना
त्रिकृत्वः प्रणमेद्देवं `पुण्डरीकाक्षऽविद्यया।
[शुभिकाबन्धनविधिः पुष्पमालिकाबन्धनविधिश्चः]
उल्लिख्याग्निं प्रतिष्ठाप्य `शुभिके शिरऽइत्यृचा
शुभिकां बन्धयेन्मूर्ध्नि दम्पतीनां यथाक्रमम्।
`यामाहरदिऽति ऋचा बन्धयेत्पुष्पमालिकाम्
पादप्रक्षालनं विष्णोः तथा त्रीनि पदेति च।
`मयि महऽ इति मन्त्रेण आत्मानमभिमर्शयेत्
[पाणिग्रहणविधिनिरूपकक्रमे प्रोक्षणप्रकारः]
ततस्तु मृण्मये पात्रे साक्षते पुष्पसंयुते।
अर्हणायाम्बुनापूर्यं गृह्णीयात्करयोर्द्वयोः
`अर्हणीया आपऽ इति प्रार्थ्य देवं ततः परम्।
`आमागन्निऽति मन्त्रेण जपेत्पात्राम्बुदेशिकः
हस्ते तु देवदेवस्य `विरोजो दोहऽ इत्यृचा।
निनीय नीतमुदकं `समुद्रंऽ वेति चोच्चरन्
प्रोक्षयेत्कूर्चमादाय गां च दद्यात्तदा हरेः।
`युवं वस्त्रेतिऽ मन्त्रेण वस्त्रेणाच्छादयेद्धरिम्
[यज्ञोपवीतकल्पनं पादयोः अक्षतार्पणञ्च]
यज्ञोपवीतमन्त्रेण यज्ञसूत्रं प्रकल्पयेत्।
`इरावतीतिऽमन्त्रेण पादयोरक्षतार्पणम्
[मधुपर्कनिवेदनापोशनक्रमः]
मधुपर्कं स्वर्णपात्रे गृहीत्वा तं त्रिरुच्चरन्।
`त्रय्यैऽ `आमागन्नितऽ च द्वाभ्यां तमभिमन्त्रयेत्
`अमृतोपस्तरणमऽसीत्यापोशनमथ स्मृतम्।
`यन्मधुनेऽति च जपन् मधुपर्कं निवेदयेत्
`अमृताधानऽमन्त्रेण पुनरापोशनं मतम्।
[गोविसर्जनप्रकारः]
गां प्रदर्श्याथ हरये `गौर्गौ`रऽसीति विद्यया
प्रणवो चं चिकितुषे इति गामभिमन्त्रयेत्।
`ओमुत्सृजतऽइत्युक्त्वा गां विसृज्य ततो गुरुः
[अन्ननिवेदनक्रमः]
`भूतं सेतिऽ वदन् धीमान् अन्नं तस्मै निवेदयेत्।
`ओं कल्पयतऽ इत्युच्चैः ब्रूयाद्देशिकसत्तमः
[भगवते देव्याः दानप्रकारः]
ततो नूतनवस्त्रेण परिधाय `युवास्वितिऽ।
दिव्यैराभरणैर्माल्यैरलङ्कृत्य श्रियं भुवम्
प्राणानायम्य संकल्प्य दाता भूषणभूषिताम्।
स्वगोत्रनामकथितां देवीमुदकपूर्वकम्
सुवर्णोर्वीयुतां दद्यात् विष्णवे च स्वयंभुवे।
कन्यां कनकसम्पन्नां सर्वाभरणभूषिताम्
दास्यामि विष्मवे तुभ्यं ब्रह्मलोकजिगीषया।
इत्युक्त्वा दक्षिणं हस्तं गीतवादित्रनिस्वनैः
`देवस्य त्वेतिऽ मन्त्रेण तां गुरुः परमात्मनः।
अर्पयेद्दक्षिणे हस्ते सहिरण्योदकं करम्
प्रणवोनाथ युञ्जीत देवेन कमलां भुवम्।
ततः पाणिगृहीतायाः देव्या देवस्य मूर्धनि
`ध्रवं तेतिऽ प्रकीर्यन्ते कुसुमान्यक्षतान्यपि।
`अभ्रातृध्नीमितिऽ ऋचं जप्त्वा पश्चात् स्वयंभुवे
`अघोरचक्षुषाऽ देवीं दर्शयेत्कलशोद्भव।
कर्तव्यान्यपि कर्माणि पालनीयास्तथा प्रजाः
आवाभ्यामिति संकल्पस्तयोस्तं च विचिन्तयेत्।
दर्भं संगृह्य तदनु जपन्निदमहं त्विति
भ्रुवोर्मध्येन संस्पृश्य प्राच्यां दिशि विसर्जयेत्।
ततो`जीवां रुदन्तीतिऽ जप्त्वा वेदविदो द्विजान्
`व्युक्षक्रूरमिऽति श्रुत्या स्नानीयाय नियोजयेत्।
`अर्यम्नऽ इति मन्त्रेण दर्भेण वलयं श्रियः
`निधाय खेन सऽ इति युगच्छिद्रं निवेशयेत्।
`शं ते हिरण्यम्ऽ इत्युक्त्वा स्वर्णं छिद्रे पिधाय च
द्विजाहृतदलैर्देवीम् अब्लिङ्गाभिश्च पञ्चभिः।
स्नापयित्वाऽग्निमूर्धेतिऽ प्लोतवस्त्रेण मार्जयेत्
`परित्वाऽ `गीर्वणाऽ द्वाभ्यां वस्त्राभ्यां छादनं श्रियः।
`द्वादशाक्षरमन्त्रेणऽ नमः प्रणवविद्यया
सुवर्णं बन्धयेत्कण्ठे सर्वमङ्गलसंयुतम्।
`आशासान सौमनसम्ऽ इति योक्त्रण बन्धयेत्
[उद्वाहहोमप्रकारः]
उद्वाहहोमं कुर्वीत उत्तराशामुखो गुरुः।
परिस्तीर्य यथान्यायं पुरस्तात् तन्त्रमाचरेत्
समिद्भिश्चरुणा चाज्यैर्होम उद्वाहकर्मणि।
समिद्भिराज्यैर्जुहुयात् `देव्याः सूक्तेनऽ षोडश
चरुणा `विष्णुगायत्र्याऽ चतुर्विंशाहुतिर्भवेत्।
`श्रीसूक्तस्तुऽ श्रियो देव्याः `भूसूक्तऽस्तु भुवो भवेत्
अन्यासां यदि देवीनां तासां मूलेन षोडश।
[लाजाहोमप्रकारः प्रायश्चित्ताहुत्यादिप्रकारश्च]
ततः `पुरुषसूक्तेनऽ लाजहोमं समाचरेत्
अनलं त्रिःपरिक्रम्य लाजशेषं सकृद्गुरुः।
जुहुयात्प्रणवेणाग्नौ `पञ्च वारुणिकैःऽ पुनः
प्रायश्चित्ताहुतिं हुत्वा द्वादशाक्षरविद्यया।
पूर्णाहुतिविधानं स्यात् ब्राह्मणानपि भोजयेत्
तोंषयित्वाथदेवेशं देवीं चाभ्यर्च्य देशिकः।
पुण्याहं वाचयेत्पश्चात् मधुपर्कं निवेदयेत्
नीराजयेत्तदाशीश्च पिण्डिकाक्षेपणं तथा।
[विवाहोत्सवक्रमे दैनन्दिनकृत्यम्]
प्रत्यहं भोजयेद्विप्रान् स्नापयेच्च यथाविधि
उत्सवं चान्वहं कुर्यात् प्रातः सायं यथाविधि।
अग्नौ च जुहुयान्नित्यं सन्ध्ययोरुभयोरपि
पालिकादेवतास्सर्वाः पूजयेदन्वहं गुरुः।
[विवाहोत्सवक्रमे चतुर्थदिनकृत्यम्]
चतुर्थेऽहनि सम्प्राप्ते तुर्ययामे यथाविधि
उद्वाहशेषहोमं तत् कारयेत्कमलापतेः।
सर्पिषा `दम्पतीमन्त्रैःऽ कुर्यादष्टोत्तरं शतम्
प्रायश्चित्ताहुतिं कुर्यात् `पञ्चोपनिषदाऽ पुनः।
पूर्णाहुतिं ततः कुर्यात् `मूलमन्त्रेणऽ देशिकः
सैलादिपूगं ताम्बूलं प्रणवेन निवेदयेत्।
ताम्बूलं दक्षिणां चापि ब्राह्मणेभ्यः प्रदापयेत्
[विवाहोत्सवक्रमे पञ्चमदिनकृत्यम्]
पञ्चमे दिवसे तैलाभ्यंगं तयोर्भवेत्।
महाहविर्निवेद्याथ कारयेदुत्सवं महत्
[इतरासां देवीनां विवाहविधिः]
उद्वाहानन्तरं देवं देवीसहितमर्चयेत्।
देवीनामितरासां च विवाहविधिरीदृशः
मूल पाठ: bhārgavatantram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0