भाषा

ENहिગુ
ग्रंथ पाठ

भामति · अध्याय 29

29.1

#तृतीयाध्याये चतुर्थः पादः# ।
3.4.1.1.
#पुरुषार्थो ऽतःशब्दादिति बादरायणः# ।
स्थितं कृत्वोपनिषदामपवर्गाख्यपुरुषार्थसाधनात्मज्ञानपरत्वमुपासनानां च तत्तत्पुरुषार्थसाधनत्वमधस्तनं विचारजातमभिनिर्वर्तितम् ।
सम्प्रति तु किमौपनिषदात्मतत्त्वज्ञानमपवर्गसाधनतया पुरुषार्थमाहो क्रतुप्रयोगापेक्षितकर्तृप्रतिपादकतया क्रत्वर्थमिति मीमांसामहे ।
यदा च क्रत्वर्थं तदा यावन्मात्रं क्रतुप्रयोगविधिनापेक्षितं कर्तृत्वमामुष्मिकफलोपभोक्तृत्वं च न चैतदनित्यत्वे घटते कृतविप्रणाशाकृताभ्यागमप्रसङ्गादतो नित्यत्वमपि, तावन्मात्रमुपनिषत्सु विवक्षितम् ।
इतो ऽन्यदनपेक्षितं विपरीतं च नोपनिषदर्थः स्यात् ।
यथा शुद्धत्वादि ।
यद्यपि जीवानुवादेन तस्य ब्रह्मत्वप्रतिपादनपरत्वमुपनिषदामिति महता प्रबन्धेन तत्र तत्र प्रतिपादितं तथाप्यत्र केषाञ्चित्पूर्वपक्षशह्काबीजानां निराकरणे तदेव स्थूणनिखननन्यायेन निश्चलीक्रियत इत्यस्ति विचारप्रयोजनम् ।
तत्र यद्यपि प्रोक्षणादिवदात्मज्ञानं न कञ्चित्क्रतुमारभ्याधीतम्, यद्यपि च कर्तृमात्रं नाव्यभिचारितक्रतुसंबन्धं कर्तृमात्रस्य लौकिकेष्वपि कर्मसु दर्शनाद्येन पर्णतादिवदनारभ्याधीतमप्यव्यभिचरितक्रतुसंबन्धजिहूद्वारेण वाक्येनैव क्रत्वर्थमापद्यते तथापि यादृश आत्मा कर्तामुष्मिकस्वर्गादिफलभोगभागी देहाद्यतिरिक्ते वेदान्तैः प्रतिपाद्यते न तादृशस्यास्ति लौकिकेषु कर्मसूपयोगः ।
तेषामैहिकफलानां शरीरानतिरिक्तेनापि यादृशतादृशेन कर्त्रौपपत्तेः ।
आमुष्मिकफलानां तु वैदिकानां कर्मणां तमन्तरेणासंभवात्तत्संबन्ध एवायमौपनिषदः क4तेति तदव्यभिचारात्तान्यनुस्मारयज्जुह्वादिवद्वाक्येनैव तज्ज्ञानं पर्णतावत्क्रत्वैदमर्थ्यमापद्यत इति फलश्रुतिरर्थवादः ।
तदुक्तम्-ऽद्रव्यसंस्कारकर्मसु परार्थत्वात्फलश्रुतिरर्थवादः स्यात्ऽ इति औपनिषदात्मज्ञानसंस्कृतो हि कर्ता पारलौकिकफलोपभोगयोग्यो ऽस्मीति विद्यावाच्छ्रद्धावान्क्रतुप्रयोगाङ्गं नान्यथा प्रोक्षिता इव व्रीहयः क्रत्वङ्गमिति ।
प्रियादिसूचितस्य च संसारिण एवात्मनो द्रष्टव्यत्वेन प्रतिज्ञापनादपहतपाप्मत्वादि तु तद्विशेषणं तस्यैव स्तुत्यर्थम् ।
न तु तत्परत्वमुपनिषदाम् ।
तस्मात्क्रत्वर्थमेवात्मज्ञानं कर्तृसंस्कारद्वारा न पुनः पुरुषार्थमिति ।
एतदुपोद्बलार्थं च ब्रह्मविदामाचारादिः श्रुत्यवगत उपन्यस्तः ।
न केवलं वाक्यादात्मज्ञानस्य क्रत्वर्थत्वम् ।
तृतीयाश्रुतेश्च ।
न त्वेतत्प्रकृतोद्गीथविद्याविषयं यदेव विद्ययेति सर्वनामवधारणाभ्यां व्याप्तेरधिगमत् ।
यथा य एव धूमवान्देशः स वह्विमानिति ।
समन्वारम्भवचनं च फलारम्भे विद्याकर्मणोः साहित्यं दर्शयति ।
तच्च यद्यप्याप्नेयादियगषट्कवत्समप्रधानत्वेनापि भवति तथाप्युक्तया युक्त्या विद्यायाः कर्म प्रत्यङ्गभावेनैव नेतव्यम् ।
वेदार्थज्ञानवतः कर्मविधानादुपनिषदो ऽपि वेदार्थ इति तज्ज्ञानमपि कर्माङ्गमिति

29.2

3.4.1.2.

29.3

3.4.1.3.

29.4

3.4.1.4.

29.5

3.4.1.5.

29.6

3.4.1.6.

29.7

3.4.1.7.
#नियमाच्च# ।
सुगमम्

29.8

3.4.1.8.
#सिद्धान्तयति-अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात्# ।
यदि शरीराद्यतिरिक्तः कर्ता भोक्तात्मेत्येतन्मत्र उपनिषदः पर्यवसिताः स्युस्ततः स्यादेवं, न त्वेतदस्ति ।
तास्त्वेवंभूतजीवानुवादेन तस्य शुद्धबुद्धोदासीनब्रह्मरूपताप्रतिपादनपरा इति तत्र तत्रासकृदावेदितम् ।
अनधिगतार्थबोधनस्वरसता हि शब्दस्य प्रमाणान्तरसिद्धानुवादेन ।
तथा चौपनिषदात्मज्ञानस्य क्रत्वनुष्ठानविरोधिनः क्रतुसंबन्ध एव नास्ति ।
किमङ्ग पुनः तदव्यभिचारस्ततश्च क्रतुशेषता ।
तथाच नापवर्गफलश्रुतेरर्थवादमात्रत्वमपि तु फलपरत्वमेव ।
अत एव प्रियादिसूचितेन संसारिणात्मनोपक्रमस्य तस्यैवात्मनो ऽधिकोपदिदिक्षायां परमात्मनात्यन्ताभेद उपदिश्यते ।
यथा समारोपितस्य भुजगस्य रज्जुरूपादत्यन्ताभेदः प्रतिपाद्यते यो ऽयं सर्पः सा रज्जुरिति ।
यथा विद्यायाः कर्माङ्गत्वे दर्शनमुपन्यस्तमेवकर्माङ्गत्वे दर्शनमुक्तम् ।
तत्र कर्माङ्गत्वदर्शनानामन्यथासिद्धिरुक्ता केवलविद्यादर्शनानां तु नान्यथासिद्धिः

29.9

3.4.1.9.

29.10

3.4.1.10.
#असार्वत्रिकी# ।
व्याप्तिरप्युद्गीथविद्यापेक्षया तस्या एव प्रकृतत्वान्न त्वशेषापेक्षया ।
यथ सर्वे ब्राह्मणा भोज्यन्तामिति निमिन्त्रितापेक्षया तेषामेव प्रकृतत्वात्

29.11

3.4.1.11.
#विभागः शतवत्# ।
सुगमम् ।
अविभागे ऽपि न दोष इत्याह- #न चेदं समन्वारम्भवचनमिति# ।
संसारिविषया विद्या #विहिता#यथोद्गीथविद्या ।
प्रतिषिद्धा च यथासच्छास्त्राधिगमनलक्षणा

29.12

3.4.1.12.
#अध्ययनमात्रवत एव कर्मविधिर्न#तूपनिषदध्ययनवतः ।
एतदुक्तं भवति-यदध्ययनमर्थावबोधपर्यन्तं कर्मसूपयुज्यते यथा कर्मविधिवाक्यानां तन्मात्रवत एवाधिकारः कर्मसु नोपनिषदध्यनवतः तदध्ययनस्य कर्मस्वनुपयोगादिति ।
अध्ययनमात्रवत एवेति मात्रग्रहणेनार्थज्ञानं वा व्यवच्छिन्नमिति मन्वानो भ्रान्तश्चोदयति- #नन्वेवं सतीति# ।
स्वाभिप्रायमुद्घाटयन्समाधत्ते- #न वयमिति# ।
उपनिषदध्ययनापेक्षं मात्रग्रहणं नार्थबोधापेक्षमित्यर्थः

29.13

3.4.1.13.
#नाविशेषात्# ।
कुर्वन्नेवेह कर्माणीत्यविद्यावद्विषयमित्यर्थः

29.14

3.4.1.14.
विद्यवद्विषयत्वे ऽप्यविरोधो विद्यास्तुत्यर्थत्वादित्याह- #स्तुतयो ऽनुमतिर्वा#

29.15

3.4.1.15.
अपिच विद्याफलं प्रत्यक्षं दर्शयन्ती श्रुतिः कालान्तरभाविफलकर्माङ्गत्वं विद्याया निराकरोतीत्याह- #कामकारेण चैके# ।
कामकार इच्छा

29.16

3.4.1.16.
#उपमर्दं च# ।
अधिकोपदेशादित्यनेनात्मन एव शुद्धबुद्धोदासीनत्वादय उक्ताः ।
इह तु समस्तक्रियाकारकफलविभागोपमर्दं चेति

29.17

3.4.1.17.
#ऊर्ध्वरेतःसु च शब्दे हि# ।
सुबोधम्

29.18

3.4.2.18.
#परामर्शं जैमिनिरचोदना चापवदति हि# ।
सिद्ध ऊर्ध्वरेतसामाश्रमित्वे तद्विद्यानामकर्माङ्गतयापवर्गार्थं स्यात् ।
आश्रमित्वं त्वेषामन्यार्थपरामर्शमात्रान्न सिध्यति ।
विध्यभावात् ।
स्मृत्याचारप्रसिद्धिश्च तेषां प्रत्यक्षश्रुतिविरोधादप्रमाणम् ।
निन्दति हि प्रत्यक्षा श्रुतिराश्रमान्तरं ऽवीरहा वा एष देवानाम्ऽ इत्यादिका ।
प्रत्यक्षश्रुतिविरोधे च स्मृत्याचारयोरप्रामाण्यमुक्तं ऽविरोधे त्वनपेक्षं स्यादसति ह्यनुमानम्ऽ इति ।
तदेतत्सर्वमाह- #त्रयो#
#धर्मस्कन्धा इत्यादिना ।
अनधिकृतविषया वेति# ।
अन्धपङ्गवादयो हि ये नैमित्तिककर्मानधिकृतास्तान्प्रत्याश्रमान्तरविधिरिति ।
#अपिचापवदिति हि# ।
न केवलमन्यपरतया परामर्शस्याश्रमान्तरं न लभ्यते अपि त्वाश्रमान्तरनिन्दाद्वारेणापवादादपीत्यर्थः ।
स्यादेतत् ।
भवत्वेष परामर्शो ऽन्यार्थः ।
ये चेमे ऽरण्य इत्यादिभ्यस्त्वाश्रमान्तरं सेतस्यतीत्यत आह- #ये चेमे ऽरण्य इति# ।
अस्यापि देवपथोपदेशपरत्वान्नैतत्परत्वमित्यर्थः ।
न चान्यपरादपि स्फुटतराश्रमान्तरप्रत्यत इत्याह- #संदिग्धं चेति# ।
नहि तप एव द्वितीय इत्यत्राश्रमान्तराभिधायी कश्चिदस्ति शब्द इति ।
नन्वेतमेव प्रव्राजिन इति वचनादाश्रमान्तरं सेत्स्यतीत्यत आह- #तथैतमेवेति# ।
एतदपि लोकसंस्तवनपरमिति ।
अधिकरणारम्भमाक्षिप्य नास्ति प्रत्यक्षवचनमितिकृत्वा चिन्तेयमिति समाधत्ते- #ननु ब्रह्मचर्यादेवेति#

29.19

3.4.2.19.
#अनुष्ठेयं बादरायणः साम्यश्रुतेः# ।
भवत्वन्यार्थः परामर्शस्तथाप्येतस्मादाश्रमान्तराणि प्रतीयमानानि च नापाकरणमर्हन्ति ।
एवं तान्यपाक्रियेरन्यद्यस्मान्न प्रतीयेरन् ।
प्रतीयमानानि वा श्रुत्या बाध्येरन् ।
न तावन्न प्रतीयन्ते ।
तथाहि-त्रयो धर्मस्कन्धा इति स्कन्धत्रित्वं प्रतिज्ञातम् ।
तत्र स्कन्धशब्दो यद्याश्रमपरो न स्यादिति तु समूहवचनस्ततो धर्माणां यज्ञादीनां प्रातिस्विकोत्पत्तीनां किमपेक्ष्य त्रित्वमङ्ख्या सुव्यवस्थाप्येत ।
एकैकाश्रमोपसंगृहीतास्त्वाश्रमाणां त्रित्वाच्छक्यास्त्रित्वे व्यवस्थापयितुमित्याश्रमत्रित्वप्रतिज्ञोपपत्तिः ।
तत्र यज्ञादिलिङ्गो गृहाश्रम एको धर्मस्कन्धो ब्रह्मचारीति द्वितीयस्तप इति च, तपःप्रधानात्तु वानप्रस्थाश्रमान्नान्यः, ब्रह्मसंस्थ इति च पारिशेष्यात्परिव्राडिति वक्ष्यति ।
तस्मादन्यपरादपि परामर्थादश्रमान्तराणि प्रतीयमानानि देवताधिकरणन्यायेन न शक्यन्ते ऽपाकर्तुम् ।
नच प्रत्यक्षश्रुतिविरोधो वीरहा वेत्यादेः प्रतिपन्नगार्हस्थ्यं प्रमादादज्ञानाद्वाग्निमुद्वासयितुं प्रवृत्तं प्रत्युपपत्तेः ।
एवञ्च अविरोधे सिद्धवत्परामर्शादश्रमान्तराणां शास्त्रान्तरसिद्धिं वा कल्पयिष्यामो यथोपवीतविधिपरे वाक्ये ऽउपव्ययते देवलक्ष्ममेव तत्कुरुतेऽ इत्यत्र निवीतं मनुष्याणां प्राचीनावीतं पितृणामिति शास्त्रान्तरसिद्धयोर्निवीतप्राचीनावीतयोः परामर्श इति

29.20

3.4.2.20.
#विधिर्वा धारणवत्# ।
यद्यपि ब्रह्मसंस्थत्वस्तु तिपरतयास्य संदर्भस्यैकवाक्यता गम्यते ।
संभवान्त्यां चैकवाक्यतायां वाक्यभेदो ऽन्याप्यः ।
तथाप्याश्रमान्तराणां पूर्वसिद्धेरभावात्परामर्शानुपपत्तेः, अपरामर्शे च स्तुतेरसंभवेन किंपरतया एकवाक्यतास्त्विती तां भङ्क्त्वा धारणवद्वरमपूर्वत्वाद्विधिरेवास्तु ।
यथा ऽअधस्तात्समिधं धारयन्ननुद्रवेदुपरि हि देवेभ्यो धारयतिऽ इत्यत्र सत्यामप्यधोधारणेनैकवाक्यताप्रतीतौ विधीयत एवोपरिधारणमपूर्वत्वात् ।
तथोक्तम् ऽविधिस्तु धारणे ऽपूर्वत्वात्ऽ इत् ।
तथेहाप्याश्रमान्तरपरामर्शश्रुतिर्विधरेवेति कल्प्य्ते ।
संप्रति परामर्शे ऽपीतरेषामाश्रमाणां ब्रह्मसंस्थता संस्तवसामर्थ्यादेव विधातव्या ।
न खल्वविधेयं संस्तूयते तदर्थत्वात्संस्तवस्येत्याह- #यदापीति# ।
अत्रावान्तरविचारमारभते- #सा च किं चतुर्ष्विति# ।
विचारप्रयोजनमाह- #यदि चेति# ।
ननु अनाश्रम्येव ब्रह्मसंस्थो भविष्यतीत्यत आह- #अनाश्रयमित्वेति# ।
तत्र पूर्वपक्षमाह- #तत्र तपःशब्देनेति# ।
अयमभिसंधिः ।
यदि तावद्ब्रह्मसंस्थ इति पदं प्रत्यस्तमित्यावयवार्थं परिव्राजके ऽश्वकर्णादिपदवद्रूढं तदाश्रमप्राप्तिमात्रेणैवामृतीभाव इति न तद्भावाया ब्रह्मज्ञानमपेक्षेत ।
तथाच नान्यः पन्था विद्यते ऽयनायेति विरोधः ।
नच संभत्यवयवार्थे समुदायसक्तिकल्पना ।
तस्माद्ब्रह्मणि संस्थास्येति ।
ब्रह्मसंस्थः ।
एवञ्च चतुर्ष्वाश्रमेषु यस्यैव ब्रह्मणि निष्ठत्वमाश्रमिणः स ब्रह्मसंस्थो ऽमृतत्वमेतीति युक्तम् ।
तत्र तावद्ब्रह्मचारिगृहस्थौ स्वशब्दाभिहितौ तपःपदेन च तपःप्रधानतया भिक्षुवानप्रस्थावुपस्थापितौ ।
भिक्षुरपि हि समाधिकशौचाष्टग्रासीभोजननियमाद्भवति वानप्रस्थवत्तपःप्रधानः ।
नच गृहस्थादेः कर्मिणो ब्रह्मनिष्ठत्वासंभवः ।
यदि तावत्कर्मयोगः कर्मिता सा भिक्षोरपि कायवाङ्मनोभिरस्ति ।
अथ ये न ब्रह्मार्पणेन कर्म कुर्वन्ति किन्तु कामार्थितया ते कर्मिणः ।
तथा सति गृहस्थादयो ऽपि ब्रह्मार्पणेन कर्म कुर्वाणा न कर्मिणः ।
तस्माद्ब्रह्मणि तात्पर्यं ब्रह्मनिष्ठता न तु कर्मत्यागः ।
प्रमाणविरोधात् ।
तपसा च द्वयोराश्रमयोरेकीकरणेन त्रय इति त्रित्वमुपपद्यते ।
एवञ्च त्रयो ऽप्याश्रमा अब्रह्मसंस्थाः सन्तः पुण्यलोकभाजो भवन्ति यः पुनरेतेषु ब्रह्मसंस्थः सो ऽमृतत्वभागिति ।
नच येषां पुण्यलोकभाक्त्वं तेषामेवामृतत्वमिति विरोधः ।
यथा देवदत्तयज्ञदत्तौ मन्दप्रज्ञावभूतां संप्रति तयोर्यज्ञादत्तस्तु शास्त्राभ्यासात्पटुप्रज्ञो वर्तते इति तथेहापि य एवाब्रह्मसंस्थाः ।
पुण्यलोकभाजस्त एव ब्रह्मसंस्था अमृतत्वभाज इत्यवस्थाभेदादविरोधः ।
तथाच ब्रह्मसंस्थ इति यौगिकं पदं प्रकृतविषयं भविष्यति ।
यथा आग्नेप्याग्नीध्रमुपतिष्ठत इत्यत्र विनियुक्तापि प्रकृतैवाग्नेयी गृह्यते ।
नच विनियुक्तविनियोगविरोधः ।
यदि ह्यत्राग्नोत्युपदिश्येत ततो यथा प्रतीता तथोद्दिश्यते ।
विनियुक्ता च प्रतीतिर्भवेदिति विनियुक्तविनियोगविरोधः ।
इह तु आग्नीध्रोपस्थाने सा विधेयत्वेन विनियुज्यते ।
न तूद्दिश्यते ।
विधेयत्वेन च विनियोगे आग्नेयीपदार्थापेक्षणात्प्रकृतातिक्रमे प्रमाणाभावात् ।
तावता च शास्त्रोपपत्तेर्नाप्रकृतानामपि ग्रहणसंभवः ।
नच यातयामतया न विनियोगः ।
वाचस्तेमे सर्वेषामेव मन्त्राणां विनियोगादन्यत्राप्यविनियोगप्रसङ्गात् ।
तथेहापि प्रकृता एवाश्रमा बुद्धिविपरिवर्तिनः परामृश्यन्ते नानुक्तः परिव्राडेवेति पूर्वः पक्षः ।
राद्धान्तमुपक्रमते- #तदयुक्तम् ।
नहि सत्यां गतौ वानप्रस्थविशेषेनेति# ।
यथोपक्रान्तं तथैव परिसमापनमुचितम् ।
यत्संख्याकाश्च ये प्रसिद्धास्ते तत्संख्याका एव कीर्त्यन्ते इति चोचितम् ।
न तु सत्यां गतावुत्सर्गस्यापवादो युज्यते ।
अशाधारणेनैकैकेन लक्षणेनैकेक आश्रमो वक्तुमुपक्रान्त इति तथैव समापनमुचितम् ।
न तु साधारणासाधारणाभ्यामुपक्रमसमाप्ती श्र्लिष्येते ।
नच तपो नाम नासाधारणं वानप्रस्थानामित्यत आह- #तपश्चासाधारण इति# ।
न खलु पराकादिभिः कायक्लेशप्रधानो यथा वानप्रस्थस्तथा भिक्षुः सत्यप्यष्टग्रासादिनियमे ।
नच शौचसन्तोषशमादयस्तपः पक्षे वर्तन्ते तत्र वृद्धानां तपःप्रसिद्धेरसिद्धेः ।
अत एव वृद्धास्तपसो भेदेन शौचादीनाचक्षते-ऽशौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाःऽ इति ।
सिद्धसंख्याभेदेषु च संख्यान्तराभिधानमश्लिष्टमित्याह- #चतुष्ट्वेन चेति ।
अपिच भेदव्यपदेशो ऽत्रेति# ।
त्रय एत इति किं भिक्षुरपि परामृश्यते किन्त्वा भिक्षुवर्जं त्रय एव ।
न तावन्त्रय इति भिक्षुसंग्रहे तद्वर्जनमेते त्रय इत्यत्र वर्तुं शक्यम् ।
एव इति प्रकृतानां साकल्येन परामर्शाद्भिक्षुसंग्रहे च न तस्य पुण्यलोकत्वमब्रह्मसंस्थात्वाभावाद्भिक्षोः ।
तेन तस्य ब्रह्मसंस्थस्य सदा पुण्यलोकत्वममृतत्वं चेति विरोधः ।
त्रिषु च ब्रह्मसंस्थपदे यदेति संबन्धनीयम् ।
भिक्षौ च सदेति वैषम्यम् ।
तदिदमुक्तम्- #पृथक्त्वे चेति# ।
पूर्वपक्षाभासं स्मारयति- #कथं पुनर्ब्रह्मसंस्थशब्दो योगादिति# ।
तन्निराकरोति- #अत्रोच्यत इति# ।
अयमभिसंधिः ।
सत्यं यौगिकः शब्दः सति प्रकृतसंभवे न तदतिपत्त्याप्रकृते वर्तितुमर्हति ।
असति तु संभवे मा भूत्प्रमादपाठ इत्यप्रकृते वर्तयितव्यः, दर्शितश्चात्रासंभवो ऽधस्तादिति ।
एष हि ब्रह्मसंस्थतालक्षणो धर्मो भिक्षोरसाधारण आश्रमान्तराणि तत्संस्थान्यतत्संस्थानि च भिक्षुस्तत्संस्थ इत्येव ।
तत्संस्थता हि स्वाभावं व्यवच्छिन्दन्ती विरोधाद्यस्तत्संस्थ एव तत्राञ्जसी नान्यत्र ।
#शमदमादिस्तु तदीय इति# ।
स्वाङ्गमव्यवधायकमित्यर्थः ।
ब्रह्मसंस्थत्वमसाधारणं परिव्राजकधर्मं श्रुतिरादर्शयतीत्याह- #तथाच न्यास इति ब्रह्मेति# ।
सर्वसङ्गपरित्यागो हि न्यासः स ब्रह्मा कुत इत्यत आह- #ब्रह्मा हि परः# ।
अतः परो ब्रह्मेति ।
किमपेक्ष्य परः संन्यास इत्यत आह- #तानि वा एतान्यवराणि तपांसि न्यास एवात्यरेचयदिति# ।
एतदुक्तं भवति-ब्रह्मपरतया सर्वेषणापरित्यागलक्षणो न्यासो ब्रह्मेति ।
तथा चेदृशं न्यासलक्षणं ब्रह्मसंस्थत्वं भिक्षोरेवासाधारणं नेतरेषामाश्रमिणाम् ।
ब्रह्मज्ञानस्य शब्दजनितस्य यः परिपाकः साक्षात्कारो ऽपवर्गसाधनं तदङ्गतया परिव्राज्यं विहितम् ।
न त्वनधिकृतं प्रतीत्यर्थः

29.21

3.4.3.21.
#स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात्# ।
यद्यत्र संनिधान उपासनाविधिर्नास्ति ततः प्रदेशान्तरस्थितो ऽपि विधिव्यभिचारिततद्विधिसंबन्धेनोद्गीथेनोपस्थापितः स एष रसानां रसतम इत्यादिना पदसंदर्भेणैकवाक्यभावमुपगतः स्तूयते ।
नहि समभिव्याहृतैरेवैकवाक्यता भवतीति कश्चिन्नियमहेतुरस्ति ।
अनुषङ्गातिदेशलब्धैरपि विध्यसमभिव्याहृतैरर्थवादैरेकवाक्यताभ्युपगमात् ।
यदि तूद्गीथमुपासीत सामोपासीतेत्यादिविधिसमभिव्याहारः श्रुतस्तथापि तस्यैव विधेः स्तुतिर्न तूपासनाविषयसमर्पणपर ओमित्येतदक्षरमुद्गीथमित्यनेनैवोपासनाविषयसमर्पणादिति प्राप्ते ऽभिधीयते-न तावद्दूरस्थेन कर्मविधिवाक्येनैकवाक्यतासंभवः ।
प्रतीतसमभिव्याहृतानां विधिनैकवाक्यतया स्तुत्यर्थत्वमर्थवादानां रक्तपटन्यायेन भवति ।
न तु स्तुत्या विना काचिदनुपपत्तिर्विधेः ।
यथाहुः-ऽअस्ति तु तदित्यतिरेके परिहारःऽ इति ।
अत एव विधेरपेक्षाभावात्प्रवर्तनात्मकस्यानुषङ्गतिदेशादिभिरर्थवादप्राप्त्यभिधानमसमञ्जसम् ।
नहि कर्त्रपेक्षितोपायामवगतायां प्राशस्त्यप्रत्ययस्यास्ति कश्चिदुपयोगः ।
तस्माद्दूरस्थस्य कर्मविधेः स्तुतावानर्थक्यम् ।
तेनैकवाक्यतानुपपत्तेः संनिहितस्य तूपासनाविधेः किं विषयसमर्पणेनोपयुज्यतामुत स्तुत्येति विशये विषयसमर्पणेन यथार्थवत्त्वं नैवं स्तुत्या बहिरङ्गत्वात् ।
अगत्या हि सा ।
तस्मादुपासनार्था इति सिद्धम् ।
ऽकुर्यात्क्रियेत कर्तव्यं भवेत्स्यादिति पञ्चमम् ।
एतत्स्यात्सर्ववेदेषु नियतं विधिलक्षणम् ॥
ऽ भावनायाः खलु कर्तृसमीहितानुकूलत्वं विधिर्निषेधश्च कर्तुरहितानुकूलत्वम् ।
यथाहुः-ऽकर्तव्यश्च सुखफलो ऽकर्तव्यो दुःखफलो ऽकर्तव्यो दुःखफलःऽ इति ।
एतच्चास्माभिरुपपादितं न्यायकणिकायाम् ।
क्रिया च भावना तद्वचनाश्च करोत्यादयः ।
यथाहुः-कमभ्वस्तयः क्रियासामान्यवचना इति ।
अत एव कृभ्वस्तीनुदाहृतवान् ।
सामान्योक्तौ तद्विशेषाः पचेदित्यादयो ऽपि गम्यन्त इति तत्र कुर्यादित्याक्षिप्तकर्तृका भावना ।
क्रियेतेति आक्षिप्तकर्मिका भावना ।
कर्तव्यमिति तु कर्मभूतद्रव्योपसर्जनभावना ।
एवं दण्डी भवेद्दण्डिना भवितव्यं दण्डिना भूयेतेत्येकधात्वर्थविषया विध्युपहिता भावना उदाहार्याः ।
भवतिश्चैष जन्मनि ।
यथा कुलालव्यापाराद्घटो भवति बीजादङ्कुरो भवतीति प्रयुञ्जते ।
नच बीजादङ्कुरो ऽस्तीति प्रयुञ्जते ।
तस्मादस्ति सत्तायां न जन्मनीति

29.22

3.4.3.22.

29.23

3.4.4.23.
#पारिप्लवार्था इति चेन्न विशेषितत्वात्# ।
यद्यपि उपनिषदाख्यानानि विद्यासंनिधौ श्रुतानि तथापि ऽसर्वाण्याख्यानानि पारिप्लवेऽ इति सर्वश्रुत्या निःशेषार्थतया दुर्बलस्य संनिधेर्बाधितत्वात्परिप्लवार्थान्येवाख्यानानि ।
नच सर्वा दाशतयीरनुब्रूयादिति विनियोगे ऽपि दाशतयीनां प्रातिस्विकविनियोगात्तत्र तत्र कर्मणि यथा विनियोगो न विरुध्यते तथेहापि सत्यपि पारिप्लवे विनियेगे संनिधानाद्विद्याङ्गत्वमपि भविष्यतीति वाच्यम् ।
दाशतयीषु प्रातिस्विकानां विनियोगानां समुदायविनियोगस्य च तुल्यबलत्वादिह तु संनिधानात् श्रुतेर्बलीयस्त्वात् ।
तस्मात्पारिप्लवार्थान्येवाख्यानानीति प्राप्त उच्यते-नैषामाख्यानानां पारिप्लवे विनियोगः ।
किन्तु पारिप्लवमाचक्षीतेत्युपक्रम्य यान्याम्नातानि मनुर्वैवस्वतो राजेत्यादीनि तेषामेव तत्र विनियोगः, तान्येव हि पारिप्लवेन विशेषितानि ।
इतरथा पारिप्लवे सर्वाण्याख्यानानित्येतावतैव गतत्वात्परिप्लवमाचक्षीतेत्यनर्थकं स्यात् ।
आख्यानविशेषणत्वे त्वर्थवत् ।
तस्माद्विशेषाणानुरोधात्सर्वशब्दस्तदपेक्षो न त्वशेषवचनः ।
यथा सर्वे ब्राह्मणा भोजयितव्या इत्यत्र निमिन्त्रातापेक्षः सर्वशब्दः ।
तथा चोपनिषदाख्यानानां विद्यासंनिधिरप्रतिद्वन्दीं विद्यैकवाक्यतां सो ऽरोदीदित्यादीनामिव विध्येकवाक्यत्वं गमयतीति सिद्धम् ।
प्रतिपत्तिसौकर्याच्चेत्युपाख्यानेन हि बाला अप्यवधीयन्ते यथा तन्त्रोपाख्यायिकयेति

29.24

3.4.4.24.

29.25

3.4.5.25.
#अत एव चाग्नीन्धनाद्यनपेक्षा# ।
विद्यायाः क्रत्वर्थत्वे सति तथा क्रतूपकरणाय स्वकार्याय क्रतुरपेक्षितः ।
तदभावे कस्योपकारो विद्ययेति ।
यदा तु पुरुषार्था तदा नानया क्रतुरपेक्षितः स्वकार्ये निरपेक्षाया एव तस्याः सामर्थ्यात् ।
अग्नीन्धानादिना चाश्रमकर्माण्युपलक्ष्यन्ते तदाह- #अग्नीन्धनादीव्याश्रमकर्माणि विद्यया स्वार्थसिद्धौ नापेक्षितव्यानीति# ।
स्वार्थसिद्धौ नापेक्षितव्यानि न तु स्वसिद्धाविति ।
एतच्चाधिकमुपरिष्टाद्वक्ष्यते ।
तद्विवक्षया चैतत्प्रयोजनं पूर्वतनस्याधिकरणस्योक्तम्

29.26

3.4.5.26.
अधिकविवक्ष्येति यदुक्तं तदधिकमाह- #सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्# ।
यथा स्वार्थसिद्धौ नापेक्ष्यन्ते आश्रमकर्माणि एवमुत्पत्तावपि नापेक्ष्येरन्निति शङ्का स्यात् ।
नच विविदिषन्ति यज्ञेनेत्यादिविरोधः ।
नह्येष विधिरपि तु वर्तमानापदेशः ।
स च स्तुत्याप्युपपद्यते ।
अपिच चतस्रः प्रतिपत्तयो ब्रह्मणि ।
प्रथमा तावदुपनिषद्वाक्यश्रवणमात्राद्भवति यां किलाचक्षते श्रवणमिति ।
द्वितीया मीमांसासहिता तस्यादेवोपनिषद्वाक्याद्यामाचक्षते ।
मननमिति ।
तृतीया चिन्ता ।
सन्ततिमयी यामाचक्षते निदिध्यासनमिति ।
चतुर्थी साक्षात्कारवती वृत्तिरूपा नान्तरीयकं हि तस्याः कैवल्यमिति ।
तत्राद्ये तावत्प्रतिपत्ति विदितपदतदर्थस्य विदितवाक्यगतिगोचरन्यायस्य च पुंस उपपद्येते एवेति न तत्र कर्मापेक्षा ।
ते एव च चिन्तामयीं तृतीयं प्रतिपत्तिं प्रसुवाते इति न तत्रापि कर्मापेक्षा ।
सा चादरनैरन्तर्यदीर्घकालसेविता साक्षात्कारवतीमाधत्त एव प्रतिपत्तिं चतुर्थीमिति न तत्राप्यस्ति कर्मापेक्षा ।
तन्नान्तरीयकं च कैवल्यमिति न तस्यापि कर्मापेक्षा ।
तदेवं प्रमाणतश्च प्रमेयत उत्पत्तौ च कार्ये च न ज्ञानस्य कर्मापेक्षेति बीजं शङ्कायाम् ।
एवं प्राप्त उच्यते-उत्पत्तौ ज्ञानस्य कर्मापेक्षा विद्यते विविदिषोत्पादद्वारा ऽविविदिषन्ति यज्ञेनऽ इति श्रुतेः ।
न चेदं वर्तमानापदेशत्वात्स्तुतिमात्रमपूर्वत्वादर्थस्य ।
यथा यस्य पर्णमयी जुहूर्भवतीति पर्णमयताविधिरपूर्वत्वान्न त्वयं वर्तमानापदेशः, अनुवादानुपपत्तेः ।
तस्मादुत्पत्तौ विद्यया शमादिवत् कर्माण्यपेक्ष्यन्ते ।
तत्राप्येवंविदिति विद्यास्वरूपसंयोगादन्तरङ्गाणि विद्योत्पादे शमादीनि, बहिरङ्गाणि कर्माणि विविदिषासंयोगात् ।
तथाहि-आश्रमविहितनित्यकर्मानुष्ठानाद्धर्मसमुत्पादस्ततः पाप्मा विलीयते ।
स हि तत्त्वतो ऽनित्याशुचिदुः-खानात्मनि संसारे सति नित्यशुचिमुखात्मलक्षणेन विभ्रमेण मलिनयति चित्तसत्त्वमधर्मनिबन्धनत्वाद्विभ्रमाणाम् ।
अतः पाप्मनः प्रक्षये प्रत्यक्षोपपत्तिद्वारापावरणे सति प्रत्यक्षोपपत्तिभ्यां संसारस्य तात्त्विकीमनित्याशुचिदुःखरूपतामप्रत्यूहं विनिश्चिनेति ।
ततो ऽस्मिन्ननभिरतिसंज्ञं वैराग्यमुपजायते ।
ततस्तज्जिहासास्योपावर्तते ।
ततो हानोपायं प्रयेषते पर्येषमाणश्चात्मतत्त्वज्ञानमस्योपाय इति शास्त्रदाचार्यवचनाच्चोपश्रुत्य तज्जिज्ञासत इति विविदिषोपहारमुखेनात्मज्ञानोत्पत्तावस्ति कर्माणमुपयोगः ।
विविदिषुः खलु युक्त एकाग्रतया श्रवणमनने कर्तुमुत्सहते ।
ततो ऽस्य ऽतत्त्वमसिऽ इतिवाक्यन्निर्विचिकित्सं ज्ञानमुत्पद्यते ।
नच निर्विचिकित्सं तत्त्वमसीति वाक्यार्थमवधारयतः कर्मण्यधिकारो ऽस्ति ।
येन भावनायां वा भावनाकार्ये वा साक्षात्कारे कर्मणामुपयोगः ।
एतेन वृत्तिरूरपसाक्षात्कारकार्ये ऽपवर्गे कर्मणामुपयोगो दूरनिरस्तो वेदितव्यः ।
तस्माद्यथैव शमदमादयो यावज्जीवमनुवर्तन्ते एवमाश्रमकर्मापीत्यसमीक्षिताभाधानम् ।
विदुषस्तत्रानधिकारादित्युक्तम् ।
दृष्टार्थेषु तु कर्मसु प्रतिषिद्धवर्जमनधिकारे ऽप्यसक्तस्य स्वारसिकी प्रवृत्तिरुपपद्यत एव ।
नहि तत्रान्वयव्यतिरेकसमधिगमनीयफले ऽस्ति विध्यपेक्षा ।
अतश्च ऽभ्रान्त्या चेल्लौकिकं कर्म वैदिकं च तथास्तु तेऽ इति प्रलापः ।
शमदमादीनां तु विद्योत्पादायोपात्तानामुपरिष्टादवस्थास्वाभाव्यादनपेक्षितानामप्यनुवृत्तिः ।
उपपादितं चैतदस्माभिः प्रथमसूत्र इते नेह पुनः प्रत्याप्यते ।
तस्माद्विविदिषोत्पादद्वाराश्रमकर्मणां विद्योत्पत्तावुपयोगो न विद्याकार्य इति सिद्धम् ।
शेषमतिरोहितार्थम्

29.27

3.4.6.27.

29.28

3.4.7.28.
सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ।
प्राणसंवादे सर्वेन्द्रियाणां श्रूयते ।
एष किल विचारविषयः-सर्वाणि खलु वागादीन्यवजित्य प्राणो मुख्य उवाचैतानि किं मे ऽन्नं भविष्यतीति, तानि होचुः ।
यदिदं लोके ऽन्नमा च श्वभ्य आ च शकुनिभ्यः सर्वप्राणिनां यदन्नं तत्तवान्नमिति ।
तदनेन संदर्भेण प्राणस्य सर्वमन्नमित्यनुचिन्तनं विधायाह श्रुतिः-ऽन ह वा एवंविदि किञ्चनानन्नं भवतिऽ इति ।
सर्वं प्राणस्यान्नमित्येवंविदि न किञ्चिनानन्नं भवतीति ।
तत्र संशयः-किमेतत्सर्वान्नाभ्यनुज्ञानं शमादिवदेतद्विद्याङ्गतया विधीयत उत स्तुत्यर्थं संकीर्त्यत इति ।
तत्र यद्यपि भवतीति वर्तमानापदेशान्न विधिः प्रतीयते ।
तथापि यथा यस्य पर्णमयी जुहूर्भवतीति वर्तमानापदेशादपि पलाशमयीत्वविधिप्रतिपत्तिः पञ्चमलकारापत्त्या तथेहापि प्रवृत्तिविशेषकरतालाभे विधिप्रतिपत्तिः ।
स्तुतौ हि अर्थवादमात्रं न तथार्थवद्यथा विधौ ।
भक्ष्याभक्ष्यशास्त्रं च सामान्यतः प्रवृत्तमनेन विशेषशास्त्रेण बाध्यते ।
गम्यागम्यविवेकशास्त्रमिव सामान्यतः प्रवृत्तं वामदेवविद्याङ्गभूतसमस्तन्त्र्यपरिहारशास्त्रेण विशेषविषयेणेति प्राप्त उच्यते-अशक्तेः कल्पनीयत्वाच्छास्त्रान्तरविरोधतः ।
प्राणस्यान्नमिदं सर्वमिति चिन्तनसंस्तवः ॥
न तावत्कौलेयकमर्यादमन्नं मनुष्यजातिना युगपत्पर्यायेण वा शक्यमत्तुम् ।
इभकरभकादीनामन्नस्य शमीकरीरकण्टकवटकाष्ठादेरेकस्यापि अशक्यादनत्वात् ।
न चात्र लिङ् इव स्फुटतरा विधिप्रतिपत्तिरस्ति ।
नच कल्पनीयो विधिरपूर्वत्वाभावात् ।
स्तुत्यापि च तदुपपत्तेः ।
नच सत्यां गतौ सामान्यतः प्रवृत्तस्य शास्त्रस्य विषयसंकोचो युक्तः ।
तस्मात्सर्वं प्राणस्यान्नमित्यनुचिन्तनविधानस्तुतिरिति साम्प्रतम् ।
शक्यत्वे च प्रवृत्तिविशेषकरतोपयुज्यते नाशक्यविधानत्वे ।
प्राणात्यस्य इति चावधारणपरं प्राणात्यय एव सर्वान्नत्वम् ।
तत्रोपाख्यानाच्च स्फुटतरविधिस्मृतेश्च सुरावर्जं विद्वांसमविद्वांसं प्रति विधानात् ।
न त्वन्यत्रेति ।
#इभ्येन#हस्तिपकेन #सामिस्वादिता#नर्धभक्षितान् ।
स हि चाक्रायणो हस्तिपकोच्छिष्टान्कुल्माषान्भुञ्जानो हस्तिपकेनोक्तः ।
कुल्माषानिव मदुच्छिष्टमुदकं कस्मान्नानुपिबसीति ।
एवमुक्तस्तदुदकमुच्छिष्टदोषात्प्रत्याचचक्षे ।
कारणं चात्रोवाच ।
न वाजीविष्टं न जीविष्यामीतीमान्कुल्माषानखादम् ।
कामो म उदकपानमिति स्वातन्त्र्यं मे उदकपाने नदीकूपतडागप्रापादिषु यथाकामं प्राप्नोमीति नोच्छिष्टोदकाभावे प्राणात्यय इति तत्रोच्छिष्टभक्षणदोष इति मटचीहतेषु कुरुषु ग्लायन्नशनायया मुनिर्निरपत्रप इभ्येन सामिजग्धान्खादयामास

29.29

3.4.7.29.

29.30

3.4.7.30.

29.31

3.4.7.31.

29.32

3.4.8.32.
#विहितत्वाच्चाश्रमतर्मापि# ।
नित्यानि ह्याश्रमकर्माणि यावज्जीवश्रुतेर्नित्येहितोपायतयावश्यं कर्तव्यानि ।
विविदिषन्तीति च विद्यासंयोगाद्विद्यायाश्चावश्यंभावनियमाभावादनित्यता प्राप्नोति ।
नित्यानित्यसंयोगश्चैकस्य न संभवति, अवश्यानवश्यंभावयोरेकत्र विरोधात् ।
नच वाक्यभेदाद्वास्तवो विरोधः शक्यो ऽपनेतुम् ।
तस्मादनध्यवसाय एवात्रेति प्राप्तम् ।
एतेन ऽएकस्य तूभयत्वे संयोगपृथक्त्वम्ऽ इत्याक्षिप्तम् ।
एवं प्राप्ते ऽभिधीयते-सिद्धे हि स्याद्विरोधो ऽयं न तु साध्ये कथञ्चन ।
विध्यधीनात्मलाभे ऽस्मिन् यथाविधि मता स्थितिः ॥
सिद्धं हि वस्तु विरुद्धधर्मयोगेन बाध्यते ।
न तु साध्यरूपं यथा षोडशिन एकस्य ग्रहणाग्रहणे ।
ते हि विध्यधीनत्वाद्विकस्पेते एव ।
न पुनः सिद्धे विकल्पसंभवः ।
तदिहैकमेवाग्निहोत्राख्यं कर्म यावज्जीवश्रुतेर्निमित्तेन युज्यमानं नित्येहितोपात्तदुरितप्रक्षयप्रयोजनमवश्यकर्तव्यं, विद्याङ्गतया च विद्यायाः कादाचित्कतयानवश्यं भावे ऽपि ऽकाम्यो वा नैमित्तिको वा विकृत्य निविशतेऽ इति न्यायादनित्याधिकारेण निविशमानमपि न नित्यमनित्ययति, तेनापि तस्मिद्धेरिति संयोगपृथक्त्वान्न नित्यानित्यसंयोगविरोध एकस्य कार्यस्येति सिद्धम् ।
सहाकिरत्वं च कर्मणां न कार्ये विद्यायाः किं तूत्पत्तौ ।
कोर्ऽथो विद्यासहकारीणि कर्माणीति ।
अयमर्थः-सत्सु कर्मसु विद्यैव स्वकार्ये व्याप्रियते ।
यथा ऽसहैव दशाभिः पूत्रैर्भारं वहति गर्दभीऽ इति सात्स्वेव दशपुत्रेषु सैव भारस्य वाहिकेति ।
#अविधिलक्षणत्वादिति# ।
विहितं हि दर्शपौर्णमासाद्यङ्गैर्युज्यते न त्वविहितम् ।
ग्राहकग्रहणपूर्वकत्वादङ्गभावस्य विधैश्च ग्राहकत्वात् ।
अविहिते च तदनुपपत्तेः ।
चतसृणामपि च प्रतिपत्तीनां ब्रह्मणि विधानानुपपत्तेरित्युक्तं प्रथमसूत्रे ।
द्रष्टव्यो निदिध्यासितव्य इति च विधिसरूपं नि विधिरित्यप्युक्तम् ।
उत्पत्तिं प्रति हेतुभावस्तु सत्त्वशुद्ध्या विविदिषोपजनद्वारेत्यधस्तादुपपादितम् ।
असाध्यत्वाच्च विद्याफलस्यापवर्गस्य स्वरूपावस्थानलक्षणो हि सः ।
नच स्वं रूपं ब्रह्मणः साध्यं नित्यत्वात् ।
शेषमतिरोहितार्थम्

29.33

3.4.8.33.

29.34

3.4.8.34.
#सर्वथापि त एवोभयलिङ्गात्# ।
यथा मासमग्निहोत्रं जुह्वतीति प्रकरणान्तरात्कर्मभेद एवमिहापि ऽतमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेनऽ इतिक्रतुप्रकरणमतिक्रम्यश्रवणात्प्रकरणान्तरात्तद्बुद्धिव्यवच्छेदे सति कर्मान्तरमिति प्राप्त उच्यते-सत्यपि प्रकरणान्तरे तदेव कर्म, श्रुतेः स्मृतेश्च संयोगभेदः परं यथा ऽअग्निहोत्रं जुहुयात्स्वर्गकामःऽ ऽयावज्जीवमग्निहोत्रं जुहुयात्ऽ इति तदेवाग्निहोत्रमुभयसंयुक्तम् ।
नहि प्रकरणान्तरं साक्षद्भेदकम् ।
किन्तु अज्ञातज्ञापनस्वरसो विधिः प्रकरणैक्ये स्फुटतरप्रत्यभिज्ञाबलेन स्वरसं जह्यात् ।
प्रकरणान्तरेण तु विघटुतप्रत्यभिज्ञानः स्वरसमजहत्कर्म भिनत्ति ।
इह तु सिद्धवदुत्पन्नरूपाण्येव यज्ञादीनि विविदिषायां विनियुञ्जानो न जुह्वतीत्यादिवदपूर्वमेषां रूपमुत्पादयितुमर्हति ।
नच तत्रापि नैयमिकाग्निहोत्रे मासविधिर्नापूर्वाग्निहोत्रोत्पत्तिरिति सांप्रतम् ।
होम एव साक्षद्विधिश्रुतेः ।
कालस्य चानुपादेयस्याविधेयत्वात् ।
काले हि कर्म विधीयते न कर्मणि काल इत्युत्सर्गः ।
इह तु विविदिषायां विधिश्रुतिः न यज्ञादौ ।
तानि तु सिद्धान्येवानूद्यन्त इत्यैककर्म्यात्संयोगपृथक्त्वं सिद्धम् ।
स्मृतिमुक्त्वा लिङ्गदर्शनमुक्तम्

29.35

3.4.8.35.

29.36

3.4.9.36.
#अन्तरा चापि तु तद्दृष्टेः# ।
यदि विद्यासहकारीण्याश्रमकर्माणि हन्त भो विधुरादीनामनाश्रमिणामनधिकारो विद्यायाम्, अभावात्सहकारिणामाश्रमकर्मणामिति प्राप्त उच्यते-नात्यन्तमकर्माणो रैक्कविधुरवाचक्रवीप्रभृतयः ।
सन्ति हि तेषामनाश्रमित्वे ऽपि जपोपवासदेवताराधनादिति कर्माणि ।
कर्मणां च सहकारित्वमुक्तमाश्रमकर्मणामुपलक्षणत्वादिति न तेषामनधिकारो विद्यासु ।
#जन्मान्तरानुष्ठितेरपि चेति# ।
न खलु विद्याकार्ये कर्मणामपेक्षा ।
अपितु उत्पादे ।
उत्पादयन्ति च विविदिषोपहारेण कर्माणि विद्याम् ।
उत्पन्नविविदिषाणां पुरुषधौरेयाणां विधुरसंवर्तप्रभृतीनां कृतं कर्मभिः ।
यद्यपि चेह जन्मनि तथेह जन्मन्याश्रमकर्मोत्पादितविविदिष एव विद्यायामधिकृतो नेतर इत्यनाश्रमिणामनधिकारो विधुरप्रभृतीनामित्यत आह- #दृष्टार्था चेति# ।
अविद्यानिवृत्तिर्विद्याया दृष्टोर्ऽथः ।
स चान्वव्यतिरेकसिद्धो न नियममपेक्षत इत्यर्थः ।
प्रतिषेधो विघातस्तस्याभाव इत्यर्थः

29.37

3.4.9.37.

29.38

3.4.9.38.

29.39

3.4.10.39.
यद्यनाश्रमिणामप्यधिकारो विद्यायां कृतं तर्ह्याश्रमैरतिबहुलायासैरित्याशङ्क्याह-अतस्त्वितरज्ज्यायो लिङ्गाच्च ।
स्वस्थेनाश्रमित्वमास्थेयम् ।
दैवात्पुनः पत्न्यादिवियोगातः सत्यनाश्रमित्वे भवेदधिकारो विद्यायामिति श्रुतिस्मृतिसंदर्भेण विविदिषन्ति यज्ञेनेत्यादिना ज्यायस्त्वावगतेः श्रुतिलिङ्गात्स्मृतिलिङ्गाच्च्वागम्यते ।
तेनैति पुण्यकृदिति श्रुतिलिङ्गम्, अनाश्रमी न तिष्ठेतेत्यादि च स्मृतिलिङ्गम्

29.40

3.4.10.40.
#तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमातद्रूपाभावेभ्यः# ।
आरोहवत्प्रत्यवरोहो ऽपि कदाचिदूर्ध्वरेतसां स्यादिति मन्दाशङ्कानिवारणार्थमिदमधिकरणम् ।
पूर्वधर्मेषु यागहोमादिषु ।
रागतो वा गृहस्थो ऽहं पत्न्यादिपरिवृतः स्यामिति ।
नियमं व्याचष्टे-तथाहि- #अत्यन्तमात्मनामिति# ।
अतद्रूपतामारोहतुल्यताभावं व्याचष्टे- #तथाच ब्रह्मचर्यं समाप्येति# ।
अभावं शिष्टाचाराभावं विभजते- #न चैवमाचाराः शिष्टा इति# ।
अतिरोहितार्थमन्यत्

29.41

3.4.11.41.
#न चाधिकारिकमपिपतनानुमानात्तदयोगात्# ।
प्रायश्चित्तं न पश्यामीति नैष्ठिकं प्रति प्रायश्चित्ताभावस्मरणान्नैरृतगर्दभालम्भः प्रायश्चित्तमुपकुर्वाणकं प्रति ।
तस्माच्छिन्नशिरस इव पुंसः प्रतिक्रियाभाव इति पूर्वः पक्षः ।
सूत्रयोजना तु-न चाधिकारिकमधिकारलक्षणे प्रथमकाण्डे निर्णीतम् ऽअवकीर्णिपशुश्च तद्वदाधानस्याप्राप्तकालत्वात्ऽ इत्यनेन यत्प्रायश्चित्तं तन्न नैष्ठिके भवितुमर्हति ।
कुतः-आरूढो नैष्ठिकमिति स्मृत्या पतनश्रुत्यनुमानात्तत्प्रायश्चित्तायोगात्

29.42

3.4.11.42.
उपपूर्वमपीत्येके भावमशनवत्तदुक्तम् ।
श्रुतिस्तावत्सरसतो ऽसङ्कचद्वृत्तिर्ब्रह्मचारिमात्रस्य नैष्ठिकस्योपकुर्वाणस्य चाविशेषेण प्रायश्चित्तमुपदिशति साक्षात् ।
प्रायश्चित्तं न पश्यामीति तु स्मृतिः ।
तस्यामपि च साक्षात्प्रायश्चित्तं न कर्तव्यमिति प्रायश्चित्तनिषेधो न गम्यते, न पश्यामीति तु दर्शनाभावेन सो ऽनुमातव्यः ।
तथा च स्मृतिर्निषेधार्थेति अनुमाय तदर्था श्रुतिरनुमातव्या ।
श्रुतिस्तु सामान्यविषया विशेषमुपसर्पन्ती शीघ्रप्रवृत्तिरिति ।
स्मार्तं प्रायश्चित्तादर्शनं तु यत्नगौरवार्थम् ।
एतदुक्तं भवति-कृतनिर्णेजनैरपि एतैर्न संख्यानं कर्तव्यमिति ।
सूत्रार्थस्तु-उपपूर्वमपि पातकं नैष्ठिकस्यावकीर्णित्वं न महापातकमपिरेवकारार्थे अत एके प्रायश्चित्तभावमिच्छन्तीति ।
आचार्याणां विप्रतिपत्तौ विशेषाभावात्साम्यं भवेत् ।
शास्त्रस्था या वा प्रसिद्धिः सा ग्राह्या शास्त्रमूलत्वात् ।
उपपादेतं च प्रायश्चित्तभावप्रसिद्धेः शास्त्रमूलत्वमिति ।
सुगममितरम्

29.43

3.4.12.43.
यदि नैष्ठिकादीनामस्ति प्रायश्चित्तं तत्किमेतैः कृतनिर्णेजनैः संव्यवहर्तव्यमुत नेति ।
तत्र दोषकृतत्वादसंव्यवहारस्य प्रायश्चित्तेन तन्निबर्हणादनिबर्हणे वा तत्करणवैयर्थ्यात्संव्यवहार्या एवेति प्राप्त उच्यति- #बहिस्तूभयथापि स्मृतेराचाराच्च# ।
निषिद्धकर्मानुष्ठानजन्यमेनो लोकद्वये ऽप्यशुद्धिमापादयति द्वैधम् लोकद्वये ऽप्यशुद्धिरपनीयते प्रायश्चित्तैरेनोनिबर्हणं कुर्वाणैः ।
कस्याचित्तु परलोकाशुद्धिमात्रमपनीयते प्रायश्चित्तैरेनोनिबर्हणं कुर्वाणैरिहलोकाशुद्धिस्त्वेनसापादिता न शक्यापनेतुम् ।
यथा स्त्रीबालादिघातिनाम् ।
यथाहुः-ऽविशुद्धानपि धर्मतो न संपिबेत्ऽ इति ।
तथा च ऽप्रायश्चित्तैरपैत्येनो यदज्ञानकृतं भवेत्ऽ कामतः कृतमपि ।
बालघ्रादिस्तु कृतनिर्णेजनो ऽपि वचनादव्यवहार्य इह लोके जायत इति ।
वचनं च बालघ्रांश्चेत्यादि ।
तस्मात्सर्वमवदातम्

29.44

3.4.13.44.
#स्वामिनः फलश्रुतेरित्यात्रेयः# ।
प्रथमे काण्डे शेषलक्षणे तथाकाम इत्यत्रर्त्विक्संबन्धे कर्मणः सिद्धे किं कामो याजमान उतार्त्विज्य इति संशप्यार्त्विज्ये ऽपि कर्मणि याजमान एव कामो गुणफलेष्विति निर्णीतमिहि त्वेवञ्जातीयकानि चाङ्गसंबद्धानि उपासनानि किं याजमानन्येवोतार्त्विज्यानीति विचार्यत इति न पुनरुक्तम् ।
तत्रोपासकानां फलश्रवणादनधिकारिणस्तदनुपपत्तेर्यजमानस्य च कर्मजनितफलोपभोगभाजो ऽधिकारादृत्विजां च तदनुपपत्तेर्वचनाच्च राजाज्ञास्थानीयात्क्कचिदृत्विजां फलश्रुतेरसति वचने यजमानस्य फलवदुपासनं तस्य फलश्रुतेः तं ह बको दालभ्यो विदाञ्चकारेत्यादेरुपासनस्य च सिद्धविषयतयान्यायापवादसामर्थ्यभावाद्याजमानमेवोपासनाकर्मेति प्राप्त उच्यते-

29.45

3.4.13.45.
#आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रीयते# ।
उपाख्यानात्तावदुपासनमौद्गात्रमवगम्यते ।
तद्बलवति सति बाधके ऽन्यथोपपादनीयम् ।
न चर्त्विक्कर्तृक उपासने यजमानगामिता फलस्यासंभविनी तेन हि स परिक्रीयस्तद्गामिने फलाय घटते ।
तस्मान्न व्यसनितामात्रेणोपाख्यानमन्यथयितुं युक्तमिति राद्धान्तः

29.46

3.4.13.46.

29.47

3.4.14.47.
तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य निश्चयेन ।
लब्ध्वा बाल्येन तिष्ठासेद्बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिरमौनं च मौनं च निर्विद्याथ ब्राह्मण इति ।
यत्र हि विधिविभक्तिः श्रूयते स विधेयः ।
बाल्येन तिष्ठासेदित्यत्र च सा श्रूयते न श्रूयते तु मौने ।
तस्माद्यथाथ ब्रह्मण इत्येतदश्रूयमाणविधिकमविधेयमेवं मौनमपि ।
न चापूर्वत्वाद्विधेयं, तस्माद्ब्राह्नः पाण्डित्यं निर्विद्येति पाण्डित्यविधानादेव मौनसिद्धेः पाण्डित्यमेव मौनमिति ।
अथवा भिक्षुवचनो ऽयं मुनिशब्दस्तत्र दर्शनात् ऽगार्हस्थ्यमाचार्यकुलं मौनं वानप्रस्थम्ऽ इत्यत्र ।
तस्यान्यतो विहितस्यायमनुवादः ।
तस्माद्बाल्यमेवात्र विधीयते मौनं तु प्राप्तं प्रशंसार्थमनूद्यत इति युक्तम् ।
भवेदेवं यदि पण्डितपर्यायो मुनिशब्दो भवेत् ।
अपि तु ज्ञानमात्रं पाण्डित्यं ज्ञानातिशयसंपत्तिस्तु मौनं तत्प्रसिद्धेः ।
आश्रमभेदे तु तत्प्रवृत्तिर्गार्हस्थ्यादिपदसंनिधानात् ।
तस्मादपूर्वत्वान्मौनस्य बाल्यपाण्डित्यापेक्षया तृतीयमिदं मौनं ज्ञानातिशयरूपं विधीयते ।
एवं च निर्वेदनीयत्वमपि विधान आञ्जसं स्यादित्याह- #निर्वेदनीयत्वनिर्देशादिति# ।
कस्येदं मौनं विधीयते विद्यासहकारितयेत्यत आह- #तद्वतो विद्यावतः संन्यासिनो#भिक्षोः ।
पृच्छति- #कथमिति# ।
विद्यावत्ता प्रतीयते न संन्यासितेत्यर्थः ।
उत्तरन् #तदधिकारात्#भिक्षोस्तदधिकारात् ।
तद्दर्शयति- #आत्मानं विदित्वेति# ।
सूत्रावयवं योजयितुं शङ्कते- #नन्विति# ।
परिहरति- #अत आह-पक्षेणेति# ।
विद्यावानिति न विद्यातिशयो विवक्षितः ।
अपि तु विद्योदयायाभ्यासे प्रवृत्तो न पुनरुत्पन्नविद्यातिशयः ।
तथाचास्य पक्षे कदाचिद्भेददर्शनात्संभव इत्यर्थः ।
विध्यादिर्विधिमुख्यः प्रधानमिति यावत् ।
अत एव समिदादिर्विध्यन्तः स हि विधिः प्रधानविधेः पश्चादिति ।
तत्राश्रूयमाणविधित्वे ऽपूर्वत्वाद्विधिरास्थेय इत्यर्थः

29.48

3.4.14.48.
ननु यद्ययमाश्रमो बाल्यप्रधानः कस्मात्पुनर्गार्हस्थ्येनोपसंहरतीति चोदयति- #एवं बाल्यादिविशिष्टेति# ।
उत्तरं पठति- #कृत्स्नभावात्तु गृहिणोपसंहारः# ।
छान्दोग्ये बहुलायासाध्यकर्मबहुलत्वाद्गार्हस्थ्यस्य चाश्रमान्तरधर्माणां च केषाञ्चिदहिंसादीनां समवायात्तेनोपसंहारो न पुनस्तेन समापनादित्यर्थः

29.49

3.4.14.49.
एवं तदाश्रमद्वयोपन्यासेन क्कचित्कदाचिदितराभावशङ्का मन्दबुद्धेः स्यादिति तदपाकरणार्थं सूत्रम्- #मौनवदितरेषामप्युपदेशात्# ।
वृत्तिर्वानप्रस्थानामनेकविधैरेवं ब्रह्माचारिणो ऽपीति वृत्तिभेदो ऽनुष्ठातारो वा पुरुषा भिद्यन्ते, तस्माद्द्वित्वे ऽपि बहुवचनमविरुद्धम्

29.50

3.4.15.50.
#अनाविष्कुर्वन्नन्वयात्# ।
बाल्येनेति यावद्बालचरितश्रुतेः कामचारवादभक्षतायाशचात्यन्तबाल्येन प्रसिद्धेः शौचादिनियमविधायिनश्च सामान्यशास्त्रस्यानेन विशेषशास्त्रेण बाधनात्सकलबालचरितविधानमिति प्राप्ते ऽभिधीयते-विद्याङ्गत्वेन बाल्यविधानात्समस्तबालचर्यायां च प्रधानविरोधप्रसङ्गाद्यत्तदनुगुणमप्रौढेन्द्रियत्वादि भावशुद्धिरूपं तदेव विधीयते ।
एवं च शास्त्रान्तराबाधेनाप्युपपत्तौ न शास्त्रान्तरबाधनमन्याप्यं भविष्यतीति

29.51

3.4.16.41.
#ऐहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्शनात्# ।
संगतिमाह- #सर्वापेक्षा चेति# ।
किं श्रवणादिभिरिहैव वा जन्मनि विद्या साध्यते उतानियम इह वामुत्र वेति ।
यद्यपि कर्माणि यज्ञादिन्यनियतफलानि तेषां च विद्योत्पदसाधनत्वेन विद्योत्पादस्यानियमः प्रतिभाति ।
तथाच गर्भस्थस्य वामदेवस्यात्मप्रतिबोधश्रवणात् ऽअनेकजन्मसंसिद्धस्ततो यति परां गतिम्ऽ इति च स्मरणादामुष्मिकत्वमप्यवगम्यते ।
तथापि यज्ञादीनां प्रमेयाणामप्रमाणत्वाच्छ्रवणादेश्च प्रमाणत्वात्तेषामेव साक्षाद्विद्यासाधनत्वम् ।
यज्ञादीनां सत्त्वशुद्ध्याधानेन वा विद्योत्पादकश्रवणादिलक्षणप्रमाणप्रवृत्तिविघ्नोपशमेन वा विद्यासाधनत्वाम् ।
श्रवणादीनां त्वनपेक्षामामेव विद्योत्पादकत्वम् ।
नच प्रमाणेषु प्रवर्तमानाः प्रमातार ऐहिकमपि चिरभाविनं प्रमोत्पादं कामयन्ते किन्तु तादात्विकमेव प्रागेव तु पारलौकिकम् ।
नहि कुम्भलादिदृक्षुश्चक्षुषी समुन्मीलयति कालान्तरीयाय कुम्भदर्शनाय किन्तु तादात्विकाय ।
तस्मादैहिक एव विद्योत्पादो नानियतकालः ।
श्रुतिस्मृती च पारलौकिकं विद्योत्पादं स्तुत्या ब्रातः ।
इत्थंभूतानि नाम श्रवणादीन्यावश्यकफलानि यत्कालान्तरे ऽपि विद्यामुत्पादयन्तीति ।
एवं प्राप्त उच्यते-यत एवात्र विद्योत्पादे श्रवणादिभिः कर्तव्ये यज्ञादीनां सत्त्वाशुद्धिद्वारेण वा विघ्नोपशमद्वारा वोपयोगो ऽत एव तेषां यज्ञादीनां कर्मान्तरप्रतिबन्धाप्रतिबन्धाभ्यामनियतफलत्वेन तदपेक्षाणां श्रवणादीनामप्यनियतफलत्वं न्याट्यनियतफलत्वं न्याट्यमनपहतविघ्नानां श्रवणादीनामनुत्पादकत्वादविशुद्धसत्त्वाद्वा पुंसः प्रत्यनुत्पादकत्वात् ।
तथाच तेषां यज्ञाद्यपेक्षाणां तेषां चानियतफलत्वेन श्रवणादीनामप्यनियतफलत्वं युक्तमेवं श्रुतिस्मृतिप्रतिबन्धो न स्तुतिमात्रत्वेन व्याख्येयो भविष्यति ।
पुरुषाश्च विद्यार्थिनः साधनसामर्थ्यानुसारेण तदनुरूपमेव कामयिष्यन्ते तदिदमुक्तम्-अभिसंधेर्निरङ्कशत्वादिति

29.52

3.4.17.52.
#एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः# ।
यज्ञाद्युपकृतविद्यासाधनश्रवणादिवीर्यविशेषात्किल तत्फले विद्यायामैहिकमुष्मिकत्वलक्षण उत्कर्षो दर्शितः ।
तथा च यथा साधनोत्कर्षनिकर्षाभ्यां तत्फलस्य विद्याया उत्कर्षावेवं विद्याफलस्यापि मुक्तेरुत्कर्षनिकर्षौ संभाव्येते ।
नच मुक्तावैहिकामुष्मिकत्वलक्षणो विशेष उपपद्यते ब्रह्मोपासनापरिपाकलब्धजन्मनि विद्यायां जीवतो मुक्तेरवश्यंभावनियमात्सत्यप्यारब्धविपाककर्माप्रक्षये ।
तस्मान्मुक्तावेव रूपतो निकर्षोत्कर्षौ स्याताम् ।
अपिच सगुणानां विद्यानामुत्कर्षनिकर्षाभ्यां तत्फलानामुत्कर्षनिकर्षौ दृष्टाविति मुक्तेरपि विद्याफलत्वाद्रूपतश्चोत्कर्षनिकर्षौ स्यातामिति प्रापत उच्यते-न मुक्तेस्तत्र तत्रैकरूप्यश्रुतेरुपपत्तेश्च ।
साध्यं हि साधनविशेशषाद्विशेषवद्भवति ।
नच मुक्तिर्ब्रह्मणो नित्यस्वरूपावस्थानलक्षणा नित्या सती साध्या भवितुमर्हति ।
नच सवासननिःशेषक्लेशकर्माशयप्रक्षयो विद्याजर्न्मविशेषवान्, येन तद्विशेषान्मोक्षो विशेषवान्भवेत् ।
नच सावशेषः क्लेशादिप्रक्षयो मोक्षाय कल्पते ।
नच चिराचिरोत्पादानुत्पादावन्तरेण विद्यायामपि रूपतो भेदः कश्चिदुपलक्ष्यते तस्या अप्येकरूपत्वेन श्रुतेः ।
सगुणायास्तु विद्यायास्तत्तद्गुणावपोद्झामाभ्यां तत्कार्यस्य फलस्योत्कर्षनिकर्षौ युज्येते ।
न चात्र विद्यात्वं सामान्यतो दृष्टं भवति ।
आगमतत्प्रभवयुक्तिबाधितत्वेन कालात्ययापदिष्टत्वात् ।
तस्मात्तस्या मुक्त्यवस्थाया ऐकरूप्यावधृतेर्मुक्तिलक्षणस्य फलस्याविशेषो युक्त इति

मूल पाठ: Bhāmati a commentary on Śaṃkara's Brahmasūtrabhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc