भाषा

ENहिગુ
ग्रंथ पाठ

भामति · अध्याय 27

27.2

3.2.8.41.
#पूर्वं तु बादरायणो हेतुव्यपदेशात्# ।
दृष्टानुसारिणी हि कल्पना युक्ता नान्यथा ।
नहि जातु मृत्पिण्डदण्डादयः कुम्भकाराद्यनधिष्ठिताः कुम्भाद्यारम्भाय विभववन्तो दृष्टाः ।
नच विद्युत्पवनादिभिरप्रयत्नपूर्वैर्व्यभिचारः, तेषामपि कल्पनास्पदतया व्यभिचारनिदर्शनत्वानुपपत्तेः ।
तस्मादचेतनं कर्म वापूर्वे वा न चेतनानधिष्ठितं स्वतन्त्रं स्वकार्ये प्रवर्तितुमुत्सहते नच चैतन्यमात्रं कर्मस्वरूपसामान्यविनियोगादिविशेषविज्ञानशून्यमुपयुज्यते, येन तद्रहितक्षेत्रज्ञमात्राधिष्ठानेन सिद्धसाध्यत्वमुद्भाव्येत ।
तस्मात्तत्तत्प्रासादाट्टालगोपुरतोरणाद्युपजननिदर्शनसहस्रैः सुपरिनिश्चितं यथा चेतनाधिष्ठानादचेतनानां कार्यारम्भकत्वमिति तथा चैतन्यं देवताया असति बाधके श्रुतिस्मृतीतिहासपुराणप्रसिद्धं न शक्यं प्रतिषेध्धुमित्यपि स्पष्टं निरटङ्कि देवताधिकरणे ।
लौकिकश्चेश्वरो दानपरिचरणप्रणामञ्जलिकरणस्तुतिमयीभिरतिश्रद्धागर्भाभिर्भक्तिभिराराधितः प्रसन्नः स्वानुरूपमाराधकाय फलं प्रयच्छति विरोधतश्चापक्रियाभिर्विरोधकायाहितामित्यपि सुप्रसिद्धम् ।
तदिह केवलं कर्म वापूर्वं वा चेतनानधिष्ठितमचेतनं फलं प्रसूत इति दृष्टविरुद्धम् ।
यथा विनष्टं कर्म न फलं प्रसूत इति कल्प्यते दृष्टविरोधादेवमिहापीति ।
तथा देवपूजाच्मको यागो देवतां नप्रसादयन् फलं प्रसूत इत्यपि दृष्टविरुद्धम् ।
नहि राजपूजात्मकमाराधनं राजानमप्रसाद्य फलाय कल्पते ।
तस्माद्दृष्टानुगुण्याय यागादिभिरपि देवताप्रसत्तिरुत्पाद्यते ।
तथाच देवताप्रसादादेव स्थायिनः फलोत्पत्तेरुपपत्तेः कृतमपूर्वेण ।
एवमशुभेनापि कर्मणा देवताविरोधनं श्रुतिस्मृतिप्रसिद्धम् ।
ततः स्थायिनो ऽनिष्टफलप्रसवः ।
नच शुभाशुभकारिणां तदनुरूपं फलं प्रसुवाना देवता द्वेषपक्षपातवतीति युज्यते ।
नहि राजा साधुकारिणमनुगृह्णन्निगृह्णन् वा पापकारिणं भवति द्विष्टो रक्तो वा तद्वदलौकिको ऽपीश्वरः ।
यथा च परमापूर्वे कर्तव्ये उत्पत्त्यपूर्वाणामङ्गापूर्वाणां चोपयोगः ।
एवं प्रधानाराधने ऽङ्गाराधनानामुत्पत्त्याराधनानां चोपयोगः ।
स्वाम्याराधन इव तदमात्यतत्प्रणयिजनाराधनानामिति सर्वे समानमन्यत्राभिनिवेशात् ।
तस्माद्दृष्टाविरोधेन देवताराधनात् फलं न त्वपूर्वात्कर्मणो वा केवलाद्विरोधतो हेतुव्यपदेशश्च श्रौतः स्मार्तश्च व्याख्यातः ।
ये पुनरन्तर्यिमिव्यापाराया फलोत्पादनाया नित्यत्वं सर्वसाधारणत्वमिति मन्यमाना भाष्यकारीयमधिकरणं दूषविभागे भामत्यां तृतीयस्याध्यायस्य द्वितीयः पादः

मूल पाठ: Bhāmati a commentary on Śaṃkara's Brahmasūtrabhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc