भामति · अध्याय 24
इति श्रीमद्ब्रह्मसूत्रशाङ्करभाष्ये ऽविरोधाख्यो द्वितीयो ऽध्यायः ____________________________अध्याय 3____________________________ ।
#अथ तृतीयो ऽध्यायः# ।
3.1.1.1.
#तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम्# ।
द्वितीयतृतीयाध्याययोर्हेतुमद्भावलक्षणं संबन्धं दर्शयन् सुखावबोधार्थमर्थसंक्षेपमाह- #द्वितीये ऽध्याय इति# ।
स्मृतिन्यायश्रुतिविरोधपरिहारेण हि अनध्यवसायलक्षणमप्रामाण्यं परिहृतं तथाच निश्चलीकृते तार्तीयो विचारो भवत्यन्यथा तु निर्बीजतया न सिध्येदिति ।
अवान्तरसंगतिं दर्शयितुन् #तत्र व जीवव्यतिरिक्तानि तत्त्वानि जीवोपकरणानि#चेत्युक्तम् ।
अध्यायार्थसंक्षेपमुक्त्वा पादार्थसंक्षेपमाह- #तत्र प्रथमे तावत्पद इति# ।
तस्य प्रयोजनमाह-वैराग्य इति ।
पूर्वापरपरिशोधनाय भूमिकामारचयति #-जीवो मुख्यप्राणसचिव इति ।
करणोपादानवद्भूतोपादानस्याश्रुतत्वादिति# ।
अत्र च करणोपादानश्रुत्यैव भौतिकत्वात् करणानां भूतोपादानसिद्धेरिन्द्रियोपादानातिरिक्तभूतविवक्षयाधिकरणारम्भः ।
यदि भूतान्यादायागमिष्यत्तदा तदपि करणोपादानदेवश्रोष्यत् ।
नच श्रूयते तस्मान्न भूतपरिष्वक्तो रंहस्यपि तु करणमात्रपरिष्वक्तः ।
नह्यागमैकगम्येर्ऽथे तदभावः प्रमेयाभावं न परिच्छेत्तुमर्हति ।
नच देहान्तरारम्भान्यथानुपपत्त्या भूतपरिष्वक्तस्य रंहणकल्पनेति युक्तमित्याह- #सुलभाश्च सर्वत्र भूतमात्रा इति ।
द्युपर्जन्य इति# ।
इह हि कायारम्भणामग्निहोत्रापूर्वपरिणामलक्षणं श्रद्धादित्वेन पञ्चधा प्रविभज्य द्युप्रभृतिष्वग्निषु हेतव्यत्वेनोपासनमुत्तरमार्गप्रतिपत्तिसाधनं विवक्षन्त्याह श्रुतिः-ऽअसौ वाव लोको गौतमाग्निःऽ इत्यादि ।
अत्र सायंप्रातरग्निहोत्राहुतो, हुते पय आदिसाधने श्रद्धापूर्वमाहवनीयाग्निसमिद्धूमार्चिरङ्गारविस्फुलिङ्गभाविते कर्त्रादिकारकभाविते चान्तरिक्षं क्रमेणोत्क्राम्य द्युलोकं प्रविशन्त्यौ सूक्ष्मभूते द्रवद्रव्यपयःप्रभृत्यप्संबन्धादप्शब्दवाच्ये, श्रद्धाहेतुकत्वाच्च श्रद्धाशब्दवाच्ये ।
तयोराहुत्योरधिकरणमग्निरन्ये च समिद्धूमार्चिरङ्गारविस्फुलिङ्गा रूपकत्वेन निर्दिश्यन्ते ।
असौ वाव द्युलोको गौतमाग्निः ।
यथाग्निहोत्राधिकरणमाहवनीय एवं श्रद्धशब्दवाच्याग्निहोत्राहुतिपरिणामावस्थारूपाः सूक्ष्मा या आपः श्रद्धाभावितास्तदधिकरणं द्युलोकः ।
अस्यादित्य एव समित् ।
तेन हीद्धो ऽसौ द्युलोको दीप्यते ऽतः समिन्धनात्समित् तस्यादित्यस्य रश्मयो धूमा इन्धनादिवादित्याद्रश्मीनां समुत्थानात् ।
अहरर्थिः ।
प्रकाशसामान्यादादित्यकार्यत्वाच्च ।
चन्द्रमा अङ्गारः ।
तदेतस्मिन्नग्नौ देवा यजमानप्राणा अग्न्यादिरूपा अधिदेवम् ।
श्रद्धां जुह्वति श्रद्धा चोक्ता ।
पर्जन्यो वाव गौतमाग्निः पर्जन्यो नाम वृष्ट्युपकरणाभिमानी देवताविशेषः ।
तस्य वायुरेव समित् ।
वायुना हि पर्जन्यो ऽग्निः समिध्यते, पुरोवातादिप्राबल्ये वृष्टिदर्शनात् ।
अभ्रं धूमः ।
धूकार्यत्वात् धूमसादृश्याच्च ।
विद्युदर्चिः ।
प्रकाशसामान्यात् ।
अशनिरङ्गाराः काठिन्याद्विद्युत्संबन्धाच्च ।
गर्जितंस मोघानां विस्फुलिङ्गाः विप्रकीर्णतासामान्यात् ।
तस्मिन्देवा यजमानप्राणा अग्निरूपाः सोमं राजानं जुह्वति तस्य सोमस्याहुतेर्वर्षं भवति ।
एतदुक्तं भवति-श्रद्धाख्या आपो द्युलोकमाहुतित्वेन प्रविश्य चन्द्राकारेण परिणताः सत्यो द्वितीये पर्याये पर्जन्याग्नौ हुता वृष्टित्वेन परिणमन्त इति ।
ऽपृथिवी वाव गौतमाग्निःऽ तस्य पृथिव्याख्यस्याग्नैः संवत्सर एव समित् ।
संवत्सरेण कालेन हि समिद्धा भूमिर्व्रीह्यादिनिष्पत्तये कल्पते ।
आकाशो धूमः पृथिव्यग्नेरुत्थित इवाकाशो दृश्यते ।
रात्रिरर्चिः पृथिव्या श्यामाया अनुरूपा श्यामतया रात्रिरग्नेरिवानुरुपमर्चिः ।
दिशोङ्गाराः प्रगे रात्रिरूपार्चिःशमने उपशान्तानां प्रसन्नानां दिशां दर्शनात् ।
अवान्तरदिशो विस्फुलिङ्गाः क्षुद्रत्वसाम्यात् ।
तस्मिन्नग्नौ श्रद्धासोमपरिणामक्रमेणागता अपो वृष्टिरूपेण परिणता देवा जुह्वति तस्या आहुतेरन्नं व्रीहियवादि भवति ।
पुरुषो वाव गौतमाग्निस्तस्य वागेव समित् ।
वाचा खल्वयं ताल्वाद्यष्टस्थानस्थितया वर्णपदवाक्याभिव्यक्तिक्रमेणार्थजातं प्रकाशयन् समिध्यते ।
प्राणो धूमः ।
धूमवन्मुखान्निर्गमनात् ।
जिह्वार्चिः लोहितत्वसाम्यात् ।
चक्षुरङ्गाराः प्रभाश्रयत्वात् ।
श्रोत्रं विस्फुलिङ्गाः विप्रकीर्णत्वात् ।
ता एवापः श्रद्धादिपरिणामक्रमेणागताः व्रीह्यादिरूपेः परिणता सत्यः पुरुषे ऽग्नौ हुतास्तासां परिणामो रेतः संभवति ।
योषा वाव गौतमाग्निः तस्या उपस्थ एव समित् ।
तेन हि सा पुत्राद्युत्पादनाय समिध्यते यदुपमन्त्रयते स धूमः ।
स्त्रीसंभवादुपमन्त्रणस्य लोमानि वा धूमः योनिरर्चिः लोहितत्वात् ।
यदन्तः करोति मैथुनं ते ऽङ्गाराः ।
अभिनन्दाः सुखलवा विस्फुलिङ्गाः, क्षुद्रत्वात् ।
तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति तस्या आहुतेर्गर्भः संभवति ।
एवं श्रद्धासोमवर्षान्नरेतोहवक्रमेण योषाग्निं प्राप्यापो गर्भाख्या भवन्ति ।
तत्राप्समवायित्वादापः पुरुषवचसो भवन्ति पञ्चम्यामाहुताविति ।
यतः पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति तस्मादद्भिः परिवेष्टितो जीवो रहतीति गम्यते ।
एतदुक्तं भवति-श्रद्धाशब्दवाच्या आप इत्यग्रे वक्ष्यति तासां त्रिवृत्कततया तेजो ऽन्नाविनाभावेनाब्ग्रहणेन तेजोन्नयोरपि संग्रह इत्येतदपि वक्ष्यते ।
यद्यप्येतावतापि भूतवेष्टितस्य जीवस्य रंहणं नावगम्यते तेजोबन्नानां पञ्चम्यामाहुतौ पुरुषवचस्त्वमात्रश्रवणात्, तथापीष्टादिकारिणां धूमादिना पितृयाणेन पथा चन्द्रलोकप्राप्तिकथनपरया ऽआकाशाच्चन्द्रमसमेष सोमो राट्ऽ इति श्रुत्या सह ऽश्रद्धां जुह्वति तस्या आहुतेः सोमो राजा संभवतिऽ इत्यस्याः श्रुतेः मानत्वाद्गम्यते भूतपरिष्वक्तो रंहतीति ।
तथाहि-या एवापो हुता द्वितीयस्यामाहुतौ सोमभावं गतास्ताभिरेष परिष्वक्तो जीव इष्टादिकारी चन्द्रभूयं गतश्चन्द्रलोकं प्राप्त इति ।
ननु स्वतन्त्रा आपः श्रद्धादिक्रमेण सोमभावमाप्नुवन्तु ताभिरपरिष्वक्त एव तु जीवः सेन्द्रियमात्रो गत्वा सोमभावमनुभवतु ।
को दोषः ।
अयं दोषः ।
यतः श्रुतिसामान्यातिक्रम इति ।
एवं हि श्रुतिसामान्यं कल्पेत यदि येन रूपेण येन च क्रमेणापां सोमभावस्तेनैव जीवस्यापि सोमभावो भवेत् ।
अन्यथा तु न श्रुतिसामान्यं स्यात् ।
तस्मात्परिष्वक्तापरिष्वक्तरंहणविशये श्रुतिसामान्यानुरोधेन परिष्वक्तरंहणं निश्चीयते ।
अतो दधिपयःप्रभृतयो द्रवभूयस्त्वादापो हुताः सूक्ष्मीभूता इष्टादिकारिणमाश्रिता नोन्धनेन विधिना देहे हूयमाने हुताः सत्य आहुतिमप्य इष्टादिकारिणं परिवेष्ट्य स्वर्गं लोकं नयन्तीति ।
चोदयति- #नन्वन्या श्रुतिरिति# ।
अयमर्थः-एवं हि सूक्ष्मदेहपरिष्वक्तो रंहेत् यद्यस्य स्थूलं शरीरं रंहतो न भवेत् ।
अस्ति त्वस्य वर्तमानस्थूलशरीरयोग आदेहान्तरप्राप्तेस्तृणजलायुकानिदर्शनेन, तस्मान्निदर्शनश्रुतिविरोधान्न सूक्ष्मदेहपरिष्वक्तो रंहतीति ।
परिहरति- #तत्रापीति# ।
न तावत्परमात्मनः संसरणसंभवः, तस्य नित्यशुद्धबुद्धमुक्तस्वभावत्वात् ।
किन्तु जीवानाम् ।
परमात्मैव चोपाधिकल्पितावच्छेदो जीव इत्याख्यायते, तस्य च देहेन्द्रियादेरुपाधेः प्रदेशिकत्वान्न तत्र सन् देहान्तरं गन्तुमर्हति ।
तस्मात्सूक्ष्मदेहपरिष्वक्तो रंहतिकर्मोपस्थापितः प्रतिपत्तव्यः प्राप्तव्यो यो देहस्तद्विषयाया भावनाया उत्पादनाया दीर्घीभावमात्रं जलूकयोपमीयते ।
सांख्यानां कल्पनामाह- #व्यापिनां करणानामिति# ।
आहङ्कारिकत्वात्करणानामहङ्कारस्य च जगन्मण्डलव्यापित्वात्करणानामपि व्यापितेत्यर्थः ।
बौद्धानां कल्पनामाह- #केवलस्यैवात्मन इति# ।
आलयविज्ञानसंतान आत्मा तस्य वृत्तिः षट् प्रवृत्तिविज्ञानानि ।
पश्चेन्द्रियाणि तु चक्षुरादीनि अभिनवानि जायन्ते ।
कणभुक्क्ल्पनामाह- #मन एव चेति# ।
भोगस्थानं भोगायतनं शरीरमभिनवमिति यावत् ।
दिगम्बरकल्पनामाह- #जीव एवोत्प्लुत्येति# ।
आदिग्रहणेन लोकायतिकानां कल्पनां संगृह्णाति ।
ते हि शरीरात्मवादिनो भस्मीभावमात्मन आहुर्न कस्यचिद्गमनमिति
3.1.1.2.
चोदयति- #ननूदाहृताभ्यामिति# ।
अत्र सूत्रेणोत्तरमाह- #त्र्यात्मकत्वात्तु भूयस्त्वात्# ।
तेजसः कार्यमशितपीताहारपरिपाकः ।
अपां स्नेहस्वेदादि ।
पृथिव्याः कार्यं गन्धादि ।
यस्तु गन्धस्वेदपाकप्राणावकाशदानदर्शनाद्देहस्य पाञ्चभौतिकत्वं पश्यंस्तेजोबन्नात्मकत्वेन त्र्यात्मकत्वे न परितुष्यति, तं प्रत्याह- #पुनश्च त्र्यात्मक इति# ।
वातपित्तश्लेष्मभिस्त्रिभिर्धातुभिः शरीरधारणात्मकैस्त्रिधातुत्वात् ।
अतो न स देहो भूतान्तराणि प्रत्याख्याय केवलाभिरद्भिरारब्धुं शक्यते ।
अब्ग्रहणनियमस्तर्हि कस्मादित्यत आह- #तस्माद्भूयस्त्वापेक्ष इति# ।
पृथिवीधातुवर्जमितरतेज आद्यपेक्षया कार्यस्य शरीरस्य लोहितादिद्रवभूयस्त्वात्तत्करणयोश्चोपादाननिमित्तयोर्द्रवभूयस्त्वादपां पुरुषवचस्त्वोक्तिर्न पुनर्भूतान्तरनिरासार्था
3.1.1.3.
#प्राणगतेश्च# ।
प्राणानां जीवद्देहे साश्रयत्वमवगतं गच्छति जीवद्देहे तदनुविधायिनः प्राणा अपि गच्छन्तीति दृष्टम् ।
अतः षाट्कौशिका देहादुत्क्रामन्तः कस्मिंश्चिदुत्क्रामत्युत्क्रामन्ति ।
स चैषामनुविधेयः सूक्ष्मो देहो भूतेन्द्रियमय इति गम्यते ।
नहीन्द्रियमात्राश्रयत्वमेषां दृष्टं यतस्तन्मात्राश्रयाणां गतिरुपपद्येतेति
3.1.1.4.
#अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात्# ।
श्राविते ऽपि स्पष्टे जीवस्य प्राणैः सह गमने ऽग्न्यादिगतिशङ्का श्रुतिविरोधोत्थापनार्था ।
अत्र हि लोमकेशयोरोषधिवनस्पतिगमनं दृष्टविरोधाद्भाक्तं तावदभ्युपेयम् ।
एवं च तन्मध्यपतितत्वेन तेषामपि श्रुतिविरोधाद्भाक्तत्वमेवोचितमिति ।
भक्तिश्चोपकारनिवृत्तिरुक्ता
3.1.1.5.
#प्रथमे ऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः# ।
पञ्चम्यामाहुतावपां पुरुषवचस्त्वप्रकारे पृष्टे प्रथमायामाहुतौ अनपां श्रद्धाया हेतव्यताभिधानसंभवद्धमनुपपन्नं च ।
नहि यथा पश्वादिभ्यो हृदयादयो ऽवयवा अवदाय निष्कृष्य हूयन्ते, एवं श्रद्धा बुद्धिप्रसादलक्षणा निष्क्रष्टुं वा होतुं वा शक्यते ।
न चाप्येवमौत्सर्गिकी कारणानुरूपता कार्यस्य युज्यते ।
तस्माद्भक्त्यायमप्सु श्रद्धाशब्दः प्रयुक्त इति ।
अत एव श्रुतिः ऽआपो हात्मैऽ इति
3.1.1.6.
#अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः# ।
अस्यार्थः पूर्वमेवोक्तः ।
अग्निहोत्रे षट्सूत्क्रान्तिगतिप्रतिष्ठातृप्तिपुनरावृत्तिलोकप्रत्युत्थायिष्वग्निसमिद्धूमार्चिरङ्गारविस्फुलिङ्गेषु प्रश्नाः षट्, तेषां यः समाहारः षण्णां सा षट्प्रश्नी, तस्या निरूपणं प्रतिवचनम्
3.1.1.7.
सूत्रान्तरमवतारयितुं शङ्कते- #कथं पुनरिति ।
सोमं राजानमाप्यायस्वापक्षीयस्वेत्येवमेनांस्तत्र भक्षयन्तीति# ।
क्रियासमभिहारेणाप्यायनापक्षयौ यथा सोमस्य तथा भक्षयन्ति सोममयांल्लोकानित्यर्थः ।
अत उत्तरं पठति- #भाक्तं वानात्मविस्त्त्वात्तथाहि दर्शयति# ।
कर्मजनितफलोपभोगकर्ता ह्यधिकारी न पुनरुपभोग्यस्तस्माच्चन्द्रसालोक्यमुपगतानां देवादिभिक्ष्यत्वे ऽस्वर्गकामो यजेतऽ इति यागभावनायः कर्त्रपेक्षितोपायतारूपविधिश्रुतिविरोधादन्नशब्दो भोक्तृणामेव सतां देवोपाजीवितामात्रेण भाक्तो गमयितव्यो न तु चर्वणनिगरणाभ्यां मुख्य इति ।
अत्रैवार्थे श्रुत्यन्तरं संगच्छत इत्याह- #तथाहि दर्शयति# ।
श्रुतिरनात्मविगामनात्मवित्त्वादेव पशुवद्देवोपभोग्यतां न तु चर्वणीयतया ।
यथा हि बलीवर्दादयो भुञ्जना अपि स्वफलं स्वामिनो हलादिवहनेनोपकुर्वाणा भोग्याः, एवं परमतत्त्वमविद्वांस इष्टादिकारिण इह दधिपयःपुरोटाशादिनामुष्मिंश्च लोके परिचारकतया देवानामुपभोग्या इति श्रुत्यर्थः ।
अथवा #अनात्मवित्त्वात्तथाहि दर्शयति#इत्यस्यान्या व्याख्या ।
आत्मवित् पञ्चाग्निविद्यावित् न आत्मवित् अनात्मवित् ।
यो हि पञ्चाग्निविद्यां न वेदं तं देवा भक्षयन्तीति निन्द्यते पञ्चाग्निविद्यां स्तोतुं तस्या एव प्रकृतत्वात् ।
तदनेनोपचारस्य प्रोजनमुक्तम् ।
उपचारनिमित्तमनुपपत्तिमाह- #तथाहि दर्शयति# ।
श्रुतिर्भोक्तृत्वम् ।
#स सोमलोके विभूतिमनुभूयेति# ।
शेषमतिरोहितार्थम्
3.1.2.8.
#कृतात्यये ऽनुशयवान् इष्टस्मृतिभ्यां यथेतमनेवं च ।
यावत्संपातमुषित्वेति# ।
यावदुपबन्धात् ।
#यत्किञ्चेह करोत्यमिति# ।
च यत्किञ्चेह कर्म कुतं तस्यान्तं प्राप्येति श्रवणात्, प्रायणस्य चैकप्रघट्टकेन सकलकर्माभिव्यञ्जकत्वात् ।
न खल्वभिव्यक्तिनिमित्तस्य साधारण्ये ऽभिव्यक्तिनियमो युक्तः ।
फलदानाभिमुखीकरणं चाभिव्यक्तिस्तस्मात्समस्तमेव कर्म फलमुपभोजितवत् ।
स्वफलविरोधि च कर्म ।
तस्माच्छुतेरुपपत्तेश्चं निरनुशयानामेव चरणादाचारादवरोहो न कर्मणः ।
आचारकर्मणी च श्रुतेः प्रसिद्धभेदे ।
यथाकारी यथाचारी तथा भवतीति ।
तथाच रमणीयचरणाः कपूयचरणा इत्याचारमेव योनिनिमित्तमुपदिशति न तु कर्म ।
स्तां वा कर्मशीले द्वे अप्यविशेषेणानुशयस्तथापि यद्यप्ययमिष्टापूर्तकारी स्वयं निरनुशये भुक्तभोगत्वात्तथापि पित्रादिगतानुशयवशात्तद्विपाकान् जात्यायुर्भोगंश्चन्द्रलोकादवरुह्यानुभविष्यति ।
स्मर्यते ह्यन्यस्य सुकृतदुष्कृताभ्यामन्यस्य तत्संबन्धिनस्तत्फलभागिता-ऽपतत्यर्धशरीरेण यस्य भार्या सुरां पिबेत्ऽ इत्यादि ।
तथा श्राद्धवैश्वानरीयेष्ट्यादेः पितापुत्रादिगमिफलश्रुतिः ।
तस्माद्यावत्संपातमित्युपक्रमानुरोधात् ऽयत् किञ्चेह करोतिऽ इति च श्रुत्यन्तरानुसाराद्रमणीयचरणत्वं संबन्ध्यन्तरगतमिष्टापूर्तकारिणि भाक्तं गमयितव्यम् ।
तथाच निरनुशयानामेव भुक्तभोगानामवरोह इति प्राप्त उच्यते-येन कर्मकलापेन फलमुपभोजितं तस्मिन्नतीते ऽपि सानुशया एव चन्द्रमण्डलादवरोहन्ति ।
कुतः-दृष्टस्मृतिभ्याम् ।
प्रत्यक्षदृष्टा श्रुतिर्दृष्टशब्दवाच्या ।
स्मृतिश्चोपन्यस्ता ।
अथवा दृष्टशब्देनोच्चावचरूपो भोग उच्यते ।
अयमभिसंधिः-कपूयचरणा रमणीयचरणा इत्यवरोहितामेतद्विशेषणम् ।
नच सति मुख्यार्थसंभवे संबन्धिमात्रेणोपचरितार्थत्वं न्याट्यम् ।
न चोपक्रमविरोधाच्छुत्यन्तरविरोधाच्च मुख्यार्थसंभव इति सांप्रतम् ।
दत्तफलेष्टापूर्तकर्मापेक्षयापि यावत्पदस्य यत्किञ्चेतिपदस्य चोपपत्तेः ।
नहि ऽयावज्जीवमग्निहोत्रं जुहुयात्ऽ इति यावज्जीवमहारविहारादिसमये ऽपि होमं विधत्ते नापि मध्याह्नादावपि तु सायंप्रातःकालापेक्षया ।
सायंप्रातःकालविधानसामर्थ्यात्, कालस्य चानुपादेयतयानङ्गस्यापि निमित्तानुप्रवेशात्तत्रैवमिति चेत् ।
न ।
इहापि रमणीयचरणा इत्यादेर्मुख्यार्थत्वानुरोधात्तदुपपत्तेः ।
तत्किमिदानीमुपसंहारानुरोधेनोपक्रमः संकोचयितव्यः ।
नेत्युच्यते ।
नह्यसावुपसंहारानुरोधे ऽप्यसंकुचद्वृत्तिरुपपत्तुमर्हति ।
नहि यावन्तः संपाता यावतां वा पुंसां संपातास्ते सर्वे तत्रेष्टादिकारिणा भोगेन क्षयं नीयन्ते ।
पुरुषान्तराश्रयाणां कर्माशयानां तद्भोगेन क्षये ऽतिप्रसङ्गात् ।
चिरोपभुक्तानां च कर्माशयानामसतां चन्द्रमण्डलोपभोगेनापनयनात् ।
तथाच स्वयं संकुचन्ती यावच्छुतिरुपसंहारानुरोधप्राप्तमपि संकोचनमनुमन्यते ।
एतेन ऽयत्किञ्चेह करोतिऽ इत्यपि व्याख्यातम् ।
अपि चेष्टापूर्तकारीह जन्मनि केवलं न तन्मात्रमकार्षीदपि तु गोदोहनेनापः प्रणयन् पशुफलमप्यपूर्वं समचैषीत् ।
एवमहर्निशं च वाङ्मनः शरीरचेष्टाभिः पुण्यापुण्यमिहामुत्रोपभोग्यं संचितवतो न मर्त्यलोकादिभोग्यं चन्द्रलोके भग्यं भवितुमर्हति ।
नच स्वफलविरोधिनो ऽनुशयस्य ऋते प्रयाश्चित्तादात्मज्ञानाद्वादत्तफलस्य ध्वंसः संभवति ।
तस्मात्तेनानुशयेनायमनुशयवान् परावर्तत इति श्लिष्टम् ।
न चैकभविकः कर्माशय इत्यग्रे भाष्यकृद्वक्ष्यति ।
अन्ये तु सकलकर्मक्षये परावृत्तिशङ्का निर्बीजेति मन्यमाना अन्यथाधिकरणं वर्णयाञ्चक्रुरित्याह- #केचित्तावदाहुति# ।
अनुशयो ऽत्र दत्तफलस्य कर्मणः शेष उच्यते ।
तत्रेदमिह विचार्यते-किं दत्तफलानामिष्टापूर्तकर्मणामवशेषादिहावर्तन्ते उत तान्युपभोगेन निरावशेषं क्षपयित्वानुपभुक्तकर्मशादिहावर्तन्त इति ।
तत्रेष्टादीनां भोगेन समूलकाषं कषितत्वान्निरनुशया एवानुपभुक्तकर्मवशादावर्तन्त इति प्राप्त उच्यते-सानुशया एवावर्तन्त इति ।
कुतः-दृष्टानुसारात् ।
यथा भाण्डस्थे मधुनि सर्पिषि वा क्षालिते ऽपि भाण्डलेपकं तच्छेषं मधु वा सर्पिर्वा न क्षालयितुं शक्यमिति दृष्टमेवं तदनुसारादेतदपि प्रतिपत्तव्यम् ।
न चावशेषमात्राच्चन्द्रमण्डले तिष्ठासन्नपि स्थातुं पारयति ।
यथा सेवको हास्तिकाश्वीयपदातिव्रातपरिवृतो महाराजं सेवमानः कालवशाच्छत्रपादुकावशेषो न सेवितुमर्हतीति दृष्टं तन्मूला च लौकिकी स्मृतिरिति दृष्टस्मृतिभ्यां सानुशया एवावर्तन्त इति ।
तदेदद्दूषयति- #न चैतदिति# ।
एवकारे प्रयोक्तव्ये इवकारो गुडजिह्विकया प्रयुक्तः ।
शब्दैकगम्येर्ऽथे न सामान्यतोदृष्टानुमानावसर इत्यर्थः ।
शेषमतिरोहितार्थम् ।
पूर्वपक्षहेतुमनुभाषते- #यदप्युक्तं प्रायणमिति# ।
दूषयति- #तदप्यनुशयसद्भावेति# ।
रमणीयचरणा कपूयचरणा इत्यादिकयानुशयप्रतिपादनपरया श्रुत्या विरुद्धमित्यर्थः ।
#अपिचेत्यादि# ।
इह जन्मनि हि पर्यायेण सुखदुःखे भुज्यमाने दृश्येते ।
युगपच्चेदेकप्रघट्टकेन प्रायणेन सुखदुःखफलानि कर्माणि व्यज्येरन् ।
युगपदेव तत्फलानि भुज्येरन् ।
तस्मादुपभोगपर्यायदर्शनाद्बलीयसा दुर्बलस्याभिभवः कल्पनीयः ।
एवं विरुद्धजातिनिमित्तोपभोगफलेष्वपि कर्मसु द्रष्टव्यम् ।
न चाभिव्यक्तं च कर्म फलं न दत्त इति च संभवति ।
फलोपजनाभिमुख्यं हि कर्मणामभिव्यक्तिः ।
अपिच प्राणस्याभिव्यञ्जकत्वे स्वर्गरकततिर्यग्योनिगतानां जन्तूनां तस्मिञ्जन्मनि कर्मस्वनधिकारान्नापूर्वकर्मोपजनः पूर्वकृतस्य क्रमाश्यस्य प्रायणाभिव्यक्ततया फलोपभोगेन प्रक्षयान्नास्ति तेषां कर्माश्य इति न ते संसरेयुः ।
नच मुच्येरन्नात्मज्ञानाभावादिति कष्टां बतालिष्टा दशाम् ।
किञ्च स्वसमवेतमेव प्रायमेनाभिव्यज्यते ऽपूर्वं न परसमवेतं, येन पित्रादिगतेन कर्मणा वर्तेरन्निति ।
शेषं सुगमम्
3.1.2.9.
#चरणादिति चेन्नोपलक्षणार्थेति कार्ष्णाजिनिः# ।
अनेन निरनुशया एवावरोहन्तीति पूर्वपक्षबीजं निगूढमुद्धाट्य निरस्यति ।
यद्यपि ऽअक्रोधः सर्वभूतेषु कर्मणा मनसा गिरा ।
अनुग्रहश्च ज्ञानं च शीलमेताद्विदुर्बुधाः ॥
ऽ इति स्मृतेः शीलमाचारो ऽनुशयाद्भिन्नस्तथाप्यानुशयाङ्गतयानुशयोपलक्षणत्वं कार्ष्णाजिनिराचार्यो मेने ।
तथाच रमणीयचरणाः कपूयचरणा इत्यनेनानुशयोपलक्षणात्सिद्धं सानुशयानामेवावरोहणमिति
3.1.2.10.
#आनर्थक्यमिति चेन्न तदपेक्षत्वात्# ।
ऽआचारहीनं न पुनरन्ति वेदाःऽ इति हि स्मृत्या वेदपदेन वेदार्थमुपलक्षयन्त्या वेदार्थानुष्ठानशेषत्वमाचारस्योक्तं न तु स्वतन्त्र आचारः फलस्य साधनं, तेन वेदार्थानुष्ठानोपकारकतयाचारस्य नानर्थक्यं क्रत्वर्थस्य ।
तदनेन समिदादिवदाचारस्य क्रत्वर्थत्वमुक्तम् ।
संप्रति स्नानादिवत्पुरुषार्थत्वे पुरुषसंस्कारत्वे ऽप्यदोष इत्याह- #पुरुषार्थत्वे ऽप्याचारस्येति# ।
तदेवं चरणशब्देनाचारवाचिना सर्वो ऽनुशयो लक्षित इत्युक्तम्
3.1.2.11.
बादरिस्तु मुख्य एव चरणशब्दः कर्मणीत्याह- #सुकृतदुष्कृते एवेति तु बादरिः# ।
ब्रह्मणपरिव्राजकन्यायो गोबलीवर्दन्यायः ।
शेषमतिरोहितार्थम्
3.1.3.12.
#अनिष्टादिकारिणामपि च श्रुतम्# ।
ऽये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्तिऽ इति कौषीतकिनां समाम्नानात्, देहारम्भस्य च चन्द्रलोकगमनमन्तरेणानुपपत्तेः पञ्चम्यामाहुतावित्याहितिसंख्यानियमात् ।
तथाहि-द्युसोमवृष्ट्यन्नरेतःपरिणामक्रमेण ता एवापो योषिदग्नौ हुताः पुरुषवचसो भवन्तीत्यविशेषेण श्रुतम् ।
न चैतन्मनुष्याभिप्रायं, कपूयचरणाः स्वयोनिमित्यमनुष्यस्यापि श्रवणात् ।
गमनागमनाय च देवयानपितृयाणयोरेव मार्गयोराम्नानात्, पथ्यन्तरस्याश्रुतेः, ऽजायस्व म्रियस्वेति तृतीयं स्थानम्ऽ इति च स्थानत्वमात्रेणावगमात्पथित्वेनाप्रतीतेश्चन्द्रलोकादवतीर्णानामपि च तत्स्थानत्वसंभवादसंपूरेण प्रतिवचनोपपत्तेः,
अनन्यमार्गतया च तद्भोगविरहिणामपि ग्रामं गच्छन् वृक्षमूलान्युपसर्पतीतिवत्संयमनादिषु यमवश्यतायै चन्द्रलोकगमनोपपत्तेः, ऽन कतरेणवचनऽ इत्यस्यासंपूरणप्रतिपादनपरतया मार्गद्वयनिषेधपरत्वाभावात्, अनिष्टादिकारिणामपि चन्द्रलोकगमने प्राप्ते ऽभिधीयते-सत्यं स्थानतयावगतस्य न मार्गत्वं तथापि वेत्थ यथासौ मार्गो न संपूर्यते इत्यस्य प्रतिवचनावसरे मार्गद्वयनिषेधपूर्वं तृतीयं स्थानमभिवदन्नसंपूरणाय तत्प्रतिपक्षमाचक्षीत ।
यदि पुनस्तेनैव मार्गेणागत्य जन्ममरणप्रबन्धवत् स्थानमध्यासीत नैतत्तृतीयं स्थानं भवेत् ।
नहीष्टादिकारिणश्चन्द्रमण्डलादवरुह्य रमणीयं निन्दितां वा योनिं प्रतिपद्यमानास्तृतीयं स्थानं प्रतिपद्यन्ते ।
तत्कस्य हेतोः ।
पितृयाणेन पथावरोहात् ।
तद्यदि क्षुद्रजन्तवो ऽप्यनेनैव पथावरोहेयुः, नैतदेषां जन्ममरणप्रबन्धवत्तृतीयं स्थानं भवेत् ।
ततो ऽवगच्छामः संयमनं सप्त च यातनाभूमीर्यमवशतया प्रतिपद्यमाना अनिष्टादिकारिणो न चन्द्रमण्डलादवरोहन्तीति ।
तस्मात् ऽये वै के चऽ इतीष्टादिकारिविषयं न सर्वविषयम् ।
पञ्चम्यामाहुताविति च स्वार्थविधानपरं न पुनरपञ्चम्याहुतिप्रतिषेधपरमपि, वाक्यभेदप्रसङ्गात् ।
संयमने त्वनुभूयेति सूत्रेणावरोहापादानतया संयमनस्योपादानाच्चन्द्रमण्डलापादाननिषेध आञ्जसः ।
तथाच सिद्धान्तसूत्रमेव ।
पूर्वपक्षसूत्रत्वे तु शङ्कान्तराध्याहारेण कथञ्चिद्गमयितव्यम् ।
#जीवजञ्#जरायुजम् ।
#संशोकजं#संस्वेदजम्
3.1.3.13.
3.1.3.14.
3.1.3.15.
3.1.3.16.
3.1.3.17.
3.1.3.18.
3.1.3.19.
3.1.3.20.
3.1.3.21.
3.1.4.22.
साभाव्यापत्तिरुपपत्तेः ।
यद्यपि यथेतमाकाशमाकाशाद्वायुमित्यतो न तादात्म्यं स्फुटमवगम्यते तथापि वायुर्भूत्वेत्यादेः स्फुटतरं तादात्म्यावगमाद्यथेतमाकाशमित्येतदपि तादात्म्य एवावतिष्ठते ।
न चान्यस्यान्यभावानुपपत्तिः ।
मनुष्यशरीरस्य नन्दिकेश्वरस्य देवदेहरूपपरिणामस्मरणाद्देवदेहस्य च नहुषस्य तिर्यक्त्वस्मरणात् ।
तस्मान्मुख्यार्थपरित्यागेन न गौणी वृत्तिराश्रयणीया ।
गौण्यां च वृत्तौ लक्षणाशब्दः प्रयुक्तो गुणे लक्षणायाः संभवात् ।
यथाहुः-ऽलक्ष्यमाणगुणैर्योगाद्वृत्तेरिष्टा तु गौणताऽ इति ।
एवं प्राप्ते ब्रूमः-साभाव्यापत्तिः ।
समानो भावो रूपं येषां ते सभावास्तेषां भावः साभाव्यं सारूप्यं सादृश्यमिति यावत् ।
कुतः- #उपपत्तेः# ।
एतदेव व्यतिरेकमुखेन व्याचष्टे- #नह्यन्यस्यान्यभावो मुख्य उपपद्यते# ।
युक्तमेतद्यद्देवशरीरमजगरभावेन परिणमते, देवदेहसमये ऽजगरशरीरस्याभावात् ।
यदि तु देवाजगशरीरे समसमये स्यातां न देवशरीरमजगरशरीरं शिल्पिशतेनापि क्रियते ।
नहि दधिपयसी समसमये परस्परात्मनी शक्ये संपादयितुं, तथेहापि सूक्ष्मशरीराकाशयोर्युगपद्भावान्न परस्परात्मत्वं भवितुमर्हति ।
एवं वाट्वादिष्वपि योज्यम् ।
तथाच तद्भावस्तत्सादृश्येनौपचारिको व्याख्येयः ।
नन्वाकाशभावेन संयोगमात्रं लक्ष्यतां किं सादृश्येनेत्यत आह- #विभुत्वाच्चाकाशेनेति#
3.1.5.23.
#नातिचिरेण विशेषात्# ।
ऽदुर्निष्प्रपतरम्ऽ इति दुःखेन निःसरणं ब्रूते न तु विलम्बेनेति मन्यते पूर्वपक्षी ।
विना स्थूलशरीरं न सूक्ष्मशरीरे दुःखभागीति दुर्निष्प्रपतरं विलम्बं लक्षयतीति राद्धान्तः
3.1.6.24.
#अन्याधिष्ठितेषु पूर्ववदभिलापात्# ।
आकाशसारूप्यं वायुधूमादिसंपर्को ऽनुशयिनामुक्त इहेदानीं व्रीहियवा ओषाधिवनस्पतयस्तिलमाषा इति जायन्त इति श्रूयते ।
तत्र संशयः-किमनुशयिनां भोगाधिष्ठानं व्रीहियवादयः स्थावरा भवन्ति, आहोस्वित् क्षेत्रज्ञान्तराधिष्ठितेष्वेषु संसर्गमात्रमनुभवन्तीति ।
तत्र मनुष्यो जायते देवो जायत इत्यादौ प्रयोगे जनेः शरीरपरिग्रहे प्रसिद्धत्वादत्रापि व्रीह्यादिशरीरपरिग्रह एव जनिर्मुख्यार्थ इति व्रीह्यादिशरीरा एवानुशयिन इति युक्तम् ।
नच रमणीयचरणाः कपूयचरणा इतिवत् कर्मविशेषासंकीर्तनामात्तदभावे व्रीह्यादीनां शरीरभावाभावात्क्षेत्रज्ञानन्तराधिष्ठितानामेव यत्संपर्कमात्रमिति सांप्रतम् ।
इष्टादिकारिणामिष्टादिकर्मसंकीर्तनात्तदभावे व्रीह्यादीनां शरीरभावाभावात्क्षेत्रज्ञान्तराधिष्ठितानामेव यत्संपर्कमात्रमिति सांप्रतम् ।
इष्टादिकारिणामिष्टादिकर्मसंकीर्तनादिष्टादेश्च हिंसादोषदूषितत्वेन सावद्यफलतया चन्द्रलोकभोगान्तरं स्थावशरीरभोग्यदुःखफलत्वस्याप्युपपत्तेः ।
नच ऽन हिंस्यात्सर्वा भूतानिऽ इति सामान्यशास्त्रस्याग्नीषोमीयपशुहिंसाविषयविशेषशास्त्रेण बाधनं, सामान्यशास्त्रस्य हिंसामान्यद्वारेण विशेषोपसर्पणं विलम्बेनेति साक्षाद्विशेषस्पृशः शास्त्रच्छीघ्रतरप्रवृत्ताद्दुर्बलत्वादिति सांप्रतम् ।
नहि बलवदित्येव दुर्बलं बाधते किन्तु सति विरोधे ।
न चेहास्ति विरोधः, भिन्नगोचरचारित्वात् ।
ऽअग्नीषोमीयं पशुमालभेत् ऽ इति हि क्रतुप्रकरणे समाम्नातं क्रत्वर्थतामस्य गमयति न त्वपनयति निषेधापादितामस्य पुरुषं प्रत्यनर्थहेतुताम् ।
तेनास्तु निषेधादस्य पुरुषं प्रत्यनर्थहेतुता विधेश्छ क्रत्वर्थता को विरोधः ।
यथाहुः-ऽयो नाम क्रतुमध्यस्थः कलञ्जादीनि भक्षयेत् ।
न क्रतोस्तत्र वैगुण्यं यथा चोदितसिद्धितःऽ इति ।
तस्माज्जनेर्मुख्यार्थत्वाद्व्रीह्यादिशरीरा अनुशयिनो जायन्त इति प्राप्ते ऽभिधीयते-भवेदेतदेवं यदि रमणीयचरणाः कपूयचरणा इतिवद्व्रीह्यादिष्वनुशयवतां कमविशेषः कीर्त्येत न चैतदस्ति ।
न चेष्टादेः कर्मणः स्थावशरीरोपभोग्यदुःखफलप्रसवहेतुभावः संभवति, तस्य धर्मत्वेन सुखैकहेतुत्वात् ।
नच तद्गतैयैः पशुहिंसाया ऽन हिंस्यात्ऽ इति निषेदात्क्रत्वर्थाया अपि दुःखफलवत्संभवः ।
पुरुषार्थाया एव न हिंस्यादिति प्रतिषेधात् ।
तथाहि-न हिंस्यादिति निषेधस्य निषेध्याधीननिरूपणतया यदर्थं निषेध्यं तदर्थ एव निषेधो विज्ञायते ।
न चैतत् ऽनानृतं वदेत्ऽ ऽन तौ पशौ करोतिऽ इतिवत्कस्यचित्प्रकरणे समाम्नातं येनानृततवदनवदस्य निषेधस्य क्रत्वर्थते निषेधो ऽपि क्रत्वर्थः स्यात् ।
पशौ निषिद्धयोराज्यभागयोः क्रत्वर्थत्वेन निषेधस्यापि क्रत्वर्थत्वं भवेत् ।
एवं हि सत्याज्यभारगरितैरप्यङ्गान्तरैराज्यभागसाध्यः क्रतूपकारो विज्ञायते ।
तस्मादनारभ्याधीतेन न हिंस्यादित्यनेनाभिहितस्य विध्युपहितस्य पुरुषव्यापारस्य विधिविभक्तिविरोधात्प्रकृत्यर्थहिंसाकर्मभाव्यत्परित्यागेन पुरुषार्थ एव भाव्यो ऽवतिष्ठते ।
आख्यातानभिहितस्यापि पुरुषस्य कर्तृव्यापाराभिधानद्वारेणोपस्थापितत्वात् ।
केवलं तस्य रागतः प्राप्तत्वात्तदनुवादेन नञर्थं विधिरुपसंक्रामति, तेन पुरुषार्थो निषेध्य इति तदधीननिरूपणो निषेधो ऽपि पुरुषार्थो भवति ।
तथा चायमर्थः संपद्यते-यत्पुरुषार्थं हननं तन्न कुर्यादिति ।
क्रत्वर्थस्यापि न निषेधे हिंसायाः क्रतूपकारकत्वमपि कल्प्यते ।
नच दृष्टे पुरुषोकारकत्वे प्रत्यर्थिनि सति तत्कल्पनास्पदम् ।
नच स्वातन्त्र्यपारतन्त्र्ये सति संयोगपृथक्त्वे स्वादिरतादिवदेकत्र संभवतः ।
तस्मात्पुरुषार्थप्रतिषेधो न क्रत्वर्थमप्यास्कन्दतीति शुद्धसुखफलत्वमेवेष्टादीनां न स्थावशरीरोपभोग्यदुःखफलत्वमपीति ।
आकाशादिष्विव कर्मव्यापारमन्तरेणाभिलापात् ।
अनुशयिनां व्रीह्यादिसंयोगमात्रं न तु देहत्वमिति ।
अयमेवार्थ उत्सर्गापवादकथनेनोपलक्षितः ।
#अपिच मुख्ये ऽनुशयिनां व्रीह्यादिजन्मनीति# ।
व्रीह्यादिभावमापन्नाः खल्वनुशयिनः पुरुषैरुपभुक्ता रेतः सिग्भावमनुभवन्ती श्रूयते ।
तदेतद्व्रीह्यादिदेहत्वे ऽनुशयिनां नोपपद्यते ।
व्रीह्यादिदेहत्वे हि व्रीह्यादिषु लूनेष्ववहन्तिना फलीकृतेषु च व्रीह्यादिदेहविनाशादनुशयिनः प्रवसेयुरिति कथमनुशयिनां रेतःसिग्भावः संसर्गमात्रे तु संसर्गिषु व्रीह्यादिषु नष्टेष्वपि न संसर्गिणो ऽनुशयिनः प्रवसेयुरिति रेतःसिग्भाव उपपद्यते ।
शेषमुक्तम्
3.1.6.25.
3.1.6.26.
#रेतःसिग्योगो ऽथ# ।
सद्यो जातो हि बालो न रेतः सिग्भवत्यपि तु चिरजातः प्रौढयौवनः, तस्मादपि संसर्गमात्रमिति गम्यते
3.1.6.27.
तत्किमिदानीं सर्वत्रैवानुशयिनां संसर्गमात्रं तथाच रमणीयचरणा इत्यादिषु तथाभाव आपद्येतेति नेत्याह- #योनेः शरीरम्# ।
सुगमम्
मूल पाठ: Bhāmati a commentary on Śaṃkara's Brahmasūtrabhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0