भामति · अध्याय 22
#इति द्वितीयाध्यायस्य सांख्यादिमतानां दुष्टत्वप्रदर्शनं नाम द्वितीयःपादः#
#द्विदीयाध्याये तृतीयः पादः# ।
2.3.1.1.
#न वियदश्रुतेः# ।
पूर्वं प्रमाणान्तरविरोधः श्रुतेर्निराकृतः ।
संप्रति तु श्रुतीनामेव परस्परविरोधो निराक्रियते ।
तत्र सृष्टिश्रुतीनां परस्परविरोधमाह- #वेदान्तेषु तत्र तत्रेति# ।
श्रुतिविप्रतिषेधाच्च परपक्षाणामनपेक्षितत्वं स्थापितं तद्वत्स्वपक्षस्य श्रुतिविप्रतिषेधादिति ।
#तदर्थनिर्मलत्वमर्#थाभासविनिवृत्त्यार्थतत्त्वप्रतिपादनम् ।
तस्य फलं स्वपक्षस्य जगतो ब्रह्मकारणत्वस्यानपेक्षत्वाशङ्कानिवृत्तिः ।
इह हि पूर्वपक्षे श्रुतीनां मिथो विरोधः प्रतिपाद्यते, सिद्धान्ते त्वविरोधः ।
तत्र सिद्धान्त्येकदेशिनोवचनं ऽन वियदश्रुतेःऽ इति ।
तस्याभिसंधिः-यद्यपि तैत्तिरीयके वियदुत्पत्तिश्रुतिरस्ति तथापि तस्याः प्रमाणान्तरविरोधाद्बहुश्रुतिविरोधाच्च गौणत्वम् ।
तथाच वियतो नित्यत्वात्तेजःप्रमुख एव सर्गः, तथाच न विरोधः श्रुतीनामिति ।
तदिदमुक्तम्- #प्रथमं तावदाकाशमाश्रित्य चिन्त्यते किमस्याकाशस्योत्पत्तिरस्त्युत नास्तीति# ।
यदि नास्ति न श्रुतिविरोधाशङ्का ।
अथास्ति ततः श्रुतिविरोध इति तत्परिहाराय प्रयत्नान्तरमास्थेयमित्यर्थः
2.3.1.2.
तत्र पूर्वपक्षसूत्रम्- #अस्ति तु# ।
तैत्तिरीये हि सर्गप्रकरणे केवलस्याकाशस्यैव प्रथमः सर्गः श्रूयते ।
छान्दोग्ये च केवलस्य तेजसः प्रथमः सर्गः ।
नच श्रुत्यन्तरानुरोधेनासहायस्याधिगतस्यापि ससहायताकल्पनं युक्तमसाहत्वावगमविरोधात् ।
श्रुतसिद्ध्यर्थं खल्वश्रुतं कल्प्यते न तु तद्विधाताय, विहन्यते चासहायत्वं श्रुतं कल्पितेन ससहायत्वेन ।
नच परस्परानपेक्षाणां व्रीहियववद्विकल्पः ।
अनुष्ठानं हि विकल्प्यते न वस्तु ।
नहि स्थाणुपुरुषविकल्पो वस्तुनि प्रतिष्ठां लभते ।
नच सर्गभेदेन व्यवस्थोपपद्यते, सांप्रतिकसर्गवद्भूतपूर्वस्यापि तथात्वात् ।
न खल्विह सर्गे क्षीराद्दधि जायते सर्गान्तरे ति दध्नः क्षीरमिति भवति ।
तस्मात्सर्गश्रुतयः परस्परविरोधिन्यो नास्मिन्नर्थे प्रमाणं भवितुमर्हन्तीति पूर्वः पक्षः
2.3.1.3.
सिद्धान्त्येकदेशी सूत्रेण स्वाभिप्रायमाविष्करोति- #गौण्यसंभवात्# ।
प्रमाणान्तरविरोधेन बहुश्रुत्यन्तरविरोधेन चाकाशोत्पत्त्यसंभवाद्गौण्येषाकाशोत्पत्तिश्रुतिरित्यविरोध इत्यर्थः ।
प्रमाणान्तरविरोधमाह- #न ह्याकाशस्येति# ।
समवाट्यसमवायिनिमित्तकारणेभ्यो हि कार्यस्योत्पत्तिर्नियता तदभावे न भवितुमर्हति धूम इव धूमध्वजाभावे ।
तस्मात्सदकारणमाकाशं नित्यमिति ।
अपिच य उत्पद्यन्ते तेषां प्रागुत्पत्तेरनुभवार्थक्रिये नोपलभ्य्ते उत्पन्नस्य च दृश्येते, यथा तेजःप्रभृतीनाम् ।
न चाकाशस्य तादृशो विशेष उत्पादानुत्पादयोरस्ति, तस्मान्नोत्पद्यत इत्याह- #उत्पत्तिमतां चेति# ।
प्रकाशनं प्रकाशो घटपटादिगोचरः ।
#पृथिव्यादिवैधर्म्याच्चेति# ।
आदिग्रहणेन द्रव्यत्वे सत्यस्पर्शवत्त्वादात्मवन्नित्यमाकाशमिति गृहीतम् ।
#आरण्यानाकाशेष्विति# ।
वेदे ऽप्येकस्याकाशस्यौपाधिकं बहुत्वम्
2.3.1.4.
तदेवं प्रमाणान्तरविरोधेन गौणत्वमुक्त्वा श्रुत्यन्तरविरोधेनापि गौणत्वमाह- #शब्दाच्च# ।
सुगमम्
2.3.1.5.
स्याच्चैकस्य ब्रह्मशब्दवत् ।
पदस्यानुषङ्गो न पदार्थस्य ।
तद्धि क्कचिन्मुख्यं क्कचिदौपचारिकं संभवासंभवाभ्यामित्यविरोधः ।
चोद्यद्वयं करोति- #कथमिति# ।
प्रथमं चोद्यं परिहरति- #एकमेवेति तावदिति ।
कुलङ्#गृहम् ।
#अमत्राणि# ।
पात्राणि घटशरावादीनि ।
आपेक्षिकमवधारणं न सर्वविषयमित्यर्थः ।
उपपत्त्यन्तरमाह- #नच नभसापीति# ।
अपिरभ्युपगमे ।
यदि सर्वापेक्षं तथाप्यदोष इत्यर्थः ।
#नच प्रागुत्पत्तेः# ।
जगत इति शेषः ।
द्वितीयं चोद्यमपाकरोति- #अत एव च ब्रह्मविज्ञानेनेति# ।
लक्षणान्यत्वाभावेनाकाशस्य ब्रह्मणो ऽनन्यत्वादिति ।
अपि चाव्यतिरिक्तदेशकालमाकाशं ब्रह्मणा च ब्रह्मकार्यैश्च तदभिन्नस्वभावैरतः क्षीरकुम्भप्रक्षिप्तकतिपयपयोबिन्दुवद्ब्रह्मणि तत्कार्ये च विज्ञाते नभो विदितं भवतीत्याह- #अपि च सर्वं कार्यमुत्पद्यमानमिति#
2.3.1.6.
एवं सिद्धान्तैकदेशमिते प्राप्त इदमाह- #प्रतिज्ञाहानिरव्यतिरेकच्छब्देभ्यः# ।
ब्रह्मविवर्तात्मतयाजगतस्तद्विकारस्य वस्तुतो ब्रह्मणाभेदे ब्रह्मणि ज्ञाते ज्ञानमुपपद्यते ।
नहि जगत्तत्त्वं ब्रह्मणो ऽन्यत् ।
तस्मादाकाशमपि तद्विवर्ततया तद्विकारः सत्तज्ज्ञानेन ज्ञातं भवति नान्यथा ।
अविकारत्वे तु ततस्तत्त्वान्तरं न ब्रह्मणि विदिते विदितं भवति ।
भिन्नयोस्तु लक्षणान्यत्वाभावे ऽपि देशकालाभेदे ऽपि नान्यतरज्ञानेनान्यतरज्ञानं भवति ।
नहि क्षीरस्य पूर्णकुम्भे क्षीरे गृह्यमाणे सत्स्वपि पाथोबिन्दुषु पाथस्तत्त्वं प्रति ज्ञातत्वमस्ति विज्ञाने ।
तस्मान्न ते क्षीरे विदिते विदिता इति प्रतिज्ञादृष्टान्तप्रचयानुपरोधाय वियत उत्पत्तिरकामेनाभ्युपेयेति ।
तदेवं सिद्धान्तैकदेशिनि दूषितेपूर्वपक्षी स्वपक्षे विशेषमाह- #सत्यं दर्शितम्# ।
अत एव #विरुद्धं तु तदिति# ।
सिद्धान्तसारमाह- #नैष दोषः# ।
#तेजः#- #सर्गस्य तैत्तिरीयक इति# ।
श्रुत्योरन्यथोपपद्यमानान्यथानुपपद्यमानयोरन्यथानुपपद्यमाना बलवती तैत्तिरीयकश्रुतिः ।
छान्दोग्यश्रुतिश्चान्यथोपपद्यमाना दुर्बला ।
नन्वसहायं तेजः प्रथममवगम्यमानं ससहायत्वेन विरुध्यत इत्युक्तमत आह- #नहीयं श्रुतिस्तेजोजनिप्रधानेति# ।
सर्गसंसर्गः श्रौतो भेदस्त्वार्थः ।
स च श्रुत्यन्तरेण विरोधिना बाध्यते, जघन्यत्वात् ।
नच तेजः प्रमुखसर्गसंसर्गवदसहायत्वमप्यस्य श्रौतं, किन्तु व्यतिरेकलभ्यम् ।
नच श्रुतेन तदवादबाधने श्रुतस्य तेजःसर्गस्यानुपपत्तिः, तदिदमुक्तम्-ऽतेजोजनिप्रधानाऽ इति ।
स्यादेतत् ।
यद्येकं वाक्यमनेकार्थ न भवत्येकस्य व्यापारद्वासंभवात्, हन्त भोः कथमेकस्य स्रष्टुरनेकव्यापारत्वमविरुद्धमित्यत आह- #स्रष्टा त्वेको ऽपीति# ।
वृद्दप्रयोगाधीनावधारणं शब्दसामर्थ्यम् ।
नचानावृत्तस्य शब्दस्य क्रमाक्रमाभ्यामनेकत्रार्थे व्यापारो दृष्टः ।
दृष्टं तु क्रमाक्रमाभ्यामेकस्यापि कर्तुरनेकव्यापारत्वमित्यर्थः ।
नचास्मिन्नर्थ एकस्य वाक्यस्य व्यापारो ऽपि तु भिन्नानां वाक्यानामित्याह- #नचास्माभिरिति# ।
सुगमम् ।
चोदयति- #ननु शमविधानार्थमिति# ।
यत्परः शब्दः स शब्दार्थः ।
न चैष सृष्टिपरो ऽपि तु शमपर इत्यर्थः ।
परहरति- #नहि तेजःप्राथम्यानुरोधेनेति# ।
गुणत्वादार्थत्वाच्च क्रमस्य श्रुतप्रधानपदार्थविरोधात्तत्त्यागो ऽयुक्त इत्यर्थः ।
सिंहावलोकितन्यायेन वियदनुत्पत्तिवादिनं प्रत्याह- #अपिच छान्दोग्य इति# ।
यत्पुनन्यथा प्रतिज्ञोपपादनं कृतं, तद्दूषयति- #यच्चोक्तमिति# ।
दृष्टान्तानुरूपत्वाद्दार्ष्टान्तिकस्य, तस्य च प्रकृतिविकाररूपत्वाद्दार्ष्टान्तिकस्यापि तथाभावः ।
अपिच भ्रान्तिमूलं चैतद्वचनम् ऽएकमेवाद्वितीयम्ऽ इति तोये क्षीरबुद्धिवत् ।
औपचारिकं वा सिंहो माणवक इतिवत् ।
तत्र न तावद्भ्रान्तमित्याह- #क्षीरोदकन्यायेनेति# ।
भ्रान्तेर्विप्रलम्भाभिप्रायस्य च पुरुषधर्मत्वादपौरुषेये तदसंभव इत्यर्थः ।
नाप्यौपचारिकमित्याह- #सावधारणा चेयमिति# ।
काममुपचारादस्त्वेकत्वम्, अवधारणाद्वितीयपदे नोपपद्येते ।
नहि माणवके सिंहत्वमुपचर्य न सिंहादन्यो ऽस्ति मनागपि माणवक इति वदन्ति लौकिकाः ।
तस्माद्ब्रह्मत्वमैकान्तिकं जगतो विवक्षितं श्रुत्या न त्वौपचारिकम् ।
अभ्यासे हि भूयस्त्वमर्थस्य ऊवति नत्वस्पत्वमपि प्रागेवौपचारिकमित्यर्थः ।
#नच स्वकार्यापेक्षयेति# ।
निःशेषवचनः स्वरसतः सर्वशब्दो नासति श्रुत्यन्तरविरोधे एकदेशवविषयो युज्यत इत्यर्थः
2.3.1.7.
आकाशस्योत्पत्तौ प्रमाणान्तरविरोधमुक्तमनुभाष्य तस्य प्रमाणान्तरस्य प्रमाणान्तरविरोधेनाप्रमाणभूतस्य न गौणत्वापादनसामर्थ्यमत आह- #यावद्विकारं तु विभागो लोकवत्# ।
सो ऽयं प्रयोगः-आकाशदिक्क्लामनःरमाणवो विकाराः, आत्मन्यत्वे सति विभक्तत्वात्, घटशरावोदञ्चनादिवदिति ।
#सर्वं कार्यं निरात्मकमिति# ।
निरूपादानं स्यादित्यर्थः ।
शून्यवादश्च निराकृतः स्वयमेव श्रुत्योपन्यस्य ऽकथमसतः सज्जायेतऽ इति ।
उपपादितं च तन्निराकरणमधस्तादिति ।
आत्मत्वादेवात्मनः प्रत्यगात्मनो #निराकणाशङ्कानुपपत्तिः# ।
एतदुक्तं भवति-सोपादानं चेत्कार्यं तत आत्मैवोपानत्वेन श्रुतेरुपादानान्तरकल्पनानुपपत्तेरिति ।
स्यादेतत् ।
अस्त्वात्मोपादानमस्य जगतः, तस्य तूपादानान्तरमश्रूयमाणमप्यन्यद्भविष्यतीत्यत आह- #नह्यात्मागन्तुकः कस्यचित्#उपादानान्तरस्योपादेयः ।
कुतः ।
#स्वयंसिद्धत्वात्# ।
सत्ता वा प्रकाशो वास्य स्वयंसिद्धी ।
तत्र प्रकाशात्मिकायाः सिद्धेस्तावदनागन्तुकत्वमाह- #नह्यात्मात्मन इति# ।
उपपादितमेतद्यथा संशयविपर्यासपारोक्ष्यानास्पदत्वात्कदापि नात्मा पराधीनप्रकाशः, तदधीनप्रकाशास्तु प्रमाणादयः ।
अत एव श्रुतिः-ऽतमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभातिऽ इति ।
#नचेदृशस्य नरिकारणं संभवतीति# ।
निराकरणमपि हि तदधीनात्मलाभं तद्विरुद्धं नोदेतुमर्हतीत्यर्थः ।
सत्ताया अनागन्तुकत्वमस्याह-तथाहमेवेदानीं जानामीति ।
प्रमाप्रमाणप्रमेयाणां वर्तमानातीतानागतत्वे ऽपि प्रमातुः सदा वर्तमानत्वेनानुभवादप्रच्युतस्वभावस्य नागन्तुकं सत्त्वम् ।
त्रैकाल्यावच्छेदेन ह्यागन्तुकत्वं व्याप्तं, तत्प्रमातुः सदावर्तमानाद्व्यवर्तमानमागन्तुकत्वं स्वव्याप्यमादाय निवर्तत इति ।
#अन्यथाभवत्यपि ज्ञातव्य इति# ।
प्रकृतिप्रत्ययाभ्यां ज्ञानज्ञेययोरन्यथाभावो दर्शितः ।
ननु जीवतः प्रमातुर्मा भूदन्यथाभावो मृतस्य तु भविष्यतीत्यत आह- #तथा भस्मीभवस्यपीति# ।
यत्खलु सत्स्वभावमनुभवसिद्धं तस्यानिर्वचनीयत्वमन्यतो बाधकादवसातव्यम् ।
बाधकं च घटादीनां स्वभावाद्विचलनं प्रमाणोपनीतम् ।
यस्य तु न तदस्यात्मनो न तस्य तत्कल्पनं युक्तम्, अबाधितानुभवसिद्धस्य सत्स्वभावस्यानिर्वचनीयत्वकल्पनाप्रमाणाभावात् ।
तदिदमुक्तम्- #न संभावयितुं शक्यमिति# ।
तदनेन प्रबन्धेन प्रत्यनुमानेनाकाशानुत्पत्त्यनुमानं तूषयित्वानैकान्तिकत्वेनापि दूषयति-यत्तूकं समानजातीयमिति ।
#नाप्येनेकमेवो#पादानमुपादेय #मारभते# ।
यत्र हि क्षीरं दधिभावेन परिणमते तत्र नावयवानामनेकेषामुपादनत्वमभ्युपगन्तव्यं किन्तूपात्तमेव क्षीरमेकमुपादेयदधिभावेन परिणमते ।
यथा निरवयवपरमाणुवादिनाङ्क्षीरपरमाणुर्दधिपरमाणुभावेनेति ।
शेषमतिरोहितार्थम्
2.3.2.8.
#एतेन मातरिश्वा व्याख्यातः# ।
यद्यभ्यासे भूयस्त्वमर्थस्य भवति नाल्पत्वं दूरत एवोपचरितत्वं, हन्त भोः पवनस्य नित्यत्वप्रसङ्गः ।
ऽवायुश्चान्तरिक्षमेतदमृतम्ऽ इति द्वयोरमृतत्वमुक्त्वा पुनः पवनस्य विशेषेणाह- #सैषानस्तमिता देवता यद्वायुरिति# ।
तस्मादभ्यासान्नापेक्षिकं वायोरमृतत्वमपि त्वौत्पत्तिकमेवेति प्राप्तम् ।
तदिदमुक्तं भाष्यकृता- #अस्तमयप्रतिषेधादमृतत्वादिश्रवणाच्चेति# ।
चेन समुच्चयार्थेनाभ्यासो दर्शितः ।
एवं प्राप्त उच्यते-एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानात्, प्रतिज्ञावाक्यार्थस्य प्राधान्यात्, तदुपपदनार्थत्वाच्च वाक्यान्तराणां, तेषामपि चाद्वैतप्रतिपादकानां मातरिश्वोत्पत्तिक्रमप्रतिपादकानां बहुलमुपलब्धेः,
मुख्यभूयस्त्वाभ्याममूषां श्रुतीनां बलीयस्त्वात्, एतदनुरोधेनामृतत्वास्तमयप्रतिषेधावापेक्षिकत्वेन नेतव्याविति ।
भूयसीः श्रुतीरपेक्ष्य द्वे अपि श्रुती शब्दमात्रमुक्ते
2.3.3.9.
#एसंभवस्तु सतो ऽनुपपत्तेः# ।
ननु ऽन चास्य कश्चिज्जनिताऽ इत्यात्मनः सतो ऽकारणत्वश्रुतेः कथमुत्पत्त्याशङ्का ।
नच वचनमदृष्ट्वा पूर्वः पक्ष इति युक्तम्, अधीतवेदस्य ब्रह्मजिज्ञासाधिकारादर्शनानुपपत्तेरत आह- #वियत्पवनयोरिति# ।
यथाहि वियत्पवनयोरमृतत्वानस्तमयत्वश्रुती श्रुत्यन्तरविरोधादापेक्षिकत्वेन नीते ।
एवमकारणत्वश्रुतिरात्मनो ऽग्निविस्फुलिङ्गदृष्टान्तश्रुतिविरोधात्प्रमाणान्तरविरोधाच्चापेक्षिकत्वेन व्याख्यातव्या ।
न चात्मनः कारणवत्त्वे ऽनवस्था लोहगन्धितामावहत्यनादित्वात् कार्यकारणपरम्पराया इति भावः ।
#तथा विकारेभ्य इति# ।
प्रमाणान्तरविरोधो दर्शितः ।
एवं प्राप्त उच्यते-सदेकत्वभावस्योत्पत्त्यसंभवः ।
कुतः #अनुपपत्तेः# ।
सदेकस्वभावं हि ब्रह्म श्रूयते तदसति बाधके नान्यथयितव्यम् ।
उक्तमेतद्विकाराः सत्त्वेनानुभूता अपि कतिपयकालकलातिक्रमे विनश्यन्तो दृश्यन्त इत्यनिर्वचनीयास्त्रैकाल्यावच्छेदादिति ।
न चात्मा तादृशस्तस्य श्रुतेरनुभावाद्वा वर्तमानैकस्वभावत्वैन प्रसिद्धेस्तदिदमाह- #सन्मात्रं हि ब्रह्मेति# ।
एतदुक्तं भवति-यत्स्वभावाद्विचलति तदनिर्वचनीयं निर्वचनीयोपादानं युक्तं, न तु विपर्ययः ।
यथा रज्जूपादानः सर्पो न तु सर्पोपादाना रज्जुरिति ।
ययोस्तु स्वभावादप्रच्युतिस्तयोर्निर्वचनीययोर्नोपादेयोपादानभावः, यथा रज्जुशुक्तिकयोरिति ।
नच निरधिष्ठानो विभ्रम इत्याह- #नाप्यसत इति# ।
नच निरधिष्ठानभ्रमपरंपरानादितेत्याह- #मूलप्रकृत्यनभ्युपगमे ऽनवस्थाप्रसङ्गादिति# ।
पारमार्थिको हि कार्यकारणभावो ऽनादिर्नानवस्थाया दुष्यति. समारोपस्तु विकारस्य न समारोपितोपादान इत्युपपादितं माध्यमिकमतनिषेधाधिकारे, तदत्र न प्रस्मर्तव्यम् ।
तस्मान्नासदधिष्ठानविभ्रमसमर्थनानादित्वेनोचितेत्यर्थः ।
अग्निविस्फुलिङ्गश्रुतिश्चौपादिकरूपापेक्षया नेतव्या ।
शेषमतिरोहितार्थम् ।
ये तु गुणदिक्कालोत्पत्तिविषयमिदमधिकरणं वर्णयाञ्चक्रुस्तैः ऽसतो ऽनुपपत्तेःऽ इति क्लेशेन व्याख्येयम् ।
अविरोधसमर्थनप्रस्तावे चास्य संगतिर्वक्तव्या ।
अबादिवद्दिक्कालादीनामुत्पत्तिप्रतिपादकवाक्यस्यानवगमात् ।
तदास्तां तावत्
2.3.4.10.
#तेजो ऽतस्तथाह्याह# ।
यद्यपि ऽवायोरग्निःऽ इत्यपादानपञ्चमी ऽकारकविभक्तिरुपपदविभक्तेर्बलीयसीऽ इति नेयमानन्तर्यपरा युक्ता, तथापि बहुश्रुतिविरोधेन दुर्बलाप्युपपदविभक्तिरेवात्रोचिता ।
ततश्चानन्तर्यदर्शनपरेयं वायोरग्निरिति श्रुतिः ।
नच साक्षाद्ब्रह्मजत्वसंभवे तद्वंश्यत्वेन तज्जत्वं परंपरयाश्रयितुं युक्तम् ।
वाजपेयस्य पशुयूपवदिति प्राप्तम् ।
एवं प्राप्ते उच्यते-युक्तं पशुयागवाजपेयोरङ्गाङ्गिनोर्नानात्वत्तत्र साक्षाद्वाजपेयासंबन्धे क्लेशेन परंपराश्रयणम् ।
इह तु वायोर्ब्रह्मविकारस्यापि ब्रह्मणो वस्तुतो ऽनन्यत्वाद्वयूपादानत्वे साक्षादेव ब्रह्मोपादानत्वोपपत्तेः कारकविभक्तेर्बलीयस्त्वानुरोधेनोभयथोपपद्यमानाः श्रुतयः कांस्यभोजिन्यायेन नियम्यन्त इति युक्तमिति राद्धान्तः ।
#ऽपारम्पर्यजत्वे ऽपिऽ#इति भेदकल्पनाभिप्रायं यतःल पारमार्थिकाभेदमाह- #वायुभावापन्नं#
#ब्रह्मेति ।
यथा तस्याः शृतम्#इति तु दृष्टान्तः परम्परामात्रसाम्येन न तु सर्वथां साम्येनेति सर्वमवदातम्
2.3.5.11.
#आपः# ।
निगदव्याख्यातेन भाष्येण व्याख्यातम्
2.3.6.12.
#पृथिव्यधिकाररूपशब्दान्तरेभ्यः# ।
अन्नशब्दो ऽयं व्युत्पत्त्या च प्रसिद्ध्या च व्रीहियवादौ तद्विकारे चौदने प्रवर्तते ।
श्रुतिश्च प्रकरणाद्बलीयसी, सा च वाक्यशेषेणोपोद्बलिता ऽयत्र क्कचन वर्षतिऽ इत्येतेन तस्मादभ्यवहार्थं व्रीहियवाद्येवात्राद्भ्यो जायत इति विवक्षितम् ।
कार्ष्ण्यमपि हि संभवति कस्यचिददनीस्य ।
नहि पृथिव्यपि कृष्णा, लोहितादिरूपाया अपि दर्शनात् ।
ततश्च श्रुत्यन्तरेण ऽअद्भ्यः पृथिवी पृथिव्या ओषधयःऽ इत्यादिना विरोध इति पूर्वः पक्षः ।
श्रुत्योर्विरोधे वस्तुनि विकल्पानुपपत्तेरन्यतरानुगुणतयान्यतरा नेतव्या ।
तत्र किम् ऽअद्भ्यः पृथिवीऽ इति पृथिवीशब्दो ऽन्नपरतया नीयतामुत ऽअन्नमसृजतऽ इत्यन्नशब्दः पृथिवीपरतयेति विशये, महाभूताधिकारानुरोधात्प्रायिककृष्णरूपानुरोधाच्च ऽतद्यदुपां शर आसीत्ऽ इति च पुनः श्रुत्यनुरोधाच्च वाक्यशेषस्य चान्यथाप्युपपत्तेरन्नशब्दो ऽन्नकारणे पृथिव्यामिति राद्धान्तः
2.3.7.13.
#तदभिध्यानादेव तु तल्लिङ्गात्सः# ।
सृष्टिक्रमे भूतानामविरोध उक्तः ।
इदानीमाकाशादिभूताधिष्ठात्र्यो देवताः किं स्वतन्त्रा एवोत्तरोत्तरभूतसर्गे प्रवर्तन्त उत परमेश्वरापेक्षायां प्रमाणाभावात्, प्रस्तावस्य च लिङ्गस्य च पारम्पर्येणापि मूलाकारणस्य ब्रह्मण उपपत्ते-, स्वतन्त्राणामेवाकाशादीनां वाट्वादिकारणत्वमिति जगतो ब्रह्मयोनित्वव्याघात इति प्राप्तम् ।
एवं प्राप्ते ऽभिधीयते- #आकाशाद्वायुःऽ#इत्यादय आकाशादीनां केवलमुपादानभावमाचक्षते, न पुनः स्वातन्त्र्येणाधिष्ठातृत्वम् ।
नच चेतनानां स्वकार्यस्वातन्त्र्यमित्येतदप्यैकान्तिकं परतन्त्राणामपि तेषां बहुलमुपलब्धेर्भृत्यान्तेवास्यादिवत् ।
तस्माल्लिङ्गप्रस्तावसामञ्जस्याय स ईश्वर एव तेन तेनाकाशादिभावेनोपादानभावेनावतिष्ठमानः स्वयमधिष्ठाय निमित्तकारणभूतस्तं तं विकारं वाट्वादिकं सृजतीति युक्तम् ।
इतरथा लिङ्गप्रस्तावौ क्लेशितौ स्यातामिति ।
#परमेश्वरावेशवशादिति# ।
परमेश्वर एवान्तर्यमिभावेनाविष्ट ईक्षिता, तस्मात्सर्वस्य कार्यजातस्य साक्षात्परमेश्वर एवाधिष्ठाता निमित्तकारणं न त्वाकाशादिभावमापन्नः ।
आकाशादिभावमापन्नस्तूपादानमिति सिद्धम्
2.3.8.14.
#विपर्ययेण तु क्रमो ऽत उपपद्यते च# ।
उत्पत्तौ महाभूतानां क्रमः श्रुतो नाप्यये ऽप्ययमात्रस्य श्रुतत्वात् ।
तत्रव नियमे संभवति नानियमः ।
व्यवस्थारहितो हि सः ।
नच व्यवस्थायां सत्यामव्यवस्था युज्यते ।
तत्र क्रमभेदापेक्षायां किं दृष्टो ऽप्ययक्रमो घटादीनां महाभूताप्ययक्रमनियामको ऽस्त्वाहो श्रौत उत्पत्तिक्रम इति विशये श्रौतस्य श्रौतान्तरमभ्यर्हितं समानजातीयतया तस्यैव बुद्धिसांनिध्यात् ।
न दृष्टं, विरुद्धजातीयत्वात् ।
तस्माच्छ्रौतेनैवोत्पत्तिक्रमेणाप्ययक्रमो नियम्यत इति प्राप्त उच्यते-अप्ययस्य क्रमापेक्षायां खलूत्पत्तिक्रमो नियामको भवेत्, न त्वस्त्यप्ययस्य क्रमापेक्षा, दृष्टानुमानोपनीतेन क्रमभेदेन श्रुत्यनुसारिणो ऽप्ययक्रमस्य बाध्यमानत्वात् ।
तस्मिन् हि सत्युपादानोपरमे ऽप्युपादेयमस्तीति स्यात् ।
न चैतदस्ति ।
तस्मात् ।
तद्विरुद्धदृष्टक्रमावरोधादाक्ङ्क्षैव नास्ति क्रमान्तरं प्रत्ययोग्यत्वात् तस्य ।
तदिदमुक्तं सूत्रकृता-ऽउपपद्यते चऽ इति ।
भाष्यकारो ऽप्याह- #न चासावयोग्यत्वाप्ययेनाकाङ्क्ष्यत इति# ।
तस्मादुत्पत्तिक्रमाद्विपरीतः क्रम इत्येतन्त्र्यायमूला च स्मृतिरुक्ता
2.3.9.15.
#अन्तराविज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात्# ।
तदेवं भावनोपयोगिनौ भूतानामुत्पत्तिप्रलयौ विचार्य बुद्धीन्द्रियमनसां क्रमं विचारयति ।
अत्र च विज्ञायते ऽनेनेति व्युत्पत्त्या विज्ञानशब्देनेन्द्रियाणि च बुद्धिं च ब्रूते ।
तत्रैतेषां क्रमापेक्षायामात्मानं च भूतानि चान्तरा समाम्नानात्तेनैव पाठेन क्रमो नियम्यते ।
तस्मात् पूर्वोत्पत्तिक्रमभङ्गप्रसङ्गः ।
यत आत्मनः करणानि करणेभ्यश्च भूतानीति प्रतीयते, तस्मादात्मन आकाश इति भज्यते ।
अन्नमयमिति च मयडानन्दमय इतिवत् न विकारार्थ इति प्राप्ते ऽभिधीयते-विभक्तत्वात्तावन्मनःप्रभृतीनां कारणापेक्षायामन्नमयं मन इत्यादिलिङ्गश्रवणादपेक्षितार्थकथनाय विकारार्थत्वमेव मयटो युक्तम्, इतरथा त्वनपेक्षितमुक्तं भवेत् ।
नच तदपि घटते ।
नह्यन्नमयो यज्ञ इतिवदन्नप्राचुर्यं मनसः संभवति ।
एवं चोद्भूतविकारा मन आदयो भूतानां परस्तादुत्पद्यन्त इति युक्तम् ।
प्रौढवादितयाभ्युपेत्याह- #अथ त्वभौतिकानीति# ।
भवत्वात्मन एव करणानामुत्पत्तिः, न खल्वेतावता भूतैरात्मनो नोत्पत्तव्यम् ।
तथाच नोक्तक्रमभङ्गप्रसङ्गः ।
#विशिष्यते#भिद्यते ।
भज्यत इति यावत्
2.3.10.16.
#चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशो भाक्तस्तद्भावभावित्वात्# ।
देवदत्तादिनामधेयं तावज्जीवात्मनो न शरीरस्य, तन्नाम्ने शरीरस्य श्राद्धदिकरणानुपपत्तेः ।
तन्मृतो देवदत्तो जातो देवदत्त इति व्यपदेशस्य मुख्यत्वं मन्वानस्य पूर्वः पक्षः, मुख्यत्वे शास्त्रोक्तामुष्मिकस्वर्गादिफलसंबन्धानुपप्तेः शास्त्रविरोधाल्लौकिकव्यपदेशो भाक्तो व्याख्येयः ।
भक्तिश्च शरीरस्योत्पादविनाशौ ततस्तत्संयोग इति ।
जातकर्मादि च गर्भबीजसमुद्भवजीवपापप्रक्षयार्थं, न तु जीवजन्मजपापक्षयार्थम् ।
अत एव स्मरन्ति ऽएवमेनः शमं याति बीजगर्भसमुद्भवम्ऽ इति ।
तस्मान्न शरीरोत्पत्तिविनाशाभ्यां जीवजन्मविनाशाविति सिद्धम् ।
एतच्च लौकिकव्यपदेशस्याभ्रान्तिमूलत्वमभ्युपेत्याधिकरणम् ।
उक्ता त्वध्यासभाष्ये ऽस्य भ्रान्तिमूलतेति
2.3.11.17.
मा भूतामस्य शरीरोदयव्ययाभ्यां स्थूलावुत्पत्तिविनाशौ, आकाशादेरिव तु महासर्गादौ तदन्ते चोत्पत्तिविनाशौ जीवस्य भविष्यत इति शङ्कान्तरमपनेतुमिदमारभ्यते ।
#नात्माश्रुतेर्नित्यत्वाच्च ताभ्यः# ।
विचारमूलसंशयस्य बीजमाह- #श्रुतिविप्रतिपत्तेरिति# ।
तामेव दर्शयति- #कासुचिच्छुतिष्विति# ।
पूर्वपक्षं गृह्णाति- #तत्र प्राप्तमिति# ।
परमात्मनस्तावद्विरुद्धधर्मसंसर्गादपहतानपहतपाप्मत्वादिलक्षणाज्जीवानामन्यत्वम् ।
ते चेन्न विकारास्ततस्तत्त्वान्तरत्वे बहुतराद्वैतश्रुतिविरोधः ।
ब्रह्मविज्ञानेन सर्वविज्ञानप्रतिज्ञाविरोधश्च ।
तस्माच्छुतिभरनुज्ञायते विकारत्वम् ।
प्रमाणान्तरं चात्रोक्तम्-विभक्तत्वादाकाशादिवदिति ।
ऽयथाग्नेः श्रुद्रा विस्फलिङ्गःऽ इति च श्रुतिः साक्षादेव ब्रह्मविकारत्वं जीवानां दर्शयति ।
ऽयथा सूदीप्तात् पावकात्ऽ इति च ब्रह्मणो जीवानामुत्पत्तिं च तत्राप्ययं च साक्षाद्दर्शयति ।
नन्वक्षराद्भावानामुत्पत्तिप्रलयाववगम्येते ।
न जीवानामित्यत आह- #जीवात्मनामिति# ।
स्यादेतत् ।
सृष्टिश्रुतिष्वाकाशाद्युत्पत्तिरिव कस्माज्जीवोत्पत्तिर्नाम्नायते ।
तस्मादाम्नानयोग्यस्यानाम्नानात्तस्योत्पत्त्यभावं प्रतीम इत्यत आह- #नच क्कचिदश्रवणमिति# ।
एवं हि कस्याञ्चिच्छाख्यायामाम्नातस्य कतिपायाङ्गसहितस्य कर्मणः शाखान्तरीयाङ्गोपसंहारो न भवेत् ।
तस्माद्बहुतरश्रुतिविरोधादनुप्रवेशश्रुतिर्विकारभावात्पत्त्या व्याख्येया ।
तस्मादाकाशवज्जीवात्मान उत्पद्यन्त इति प्राप्त उच्यते-भवेदेवं यदि जीवा ब्रह्मणो भिद्येरन् ।
न त्वेतदस्ति ।
ऽतत् सृष्ट्वा तदेवानुप्राविशत्ऽ ऽअनेन जीवेनऽ इत्याद्यविभागश्रुतेरौपाधिकत्वाच्च भेदस्य घचकरकाद्याकाशवद्विरुद्धधर्मसंसर्गस्योपपत्तेः ।
उपाधीना च मनोमय इत्यादीनां श्रुतेर्भूयसीनं च नित्यत्वाजत्वादिगोचराणां श्रुतीनां दर्शनात् ऽउपाधिप्रविलयेनोपहितस्यऽ इति च प्रश्नोत्तराभ्यामनेकधोपपादनादविभागस्य च ऽएको देवः सर्वभूतेषु गूढःऽ इति श्रुत्यैवोक्तत्वान्नित्या जीवात्मनो न विकारा न चाद्वैतप्रतिज्ञाविरोध इति सिद्धम् ।
मैत्रेयिब्राह्मणं चाधस्ताद्व्याख्यातमिति नेह व्याख्यातम्
2.3.12.18.
#ज्ञो ऽत एव# ।
कर्मणा हि जानात्यर्थो व्याप्तस्तदभावे न भवति धूम इव धूमध्वजाभावे, सुषुप्त्याद्यवस्थासु च ज्ञेयस्याभावात्तद्व्याप्यस्य ज्ञानस्याभावः ।
तथाच नात्मस्वभावश्चैतन्यं तदनुवृत्तावपि चैतन्यस्य व्यावृत्तिः ।
तस्मादिन्द्रियादिभावाभावानुविधानात् ज्ञानभावाभावयोरिन्द्रियादिसंनिकर्षाधेयमागन्तुकमस्य चैतन्यं धर्मो न स्वाभाविकः ।
अत एवेन्द्रियादीनामर्थवत्त्वम्, इतरथा वैयर्थ्यमिन्द्रियाणां भवेत् ।
नित्यचैतन्यश्रुतयश्च शक्त्यभिप्रायेण व्याख्येयाः ।
अस्ति हि ज्ञानोत्पादनशक्तिर्निजा जीवानां, न तु व्योम्न इवेन्द्रियादिसंनिकर्षे ऽप्येषा ज्ञानं न भवतीति ।
तस्माज्जडा एव जीवा इति प्राप्ते ऽभिधीयते-यदागन्तुकज्ञानं जडस्वभावं तत्कदचित् परोक्षं कदाचित् संदिग्धं कदाचिद्विपर्यस्तं, यथा घटादि, न चैवमात्मना ।
तथाहि-अनुमिमानो ऽप्यपरोक्षः, स्मरन्नप्यानुभविकः, संदिहानो ऽप्यसंदिग्धः, विपर्यस्यन्नप्यविपरीतः सर्वस्यात्मा ।
तथाच तत्स्वभावः ।
नच तत्स्वभावस्य चैतन्यस्याभावः, तस्य नित्यत्वात् ।
तस्माद्वृत्तयः क्रियारूपाः कर्माभावे सुषुप्त्यादौ निवर्तन्ते ।
तेन चैतन्यमात्मस्वभाव इति सिद्धम् ।
तथाच नित्यचैतन्यवादिन्यः श्रुतयो न कथञ्चित् क्लेशेन व्याख्यातव्या भवन्ति ।
गन्धादिविषयवृत्त्युपजने चेन्द्रियाणामर्थवत्तेति सर्वमवदातम्
2.3.13.19.
#उत्क्रान्तिगत्यागतीनाम्# ।
यद्यप्यविकृतस्यैव परमात्मनो जीवभावस्तथा चानणुपरिमाणत्वं, तथाप्युत्क्रान्तिगत्यागतीनां श्रुतेश्च साक्षादणुपरिमाणश्रवणस्य चाविरोधार्थमिदमधिकरणमित्याक्षेपसमाधानाभ्यामाह- #ननु चेति# ।
पूर्वपक्षं गृह्णाति- #तत्र प्राप्तं तावदिति# ।
विभागसंयोगोत्पादौ हि तूत्क्रान्त्यादीनां फलं ।
नच सर्वगतस्य तौ स्तः ।
सर्वत्र नित्यप्राप्तस्य वा सर्वात्मकस्य वा तदसंभावादिति
2.3.13.20.
#स्वात्मना चोत्तरयोः# ।
उत्क्रमणं हि मरणे निरूढम् ।
तच्चाचलतो ऽपि तत्र सतो देहस्वाम्यनिवृत्त्योपपद्यते न तु गत्यागती ।
तयोश्चलने निरूढयोः कर्तृस्थभावयोर्व्यापिन्यसंभवादिति मध्यमं परिमाणं महत्त्वं शरीरस्यैव ।
तच्चार्हतपरीक्षायां प्रत्युक्तम् ।
गत्यागती च परमनहति न संभवतो ऽत पारिशेष्यादणुत्वसिद्धिः ।
गत्यागतिभ्यां च प्रादेशिकत्वसिद्धौ मरणमपि देहादपसर्पणमेव जीवस्य न तु तत्र सतः स्वाम्यनिवृत्तिमात्रमिति सिद्धमित्याह- #सत्योश्च गत्यागत्योरिति# ।
इतश्च देहादपसर्पणमेव जीवस्य मरणमित्याह- #देहप्रदेशानामिति# ।
तस्माद्गत्यागत्यपेक्षोत्क्रान्तिरपि सापादानाणुत्वसाधनमित्यर्थः ।
न केवलमपादानश्रुतेः,
तच्छरीरप्रदेशान्तव्यत्वश्रुतेरप्येवमेवेत्याह- #स एतास्तेजोमात्रा इति#
2.3.13.21.
#नाणुरतच्छुतेरिति चेन्नेतराधिकारात्# ।
यत उत्क्रान्त्यादिश्रुतिभिर्जीवानामणुत्वं प्रसाधितं ततो व्यापकात्परमात्मनस्तेषां तद्विकारतया भेदः ।
तथाच महत्त्वानन्यादिश्रुतयः परमात्मविषया न जीवविषया इत्यविरोध इत्यर्थः ।
यदि जीवा अणवस्ततो ऽयो ऽयं विज्ञानमयः परमेषुऽ इति कथं शारीरो महत्त्वसंबन्धित्वेन प्रतिनिर्दिश्यते इति चोदयति- #नन्विति# ।
परिहरति- #शास्त्रदृष्ट्या#पारमार्थिकदृष्ट्या निर्देशो वामदेववत् ।
यथा हि गर्भस्थ एव वामदेवो जीवः परमार्थदृष्ट्यात्मनो ब्रह्मत्वं प्रतिपेदे, एवं विकाराणां प्रकृतेर्वास्तवादभेदात्तत्परिमाणत्वव्यपदेश इत्यर्थः
2.3.13.22.
#स्वशब्दोन्मानाभ्यां च# ।
स्वशब्दं विभजते- #साक्षादेवेति# ।
उन्मानं विभजते- #तथोन्मानमपीति# ।
उद्धृत्य मानमुन्मानं बालाग्रादुद्धृतः शततमो भागस्तस्मादपि शततमादुद्धृतः शततमो भाग इति तदिदमुन्मानम् ।
आराग्रादिद्धृतं मानमाराग्रामात्रमिति
2.3.13.23.
सूत्रान्तरमवतारयितुं चोदयति- #नन्वगुणत्वे सतीति# ।
अणुरात्मा न शरीरव्यापीति न सर्वाङ्गीणशैत्योपलब्धिः स्यादित्यर्थः ।
#अविरोधश्चन्दनवत्# ।
त्वक्संयुक्तो हि जीवः त्वक्च सकलशरीरव्यापिनीति त्वग्व्याप्यात्मसंबन्धः सकलशैत्योपलब्धौ समर्थ इत्यर्थः
2.3.13.24.
#अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि# ।
चन्दनबिन्दोः प्रत्यक्षतो ऽल्पीयस्त्वं बुद्ध्वा युक्ता कल्पना भवति, यस्य तु संदिग्धमणुत्वं सर्वाङ्गीणं च कार्यमुपलभ्यते तस्य व्यापित्वमौत्सर्गिकमपहाय नेयं कल्पनावकाशं लभत इति शङ्कार्थः ।
नच हरिचन्दनबिन्दुदृष्टान्तेनाणत्वानुमानं जीवस्य,
प्रतिदृष्टान्तसंभवेनानैकान्तिकत्वादित्याह- #न चात्रानुमानमिति# ।
शङ्कामिमामपाकरोति- #अत्रोच्यत इति# ।
यद्यपि पूर्वोक्ताभिः श्रुतिभिरणुत्वं सिद्धमात्मनस्तथापि वैभाच्छुत्यन्तरमुपन्यस्तम्
2.3.13.25.
#गुणाद्वा लोकवत्# ।
ये तु सावयवत्वाच्चन्दनबिन्दोरणुसंचारेण देहव्याप्तिरुपपद्यते न त्वात्मनो ऽनवयवस्याणुसंचारः संभवी, तस्माद्वैषम्यमिति मन्यन्ते तान् प्रतिदमुच्यते गुणाद्वा लोकवदिति ।
तद्विभजते- #चैतन्य इति# ।
यद्यप्यणुर्जीवस्तथापि तद्गुणश्चैतन्यं सकलदेहव्यापि ।
यथा प्रदीपस्याल्पत्वे ऽपि तद्गुणः प्रभासकलगृहौदरव्यापिनीति
2.3.13.26.
एतदपि शङ्काद्वारेण दृषयित्वा दृष्टान्तान्तरमाह- #व्यतिरेको गन्धवत् ।
अक्षीयमाणमपि तदिति# ।
क्षयस्यातिसूक्ष्मतयानुपलभ्यमानक्षमिति शङ्कते- #स्यादेतदिति# ।
विश्लिष्टानामल्पत्वादित्युपलक्षणं, द्रव्यान्तरपरमाणूनामनुप्रवेशादित्यपि द्रष्टव्यम् ।
विश्लेषानुप्रवेशाभ्यां च सन्नपि विश्लेषः सूक्ष्मत्वान्नोपलक्ष्यते इति ।
निराकरोति- #ना# ।
कुतः ।
#अतीन्द्रियत्वादिति# ।
परमाणूनां परमसूक्ष्मत्वात्तद्गतरूपादिवद्गन्धो ऽपि नोपलभ्येत ।
उपलभ्यमानो वा सूक्ष्म उपलभ्येत न स्थूल इत्यर्थः ।
शेषमतिरोहितार्थम्
2.3.13.27.
2.3.13.28.
पृथगुपदेशात् ।
निगदव्याख्यातभस्य भाष्यम्
2.3.13.29.
#तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् ।
कम्टकतोदने ऽपीति# ।
महदल्पयोः संयोगो ऽल्पमवरुणद्धि न महान्तं, न जातु घटकरकादिसंयोगा नभसो तभो व्यश्रुवते ऽपित्वल्पानेव घटकरकादीन्, इतरथा यत्र नभस्तत्र सर्वत्र घटकरकाद्युपलम्भ इति, ते ऽपि नभःपरिमाणः प्रसज्येरन्निति ।
न चाणोर्जीवस्य सकलशरीरगता वेदनोपपद्यते ।
यद्यप्यन्तःकरणमणु तथापि तस्यत्वचा संबद्धत्वात्त्वचश्त समस्तशरीरव्यापित्वादेकदेशे ऽप्यधिष्ठिता त्वगधिष्ठितैवेति शरीरव्यापी जीवः शक्नोति सर्वाङ्गीणं शैत्यमनुभवितुं त्वगिन्द्रियेण गङ्गायाम् ।
अणुस्तु जीवो यत्रास्ति तस्मिन्नेव शरीरप्रदेशो तदनुभवेन्न सर्वाङ्गीणं, तस्यासर्वाङ्गीणत्वात् ।
कण्टकतोदनस्य तु प्रादेशिकतया न सर्वाङ्गीणोपलब्धिरिति वैषम्यम् ।
#गुणत्वमेव हीति# ।
इदमेव हि गुणानां गुणत्वं यद्द्रव्यदेशत्वम् ।
अत एव हि हेमन्ते विषक्तावयवाप्यद्रव्यगते ऽतिसान्द्रे शीतस्पर्शे ऽनुभूयमानेप्यनुद्भूतं रूपं नोपलभ्यते यथा, तथा मृगमदादीनां गन्धवाहविप्रकीर्णसूक्ष्मावयवानामतिसान्द्रे गन्धे ऽनुभूयमाने रूपस्पर्शौ नानुभूयेते तत्कस्य हेतोः, अनुद्भूतत्वात्तयोर्गन्धस्य चोद्भूतत्वादिति ।
नच द्रव्यस्य प्रक्ष्यप्रसङ्गः, द्रव्यान्तरावयवपूरणात् ।
अत एव कालपरिवासवशादस्य हतगन्धितोपलभ्यते ।
अपिच चैतन्यं नाम न गुमो जीवस्य गुणानः, किन्तु रूपभावः ।
नच स्वभावस्य व्यापित्वे भावस्याव्यापित्वं, तत्त्वप्रच्युतेरित्याह- #यदि च चैतन्यमिति# ।
तदेवं श्रुतिस्मृतीतिहासपुराणसिद्धे जीवस्याविकारितया परमात्मत्वे, तथा श्रुत्यादितः परममहत्त्वे च, या नामाणुत्वश्रुतयस्तास्तदनुरोधेन बुद्धिगुणसारतया व्याख्येया इत्याह- #तद्गुणसारत्वादिति# ।
तद्व्याचष्टे- #तस्या बुद्धेरिति# ।
आत्मना स्वसंबन्धिन्या बुद्धेरुपस्थापितत्वात्तदा परामर्शः ।
नहि शुद्धबुद्धमुक्तस्वभावस्यात्मनस्तत्त्वं संसारिभिरनुभूयते ।
अपितु यो ऽयं मिथ्याज्ञानद्वेषाद्यनुषक्तः स एव प्रत्यात्ममनुभवगोचरः ।
नच ब्रह्मस्वभावस्य जीवात्मनः कूटस्थनित्यस्य स्वत इच्छाद्वेषानुपङ्गसंभव इति बुद्धिगुणानां तेषां तदभेदाध्यासेन तद्धर्मत्वाध्यासः, उपदरावाध्यस्तस्येव चन्द्रमसो बिम्बस्य तोयकम्पे कमप्वत्त्वाध्यास इत्युपपादितमध्यासभाष्ये ।
तथाच बुद्ध्याद्युपाधिकृतमस्य जीवत्वमिति बुद्धेरन्तःकरणस्याणुतया सो ऽप्यणुव्यपदेशभाग्भवति, नभ इव करकोपहितं करकपरिमाणम्. तथा चोत्क्रान्त्यादीनामुपत्तिरिति ।
निगदव्याख्यातमितरम् ।
प्रायणे ऽसत्त्वमसंसारित्वं वा, ततश्च कृतविप्रणाशाकृताभ्यागमप्रसङ्गः
2.3.13.30.
#यावदात्मभावित्वात्तु न दोषस्तद्दर्शनात्# ।
यावत्संसार्यात्मभावित्वादित्यर्थः ।
समानः सन्निति ।
बुद्ध्या समानः तद्गुणसारत्वादिति ।
#अपिच मिथ्याज्ञानेति# ।
न केवलं यंवत्संसार्यात्मभावित्वमागमतः, उपपत्तितश्चेत्यर्थः ।
आदित्यवर्णमिति ।
प्रकाशरूपमित्यर्थः ।
#तमस इति# ।
अविद्याया इत्यर्थः ।
तमेव विदित्वा साक्षात्कृत्य मृत्युमविद्यामत्येतीति योजना
2.3.13.31.
अनुशयबीजं पूर्वपक्षी प्रकटयति- #ननु सुषुप्तप्रलययोरिति ।
सता#परमात्मना ।
अनुशयबीजपरिहारः अत्रोच्यते- #पंस्त्वादिवत्त्वस्य सतो ऽभिव्यक्तियोगात्# ।
निगदव्याख्यातमस्य भाष्यम्
2.3.13.32.
#नित्योपलब्ध्यनुपलब्धिप्रसङ्गोन्यतरनियमो वान्यथा# ।
स्यादेतत् ।
अन्तःकरणे ऽपि सति तस्य नित्यसंनिधानात् कस्मान्नित्योपलब्ध्यनुपलब्धी न प्रसज्येते ।
अथादृष्टविपाककादाचित्कत्वात् सामर्थ्यप्रतिबन्धाप्रतिबन्धाभ्यामन्तः करणस्य नायं प्रसङ्गः ।
तावसत्येवान्तः करणे आत्मनो वेन्द्रियाणां वा स्तां, तत्किमन्तर्गडुनान्तःकरणेनेति चोदयति- #अथवान्यतरस्यात्मन इति# ।
अथवेति सिद्धान्तं निवर्तयति ।
सिद्धान्ती ब्रूते- #न चात्मन इति# ।
अवधानं खल्वनुवुभूपा शुश्रूषा वा ।
न चैते आत्मनो धर्मौ, तस्याविक्रियत्वात् ।
न चोन्द्रियाणम्, एकैकेन्द्रियव्यतिरेके ऽप्यन्धादीनां दर्शनात् ।
नच ते आन्तरत्वेनानुभूयमाने बाह्ये संभवतः ।
तस्मादस्ति तदान्तरं किमपि ।
यस्य चैते तदन्तःकरणम् ।
तदिदमुक्तम्- #यस्यावधानेति# ।
अत्रैवार्थे श्रुतिं दर्शयति- #तथा चेति#
2.3.14.33.
#कर्ता शास्त्रार्थवत्त्वात्# ।
ननु ऽतद्गुणसारत्वात्ऽ इत्यनेनैव जीवस्य कर्तृत्वं भोक्तृत्वं च लब्धमेवेति तद्व्युत्पादनमनर्थकमित्यत आह-तद्गुणसारत्वाधिकारेणेति ।
तस्यैवैष प्रपञ्चो ये भोक्तैव न कर्तेति तन्निराकरणार्थः ।
ऽशास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात्ऽ इत्याह स्म भगवान् जैमिनिः ।
प्रयोक्तर्यनुष्ठातरि ।
कर्तरीति यावत् ।
शास्त्रफलं स्वर्गादि ।
कुतः ।
प्रयोक्तृफलसाधनतालक्षणत्वात् शास्त्रस्य विधेः ।
कर्त्रपेक्षितोपायता हि विधिः ।
बुद्धिश्चेत्कर्त्री भोक्ता चात्मा ततो यस्यापेक्षितोपायो भोक्तुन तस्य कर्तृत्वं यस्य कर्तृत्वं नच तस्यापेक्षितोपाया इति किं केन संगतमिति शास्त्रस्यानर्थकत्वमविद्यमानाभिधेयत्वं तथा चाप्रयोजनकत्वं स्यात् ।
यथा च तद्गुणसारतयास्यावस्तुसदपि भोक्तृत्वं सांव्यवहारिकमेवं कर्तृत्वमपि सांव्यवहारिकं न तु भाविकम् ।
अविद्यावद्विषयत्वं च शास्त्रस्योपपादितमध्यासभाष्य इति सर्वमवदातम्
2.3.14.34.
विहारोपदेशात् ।
विहारः संचारः क्रिया, तत्र स्वातन्त्र्यं नाकर्तुः संभवति ।
तस्मादपि कर्ता जीवः
2.3.14.35.
#उपादानात्# ।
तदेतेषां प्राणानामिन्द्रियाणां विज्ञानेन बुद्ध्या विज्ञानं ग्रहणशक्तिमादायोपादायेत्युपादाने स्वातन्त्र्यं नाकर्तुः संभवति
2.3.14.36.
#व्यपदेशाच्च क्रियायां चेन्निर्देशविपर्ययः# ।
अभ्युच्चयमात्रमेतत्र सम्गुपपत्तिः ।
विज्ञानं कर्तृ यज्ञं तनुते ।
सर्वत्र हि बुद्धिः करणरूपा करणत्वेनैव व्यपदिश्यते न कर्तृत्वेन, इह तु कर्तृत्वेन, तस्या व्यपदेशे विपर्ययः स्यात् ।
तस्मादात्मैव विज्ञानमिति व्यपदिष्टः ।
तेन कर्तेति
2.3.14.37.
सूत्रान्तरमवतारयितुं चोदयति-अत्राह यदीति ।
प्रज्ञावान् स्वतन्त्र इष्टमोवात्मनः संपादयेन्नानिष्टम् ।
अनिष्टसंपत्तिरप्यस्योपलभ्यते ।
तस्मान्न स्वतन्त्रस्तथा च न कर्ता ।
तल्लक्षणत्वात्तस्येत्यर्थः ।
अस्योत्तरम्- #उपलब्धिदनियमः# ।
करणादीनि कारकान्तराणि कर्ता प्रयुङ्क्ते न त्वयं कारकान्तरैः प्रयुज्यत इत्येतावन्मात्रमस्य स्वातन्त्र्यं न तु कार्यक्रियायां न कारकान्तराण्यपेक्षत इति ।
ईदृशं हि स्वातन्त्र्यं नेश्वरस्याप्यत्रभवतो ऽस्तीत्युत्सन्नसंकथः कर्ता स्यात् ।
तथा चायमदृष्टपरिपाकवशादिष्टमभिप्रेप्सुस्तत्साधनविभ्रमेणानिष्टोपायं व्यापारयन्ननिष्टं प्राप्नुयादित्यनियमः कर्तृत्वं चेति न विरोधः ।
#विषयप्रकल्पनमात्रप्रयोजनत्वादिति# ।
नित्यचैतन्यस्वभावस्य खल्वात्मन इन्द्रियादीति करणानि स्वविषयमुपनयन्ति, तेन विषयावच्छिन्नमेव चैतन्यं वृत्तिरिति विज्ञानमिति चाख्यायते, तत्र चास्यास्ति स्वातन्त्र्यमित्यर्थः
2.3.14.38.
#शक्तिविपर्ययात्# ।
पूर्वं कारणकविभक्तिविपर्यय उक्तः ।
संप्रति कारकशक्तिविपर्यय इत्यपुनरुक्तम् ।
अविपर्ययाय तु करणान्तरकल्पनायां नाम्नि विसंवाद इति
2.3.14.39.
समाध्यभावाच्च ।
समाधिरिति संयममुपलक्षयति ।
धारणाध्यानसमाधयो हि संयमपदेवदनीयाः ।
यथाहुः-ऽत्रयमेकत्र संयमःऽ इति ।
अत्र श्रोतव्यो मन्तव्य इति धारणोपदेशः ।
निदिध्यासितव्य इति ध्यानोपदेशः ।
द्रष्टव्य इति समाधेरुपदेशः ।
यथाहुः-ऽतदेव ध्यानमर्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिःऽ इति ।
सो ऽयमिह कर्तात्मा समाधावुपदिश्यमान आत्मनः कर्तृत्वमवैतीति सूत्रार्थः
2.3.15.40.
#यथा च तक्षोभयथा# ।
अवान्तरसंगतिमाह- #एवं तावदिति# ।
विमृशति- #तत्पुनरिति# ।
पूर्वपक्षं गृह्णाति- #तत्रेति# ।
शास्त्रार्थवत्त्वादयो हि हेतव आत्मनः कर्तृत्वमापादयन्ति ।
नच स्वाभाविके कर्तृत्वे संभवत्यसत्यपवादे तदौपाधिकं युक्तम्. अतिप्रसङ्गात् ।
नच मुक्त्यभावप्रसङ्गो ऽस्यापवादकः, यथा ज्ञानस्वभावो ज्ञेयाभावे ऽपि नाज्ञो भवत्येवं कर्तृस्वभावो ऽपि क्रियावेशाभावे ऽपि नाकर्ता ।
तस्मात् स्वाभाविकमेवास्य कर्तृत्वमिति प्राप्ते ऽभिधीयते ।
नित्यशुद्धबुद्धमुक्तस्वभावं हि ब्रह्म भूयोभूयः श्रूयते ।
तदस्य बुद्धत्वमसत्यपि बोद्धव्ये युक्तं,
वह्नेरिवासत्यपि दाह्ये दग्धृत्वं, तच्छीलस्य तस्यावगमात् ।
कर्तृत्वं त्वस्य क्रियावेशादवगन्तव्यम् ।
नच नित्योदासीनस्य कूटस्थस्य नित्यस्यासकृच्छुतस्य संभवति, तस्य च कदाचिदप्यसंसर्गे कथं तच्छक्तियोगो निर्विषयायाः शक्तेरंसभवात् तथाच यदि तत्सिध्यर्थं तद्विषः क्रियावेशो ऽब्युपेयते तथा सति तत्स्वभावस्य स्वभावोच्छेदाभावाद्भावनाशप्रसङ्गः, नच मुक्तस्यास्ति क्रियायोग इति ।
क्रियाया दुःखत्वान्न विगलितसकलदुःखपरमानन्दावस्था मोक्षः स्यादित्याशयवानाह- #न स्वाभाविकं कर्तृत्वमात्मन इति# ।
अभिप्रायमबुध्वा चोदयति- #ननु स्थितायामपीति# ।
परिहरति- #न ।
निमित्तानामपीति# ।
शक्तशक्याश्रया शक्तिः स्वसत्तयावश्यं शक्यमाक्षिपति ।
तथाच तयाक्षिप्तं शक्यं सदैव स्यादिति भावः ।
चोदयति- #ननु मोक्षसाधननविधानादिति# ।
परिहरति- #न ।
साधनायत्तस्येति# ।
अस्माकं तु न मोक्षः साध्यः, अपितु ब्रह्मस्वरूपं तच्च नित्यमिति ।
उक्तमभिप्रायमाविष्करोति- #अपिच नित्यशुद्ध इति# ।
चोदयति- #पर एव तर्हि संसारीति# ।
अयमर्थः-परश्चेत्संसारी तस्याविद्यप्रविलये मुक्तौ सर्वे मुच्येरन्नविशेषात् ।
ततश्च सर्वसंसारोच्छेदप्रसङ्गः ।
परस्मादन्यश्चेत्स बुद्ध्यादिसंघात एवेति, तस्यैव तर्हि मुक्तिसंसारौ नात्मन इति ।
परिहरति- #न ।
अविद्याप्रत्युपस्थापितत्वादिति# ।
न परमात्मनो मुक्तिसंसारौ, तस्य नित्यमुक्तत्वात् ।
नापि बुद्ध्यादिसंघातस्य, तस्याचेतनत्वात् ।
अपि त्वविद्योपस्थापितानां बुद्ध्यादिसंघातानां भेदात्तत्तद्बुद्ध्यादिसंघातभेदोपधान आत्मैको ऽपि भिन्न इव विशुद्धो ऽप्यविशुद्ध इव ततश्चैकबुद्ध्यादिसंघातापगमे तत्र मुक्त इवेतरत्र बद्ध इव यथा मणिकृपाणाद्युपधानभेदादेकमेव मुखं नानेव दीर्घमिव वृत्तमिव श्याममिवावदातमिव अन्यतमोपधानविगमे तत्र मुक्तमिवान्यत्रोपहितमिवेति नैकमुक्तौ सर्वमुक्तप्रसङ्गः ।
तस्मान्न परमात्मनो मक्षसंसारौ, नापि बुद्ध्यादिसंघातास्य किन्तु बुद्ध्याद्युपहितस्यात्मस्वभावस्य जीवभावमापन्नस्येति परमार्थः ।
अत्रैवान्वयव्यतिरेकौ श्रुतिभिरादर्शयति- #तथाचेति# ।
इतश्चौपाधिकं यदुपाध्यभिभवोद्भवाभ्यामस्याभिभवोद्भवौ दर्शयति श्रुतिरित्याह- #तथा#
#स्वप्नजागरितयोरिति# ।
अत्रैवार्थे सूत्रं व्याचष्टे- #तदेतदाहेति# ।
संप्रसादः सुषुप्तिः ।
स्यादेतत् ।
तक्ष्णः पाण्यादयः सन्ति तैरयं वास्यादीन् व्यापारयन् भवतु दुःखी, परमात्मा त्वनवयवः केन मनःप्रभृतीनि व्यापारयोदिति वैषम्यं तक्ष्णो दृष्टान्तेनेत्यत आह- #तक्षदृष्टान्तश्चेति# ।
यथा स्वशरीरेमोदासीनस्तक्षा सुखी, नास्यादीनि तु करणानि व्यापारयन् दुःखी, तथा स्वात्मनात्मोदासीनः सुखी, मनःप्रभृतीनि तु करणादीनि व्यापारयन् दुःखीत्येतावतास्य साम्यं न तु सर्वथा ।
यथात्मा च जीवो ऽवयवान्तरानपेक्षः स्वशरीरं व्यापारयत्येवं मनःप्रभृतीनि तु करणान्तराणि व्यापारयतीति प्रमाणसिद्धे नियोगपर्यनुयोगानुपपत्तिः ।
पूर्वपक्षहेतूननुभाष्य दूषयति- #यत्तूक्तमिति# ।
यत्परं हि शास्त्रं स एव शास्त्रार्थः ।
कर्त्रपेक्षितोपायभावनापरं तन्न कर्तृस्वरूपपरम् ।
तेन यथालोकसिद्धं कर्तारमपेक्ष्य स्वविषये प्रवर्तमानं न पुंसः स्वाभाविकं कर्तृत्वमवगमयितुत्सहते, तस्मात्तत्त्वमसीत्याद्युपदेशविरोधादविद्याकृतं तदवतिष्ठते ।
चोदयति- #ननु संध्ये स्थान इति# ।
औपाधिकं हि कर्तृत्वं नोपाध्यपगमे संभवतीति स्वाभाविकमेव युज्यत इत्यर्थः ।
अपिच यत्रापि करणमस्ति तत्रापि केवलस्यात्मनः कर्तृत्वश्रवणात्स्वाभाविकमेव युक्तमित्याह- #तथोपादाने ऽपीति# ।
तदेतत् परिहरति- #न तावत्संध्य इति# ।
उपाध्यपगमो ऽसिद्धो ऽन्तःकरणस्योपाधेः संध्ये ऽप्यवस्थानादित्यर्थः ।
अपिच स्वप्ने यादृशं ज्ञानं तादृशो विहारो ऽपीत्याह- #विहारो ऽपि च तत्रेति ।
तथोपादाने ऽपीति# ।
यद्यपि कर्तृविभक्तिः केवले कर्तरि श्रूयते तथापि कर्मकरणोपधानकृतमस्य कर्तृत्वं न शुद्धस्य, नहि परशुसहायश्छेत्ता केवलश्छेत्ता भवति ।
ननु यदि न केवलस्य कर्तृत्वमपि तु करणादिसहितस्यैव, तथा सति करणादिष्वति कर्तृविभक्तिः स्यात् ।
न चैतदस्तीत्याह- #भवति न लोक इति# ।
करणादीष्वपि कर्तृविभक्तिः कदचिदस्त्येव विवक्षावशादित्यर्थः ।
अपि चेयमुपादानश्रुतिः करणव्यापारोपरममात्रपरा न स्वातन्त्र्यपरा कर्तृविभक्तिस्तु भाक्ती ।
कूलं पिपतिषतीतिवदबुद्धिपूर्वकस्य करणव्यापारोपरमस्य दृष्टत्वादित्याह- #अपिचास्मिन्नुपादान इति ।
यस्त्वयं व्यपदेश#इति यत्तदुक्तमस्माभिरभ्युच्चयमात्रमेतमिति तदितः समुत्थितम् ।
#सर्वकारकाणामेवेति# ।
विक्लिद्यन्ति तण्डुला ज्वलन्ति काष्ठानि स्थालीति हि स्वव्यापारे सर्वेषां, कर्तृत्वं, तत्किं बुद्ध्यादीनां कर्तृत्वमेव न करणत्वमित्यत आह- #उपलब्ध्यपेक्षं त्वेषां करणत्वम्# ।
नन्वेवं सति तस्यामेवात्मनः स्वाभाविकं कर्तृत्वमस्त्वित्यत आह- #नच तस्यां#उलब्धावप्यस्य स्वाभाविक #कर्तृत्वमस्ति#कस्मात् #नित्योपलब्धिस्वरूपत्वात्#आत्मनः ।
नहि नित्ये स्वभावे चास्ति भावस्य व्यापारित्यर्थः ।
तदेवं नास्योपलब्धौ सवाभाविकं कर्तृत्वमस्तीत्युक्तम् ।
नापि बुद्ध्यादेरुपलब्धिकर्तृत्वमात्मन्यध्यस्तं यथा तद्गतमध्यवसायादिकर्तृत्वमित्याह- #अहङ्कारपूर्वकमपि कर्तृत्वं नोपलब्धुर्भवितुमर्हति# ।
कुतः ।
#अहङ्कारस्याप्युपलभ्यमानत्वात्# ।
नहि शरीरादि यस्यां क्रियायां गम्यं तस्यामेव गन्तृ भवति ।
एतदुक्तं भवति-यदि बुद्धिरुपलब्धी भवेत्, ततस्तस्या उपलब्धृत्वमात्मन्यध्यवस्येत ।
न चैतदस्ति ।
तस्या जडत्वेनोपलभ्यमानतयोपलब्धिकर्तृत्वानुपपत्तेः ।
यदा चौपलब्धौ बुद्धेरकर्तृत्वं तदा यदुक्तं बुद्धेरुपलब्धृत्वे करणान्तरं कल्पनीयं, तथाच नाममात्रे विसंवाद इति तन्न भवतीत्याह- #न चैवं सति करणान्तरकल्पना#
बुद्धेरुपलब्धृत्वाभावात् ।
चैतन्यमिदानीमकरणं बुद्धिरुपलब्धावात्मा चानपलब्ध एत्यत आह- #बुद्धे करणत्वाभ्युपगमात्# ।
अयमभिसंधिः-चैतन्यमुपलब्धिरात्मस्वभावो नित्य इति न तत्रात्मनः कर्तृत्वं, नापि बुद्धेः करणत्वं, किन्तु चैतन्यमेव विषयावच्छिन्नं वृत्तिरिति चोपलब्धिरिति चाख्यायते ।
तस्य तु तत्तद्विषयावच्छेदे वृत्तौ बुद्ध्यदीनां करणत्वमात्मनश्च तदुपधानेनाहङ्कारपूर्वकं कर्तृत्वं युज्यत इति
2.3.16.41.
#परात्तु तच्छुतेः# ।
यदेतज्जीवानामौपाधिकं कर्तृत्वं तत्प्रवर्तनालक्षणेषु रागादिषु सत्सु नेश्वरमपरं प्रवर्तकं कल्पयितुमर्हति, अति प्रसङ्गात् ।
नचेश्वरो द्वेषपक्षपातरहितो जीवान् साध्वसाधुनि कर्मणि प्रवर्तयितुमर्हति, येन धर्माधर्मापेक्षया जगद्वैचित्र्यमापद्येत ।
स हि स्वतन्त्रः कारुणिको धर्म एव जन्तून् प्रवर्तयेन्नाधर्मे ।
ततश्च तत्प्रेरिता जन्तवः सर्वे धार्मिका एवेति सुखिन एव स्युर्न दुःखुनः ।
स्वतन्त्रास्तु रागादिप्रयुक्ताः प्रवर्तमाना धर्माधर्मपर्चयवन्तो वैचित्र्यमनुभवन्तीति युक्तम् ।
एवञ्च विधिनिषेधयोरर्थवत्त्वमितरथा तु सर्वथा जीवा अवस्ततन्त्रा इतीश्वरेणैव प्रवर्त्यन्त इति कृतं विधिनिषेधाब्याम् ।
नहि बलवदनिलसलिलौघनुद्यमानं प्रत्युपदेशोर्ऽथवान् ।
तस्मात् ऽएष ह्येव साधु कर्म कारयतिऽ इत्यादयः श्रुतयः समस्तविधिनिषेधश्रुतिविरोधाल्लोकविरोधाच्चैश्वर्यप्रशंसापरतया नेया इति प्राप्ते ऽभिधीयते ।
ऽएष ह्येव साधु कर्म कारयतिऽ इत्यादयस्ताव्चछुतयः सर्वव्यापारेषु जन्तूनामीश्वरतन्त्रतामाहुः, तदसति प्रतिबन्धके न प्रशंसापरतया व्याख्यातुमुचितम् ।
नच श्रुतिसिद्धस्य कल्पनीयता, येन प्रवर्तकेषु रागादिषु सत्सु तत्कल्पना विरुध्येत ।
न चेश्वरतन्त्रत्वे धर्म एव जन्तूनां प्रवृत्तेः सुखित्वमेव न वैचित्र्यमिति युक्तम् ।
यद्यप्ययमीश्वरो वीतरागस्तथापि पूर्वपूर्वजन्तुकर्मापेक्षय जन्तून् ध4माधर्मयोः प्रवर्तयन् न द्वेषपक्षपाताभ्यां विषमः ।
नापि निर्घृणः ।
नच कर्मप्रचयस्यादिरस्त्यनादित्वत्संसारस्य ।
न चेश्वरतन्त्रस्य कृतं विधिनिषेधाब्यामिति सांप्रतम् ।
नहीश्वरः प्रबलतरपवन इव जन्तून् प्रवर्तयत्यपि तु तच्चैतन्यमनुरुध्यमानो रागाद्युपहारमुखेन ।
एवं चेष्टानिष्टप्राप्तिपरिहारार्थिनो विधिनिषेधावर्थवन्तौ भवतः ।
तदनेनाभिसंधिनोक्तम्-परायत्ते ऽपि हि कर्तृत्वं करोत्येव जीव इति ।
तस्माद्विधिनिषेधशास्त्रविरोधाल्लोकस्य स्थूलदर्शित्वात् ऽएष ह्येव साधु क4म कारयतिऽ इत्यादिश्रुतेः ।
ऽअज्ञो जन्तुरनीशो ऽयमात्मनः सुखदुःखयोः ।
ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वा ॥
ऽ इति स्मृतेश्चेश्वरतन्त्रामामेव जन्तूनां कर्तृत्वं, न तु स्वतन्त्रामामिति सिद्धम् ।
ईश्वर एव विधिनिषेधयोस्थाने नियुज्येत यद्विधिनिषेधयोः फलं तदीश्वरेण तत्प्रतिपादितधर्माधर्मनिरपेक्षेण कृतमिति विधिनिषेधयोरानर्थक्यम् ।
न केवलमानर्थक्यं विपरीतं चापद्येत इत्याह- #तथा विहितकारिणमिति# ।
पूर्वोक्तश्च दोषः कृतनाशाकृताभ्यागमः प्रसज्येत ।
अतिरोहितार्थमन्यत्
2.3.16.42.
2.3.17.43.
#अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके# ।
अवान्तरसंगतिमाह- #जीवेश्वरयोरिति ।
उपकार्योपकारकभावः#प्रयोज्यप्रयोजकभावः ।
अत्रापाततो विनिगमनाहेतोरभावादनियमो निश्चय इत्युक्तः ।
निश्चयहेत्वाभासदर्शनेन भेदपक्षमालम्ब्याह-अथवेति ।
ईशितव्येशितृभावश्चान्वेष्यान्वेष्टृबावश्च ज्ञेयज्ञातृभावश्च नियम्यनियन्तृभावश्चाधाराधेयभावश्च न जीवपरमात्मनोरभेदे ऽवकल्प्यते ।
न च ऽब्रह्मदाशा ब्रह्मकितवाःऽ इत्याद्याश्च श्रुतयो दाशा ब्रह्म कितवा ब्रह्मेत्यादिप्रतिपादनपरा जीवानां ब्रह्मणो भेदे ऽवकल्प्यन्ते ।
न चैताभिर्भेदाबेदप्रतिपादनपराभिः श्रुतिबिः साक्षादंशत्वप्रतिपादकाच्च मन्त्रवर्णात् ऽपादो ऽस्य विश्वा भूतानिऽ इत्यादेः, स्मृतेश्च ऽममैवांशःऽ इत्यादेर्जीवानामीश्वरांशत्वसिद्दिः ।
निरतिशयोपाधिसंपदा च विभूतियोगेनेश्वरः स्वांशानामपि निकृष्टोपाधीनामीष्ट इति युज्यते ।
नहि तावदनवयवेश्वरस्य जीवा भवितुमर्हन्त्यंशाः ।
अपिच जीवानां ब्रह्मांशत्वे तद्गता वेदना ब्रह्मणो भवेत् ।
पादादिगता इव वेदना देवदत्तस्य ।
ततश्च ब्रह्मभूयङ्गतस्य समस्तजीवगतवेदनानुभवप्रसङ्ग इति वरं संसार एव मुक्तेःष तत्र हि स्वगतवेदनामात्रामनुभवान्न भूरि दुःखमनुभवति ।
मुक्तस्तु सर्वजीववेदनाभागिति प्रयत्नेन मुक्तिरनर्थबहुलतया परिहर्तव्या स्यादिति ।
तथा भेदाभेदयोः परस्परविरोधिनोरेकत्रासंभवान्नांशत्वं जीवानाम् ।
नच ब्रह्मैव सदसन्तस्तु जीवा इति युक्तं, सुखदुःखमुक्तिसंसारव्यवस्थाभावप्रसङ्गादनुज्ञापरिहाराभावप्रसङ्गाच्च ।
तस्माज्जीवा एव परमार्थसन्तो न ब्रह्मैकमद्वयम् ।
अद्वैतश्रुतयस्तु जातिदेशकालाबेदनिमित्तोपचारादिति प्राप्ते ऽभिधीयते-अनधिगतार्थावबोधनानि प्रमाणानि विशेषतः शब्दः ।
तत्र भेदो लोकसिद्धत्वान्न शब्देन प्रतिपाद्यः ।
अबेदस्त्वनधिगतत्वादधिगतभेदानुवादेन प्रतिपादनमर्हति ।
येन च वाक्यमुपक्रम्यते मध्ये च परामृश्यते अन्ते चोपसंह्रियते तत्रैव तस्य तात्पर्यम् ।
उपनिषदश्चाद्वैतोपक्रमतत्परामर्शतदुपसंहारा अद्वैचपरा एव युज्यन्ते ।
नच यत्परास्तदौपचारिकं युक्तम्, अभ्यासे हि भूयस्त्वमर्थस्य भवति नाल्पत्वमपि प्रागेवोपचरितत्वमित्युक्तम् ।
तस्मद्वैते बाविके स्थिते जीवभावस्तस्य ब्रह्मणो ऽनाद्यनिर्वचनीयाविद्यपधानभेदादेकस्यैव बिम्बस्य दर्पणाद्युपाधिभेदात्प्रतिबिम्बभेदाः ।
एवं चानुज्ञापरिहारौ लौकिकवैदिकौ सुखदुःखमुक्तिसंसारव्यवस्था चोपपद्येत ।
नच मोक्षस्यानर्थबहुलता, यतः प्रतिबिम्बानामिव श्यामतावदाततादिर्जीवानामेव नानावेदनाभिसंबन्धो ब्रह्मणस्तु बिम्बस्येव न तदभिसंबन्धः ।
यथाच दर्पणापनये तत्प्रतिबिम्बं बिम्बभावे ऽवतिष्ठते न कृपाणे प्रतिबिम्बतमपि ।
एवमविद्योपधानविगमे जीवे ब्रह्मबावेति सिद्धं जीवो ब्रह्मांश इव तत्तन्त्रतया न त्वंश इति तात्पर्यार्थाः
2.3.17.44.
2.3.17.45.
2.3.17.46.
2.3.17.47.
सप्तदशसंख्यापरिमितो राशिर्गणः सप्तदशकः ।
तद्यथा-बुद्धिकर्मेन्द्रियाणि बाह्यानि दश बुद्धिमनसी वृत्तिभेदमात्रेण भिन्ने अप्येकीकृत्यैकमन्तः करमं शरीरं प्च विषया इति सप्तदशको राशिः
2.3.17.48.
#अनुज्ञा#विधिरभिमतो न तु प्रवृत्तप्रवर्तना ।
अपौरुषेये प्रवर्तयितुरभिप्रायानुरोधासंभवात् ।
क्रत्वर्थायामग्नीषोमीयहिंसायां प्रवृत्तप्रवर्तनानुपपत्तेश्च ।
पुरुषार्थे ऽपि नियमांशे प्रवृत्ते- #कः पुनर्देहसंबन्ध इति# ।
नहि कूटस्थनित्यस्यात्मनोपरिमामिनो ऽस्ति देहेन संयोगः समवायो वान्यो वा कश्चित् संबन्धः सकलधर्मातिगत्वादित्यभिसंधिः ।
उत्तरम्- #देहादिरयं संघातो ऽहमेवेत्यात्मनि विपरीतप्रत्ययोत्पत्तिः# ।
अयमर्थः-सत्यं नास्ति कश्चिदात्मनो देहादिभिः पारमार्थिकः संबन्धः, किन्तु बुद्ध्यादिजनितात्मविषया विपरीता वृत्तिः ऽअहमेव देहादिसंघातःऽ इत्येवंरूपा ।
अस्यां देहादिसंघात आत्मतादात्म्येन भासते ।
सो ऽयं सांवृत्तस्तादात्म्यलक्षणः संबन्धो न पारमार्थिक इत्यर्थः ।
गूढाभिसंधिश्चोदयति- #सम्यग्दर्शिनस्तर्हीति ।
उत्तरं-न ।
तस्येति# ।
यदि सूक्ष्मस्थूलदेहादिसंघातो ऽविद्योपदर्शित एकमेवाद्वितीयं ब्रह्मास्मीति सम्यग्दर्शनमभिमतम्, अद्धा तद्वन्तं प्रति विधिनिषेधयोरानर्थक्यमेव ।
एतदेव विशदयति- #हेयोपादेययोरिति# ।
चोदको निगूढाभिसंधिमाविष्करोति-शरीरव्यतिरेकदर्शिन एव ।
आमुष्मिकफलेषु क4मसु दर्सपूर्णमासादिषु नियोज्यत्वमिति चोत्परिहरति- #न ।
तत्संहतत्वाभिमानात्# ।
एतद्विभजते- #सत्यमिति# ।
यो ह्यात्मनः षाट्कौशिकाद्देहादुपपत्त्याव्यतिरेकं वेद, न तु समस्तबुद्ध्यादिसंघातव्यतिरेकं, तस्यामुष्मिकफलेष्वाधिकारः ।
समस्तबुद्ध्यादिव्यतिरेकवेदिनस्तु कर्मभोक्तृत्वाभिमानरहितस्य नाधिकारः कर्मणि तथाच न यथेष्टचेष्टा, अभिमानविकलस्य तस्या अप्यभावादिति
2.3.17.49.
2.3.17.50.
येषां तु सांख्यानां वैशेषिकाणां वा सुखदुःखव्यवस्थां पारमार्थिकीमिच्छतां बहव आत्मानः सर्वगतास्तेषामेवैष व्यतिकरः प्राप्नोति ।
तत्र प्रश्नपूर्वकं सांख्यान् प्रति व्यतिक्रमं तावदाह- #कथमिति# ।
यादृशस्तादृशो गुणंसंबन्धः सर्वान् पुरुषान् प्रत्यविशिष्ट इति तत्कृते सुखदुःखे सर्वान् प्रत्यविशिष्टे ।
नच कर्मनिबन्धना व्यवस्था, कर्मणः प्राकृतत्वेन प्रकृतेश्च साधारणत्वेनाव्यवस्थातादवस्थ्यात् ।
चोदयति- #स्यादेतदिति# ।
अयमर्थः-न प्रधानं स्वविभूतीख्यापनाय प्रवर्तते, किन्तु पुरुषार्थम् ।
यं च पुरुषं प्रत्यनेन भोगापवर्गौ पुरुषार्थौ साधितौ तं प्रति समाप्ताधिकारतया निवर्तते पुरुषान्तरं तु प्रत्यसमाप्याधिकारं प्रवर्तते ।
एवं न मुक्तसंसारिव्यवस्थोपपत्तेः सुखदुःखव्यवस्थापि भविष्यतीति निराकरोति #-नहीति# ।
सर्वेषां पुरुषाणां विभुत्वात् प्रधानस्य च साधारण्यदमुं पुरुषं प्रत्यनेनार्थः साधित इत्येतदेव नास्ति ।
तस्मात् प्रयोजनवशेन विना हेतुं व्यवस्थास्थेया ।
सा चायुक्ता हेत्वभावादित्यर्थः ।
भवतु सांख्यानामव्यवस्था, प्रधानसमवायाददृष्टस्यस, प्रधानस्य च साधारण्यात् ।
काणादादीनां त्वात्मसमवाप्यदृष्टं प्रत्यात्ममसाधारणं तत्कृतश्च मनसा सहात्मनः स्वस्वामिभावलक्षणः संबन्धो ऽनादिरदृष्टभेदानामनादित्वात्, तथा चात्मनःसंयोगस्य साधारण्ये ऽपि स्वस्वामिभावस्यासाधारण्यादभिसंध्यादिव्यवस्थोपपद्यत एव ।
नच संयोगो ऽपि साधारणः ।
नहि तस्य मनस आत्मानतरैर्यः संयोगः स एव स्वामिनापि, आत्मसंयोगस्य प्रतिसंयोगभेदेन भेदात् ।
तस्मादात्मैकत्वस्यागमसिद्धत्वात्, व्यवस्थायाश्चैकत्वे ऽप्युपपत्तेः, नानेकात्मकल्पना, गौरवादागमविरोधाच्च ।
अन्त्यविशेषवत्त्वेन च भेदकल्पनायामन्योन्याश्रयापत्तेः ।
भेदे हि तत्कल्पना ततश्च भेद इति ।
एतदेव काणादमतदूषणम् ।
भाष्यकृता तु प्रौढवादितया काणादान् प्रत्यप्यदृष्टानियमादित्यादीनि सूत्राणि योजितानि ।
सांख्यमतदूषणपराण्येवेति तु रोचयन्ते केचित्तदास्तां तावत्
2.3.17.51.
। .51 ॥
2.3.17.52.
2.3.17.53.
इति श्रीनाचस्पतिमिश्रविरचिते भगवत्पादशारीरकभाष्यविभागे भामत्यां द्वितीयाध्यायस्य तृतीयः पादः
मूल पाठ: Bhāmati a commentary on Śaṃkara's Brahmasūtrabhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0