भाषा

ENहिગુ
ग्रंथ पाठ

भारतमञ्जरी · अध्याय 16

16.1

इति श्रीक्षेमेन्द्रविरचितायां भारतमञ्जर्यामाश्रमवासिकं पर्व
मौसलं पर्वन्
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्

16.2

महीं महीभृतां धुर्ये धर्मराजे प्रशासति ।
षड्विंशे ऽब्दे महाभागा द्वारकां मुनयो ययुः

16.3

तान्दृष्ट्वा कौशिकमुखान्प्रहर्षन्मदविप्लुताः ।
साम्बं कृत्वा वधूवेशं पप्रच्छुर्वृष्णिपुंगवाः

16.4

अपि पुत्रः सुता वास्या भविष्यति मुनीश्वराः ।
तच्छ्रुत्वा ते ऽवदन्नस्याः कुलमृत्युर्भविष्यति

16.5

मुसलं ब्रह्मदण्डाख्यमित्युक्त्वादर्शनं ययुः ।
लौहं साम्बस्ततो ऽसूत मुसलं वज्रसंहतम्

16.6

तदाह्वको भयात्पिष्ट्वा तूर्णं तत्याज सागरे ।
सर्वज्ञो ज्ञातवृत्तान्तो वृष्णिक्षयमुपस्थितम्

16.7

विज्ञाय कैटभारातिस्तीर्थयात्रारसाद्ययौ ।
चण्डांशुमण्डलोच्चण्डं ततश्चक्रं सुरद्विषः

16.8

रथो ध्वजश्च सौवर्णः सहसान्तरधीयत ।
अथ मार्जारविच्छाये कबन्धावृतमण्डले

16.9

सूर्ये विघट्टिताशेषदिक्तटे वाति मारुते ।
मुण्डो विटङ्कवदनो यादवानां गृहे गृहे

16.10

संदर्श्य वदनं प्रायाद्वाचान्विष्टो ऽप्यदृश्यत ।
चीत्कारपुरुषः शब्दः शारिकानां गृहेष्वभूत्

16.11

गृध्रगोमायुनादेन राजमार्गौऽप्यपूर्यत ।
विपरीता प्रसूतिश्च पशूनामभवत्तदा

16.12

कोशेषु कनकाबन्धे रत्नानि स्वयमस्फुटन् ।
तेषु घोरनिमित्तेषु जातेष्वप्यविशङ्किताः

16.13

बभूवुर्वृष्णयो भान्ति न हि नाशेषु बुद्धयः ।
प्रभासमथ संप्राप्ते कृष्णे यादववृष्णयः

16.14

तमेव देशमभ्येत्य चक्रिरे विपुलोत्सवम् ।
उद्यानेषु विचित्रेषु विजह्नुस्तत्र ते सुखम्

16.15

गीतनृत्यरसासक्ताः कलिताः कालचक्षुषा ।
आपानकेलिसंसक्ते ततो वृष्णिकुले ऽभवत्

16.16

विवादे युद्धसंबद्धः शैनेयकृतवर्मणोः ।
हार्दिक्यं सात्याकिः प्राह सुप्तहा सौप्तिको भवान्

16.17

स तमूचे त्वया प्रायगतो भूरिश्रवा हतः ।
एवं विवादात्संग्रामस्तेषामासीत्सुदारुणः

16.18

प्राक्तस्माद्वज्रमुसलात्प्रजातैर्वल्लरीचयैः ।
तृणमप्यभवत्तत्र ब्रह्मदण्डमदोत्कटम्

16.19

क्षयाय मुसलीभूतं सहसान्धकवृष्णिषु ।
या भूदापानभूस्तेषां ललनानयनोत्सवः

16.20

सैव मृत्योरभूद्धोरसंहाराहारमण्डपः ।
साम्बे गदे चारुदोष्णि प्रद्युम्ने कृतवर्मणि

16.21

अनिरुद्धे च शैनेये निहते पश्यतो हरेः ।
वृत्ते वृष्णिक्षये घोरे स्त्रीशेषा यादवे कुले

16.22

द्वारका प्ररुरोदेव च्छिन्नहाराश्रुनिर्झरैः ।
ततः शौरिर्हलधरं द्रष्टुं दुःखाकुलो व्रजन्

16.23

दारुकं तत्कथयितुं प्राहिणोत्सव्यसाचिने ।
योषितां दस्तुरक्षायै बभ्रुमादाय केशवः

16.24

गत्वा जनकमामन्त्र्य रौहिणेयमुपाययौ ।
अथापश्यन्मुखात्तस्य निःसृतं मधुसूदनः

16.25

सहस्रशीर्षं भुजगं श्वेतं श्वेताचलोपमम् ।
वासुकिप्रमुखैर्नागैरथ प्रत्युद्यतैः सह

16.26

दृष्ट्वार्णवं प्रविष्टं तं वरुणेनार्चितं पुनः ।
गतिज्ञः सर्वभूतानां न शुशोच जनार्दनः

16.27

भवे ह्यभावसद्भावे भावानां स्थिरता कुतः ।
अनन्तधाम्नि मिलिते बलभद्रे सकानने

16.28

प्रविश्य योगी सुष्वाप निबद्धप्राणधारणः ।
तं स्वज्योतिषि संसक्तं लुब्धको मृगशङ्कया

16.29

जघान निशिताग्रेण शरेण चरणोदरे ।
कृष्णशारधिया कृष्णो लुब्धकेनेषुणा हतः

16.30

नारायणाख्यमविशत्परं धाम सनातनम् ।
सुरसिद्धर्षिगन्धर्वैः पूज्यमाने सह श्रिया

16.31

विष्णुं प्रविष्टे गोविन्दे बभूव क्षुभितं जगत् ।
अत्रान्तरे दारुकेन कथिते यादवक्षये

16.32

शोकं त्रासं च दैन्यं च भेजिरे पाण्डवाः परम् ।
ततो युधिष्ठिरगिरा द्वारकां श्वेतवाहनः

16.33

दारुकेनैव सहितः प्रययौ शोकमूर्च्छितः ।
स प्राप यादवपुरीमपद्मामिव पद्मिनीम्

16.34

वृष्णिसिंहैर्विरहिता गुहां हैमवतीमिव ।
कष्टैररिष्टनिचयैः स्पृष्टां दुःखाद्विलोक्य ताम्

16.35

द्रष्टुं विवेश शोकार्तं जनकं कंसविद्विषः ।
तारप्रलापमुखरैर्वृतं वृष्णिवधूजनैः

16.36

षोडशस्त्रीसहस्राणि कलत्रं कमलापतेः ।
सौभद्रजनको दृष्ट्वा मुमोह भयविह्वलम्

16.37

शयानं भुवि पार्थो ऽपि वसुदेवं प्रलापिनम् ।
विलोक्य शोकविवशो वज्रभिन्न इवापतत्

16.38

क्व रामः क्व च गोविन्दः क्व प्रद्युम्नः क्व सात्यकिः ।
अहो विधेर्दुरन्तेयं शक्तिरित्यर्जुनो ऽवदत्

16.39

मणिकङ्कणझाङ्कारिनृत्तगीतघनध्वनिः ।
अविश्रान्तमभूद्यत्र श्रवणानन्दनिर्झरैः

16.40

तत्रैव वृष्णिनारीणां शृण्वन्नारोदनध्वनिम् ।
निशां निनाय बीभत्सुर्निरपायमयीं श्रियम्

16.41

ततः प्रातः प्रियसुतो वसुदेवः प्रियां तनुम् ।
तत्याज देवकीमुख्यैरनुयातो वधूजनैः

16.42

ततः सात्त्वतमुख्यानां सर्वेषां शोकविह्वलः ।
पार्थः शरीरं संस्कृत्य चकार सलिलक्रियाम्

16.43

वज्राभिधानं कृष्णस्य पौत्रं कुन्तीसुतस्ततः ।
आदाय वृष्णिकान्ताश्च प्रतस्थे दारुकानुगः

16.44

अथ द्वारवतीं स्फारतरङ्गभुजमण्डलैः ।
शङ्खाट्टहासविकटो जहार मकराकरः

16.45

हते वृष्णिपुरे क्षिप्रं रत्नलोभादिवाब्धिना ।
पुरुषानुगतं सर्वमित्यूचे दुःखितो जनः

16.46

कलत्रं वृष्णिसिंहानामादाय श्वेतवाहनः ।
इन्द्रप्रस्थं व्रजन्प्राप दुर्गमां विकटाटवीम्

16.47

दस्यवस्तत्र गोपाला बलिनः पशुजीविनः ।
अदृष्टपूर्वाः स्वर्योषित्सुभगाः सात्त्वताङ्गनाः

16.48

तडित्तरलरत्नांशुपुञ्जरिताम्बराः ।
विलोक्य लोभवशगा हर्तुमभ्युद्ययुर्बलात्

16.49

गोपानापतितान्दृष्टा तानुग्रलगुडायुधान् ।
गाण्डीवधन्वा गाण्डीपमधिज्यमकरोत्क्रुधा

16.50

कालशक्तिहतस्यापि तस्यापि क्षपितद्विषः ।
न शक्तिरभवत्काचित्क्षीणेषोर्ज्याविकर्षणे

16.51

चापयष्टिरनायत्ता तस्याभूदतिदुःखगा ।
वृद्धस्येव दरिद्रस्य तरुणी रूपिणी वधूः

16.52

तस्य कोपाग्नितप्तस्य वृथा भ्रूभङ्गकारिणः ।
भृत्या इवाविनीतस्य बभूवुरवशाः शराः

16.53

ते दिव्यास्त्रगणाः क्वापि जग्मुरुत्सृज्य तं मृधे ।
गुणसङ्गामनादृत्य धूर्ता मित्रमिवाधनम्

16.54

स निःशश्वास विपुलैर्मार्गणैः परिवर्जितः ।
क्षीणकोश इव त्यागी वैलक्ष्यविनताननः

16.55

ततो निष्प्रतिभे तत्र पार्थे सर्वायुधक्षयात् ।
वृष्णिपौराङ्गना जह्रुर्निर्विवेका वनेचराः

16.56

न तु प्रधाननारीषु तेषामासीत्प्रगल्भता ।
अनर्हस्य महार्हेषु नीचस्योजस्विता कथम्

16.57

तैः प्रसह्य हृते स्त्रैणे भग्नमानो धनंजयः ।
प्रतस्थे निजदोर्दण्डे सासूयाः पातयन्दृशः

16.58

अहो बलवती देवी संसारे ऽस्मिन्ननित्यता ।
अहो निःसारपर्यन्ता भावानां प्रभविष्णुता

16.59

अहो सर्वकषः कालश्चित्रपाकमहो जगत् ।
विजिते विजयो गोपैर्दुःखादित्यवदज्जनः

16.60

धिगनित्यविलासस्य विभ्रमभ्रान्तिकारिणः ।
धातुरद्भुतनिर्माणविनोदविशरारुताम्

16.61

आखण्डलप्रभृतयः खाण्डवे येन खण्डिताः ।
कैराते त्रिपुरारातिः समरे येन तोषितः

16.62

जित्वा तमपि गोपाला वराकाः सुहृदं हरेः ।
जह्रुर्विष्णुकलत्राणि धिक्कालस्य दुरन्तताम्

16.63

रेवतीं रुक्मिणीं सत्यभामां जाम्बवतीं तथा ।
वज्रं पौत्रं च कंसारेरन्याश्च यदुयोषितः

16.64

आदाय फल्गुणः शोचन्निन्द्रप्रस्थं समाविशत् ।
सबाष्पं पौरसंघातैरभितः परिवारितः

16.65

राज्ये निधाय तत्रैव वज्रं याते धनंजये ।
सत्यभामानुगा देव्यः पावकं विविशुः शुचा

16.66

व्रजन्वृष्णिवियोगार्तः किरीटि हस्तिनापुरम् ।
परावरज्ञं भावानां वने व्यासं व्यलोकयत्

16.67

दुःखान्न्यवेदयत्तस्मै घोरं वृष्णिकुलक्षयम् ।
आत्मनश्चात्तचापस्य गोपैः पथि पराभवम्

16.68

तमब्रवीज्ज्ञाननिधिर्मुनिराश्वास्य मूर्च्छितम् ।
पुत्र कालविलासानां सर्वमेतद्विजृम्भितम्

16.69

मतिर्विभूतयो भोगाः प्रभावाः शक्तयो गुणाः ।
सर्वथा कालकलया नीयते स्मृतिशेषताम्

16.70

ध्रुवं सर्वपरित्यागे न कुर्युर्मुनयो मतिम् ।
अवसानैकविरसा यदि न स्याद्भवस्थितिः

16.71

इत्युक्तो मुनिना पार्थः प्रययौ हस्तिनापुरम् ।
प्रभावं वृष्णिसिंहस्य कलयन्भृशविह्वलः

मूल पाठ: Bhāratamañjarī 6-19 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc